सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ४/औदलम्

विकिस्रोतः तः
औदलम्.
औदलम्.

३. २औदलम् ।। उदलः। अनुष्टुप् । पवमानस्सोमः ।।

प्र꣡सु꣢न्वा꣯ना꣡॥ याआऽ᳒२᳒न्धसा꣡:। म꣢र्तो꣡꣯नवा꣢ऽ३ । ष्टा꣡त꣢द्वा꣣ऽ२३४चा꣥: ।। अ꣡प꣢श्वा꣯ना꣡म् ॥ आराऽ᳒२᳒धसा꣡म् । ह꣢ता꣡꣯माऽ२३खा꣢ऽ३म् । ना꣡ऽ२३भॄ꣤३ । गा꣢ऽ३४५वोऽ६”हा꣥इ ।।श्रीः।। आ꣡꣯जा꣢꣯मिरा꣡ । त्केआऽ᳒२᳒व्यता꣡ । भु꣢जे꣡꣯नपू꣢ऽ३त् । त्रा꣡ओ꣢᳐णा꣣ऽ२३४यो꣥: ॥ स꣡र꣢ज्जा꣯रा꣡: ॥ नायोऽ᳒२᳒षणा꣡म् । व꣢रो꣡꣯नाऽ२३यो꣢ऽ३ । ना꣡ऽ२३इमा꣤ऽ३ । सा꣢ऽ३४५दोऽ६”हा꣥इ ।। श्रीः ॥ स꣡वी꣢꣯रो꣯दा꣡ ॥ क्षासाऽ᳒२᳒धना꣡:। वि꣢य꣡स्तस्ता꣢ऽ३ । भा꣡रो꣢᳐दा꣣ऽ२३४सा꣥इ ॥ ह꣡रि꣢ᳲपवा꣡इ ॥ त्रेआऽ᳒२᳒व्यता꣡ । वे꣢꣯धा꣡꣯नाऽ२३यो꣢ऽ३ । ना꣡ऽ२३इमा꣤ऽ३ । सा꣢ऽ३४५दोऽ६”हा꣥इ ॥

दी. १३. उत् . ६. मा. २१. ट. ॥४३७।।


प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः ।
अप श्वानमराधसं हता मखं न भृगवः ॥ १३८६ ॥ ऋ. ९.१०१.१३
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
सरज्जारो न योषणां वरो न योनिमासदं ॥ १३८७ ॥
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
हरिः पवित्रे अव्यत वेधा न योनिमासदं ॥ १३८८ ॥


३. २औदलम् ।। उदलः। अनुष्टुप् । पवमानस्सोमः ।।

प्रसुन्वाना॥ याआऽन्धसाः। मर्तोनवाऽ३ । ष्टातद्वाऽ२३४चाः ।। अपश्वानाम् ॥ आराऽ२धसाम् । हतामाऽ२३खाऽ३म् । नाऽ२३भॄ३ । गाऽ३४५वोऽ६”हाइ ।।श्रीः।। आजामिरा । त्केआऽ२व्यता । भुजेनपूऽ३त् । त्राओणाऽ२३४योः ॥ सरज्जाराः ॥ नायोऽ२षणाम् । वरोनाऽ२३योऽ३ । नाऽ२३इमाऽ३ । साऽ३४५दोऽ६”हाइ ।। श्रीः ॥ सौवीरोदा ॥ क्षासाऽ२धनाः। वियस्तस्ताऽ३ । भारोदाऽ२३४साइ ॥ हरिᳲपवाइ ॥ त्रेआऽ२व्यता । वेधानाऽ२३योऽ३ । नाऽ२३इमाऽ३ । साऽ३४५दोऽ६”हाइ ॥

(दी. १३. उत् . ६. मा. २१. ट. ॥४३७।।)


[सम्पाद्यताम्]

टिप्पणी