सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/वाङ्निधनं क्रौ़ञ्चम्

विकिस्रोतः तः
वाङ्निधनं क्रौञ्चम्
वाङ्निधनं क्रौञ्चम्.

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः॥ ११०१ ॥ ऋ. ९.१०१.१०
ते पूतासो विपश्चितः सोमासो दध्याशिरः।
सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥११०२ ॥
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥ ११०३ ॥


१६ वाङ्निधनं क्रौञ्चम् ।। क्रुङ्। अनुष्टुप् । पवमानत्सोमः ।।

सोमाᳲपावाऽ३१२३४ । तइ । दवाऽ३ः ।। अस्मभ्यंगाऽ३१२३४ । तुवि । तमाऽ३ः ।। मित्रास्वानाऽ३१२३४ः । अरे । पसाऽ३ः ।। सुवाधीयाऽ३१२३ः ।। सुवाऽ५र्विदाउ ।। श्रीः ।। तेपूतासोऽ३१२३४ । विपः । चिताऽ३ः ।। सोमासोदाऽ३१२३४ । धिया । शिराऽ३ः ।। सूरासोनाऽ३१२३४ । दर्श । तासाऽ३ः ।। जिगात्नावाऽ३१२३ः ।। ध्रुवा- ऽ५घृताउ ।। श्रीः ।। सुष्वाणासोऽ३१२३४ । विय । द्रिभाऽ३इः ।।
चितानागोऽ३१२३४ः । अधि । त्वचाऽ३इ ।। इषामास्माऽ३१२३४ । भ्यम । भिताऽ३ः ।। समास्वाराऽ३१२३न् ।। वसूऽ५विदाउ ।। वा ।।

दी. ११ उत्. १२ मा. २० खौ. ।।११६।।

[सम्पाद्यताम्]

टिप्पणी

अथ क्रौञ्चे। क्रुंङ् आंगिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहनि क्रियेते। ते उ एवाचक्षत उद्वच् च शाम्मदं चेति। उद्वता वै देवा ऊर्ध्वा स्वर्गं लोकम् उदक्रामन्। यद् ऊर्ध्वा स्वर्गं लोकम् उदक्रामंस् तद् उद्वत उद्वत्त्वम्। तद् एतद् स्वर्ग्यं साम। ऊर्ध्व एवैतेन स्वर्गं लोकम् उत्क्रामति य एवं वेद। - जैब्रा ३.१६४