ऋग्वेदः सूक्तं ९.१०१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.१०० ऋग्वेदः - मण्डल ९
सूक्तं ९.१०१
[[लेखकः :|]]
सूक्तं ९.१०२ →
ऋ. १-३ अन्धीगुः श्यावाश्विः, ४-६ ययातिर्नाहुषः, ७-९ नहुषो मानवः, १०-१२ मनुः सांवरणः, १३-१६ वैश्वामित्रो वाच्यो वा प्रजापतिः।

दे. पवमानः सोमः। अनुष्टुप्, २-३ गायत्री


पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥१॥
यो धारया पावकया परिप्रस्यन्दते सुतः ।
इन्दुरश्वो न कृत्व्यः ॥२॥
तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
यज्ञं हिन्वन्त्यद्रिभिः ॥३॥
सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥४॥
इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥
सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥७॥
समु प्रिया अनूषत गावो मदाय घृष्वयः ।
सोमासः कृण्वते पथः पवमानास इन्दवः ॥८॥
य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् ।
यः पञ्च चर्षणीरभि रयिं येन वनामहै ॥९॥
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥१०॥
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥११॥
एते पूता विपश्चितः सोमासो दध्याशिरः ।
सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥१२॥
प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः ।
अप श्वानमराधसं हता मखं न भृगवः ॥१३॥
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
सरज्जारो न योषणां वरो न योनिमासदम् ॥१४॥
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥१५॥
अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि ।
कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् ॥१६॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

विज्ञातवेदगाम्भीर्यस्तुर्यं व्याख्याय सप्तमे।

सायणार्यस्ततोऽध्यायं पञ्चमं व्याचिकीर्षति ॥

तत्र ‘ पुरोजिती वः' इति षोडशर्चमनुवाकापेक्षया पञ्चमं सूक्तम् । आद्यस्य तृचस्य श्यावाश्वपुत्रोऽन्धीगुर्नामर्षिः। द्वितीयस्य नहुषस्य राज्ञः पुत्रो ययातिर्नाम । तृतीयस्य मनोः पुत्रो नहुषो नाम राजर्षिः । चतुर्थस्य संवरणाख्यस्य राज्ञः पुत्रो मनुः । एवं द्वादश गताः । शिष्टस्य चतुर्ऋचस्य वाचः पुत्रो वैश्वामित्रो वा प्रजापतिर्ऋषिः । द्वितीयतृतीये गायत्र्यौ शिष्टाश्चतुर्दशानुष्टुभः । तथा चानुक्रम्यते’ पुरोजिती षोळश श्यावाश्विरन्धीगुर्ययातिर्नाहुषो नहुषो मानवो मनुः सांवरण इति तृचाः शेषे प्रजापतिरुपाद्ये गायत्र्यौ' इति । गतः सूक्तविनियोगः ॥


पु॒रोजि॑ती वो॒ अंध॑सः सु॒ताय॑ मादयि॒त्नवे॑ ।

अप॒ श्वानं॑ श्नथिष्टन॒ सखा॑यो दीर्घजि॒ह्व्यं॑ ॥१

पु॒रःऽजि॑ती । वः॒ । अन्ध॑सः । सु॒ताय॑ । मा॒द॒यि॒त्नवे॑ ।

अप॑ । श्वान॑म् । श्न॒थि॒ष्ट॒न॒ । सखा॑यः । दी॒र्घ॒ऽजि॒ह्व्य॑म् ॥

पुरःऽजिती । वः । अन्धसः । सुताय । मादयित्नवे ।

अप । श्वानम् । श्नथिष्टन । सखायः । दीर्घऽजिह्व्यम् ॥

हे “सखायः सखिभूताः समानख्याना वा हे स्तोतारः “वः यूयं “पुरोजिती। षष्ठ्याः पूर्वसवर्णदीर्घः । पुरःस्थितजयस्य “अन्धसः अदनीयस्य सोमस्य स्वभूताय “सुताय अभिषुताय “मादयित्नवे अत्यन्तं मदकराय रसाय “दीर्घजिह्वयम् । दीर्घा जिह्वा यस्य सः। दीर्घजिह्वी च च्छन्दसि' (पा. सू. ४. १. ५९ ) इति ङीषन्तत्वेन निपातितः । तादृशं “श्वानम् “अप “श्नथिष्टन अपश्नथयत अपबाधध्वम् । यथा श्वा राक्षसा वा सुतं सोमं न लिहन्ति तथा कुरुतेत्यर्थः ॥


पवित्रेष्ट्यां द्वितीयस्याज्यभागस्य ' यो धारया' इत्येषानुवाक्या। सूत्रितं च- पावकवन्तावाज्यभागावग्नी रक्षांसि सेधति यो धारया पावकया' (आश्व. श्रौ. २. १२) इति ॥

यो धार॑या पाव॒कया॑ परिप्र॒स्यंद॑ते सु॒तः ।

इंदु॒रश्वो॒ न कृत्व्यः॑ ॥२

यः । धार॑या । पा॒व॒कया॑ । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒तः ।

इन्दुः॑ । अश्वः॑ । न । कृत्व्यः॑ ॥

यः । धारया । पावकया । परिऽप्रस्यन्दते । सुतः ।

इन्दुः । अश्वः । न । कृत्व्यः ॥

“सुतः अभिपुतः “कृत्व्यः । कृत्वीति कर्मनाम । कर्मणि साधुः “यः "इन्दुः सोमः “पावकया पापानां शोधयित्र्या “धारया “परिप्रस्यन्दते परितः प्रक्षरति । कथमिव । “अश्वो “न अश्वो यथा वेगेन प्रगच्छति तद्वत् ॥


तं दु॒रोष॑म॒भी नरः॒ सोमं॑ वि॒श्वाच्या॑ धि॒या ।

य॒ज्ञं हि॑न्वं॒त्यद्रि॑भिः ॥३

तम् । दु॒रोष॑म् । अ॒भि । नरः॑ । सोम॑म् । वि॒श्वाच्या॑ । धि॒या ।

य॒ज्ञम् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ॥

तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया ।

यज्ञम् । हिन्वन्ति । अद्रिऽभिः ॥

“नरः कर्मनेतार ऋत्विजः “दुरोषम् । रोषतेर्हिंसार्थस्य रेफलोपे दीर्घाभाव ओषतेर्दाहार्थस्य वा खलि रूपमिति संदेहादनवग्रहः । “तं दुर्दहं दुर्वधं वा “यज्ञं यष्टव्यं तं “सोमं “विश्वाच्या सर्वान् कामानञ्चित्र्या “धिया बुद्ध्या "अद्रिभिः ग्रावभिः “अभि “हिन्वन्ति अभिप्रेरयन्ति । अभिषुण्वन्तीति यावत् ॥


सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इंद्रा॑य मं॒दिनः॑ ।

प॒वित्र॑वंतो अक्षरंदे॒वान्ग॑च्छंतु वो॒ मदाः॑ ॥४

सु॒तासः॑ । मधु॑मत्ऽतमाः । सोमाः॑ । इन्द्रा॑य । म॒न्दिनः॑ ।

प॒वित्र॑ऽवन्तः । अ॒क्ष॒र॒न् । दे॒वान् । ग॒च्छ॒न्तु॒ । वः॒ । मदाः॑ ॥

सुतासः । मधुमत्ऽतमाः । सोमाः । इन्द्राय । मन्दिनः ।

पवित्रऽवन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः ॥

“मधुमत्तमाः अतिशयेन माधुर्योपेता अत एव “मन्दिनः मदकराः "सुतासः अभिषुताः “सोमाः “पवित्रवन्तः पवित्रे वर्तमानाः सन्तः “इन्द्राय इन्द्रार्थम् “अक्षरन् पात्रेषु क्षरन्ति । अथ प्रत्यक्षकृतः। “वः युष्माकं “मदाः मदहेतवो रसाः "देवान् इन्द्रादीन् “गच्छन्तु ॥


इंदु॒रिंद्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् ।

वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥५

इन्दुः॑ । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वासः॑ । अ॒ब्रु॒व॒न् ।

वा॒चः । पतिः॑ । म॒ख॒स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥

इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् ।

वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसा ॥

“इन्दुः सोमः “इन्द्राय इन्द्रार्थं “पवते कलशे क्षरति “इति "देवासः स्तुतिकारिणः स्तोतारः “अब्रुवन् वदन्ति । यदा स्तोतार एवं वदन्ति तदानीं “वाचः स्तुतेः “पतिः पालयिता । यद्वा । शब्दस्य स्वामी अत्यन्तं शब्दायमान इत्यर्थः। तादृशः सोमः “मखस्यते स्तुतिभिः पूजामिच्छति । लालसायां सुगागमः । कीदृशः । "ओजसा बलेन “विश्वस्य सर्वस्य “ईशानः प्रभुः ॥ ॥ १ ॥


स॒हस्र॑धारः पवते समु॒द्रो वा॑चमींख॒यः ।

सोमः॒ पती॑ रयी॒णां सखेंद्र॑स्य दि॒वेदि॑वे ॥६

स॒हस्र॑ऽधारः । प॒व॒ते॒ । स॒मु॒द्रः । वा॒च॒म्ऽई॒ङ्ख॒यः ।

सोमः॑ । पतिः॑ । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥

सहस्रऽधारः । पवते । समुद्रः । वाचम्ऽईङ्खयः ।

सोमः । पतिः । रयीणाम् । सखा । इन्द्रस्य । दिवेऽदिवे ॥

“सहस्रधारः बहुविधधारोपेतः “सोमः “पवते क्षरति । कीदृशः । “समुद्रः । यस्मात्समुद्द्रवन्ति रसाः । सरःस्थानीयः “वाचमीङ्खयः । ईङ्खतेर्ण्यन्तस्य सुप्युपपदे खच्प्रत्ययः । स्तुतीनां प्रेरयिता “रयीणां धनानां “पतिः प्रभुः । यद्वा । रयीणां हविषो दातॄणां यजमानानां पतिः पालयिता । “दिवेदिवे प्रत्यहम् “इन्द्रस्य “सखा मित्रभूतः सोमः पवते ॥


अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो अ॑र्षति ।

पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥७

अ॒यम् । पू॒षा । र॒यिः । भगः॑ । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।

पतिः॑ । विश्व॑स्य । भूम॑नः । वि । अ॒ख्य॒त् । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥

अयम् । पूषा । रयिः । भगः । सोमः । पुनानः । अर्षति ।

पतिः । विश्वस्य । भूमनः । वि । अख्यत् । रोदसी इति । उभे इति ॥

“पूषा पोषकः सर्वेषां "भगः भजनीयः “रयिः धनहेतुः “अयं “सोमः “पुनानः पवित्रेण पूयमानः सन् “अर्षति कलशमभिगच्छति । तथा “विश्वस्य सर्वस्य “भूमनः भूतजातस्य “पतिः पालयिता सोमः “उभे “रोदसी द्यावापृथिव्यौ “व्यख्यत् स्वतेजसा प्रकाशयति । अनेन लोकद्वयवर्तित्वं सूचितम् ॥


समु॑ प्रि॒या अ॑नूषत॒ गावो॒ मदा॑य॒ घृष्व॑यः ।

सोमा॑सः कृण्वते प॒थः पव॑मानास॒ इंद॑वः ॥८

सम् । ऊं॒ इति॑ । प्रि॒याः । अ॒नू॒ष॒त॒ । गावः॑ । मदा॑य । घृष्व॑यः ।

सोमा॑सः । कृ॒ण्व॒ते॒ । प॒थः । पव॑मानासः । इन्द॑वः ॥

सम् । ऊं इति । प्रियाः । अनूषत । गावः । मदाय । घृष्वयः ।

सोमासः । कृण्वते । पथः । पवमानासः । इन्दवः ॥

“प्रियाः प्रियतमाः “घृष्वयः अत्यन्तं दीप्ताः। यद्वा । अहं प्रथमतः स्तौमि अहं पुरस्तात् स्तौमीति परस्परं स्पर्धमानाः । "गावः स्तुतिलक्षणा वाचः सोमस्य मदार्थं “सम् “अनूषत संस्तुवन्ति । उः प्रसिद्धौ । यद्वा । गावो धेनवः सोमस्य मदाय शब्दायन्ते । ततः “पवमानासः पूयमानाः “इन्दवः दीप्ताः “सोमासः सोमाः “पथः मार्गान् “कृण्वते क्षरणार्थं कुर्वन्ति ।


य ओजि॑ष्ठ॒स्तमा भ॑र॒ पव॑मान श्र॒वाय्यं॑ ।

यः पंच॑ चर्ष॒णीर॒भि र॒यिं येन॒ वना॑महै ॥९

यः । ओजि॑ष्ठः । तम् । आ । भ॒र॒ । पव॑मान । श्र॒वाय्य॑म् ।

यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । र॒यिम् । येन॑ । वना॑महै ॥

यः । ओजिष्ठः । तम् । आ । भर । पवमान । श्रवाय्यम् ।

यः । पञ्च । चर्षणीः । अभि । रयिम् । येन । वनामहै ॥

हे “पवमान पूयमान सोम “ओजिष्ठः ओजस्वितमः “यः त्वदीयो रसोऽस्ति “तं “श्रवाय्यं श्रवणीयं रसम् “आ “भर अस्मभ्यमाहर। किंच “यः रसः “पञ्च “चर्षणीः पञ्च जनान्निषादपञ्चमांश्चतुरो वर्णान् “अभि तिष्ठति । अपि च “येन रसेन वयं “रयिं धनं च “वनामहै संभजामहै । यद्वा । येन त्वां रयिं याचामहै तमा भर ॥


सोमाः॑ पवंत॒ इंद॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः ।

मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ॥१०

सोमाः॑ । प॒व॒न्ते॒ । इन्द॑वः । अ॒स्मभ्य॑म् । गा॒तु॒वित्ऽत॑माः ।

मि॒त्राः । सु॒वा॒नाः । अ॒रे॒पसः॑ । सु॒ऽआ॒ध्यः॑ । स्वः॒ऽविदः॑ ॥

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्ऽतमाः ।

मित्राः । सुवानाः । अरेपसः । सुऽआध्यः । स्वःऽविदः ॥

“गातुवित्तमाः अतिशयेन मार्गस्य लम्भकाः “इन्दवः दीप्ताः “सोमाः “पवन्ते “अस्मभ्यम् अस्मदर्थं क्षरन्त्यागच्छन्ति वा । कीदृशाः । “मित्राः देवानां सखिभूताः “सुवानाः अभिषूयमाणाः “अरेपसः पापरहिताः अत एव “स्वाध्यः शोभनध्यानाः “स्वर्विदः सर्वज्ञाः स्वर्गप्रापका वा ॥ ॥२॥


सु॒ष्वा॒णासो॒ व्यद्रि॑भि॒श्चिता॑ना॒ गोरधि॑ त्व॒चि ।

इष॑म॒स्मभ्य॑म॒भितः॒ सम॑स्वरन्वसु॒विदः॑ ॥११

सु॒स्वा॒नासः॑ । वि । अद्रि॑ऽभिः । चिता॑नाः । गोः । अधि॑ । त्व॒चि ।

इष॑म् । अ॒स्मभ्य॑म् । अ॒भितः॑ । सम् । अ॒स्व॒र॒न् । व॒सु॒ऽविदः॑ ॥

सुस्वानासः । वि । अद्रिऽभिः । चितानाः । गोः । अधि । त्वचि ।

इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसुऽविदः ॥

“गोः अनडुहः “अधि “त्वचि अधिषवणचर्मणि “चितानाः ज्ञायमानाः "अद्रिभिः ग्रावभिर्विविधं “सुष्वाणासः सूयमानाः “वसुविदः वसुनो लम्भका एते सोमाः “अस्मभ्यम् “इषम् अन्नम् “अभितः “समस्वरन् सम्यक् शब्दयन्ति । प्रयच्छन्तीति यावत् ॥


ए॒ते पू॒ता वि॑प॒श्चितः॒ सोमा॑सो॒ दध्या॑शिरः ।

सूर्या॑सो॒ न द॑र्श॒तासो॑ जिग॒त्नवो॑ ध्रु॒वा घृ॒ते ॥१२

ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ । सोमा॑सः । दधि॑ऽआशिरः ।

सूर्या॑सः । न । द॒र्श॒तासः॑ । जि॒ग॒त्नवः॑ । ध्रु॒वाः । घृ॒ते ॥

एते । पूताः । विपःऽचितः । सोमासः । दधिऽआशिरः ।

सूर्यासः । न । दर्शतासः । जिगत्नवः । ध्रुवाः । घृते ॥

“पूताः पवित्रेण परिपूताः “विपश्चितः मेधाविनः “दध्याशिरः दध्यामिश्रणाः “घृते वसतीवर्याख्य उदके “जिगत्नवः गमनशीलाः “ध्रुवाः तत्र स्थैर्येण वर्तमानाः “एते “सोमासः सोमाः “सूर्यासो “न सूर्या इव “दर्शतासः पात्रेषु सर्वैर्दर्शनीया भवन्ति ।


प्र सु॑न्वा॒नस्यांध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ ।

अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥१३

प्र । सु॒न्वा॒नस्य॑ । अन्ध॑सः । मर्तः॑ । न । वृ॒त॒ । तत् । वचः॑ ।

अप॑ । श्वान॑म् । अ॒रा॒धस॑म् । ह॒त । म॒खम् । न । भृग॑वः ॥

प्र । सुन्वानस्य । अन्धसः । मर्तः । न । वृत । तत् । वचः ।

अप । श्वानम् । अराधसम् । हत । मखम् । न । भृगवः ॥

“सुन्वानस्य अभिषूयमाणस्य “अन्धसः अदनीयस्य सोमस्य “तत् प्रसिद्धं “वचः वचनं घोषं “मर्तः मारकः कर्मविघ्नकारी श्वा “न “प्र “वृत न भजताम् । न शृणोत्विति यावत् । तथा हे स्तोतारः “अराधसं संसाधककर्मरहितं तं “श्वानम् “अप “हत । तत्र दृष्टान्तः । "मखं “न । यथा पुरापराद्धं मखमेतन्नामानं "भृगवः अपहतवन्तः तथापहतेत्यर्थः ।।


आ जा॒मिरत्के॑ अव्यत भु॒जे न पु॒त्र ओ॒ण्योः॑ ।

सर॑ज्जा॒रो न योष॑णां व॒रो न योनि॑मा॒सदं॑ ॥१४

आ । जा॒मिः । अत्के॑ । अ॒व्य॒त॒ । भु॒जे । न । पु॒त्रः । ओ॒ण्योः॑ ।

सर॑त् । जा॒रः । न । योष॑णाम् । व॒रः । न । योनि॑म् । आ॒ऽसद॑म् ॥

आ । जामिः । अत्के । अव्यत । भुजे । न । पुत्रः । ओण्योः ।

सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आऽसदम् ॥

"जामिः बन्धुभूतो देवानां सोमः "अत्के आच्छादके पवित्रे “आ “अव्यत आवृणोति । संबद्धो भवति । तत्र दृष्टान्तः । “भुजे “न यथा “ओण्योः रक्षकयोर्मात्रापित्रोः भुजे “पुत्रः आवृणोति तद्वत् । ततः सोऽयं सोमः “योनिं स्वस्थानभूतं कलशम् “आसदम् आसत्तुं "सरत् सरति । तत्र दृष्टान्तद्वयम् । “जारो “न यथा जारः “योषणाम् असतीं स्त्रियं प्राप्तुं सरति । यथा वा “वरः कन्यां प्राप्तुं गच्छति तद्वत् ॥


स वी॒रो द॑क्ष॒साध॑नो॒ वि यस्त॒स्तंभ॒ रोद॑सी ।

हरिः॑ प॒वित्रे॑ अव्यत वे॒धा न योनि॑मा॒सदं॑ ॥१५

सः । वी॒रः । द॒क्ष॒ऽसाध॑नः । वि । यः । त॒स्तम्भ॑ । रोद॑सी॒ इति॑ ।

हरिः॑ । प॒वित्रे॑ । अ॒व्य॒त॒ । वे॒धाः । न । योनि॑म् । आ॒ऽसद॑म् ॥

सः । वीरः । दक्षऽसाधनः । वि । यः । तस्तम्भ । रोदसी इति ।

हरिः । पवित्रे । अव्यत । वेधाः । न । योनिम् । आऽसदम् ॥

“दक्षसाधनः बलसाधनः “सः सोमः “वीरः समर्थो भवति । “यः सोमः "रोदसी द्यावापृथिव्यौ “वि “तस्तम्भ स्वतेजसा व्यस्तभ्नात् । आच्छादयतीत्यर्थः । किंच “हरिः हरितवर्णः सोमः "वेधा “न विधाता यजमानो यथा स्वगृहमासीदति तद्वत् “योनिं स्वस्थानं कलशम् “आसदम् आसत्तुं पवित्रे “अव्यत आवृणोति । संबद्धो भवति ॥


अव्यो॒ वारे॑भिः पवते॒ सोमो॒ गव्ये॒ अधि॑ त्व॒चि ।

कनि॑क्रद॒द्वृषा॒ हरि॒रिंद्र॑स्या॒भ्ये॑ति निष्कृ॒तं ॥१६

अव्यः॑ । वारे॑भिः । प॒व॒ते॒ । सोमः॑ । गव्ये॑ । अधि॑ । त्व॒चि ।

कनि॑क्रदत् । वृषा॑ । हरिः । इन्द्र॑स्य । अ॒भि । ए॒ति॒ । निः॒ऽकृ॒तम् ॥

अव्यः । वारेभिः । पवते । सोमः । गव्ये । अधि । त्वचि ।

कनिक्रदत् । वृषा । हरिः । इन्द्रस्य । अभि । एति । निःऽकृतम् ॥

अयं “सोमः “अव्यः अवेः “वारेभिः वालैः पवित्रैः तेभ्यः “पवते कलशं प्रति क्षरति । किंच “गव्ये आनडुहे “अधि “त्वचि चर्मणि “कनिक्रदत् शब्दायमानः “वृषा कामानां वर्षकः “हरिः हरितवर्णः सोमः “इन्द्रस्य स्वभूतं “निष्कृतं संस्कृतं स्थानम् “अभ्येति अभिगच्छति ॥ ॥ ३ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०१&oldid=180893" इत्यस्माद् पुनः प्राप्तिः