ऋग्वेदः सूक्तं ९.५६

विकिस्रोतः तः
← सूक्तं ९.५५ ऋग्वेदः - मण्डल ९
सूक्तं ९.५६
अवत्सारः काश्यपः।
सूक्तं ९.५७ →
दे. पवमानः सोमः। गायत्री।


परि सोम ऋतं बृहदाशुः पवित्रे अर्षति ।
विघ्नन्रक्षांसि देवयुः ॥१॥
यत्सोमो वाजमर्षति शतं धारा अपस्युवः ।
इन्द्रस्य सख्यमाविशन् ॥२॥
अभि त्वा योषणो दश जारं न कन्यानूषत ।
मृज्यसे सोम सातये ॥३॥
त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव ।
नॄन्स्तोतॄन्पाह्यंहसः ॥४॥


सायणभाष्यम्

‘परि सोमः' इति चतुर्ऋचं द्वात्रिंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “परि सोमः' इत्यनुक्रान्तम् । उक्तो विनियोगः ॥


परि॒ सोम॑ ऋ॒तं बृ॒हदा॒शुः प॒वित्रे॑ अर्षति ।

वि॒घ्नन्रक्षां॑सि देव॒युः ॥१

परि॑ । सोमः॑ । ऋ॒तम् । बृ॒हत् । आ॒शुः । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।

वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥१

परि । सोमः । ऋतम् । बृहत् । आशुः । पवित्रे । अर्षति ।

विऽघ्नन् । रक्षांसि । देवऽयुः ॥१

"आशुः क्षिप्रकारी “देवयुः देवकामः “सोमः “पवित्रे स्थित्वा “रक्षांसि राक्षसान् “विघ्नन् निघ्नन् "बृहत् महत् "ऋतम् अन्नं “परि “अर्षति परिगमयति । अस्मभ्यं प्रयच्छतीत्यर्थः ॥


यत्सोमो॒ वाज॒मर्ष॑ति श॒तं धारा॑ अप॒स्युवः॑ ।

इंद्र॑स्य स॒ख्यमा॑वि॒शन् ॥२

यत् । सोमः॑ । वाज॑म् । अर्ष॑ति । श॒तम् । धाराः॑ । अ॒प॒स्युवः॑ ।

इन्द्र॑स्य । स॒ख्यम् । आ॒ऽवि॒शन् ॥२

यत् । सोमः । वाजम् । अर्षति । शतम् । धाराः । अपस्युवः ।

इन्द्रस्य । सख्यम् । आऽविशन् ॥२

“यत् यदा “अपस्युवः कर्मकामाः “शतं शतसंख्याकाः “धाराः सोमस्य धाराः “इन्द्रस्य “सख्यं सखित्वम् “आविशन् प्राप्नुवन्ति तदा “सोमः “वाजम् अन्नम् “अर्षति गमयति । अस्मभ्यं प्रयच्छतीत्यर्थः ॥


अ॒भि त्वा॒ योष॑णो॒ दश॑ जा॒रं न क॒न्या॑नूषत ।

मृ॒ज्यसे॑ सोम सा॒तये॑ ॥३

अ॒भि । त्वा॒ । योष॑णः । दश॑ । जा॒रम् । न । क॒न्या॑ । अ॒नू॒ष॒त॒ ।

मृ॒ज्यसे॑ । सो॒म॒ । सा॒तये॑ ॥३

अभि । त्वा । योषणः । दश । जारम् । न । कन्या । अनूषत ।

मृज्यसे । सोम । सातये ॥३

हे “सोम “त्वा त्वां याः “दश दशसंख्याकाः “योषणः अङ्गुलयः “कन्या पितृमती कन्यका “जारं “न यथा प्रियमभिशब्दायते तद्वत् “अभि “अनूषत अभिशब्दायन्ते ताभिः “सातये अस्माकं धनस्य लाभाय “मृज्यसे इन्द्रार्थं शोध्यसे ॥


त्वमिंद्रा॑य॒ विष्ण॑वे स्वा॒दुरिं॑दो॒ परि॑ स्रव ।

नॄन्त्स्तो॒तॄन्पा॒ह्यंह॑सः ॥४

त्वम् । इन्द्रा॑य । विष्ण॑वे । स्वा॒दुः । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ।

नॄन् । स्तो॒तॄन् । पा॒हि॒ । अंह॑सः ॥४

त्वम् । इन्द्राय । विष्णवे । स्वादुः । इन्दो इति । परि । स्रव ।

नॄन् । स्तोतॄन् । पाहि । अंहसः ॥४

हे "इन्दो सोम "स्वादुः प्रियरसस्त्वम् “इन्द्राय इन्द्रार्थं “विष्णवे विष्ण्वर्थं च “परि “स्रव परिक्षर । “नॄन् कर्मणां नेतॄन स्तोतॄन् त्वद्विषयाणां स्तुतीनां कर्तॄन् “अंहसः दुरितात् "पाहि रक्ष च ॥ ॥ १३ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५६&oldid=208643" इत्यस्माद् प्रतिप्राप्तम्