ऋग्वेदः सूक्तं ९.२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.१ ऋग्वेदः - मण्डल ९
सूक्तं ९.२
मेधातिथिः काण्वः
सूक्तं ९.३ →
दे. पवमानः सोमः। गायत्री


पवस्व देववीरति पवित्रं सोम रंह्या ।
इन्द्रमिन्दो वृषा विश ॥१॥
आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
आ योनिं धर्णसिः सदः ॥२॥
अधुक्षत प्रियं मधु धारा सुतस्य वेधसः ।
अपो वसिष्ट सुक्रतुः ॥३॥
महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः ।
यद्गोभिर्वासयिष्यसे ॥४॥
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
सोमः पवित्रे अस्मयुः ॥५॥
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
सं सूर्येण रोचते ॥६॥
गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
याभिर्मदाय शुम्भसे ॥७॥
तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे ।
तव प्रशस्तयो महीः ॥८॥
अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया ।
पर्जन्यो वृष्टिमाँ इव ॥९॥
गोषा इन्दो नृषा अस्यश्वसा वाजसा उत ।
आत्मा यज्ञस्य पूर्व्यः ॥१०॥


सायणभाष्यम्

‘पवस्व ' इति दशर्चं द्वितीयं सूक्तं काण्वस्य मेधातिथेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- पवस्व मेधातिथि:' इति । उक्तो विनियोगः ।।

पव॑स्व देव॒वीरति॑ प॒वित्रं॑ सोम॒ रंह्या॑ ।

इंद्र॑मिंदो॒ वृषा वि॑श ॥१

पव॑स्व । दे॒व॒ऽवीः । अति॑ । प॒वित्र॑म् । सो॒म॒ । रंह्या॑ ।

इन्द्र॑म् । इ॒न्दो॒ इति॑ । वृषा॑ । आ । वि॒श॒ ॥१

पवस्व । देवऽवीः । अति । पवित्रम् । सोम । रंह्या ।

इन्द्रम् । इन्दो इति । वृषा । आ । विश ॥१

हे “सोम "देववीः देवकामस्त्वं “रंह्या वेगेन “पवित्रं यथा भवति तथा “अति “पवस्व अतिक्षर । किंच हे “इन्दो “वृषा सेचकस्त्वम् “इन्द्रम् “आ “विश प्रविश ॥


आ व॑च्यस्व॒ महि॒ प्सरो॒ वृषें॑दो द्यु॒म्नव॑त्तमः ।

आ योनिं॑ धर्ण॒सिः स॑दः ॥२

आ । व॒च्य॒स्व॒ । महि॑ । प्सरः॑ । वृषा॑ । इ॒न्दो॒ इति॑ । द्यु॒म्नव॑त्ऽतमः ।

आ । योनि॑म् । ध॒र्ण॒सिः । स॒दः॒ ॥२

आ । वच्यस्व । महि । प्सरः । वृषा । इन्दो इति । द्युम्नवत्ऽतमः ।

आ । योनिम् । धर्णसिः । सदः ॥२

हे “इन्दो सोम “महि महान् “वृषा कामानां वर्षक: “द्युम्नवत्तमः यशस्वितमः “धर्णसिः धर्ता त्वं “प्सरः पानीयमन्धः “आ “वच्यस्व अस्मान् प्रत्यागमय । “योनिं स्वकीयं स्थानम् “आ “सदः आसीद च ॥


अधु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।

अ॒पो व॑सिष्ट सु॒क्रतुः॑ ॥३

अधु॑क्षत । प्रि॒यम् । मधु॑ । धारा॑ । सु॒तस्य॑ । वे॒धसः॑ ।

अ॒पः । व॒सि॒ष्ट॒ । सु॒ऽक्रतुः॑ ॥३

अधुक्षत । प्रियम् । मधु । धारा । सुतस्य । वेधसः ।

अपः । वसिष्ट । सुऽक्रतुः ॥३

"सुतस्य अभिषुतस्य “वेधसः अभिलषितस्य विधातुर्यस्य सोमस्य “धारा “प्रियं प्रीतिकरं “मधु अमृतम् “अधुक्षत दुग्धे सः “सुक्रतुः सुकर्मा सोमः "अपः वसतीवरीः “वसिष्ट आच्छादयति ॥


म॒हांतं॑ त्वा म॒हीरन्वापो॑ अर्षंति॒ सिंध॑वः ।

यद्गोभि॑र्वासयि॒ष्यसे॑ ॥४

म॒हान्त॑म् । त्वा॒ । म॒हीः । अनु॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः ।

यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥४

महान्तम् । त्वा । महीः । अनु । आपः । अर्षन्ति । सिन्धवः ।

यत् । गोभिः । वासयिष्यसे ॥४

हे सोम त्वं “यत् यदा यज्ञे “गोभिः गोविकारैः पयोभिः “वासयिष्यसे आच्छादयिष्यते तदा “महान्तं त्वाम् “अनु प्रति “सिन्धवः स्यन्दमानाः “महीः महत्यः “आपः “अर्षन्ति गच्छन्ति ।।


स॒मु॒द्रो अ॒प्सु मा॑मृजे विष्टं॒भो ध॒रुणो॑ दि॒वः ।

सोमः॑ प॒वित्रे॑ अस्म॒युः ॥५

स॒मु॒द्रः । अ॒प्ऽसु । म॒मृ॒जे॒ । वि॒ष्ट॒म्भः । ध॒रुणः॑ । दि॒वः ।

सोमः॑ । प॒वित्रे॑ । अ॒स्म॒ऽयुः ॥५

समुद्रः । अप्ऽसु । ममृजे । विष्टम्भः । धरुणः । दिवः ।

सोमः । पवित्रे । अस्मऽयुः ॥५

"समुद्रः । समुद्र्सवन्त्यस्माद्रसा इति समुद्रः । “विष्टम्भः “दिवः स्वर्गस्य “धरुणः धारकश्च “अस्मयुः अस्मत्कामः “सोमः "अप्सु उदकेषु ममृजे मृज्यते “पवित्रे अभिषिच्यत इत्यर्थः ॥ ॥१८॥


अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः ।

सं सूर्ये॑ण रोचते ॥६

अचि॑क्रदत् । वृषा॑ । हरिः॑ । म॒हान् । मि॒त्रः । न । द॒र्श॒तः ।

सम् । सूर्ये॑ण । रो॒च॒ते॒ ॥६

अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । न । दर्शतः ।

सम् । सूर्येण । रोचते ॥६

“वृषा कामानां वर्षकः “हरिः हरितवर्णः "महान् सर्वोत्तमः “मित्रो “न यथा सखा तद्वत् “दर्शतः दर्शनीयो योऽयं सोमः “अचिक्रदत् शब्दं करोति सोऽयं सोमः “सूर्येण सह “रोचते दिवि प्रकाशते ।।


गिर॑स्त इंद॒ ओज॑सा मर्मृ॒ज्यंते॑ अप॒स्युवः॑ ।

याभि॒र्मदा॑य॒ शुंभ॑से ॥७

गिरः॑ । ते॒ । इ॒न्दो॒ इति॑ । ओज॑सा । म॒र्मृ॒ज्यन्ते॑ । अ॒प॒स्युवः॑ ।

याभिः॑ । मदा॑य । शुम्भ॑से ॥७

गिरः । ते । इन्दो इति । ओजसा । मर्मृज्यन्ते । अपस्युवः ।

याभिः । मदाय । शुम्भसे ॥७

हे “इन्दो “ते तव “ओजसा बलेन “अपस्युवः कर्मेच्छासंबन्धिन्यः ताः “गिरः स्तुतयः “मर्मृज्यन्ते शोध्यन्ते “याभिः गीर्भिस्त्वं "मदाय क्षरन् "शुम्भसे अलंक्रियसे ।।


तं त्वा॒ मदा॑य॒ घृष्व॑य उ लोककृ॒त्नुमी॑महे ।

तव॒ प्रश॑स्तयो म॒हीः ॥८

तम् । त्वा॒ । मदा॑य । घृष्व॑ये । ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । ई॒म॒हे॒ ।

तव॑ । प्रऽश॑स्तयः । म॒हीः ॥८

तम् । त्वा । मदाय । घृष्वये । ऊं इति । लोकऽकृत्नुम् । ईमहे ।

तव । प्रऽशस्तयः । महीः ॥८

हे सोम यस्य “तव "प्रशस्तयः प्रशंसाः “महीः महत्यः “घृष्वय “उ त्वत्प्रसादाच्छत्रूणां धर्षणशीलाय यजमानायैव “लोककृत्नुम् उत्तमस्य लोकस्य कर्तारं “तं त्वां सोमं “मदाय "ईमहे वयं याचामहे ॥


अ॒स्मभ्य॑मिंदविंद्र॒युर्मध्वः॑ पवस्व॒ धार॑या ।

प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥९

अ॒स्मभ्य॑म् । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः । मध्वः॑ । प॒व॒स्व॒ । धार॑या ।

प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ॥९

अस्मभ्यम् । इन्दो इति । इन्द्रऽयुः । मध्वः । पवस्व । धारया ।

पर्जन्यः । वृष्टिमान्ऽइव ॥९

हे “इन्दो सोम “इन्द्रयुः इन्द्रकामस्त्वं “मध्वः मदकरस्यामृतस्य “धारया “पर्जन्यो “वृष्टिमानिव यथा वर्षवान् पर्जन्यो मेघस्तथा “अस्मभ्यं मेधातिथिभ्यः “पवस्व क्षर


गो॒षा इं॑दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त ।

आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥१०

गो॒ऽसाः । इ॒न्दो॒ इति॑ । नृ॒ऽसाः । अ॒सि॒ । अ॒श्व॒ऽसाः । वा॒ज॒ऽसाः । उ॒त ।

आ॒त्मा । य॒ज्ञस्य॑ । पू॒र्व्यः ॥१०

गोऽसाः । इन्दो इति । नृऽसाः । असि । अश्वऽसाः । वाजऽसाः । उत ।

आत्मा । यज्ञस्य । पूर्व्यः ॥१०

हे “इन्दो “यज्ञस्य “पूर्व्यः प्रत्नः “आत्मा आत्मभूतस्त्वं “गोषाः अस्मभ्यं गवां दाता “असि भवसि । “नृषाः पुत्राणां दाता चासि । “अश्वसाः अश्वानां दाता चासि । “उत अपि च “वाजसाः अन्नानां दाता चासि ॥ ॥ १९ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२&oldid=208504" इत्यस्माद् पुनः प्राप्तिः