सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १४/वार्षाहरम् (अचिक्र)

विकिस्रोतः तः
वार्षाहरम्.
वार्षाहरम्

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
सं सूर्येण दिद्युते ॥ ४९७ ॥ ऋ. ९.२.६


 

(४९७।१)
वार्षाहरम् । वृषाहरिर्गायत्री सूर्यः ॥

अचिक्रदाऽ३त् । आचिक्रदाऽ३त् । अचिक्रदाऽ५दे॥ वृषाहराऽ३इ । वार्षाहराऽ३इ । वृषाहराऽ५ए । महान्मित्राऽ३: । माहान्मित्राऽ३: । महान्मित्राऽ५ए॥ नदर्शताऽ३: । नादर्शताऽ३ः । नदर्शताऽ५ए॥ सꣳसूरियाऽ३इ । साꣳसूरियाऽ३इ । सꣳसूरियाऽ५ए ॥ णदिद्युताऽ३इ । णादिद्युताऽ३इ।। णदाऽ५इद्युताउ ॥ वा ॥ (दी० ९ । प० १९ । मा० १८)१ (धै । ९१८ )


[सम्पाद्यताम्]

टिप्पणी

(अग्नेः प्रणयनकाले सोमस्य)परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । - आर्षेयकल्पः उपोद्घातः पृ. १३