शुक्लयजुर्वेदः/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७ शुक्लयजुर्वेदः
अध्यायः ०८
[[लेखकः :|]]
अध्यायः ०९ →

अध्याय 8
अग्निष्टोमे तृतीयसवनगता आदित्यग्रहादि मन्त्राः – पाशुक अग्निष्टोमः 1-32, षोडशीयागः 33-37, द्वादशाहादि 38-63
8.1
उपयामगृहीतो ऽसि ।
आदित्येभ्यस् त्वा ।
विष्ण ऽ उरुगायैष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् ॥

8.2
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूय ऽ इन् नु ते दानं देवस्य पृच्यते ऽ ।
आदित्येभ्यस् त्वा ॥

8.3
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी ।
तुरीयादित्य सवनं त ऽ इन्द्रियम् आ तस्थाव् अमृतं दिवि ।
आदित्येभ्यस् त्वा ॥

8.4
यज्ञो देवानां प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वोऽर्वाची सुमतिर् ववृत्याद् अꣳहोश् चिद् या वरिवोवित्तरासत् ।
आदित्येभ्यस् त्वा ॥

8.5
विवस्वन्न् आदित्यैष ते सोमपीथस् तस्मिन् मत्स्व ।
श्रद् अस्मै नरो वचसे दधातन यद् आशीर्दा दम्पती वामम् अश्नुतः ।
पुमान् पुत्रो जायते विन्दते वस्व् अधा विश्वाहार् अप ऽ एधते गृहे ॥

8.6
वामम् अद्य सवितर् वामम् उ श्वो दिवे-दिवे वामम् अस्मभ्यꣳ सावीः ।
वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥

8.7
उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश् चनोधा ऽ असि चनो मयि धेहि ।
जिन्व यज्ञं जिन्व यज्ञपतिं भगाय देवाय त्वा सवित्रे ॥

8.8
उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानो बृहदुक्षाय नमः ।
विश्वेभ्यस् त्वा देवेभ्यः ऽ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

8.9
उपयामगृहीतो ऽसि बृहस्पतिसुतस्य देव सोम त ऽ इन्दोर् इन्द्रियावतं पत्नीवतो ग्रहाँ२ ऽ ऋध्यासम् ।
अहं परस्ताद् अहम् अवस्ताद् यद् अन्तरिक्षं तद् उ मे पिताभूत् ।
अहꣳ सूर्यम् उभयतो ददर्शाहं देवानां परमं गुहा यत् ॥

8.10
अग्ना3इ पत्नीवन्त् सजूर् देवेन त्वष्ट्रा सोमं पिब स्वाहा ।
प्रजापतिर् वृषासि रेतोधा रेतो मयि धेहि प्रजापतेस् त वृष्णो रेतोधसो रेतोधाम् अशीय ॥

8.11
उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिभ्यां त्वा ।
हर्योर् धाना स्थ सहसोमा ऽ इन्द्राय ॥

8.12
यस् ते ऽ अश्वसनिर् भक्षो यो गोसनिस् तस्य त ऽ इष्टयजुष स्तुतसोमस्य शस्तोक्थस्योपहूतस्योपहूतो भक्षयामि ॥

8.13
देवकृतस्यैनसो ऽवयजनम् असि ।
मनुष्यकृतस्यैनसो ऽवयजनम् असि ।
पितृकृतस्यैनसो ऽवयजनम् असि ।
आत्मकृतस्यैनसो ऽवयजनम् असि ।
एनसऽ-एनसो ऽवयजनम् असि ।
यच् चाहम् एनो विद्वाꣳश् चकार यच् चाविद्वाꣳस् तस्य सर्वस्यैनसो ऽवयजनम् असि ।

8.14
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।
त्वष्टा सुदत्रो वि दधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥

8.15
सम् इन्द्र णो मनसा नेषि गोभिः सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या ।
सं ब्रह्मणा देवकृतं यद् अस्ति सं देवाना सुमतौ यज्ञियाना स्वाहा ॥

8.16
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सꣳ शिवेन ।
त्वष्टा सुदत्रो विदधातु रायो ऽनु मार्ष्टु तन्वो यद् विलिष्टम् ॥

8.17
धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपा देवो ऽ अग्निः ।
त्वष्टा विष्णुः प्रजया सꣳरराणा यजमानाय द्रविणं दधात स्वाहा ॥

8.18
सुगा वो देवाः सदना ऽ अकर्म य ऽ आजग्मेदꣳ सवनं जुषाणाः ।
भरमाणा वहमाना हवीꣳष्य् अस्मे धत्त वसवो वसूनि स्वाहा ॥

8.19
याँ२ ऽ आवह ऽ उशतो देव देवाँस् तान् प्रेरय स्वे ऽ अग्ने सधस्थे ।
जक्षिवासः पपिवासश् च विश्वे ऽसुं घर्मꣳ स्वरातिष्ठतानु स्वाहा ॥

8.20
वयꣳ हि त्वा प्रयति ऽ यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह ।
ऋधग् अया ऽ ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान्त् स्वाहा ॥

8.21
देवा गातुविदो गातुं वित्त्वा गातुम् इत ।
मनसस्पत ऽ इमं देव यज्ञꣳ स्वाहा वाते धाः ॥

8.22
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सर्ववीरस् तज् जुषस्व स्वाहा ॥

8.23
माहिर् भूर् मा पृदाकुः ।
उरुꣳ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा ऽ उ ।
अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ।
नमो वरुणायाभिष्ठितो वरुणस्य पाशः ॥

8.24
अग्नेर् अनीकम् अप ऽ आ विवेशापां नपात् प्रतिरक्षन्न् असुर्यम् ।
दमे-दमे समिधं यक्ष्य् अग्ने प्रति ते जिह्वा घृतम् उच् चरण्यत् स्वाहा ॥

8.25
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत् स्वाहा ॥

8.26
देवीर् आप ऽ एष वो गर्भस् तꣳ सुप्रीतꣳ सुभृतं बिभृत ।
देव सोमैष ते लोकस् तस्मिञ् छं च वक्ष्व परि च वक्ष्व ॥

8.27
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो ऽयासिषम् अव मर्त्यैर् मर्त्यकृतं पुरुराव्णो देव रिषस् पाहि ।
देवाना समिद् असि ॥

8.28
एजतु दशमास्यो गर्भो जरायुणा सह ।
यथायं वायुर् एजति यथा समुद्र ऽ एजति ।
एवायं दशमास्यो ऽ अस्रज् जरायुणा सह ॥

8.29
यस्यै ते यज्ञियो गर्भो यस्यै योनिर् हिरण्ययी ।
अङ्गान्य् अह्रुता यस्य तं मात्रा सम् अजीगमꣳ स्वाहा ॥

8.30
पुरुदस्मो विषुरूप ऽ इन्दुर् अन्तर् महिमानम् आनञ्ज धीरः ।
एकपदीं द्विपदीं त्रिपदीं चतुष्पदीम् अष्टापदीं भुवनानु प्रथन्ता स्वाहा ॥

8.31
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥

8.32
मही द्यौः पृथिवी च न ऽ इमं यज्ञं मिमिक्षताम् ।
पिपृतां नो भरीमभिः ॥

8.33
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी ।
अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

8.34
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न ऽ इन्द्र सोमपा गिराम् उपश्रुतिं चर ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

8.35
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ।
ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने ।
ऽ एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

8.36
यस्मान् न जातः परो ऽ अन्यो ऽ अस्ति य ऽ आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीषि सचते स षोडशी ॥

8.37
इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षं चक्रतुर् अग्र् ऽ एतम् ।
तयोर् अहम् अनु भक्षं भक्षयामि वाग् देवी जुषाणा सोमस्य तृप्यतु ।
सह प्राणेन स्वाहा ॥

8.38
अग्ने पवस्व स्वपा ऽ अस्मे वर्चः सुवीर्यम् ।
दधद् रयिं मयि पोषम् ।
उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।
ऽ एष ते योनिर् अग्नये त्वा वर्चसे ।
अग्ने वर्चस्विन् वर्चस्वाꣳस् त्वं देवेष्व् असि वर्चस्वान् अहं मनुष्येषु भूयासम् ॥

8.39
उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे ऽ अवेपयः ।
सोमम् इन्द्र चमू सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वौजसे ।
ऽ एष ते योनिर् इन्द्राय त्वौजसे ।
इन्द्रौजिष्ठौजिष्ठस् त्वं देवेष्व् अस्य् ओजिष्ठो ऽहं मनुष्येषु भूयासम् ॥

8.40
अदृश्रम् अस्य केतवो वि रश्मयो जनाꣳ ऽ अनु ।
भ्राजन्तो अग्नयो यथा ।
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।
एष ते योनिः सूर्याय त्वा भ्राजाय ।
सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् ॥

8.41
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजाय ।
एष ते योनिः सूर्याय त्वा भ्राजाय ।
(सूर्य भ्राजिष्ठ भ्राजिष्ठस् त्वं देवेष्व् असि भ्राजिष्ठो ऽहं मनुष्येषु भूयासम् )॥ ?

8.42
आजिघ्रकलशं मह्यात्वाविशन्त्विन्दवः पुनरूर्जानिवर्त्तस्वसानः।
सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः ॥

8.43
इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिते सरस्वति महि विश्रुति ।
एता ते ऽ अघ्न्ये नामानि देवेभ्यो मा सुकृतं ब्रूतात् ॥

8.44
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
यो ऽ अस्माँ२ ऽ अभिदासत्य् अधरं गमया तमः ।
उपयामगृहीतो ऽसीन्द्राय त्वा विमृधे ।
ऽ एष ते योनिर् इन्द्राय त्वा विमृधे ॥

8.45
वाचस् पतिं विश्वकर्माणमूतये मनोजुवं वाजे ऽ अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद् विश्वशम्भूर् अवसे साधुकर्मा ।
उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।
ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥

8.46
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।
तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ।
उपयामगृहीतो ऽसीन्द्राय त्वा विश्वकर्मणे ।
ऽ एष ते योनिर् इन्द्राय त्वा विश्वकर्मणे ॥

8.47
उपयामगृहीतो ऽस्य् अग्नये त्वा गायत्रच्छन्दसं गृह्णामि ।
इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि ।
विश्वेभ्यस् त्वा देवेभ्यो जगच्छन्दसं गृह्णामि ।
अनुष्टुप् ते ऽभिगरः ॥

8.48
व्रेशीनां त्वा पत्मन्न् आ धूनोमि कुकूननानां त्वा पत्मन्न् आ धूनोमि भन्दनानां त्वा पत्मन्न् आ धूनोमि मदिन्तमानां त्वा पत्मन्न् आ धूनोमि मधुन्तमानां त्वा पत्मन्न् आ धूनोमि शुक्रं त्वा शुक्र ऽ आ धूनोम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥

8.49
ककुभꣳ रूपं वृषभस्य रोचते बृहच् छुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगाः ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै त्वा गृह्णामि तस्मै ते सोम सोमाय स्वाहा ॥

8.50
उशिक् त्वं देव सोमाग्नेः प्रियं पाथो ऽपीहि ।
वशी त्वं देव सोमेन्द्रस्य प्रियं पाथो ऽपीहि ।
अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथो ऽपीहि ॥

8.51
इह रतिर् इह रमध्वम् इह धृतिर् इह स्वधृतिः स्वाहा ।
उपसृजन् धरुणं मात्रे धरुणो मातरं धयन् ।
रायस्पोषम् अस्मासु दीधरत् स्वाहा ॥

8.52
सत्रस्य ऽ ऋद्धिर् अस्य् अगन्म ज्योतिर् अमृता ऽ अभूम दिवं पृथिव्या ऽ अध्य् आरुहामाविदाम देवान्त् स्वर् ज्योतिः ॥

8.53
युवं तम् इन्द्रापर्वता पुरोयुधा यो नः पृतन्याद् अप तं-तम् इद् धतं वज्रेण तं-तम् इद् धतम् ।
दूरे चत्ताय छन्त्सद् गहनं यद् इनक्षत् ।
अस्माकꣳ शत्रून् परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ।
भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः ॥

8.54
परमेष्ठ्य् अभिधीतः ।
प्रजापतिर् वाचि व्याहृतायाम् ।
अन्धो ऽ अच्छेतः ।
सविता सन्याम् ।
विश्वकर्मा दीक्षायाम् ।
पूषा सोमक्रयण्याम् ॥

8.55
इन्द्रश् च मरुतश् च क्रयायोपोत्थितः ।
ऽ असुरः पण्यमानः ।
मित्रः क्रीतः ।
विष्णुः शिपिविष्ट ऽ ऊराव् आसन्नः ।
विष्णुर् नरन्धिषः प्रोह्यमाणः ॥

8.56
सोम ऽ आगतः ।
वरुण ऽ आसन्द्याम् आसन्नः ।
ऽ अग्निर् आग्नीध्रे ।
ऽ इन्द्रो हविर्धाने ।
ऽ अथर्वोपावह्रियमाणः ॥

8.57
विश्वे देवा ऽ अꣳशुषु न्युप्तः ।
विष्णुर् आप्रीतपा ऽ आप्याय्यमानः ।
यमः सूयमानः ।
विष्णुः संभ्रियमाणः ।
वायुः पूयमानः ।
शुक्रः पूतः ।
शुक्रं क्षीरश्रीः ।
मन्थी सक्तुश्रीः ॥

8.58
विश्वे देवाश् चमसेषून्नीतः ।
ऽ असुर् होमायोद्यतः ।
रुद्रो हूयमानः ।
वातो ऽभ्यावृत्तः ।
नृचक्षाः प्रतिख्यातः ।
भक्षो भक्ष्यमाणः ।
पितरो नाराशꣳसाः सन्नः ॥

8.59
सिन्धुर् अवभृथायोद्यतः ।
समुद्रो ऽभ्यवह्रियमाणः ।
सलिलः प्रप्लुतः ।
ययोर् ओजसा स्कभिता रजाꣳसि वीर्येभिर् वीरतमा शविष्ठा ।
या पत्येते ऽ अप्रतीता सहोभिर् विष्णू ऽ अगन् वरुणा पूर्वहूतौ ॥

8.60
देवान् दिवम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु मनुष्यान् अन्तरिक्षम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु पितॄन् पृथिवीम् अगन् यज्ञस् ततो मा द्रविणम् अष्टु यं कं च लोकम् अगन् यज्ञस् ततो मे भद्रं अभूत् ॥

8.61
चतुस्त्रिꣳशत् तन्तवो ये वितत्निरे य ऽ इमं यज्ञꣳ स्वधया ददन्ते ।
तेषां छिन्नꣳ सम् व् एतद् दधामि स्वाहा घर्मो ऽ अप्य् एतु देवान् ॥

8.62
यज्ञस्य दोहो विततः पुरुत्रा सो ऽ अष्टधा दिवम् अन्वा ततान ।
स यज्ञ धुक्ष्व महि मे प्रजयाꣳ रायस्पोषं विश्वम् आयुर् अशीय स्वाहा ॥

8.63
आ पवस्व हिरण्यवद् अश्ववत् सोम वीरवत् ।
वाजं गोमन्तम् आ भर स्वाहा ॥


भाष्यम्(उवट-महीधर)

अष्टमोऽध्यायः।
तत्र प्रथमा
उ॒प॒या॒मगृ॑हीतोऽस्यादि॒त्येभ्य॑स्त्वा । विष्ण॑ उरुगायै॒ष ते॒ सोम॒स्तᳪं᳭ र॑क्षस्व॒ मा त्वा॑ दभन् ।। १ ।।
उ०आदित्यग्रहसंस्रवोत्यर्थं प्रतिप्रस्थातादित्यपात्रे द्रोणकलशादुपयामगृहीतोऽसीति गृहीत्वा द्विदेवत्याननुजुहोति । | तत्रैते मन्त्राः । उपयाम गृहीतोऽस्यादित्येभ्यस्त्वा गृह्णामीति शेषः । आदित्यस्थालीं पात्रेणापिदधाति विष्णो उरुगाय । हे विष्णो, उरुगमनाय एष ते तव सोमः समर्पितः । तं रक्ष गोपाय । गोपायनप्रवृत्तं च त्वां मा दभ्नुयुः हिंस्युः रक्षांसि । दभ्नोतिर्हिंसाकर्मा ॥ १ ॥ |
म० सप्तमेऽध्याये उपांशुग्रहादिसवनद्वयगता मन्त्रा दक्षिणादानान्ता उक्ताः । अष्टमे तृतीयसवनगता आदित्यग्रहादिमन्त्रा उच्यन्ते । तत्र 'प्रतिप्रस्थातादित्यपात्रेण द्रोणकलशादुपयामगृहीतोऽसीति गृहीत्वा द्विदेवत्याननु जुहोत्युत्तरार्ध इति' (का० ९ । ९ । १५)। द्विदेवत्यैः सह होमाय प्रतिप्रस्थातादित्यग्रह पात्रेण द्रोणकलशात्सोमं गृह्णाति । सोमदैवत्यम् । हे सोम, उपयामेन पात्रेण त्वं गृहीतोऽसि मया । ‘शेषᳪं᳭ शेषमादित्यस्थाल्यामासिञ्चत्यादित्येभ्यस्त्वेति' (का० ९ । ९ । २०) । द्विदेवत्याननु हुत्वा हुतशेषमादित्यस्थाल्यां क्षिपेत् । सोमदैवत्यम् । हे सोम, आदित्येभ्योऽर्थाय त्वा त्वां सिञ्चामीति शेषः । | 'समासिच्य तेनापिदधाति विष्ण उरुगायेति' (का. ९ । ९ । २१) । संस्रवमासिच्य तेनादित्यपात्रेण स्थालीं पिदधाति । विष्णुदैवतम् । हे विष्णो यज्ञपुरुष, हे उरुगाय, उरुभिर्बहुभिर्गीयते स्तूयत इत्युरुगायस्तत्संबोधनम् । एष सोमस्ते तवार्पितः तं सोमं रक्षस्व गोपाय । आत्मनेपदमार्षम् । हे सोम, रक्षणे प्रवृत्तं त्वा त्वां मा दभन् मा दभ्नुयुः मा हन्युः । रक्षांसीति शेषः । दभ्नोतिर्हिंसाकर्मा ॥ १ ॥

द्वितीया।
क॒दाच॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
उपो॒पेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा ।। २ ।।
उ० आदित्यग्रहं गृह्णाति । कदाचन । व्याख्यातोऽयं मन्त्रः । यदि नाम अधस्तादैन्द्रः । इयांस्तु विशेषः । इह त्वादित्यदेवतो यजुरन्तः । आदित्येभ्यस्त्वेति यजुः ॥ २ ॥
म० 'आदित्यग्रहं गृह्णाति सᳪं᳭ स्रवेभ्यः कदाचनेति' । (का० १० । ४ । ४ ) होमशेषाः संस्रवास्तेभ्यः सकाशात् । आदित्यदेवत्ये बृहत्यौ यजुरन्ते । आदित्येभ्यस्त्वेति यजुः । तृतीयो द्वादशार्णस्त्रयोऽन्येऽष्टार्णाः । सा बृहती तृतीयेऽध्याये बृहदुपस्थानमध्ये (क० ३४ ) इन्द्रदेवत्या प्रथममुक्ता व्याख्याता च । इह त्वादित्यदेवत्या यजुरन्ता चेति विशेषः । हे इन्द्र, त्वं कदाचन कदाचिदपि स्तरीर्हिंसको नासि किंतु दाशुषे । षष्ठ्यर्थे चतुर्थी । हविर्दत्तवतो यजमानस्य हविः सश्चसि सेवसे । कुत्र । उप इत् नु यजमानस्यात्यन्तसमीप एव हे मघवन् धनवन्निन्द्र, भूय इत् नु पुनरेव च देवस्य ते तव दानं दीयत इति दानम् तव देयं हविः पृच्यते त्वया संबध्यते । यजमानेन दत्तं हविस्त्वयाङ्गीक्रियत इत्यर्थः । हे ग्रह, आदित्येभ्योऽर्थाय त्वां गृह्णामीति शेषः । अत्रेन्द्रनामभिरप्यादित्य एव स्तूयते ॥ २॥

तृतीया।
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्थाव॒मृतं॑ दि॒व्या॒दि॒त्येभ्य॑स्त्वा ।। ३ ।।
उ० द्वितीयं गृह्णाति । कदाचन । बृहत्यादित्यदेवत्या यजुरन्ता । आदित्येभ्यस्त्वेति यजुः । कदाशब्दः कालवचनः। चनेति निपातः पुनरर्थे । प्रयुच्छतिः प्रमादार्थः । हे भगवन्नादित्य, कस्मिन्नहनि पुनः प्रमाद्यसि उदयतापपाकप्रकाशा- दीननुग्रहान्प्राणिषु कुर्वन् । न कदाचिदित्यभिप्रायः । एवं काकुगतेन विशेषणेन व्याख्येयम् । अथवा कदाचनेति व्यतिकीर्णमेतत्पदद्वयं व्याख्येयम् । यन्न कदाचिदपीत्यनेनार्थेनार्थवत्त्वम् । चकारगर्भं सवितुर्निधानम् । अस्य भाष्यं चकारैनां गर्भनिधानमिति यथा यास्केन दर्शितम् । न कदाचित्प्रमाद्यसि स्वकीयं कर्म कुर्वन् उभे च नितरां पासि गोपायसि देवमनुष्यसंबन्धिनी जन्मनी । तुरीयेत्यविभक्तिको निर्देशः। तुरीयं च आदित्यसवनम् । तव इन्द्रियं च वीर्यं च तवैव आतस्थौ उपस्थितम् अमृतम् अनश्वरं विज्ञानानन्दस्वभावम् दिवि द्युलोके आदित्यमण्डलान्तःस्थम् । तदुक्तम् 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' इति । एवं परापररूपेणास्यामृच्यादित्यस्तुतिः । आदित्येभ्यस्त्वा गृह्णामीति शेषः ॥ ३ ॥
म० 'अपगृह्य पुनः कदाचनेति' ( का० १० । ४ । ५)। धारातो विच्छिद्य पूतभृतः सकाशादात्मसमीपं नीत्वा तथैव पुनरादित्यग्रहं गृह्णीयात् । कदाशब्दः कालवाची । चनेति निपातः पुनरर्थे । हे आदित्य, त्वं कदाचन प्रयुच्छसि कस्मिन् काले पुनः प्रमाद्यसि । 'युच्छ प्रमादे' न प्रमाद्यसीति काकुः । उदयतापपाकप्रकाशैः प्राणिनोऽनुगृह्णन्न कदाचिदालस्यं करोषीति भावः । यद्वा कदा च नेति पदत्रयम् । चकारोऽप्यर्थे । कदापि न प्रयुच्छसि स्वकर्मणि । किंच उभे जन्मनी देवमनुष्यसंबन्धिनी निपासि नितरां पालयसि । किंच तुरीय, ‘सुपां सुलुक्' (पा० ७ । १ । ३९)। इति विभक्तिलोपः । ते तव तुरीयं चतुर्थं मायातीतं शुद्धं सवनं सुवति स्वकार्ये जगत्प्रेरयतीति सवनम् । नन्द्यादित्वाल्ल्युप्रत्ययः । जगत्प्रवर्तकं अमृतमनश्वरं विज्ञानानन्दस्वभावं यदिन्द्रियं वीर्यं तद्दिवि द्युलोके मण्डलान्तरे आतस्थौ आभिमुख्येन स्थितम् । तदुक्तं 'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' । एवमादित्यः परापररूपेणास्यामृचि स्तुतः । यद्वास्या ऋचोऽर्थान्तरम् । प्रशब्दो निषेधे । चनशब्दोऽप्यर्थे । हे आदित्य, त्वं कदाच कदापि न प्रयुच्छसि न प्रमाद्यसि किंतु उभे वर्तमानभाविनी जन्मनी निपासि रक्षसि। | तृतीयमित्यर्थे व्यत्ययेन तुरीयशब्दः प्रयुक्तः । हे आदित्य, ते तव यत् तृतीयं सवनं तस्मिन् दिवि द्युलोकसमाने सवने इन्द्रियमिन्द्रियवृद्धिकरणममृतं सुधासमं हविः आतस्थौ समन्तात्स्थितम् । हे आदित्यग्रह, आदित्येभ्योऽर्थाय त्वां गृह्णामीति शेषः ॥ ३ ॥

चतुर्थी ।
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑: ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ᳪं᳭ होश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा ।। ४ ।।
उ० दध्ना श्रीणाति । यज्ञो देवानाम् त्रिष्टुप् यजुरन्ता आदित्यदेवत्या । आदित्येभ्यस्त्वेति यजुः । यस्माद्यज्ञो देवतानामादित्यानां सुम्नं सुखं कर्तुं प्रत्येति तस्माद्धेतोः हे आदित्यासः आदित्या एव आदित्यासः । आज्जसेरसुक् । भवता मृडयन्तः । 'मृड सुखने' तृचोर्थे शतृप्रत्ययोऽत्र छान्दसः । मृडयितारः सुखयितारो भवतास्माकम् । आवोऽर्वाची सुमतिर्ववृत्यात् । आवृता भवतु वः युष्मत्संबन्धिनी सुमतिः अर्वाची च अस्मदभिमुखा च । अᳪं᳭ होश्चिद्या वरिवोवित्तरा सत् । अंहुः पापकारी । चिच्छब्दोऽप्यर्थे । अंहोः पापकारिणोपि या सुमतिः । वरिवोवित्तरा । वरिव इति धननाम । अतिशयेन धनस्य लब्ध्री असत् भवतु । सा सुमतिः अस्मदभिमुखी आववृत्यादिति संबन्धः ॥ ४ ॥
म० 'दध्ना श्रीणात्येनं पश्चिमेऽन्ते मध्ये वा यज्ञो देवानामिति' (का० १० । ४६) । एनमादित्यग्रहं दध्ना मिश्रीकुर्यात् । आदित्यदेवत्या यजुरन्ता त्रिष्टुप् कुत्सदृष्टा । आदित्येभ्यस्त्वेति यजुः । यज्ञो देवानामादित्यानां सुम्नं सुखं कर्तुं प्रत्येति प्रत्यागच्छति । अतो हे आदित्यासः आदित्याः, यूयं मृडयन्तः सुखयन्तः सुखकर्तारोऽस्माकं भवत । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । किंच वो युष्माकं या सुमतिः शोभनबुद्धिर्भक्तानुग्रहपरा सा अर्वाची अस्मदभिमुखी आववृत्यात् आवर्तताम् । 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति वर्ततेर्लिङि जुहोत्यादित्वाच्छपः श्लोर्द्वित्वं च । किंच अंहोश्चित् अंहुः पापकारी । चित् अप्यर्थे । अंहोर्हननशीलस्य पापिनोऽपि या सुमतिर्वरिवोवित्तरा वरिवो धनं विन्दति लभत इति वरिवोवित् अत्यन्तं वरिवोवित् वरिवोवित्तमः पापिनो या सुमतिर्धनलब्ध्री असत् भवेत् सा सुमतिरस्मदभिमुखी आववृत्यादिति संबन्धः। हे सोम, आदित्येभ्यो देवेभ्यस्त्वां दध्ना मिश्रयामीति शेषः ॥ ४ ॥

पञ्चमी।
विव॑स्वन्नादित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व ।
श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नु॒तः ।
पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृ॒हे ।। ५ ।।
उ० उपांशुसवनेन ग्रहं विमिश्रयति । विवस्वन्नादित्य । तमांसि विवासयतीति विवस्वान् आदित्य उच्यते । हे विवस्वन् आदित्य, एष ते सोमपीथः एतत्तव सोमपानम् तस्मिन्मत्स्व । 'मद तृप्तौ' तृप्तिं कुरु , क्षिप्तमाशिरं सोमे अवेक्षते पत्नी । श्रदस्मै नरः। जगती आशीर्यजमानपत्नीविषया । श्रदिति सत्यनामसु पठितम् । श्रद्दधातन श्रद्दधानान्कुरुत 'नेत्यनर्थका उपजना भवन्ति' इति नकारोऽनर्थकः । श्रद्धां कुरुत अस्मै वर्चसे हे नरः ऋत्विग्यजमानाः। यत् किमित्यत आह । आशीर्दा आशिषो दातारः। दम्पती पत्नीयजमानौ । वामं वननीयम् । अश्नुतः व्याप्नुतः यज्ञफलम् । किंच इहैव पुमान् पुत्रो जायते । दुहितापि पुत्रशब्देनोच्यत इत्यतः पुमानिति विशेष्यते । किंच विन्दते वसु लभते धनम् । अधा अथेत्येतौ छन्दसि समानार्थौ । विश्वाहा सर्वदा । अरपः । रिपो रिप्रमिति पापनामनी भवतः' । अपापः सन् एधते वर्धते गृह एवावस्थितः ॥ ५॥
म० 'उपाᳪं᳭ शुसवनेन मिश्रयति विवस्वन्नादित्येति' ( का० १०। ४ । ७) पाषाणेन दधि सोमं च मिश्रयेत् । आदित्यदैवत्यम् । तमांसि विवासयति नाशयतीति विवस्वान् । यद्वा विशिष्टं वसु धनमस्येति विवस्वान् । मतौ टिलोपश्छान्दसः। तत्संबोधनं हे विवस्वन् हे आदित्य, एष पात्रस्थस्ते तव सोमपीथः पातुं योग्यः पीथः पीथश्चासौ सोमश्च सोमपीथः पातव्यः सोमः। आहिताग्न्यादित्वात्पीथशब्दस्य परत्वम् तस्मिन्पातव्ये सोमे त्वं मत्स्व 'मद तृप्तौ तृप्तिं कुरु । 'बहुलं छन्दसि' (पा० २ । ४।७३) इत्यदादित्वाच्छपो लुक् । 'श्रदस्मै नर इत्येनमवेक्षते पत्नीति' (का० १० । ५। ४) पत्न्येनं पूतभृतं पश्येत् । आशीर्दैवत्या जगती नरदेवत्या वा द्वादशाक्षरचतुःपादा जगती । पत्नी वदति । हे नरो नेतारः ऋलिग्यजमानाः, आशीर्दा आशिषो ददति ते आशीर्दाः । सुब्लोपश्छान्दसः । आशिषः दातारो यूयमस्मै वचसे आशीर्वचनाय श्रद्दधातन । श्रदिति सत्यनामसु पठितम् । 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) इति मध्यमबहुवचनस्य तनादेशः । श्रद्धां कुरुत । आस्तिक्यबुद्धिं कुरुतेत्यर्थः । मदुक्तमाशीर्वचनं भवद्भिः श्रद्धया धारितं तथैव स्यादिति भावः । किं तदाशीर्वचनमत आह । यत् दम्पती जायापती पत्नीयजमानौ वामं वननीयं संभजनीयं यज्ञफलमश्नुतः प्राप्नुतः। किंच। इहैव पुमान्पुंस्त्वधर्मसंपन्नः पुत्रः जायते। किंच स च पुत्रो वसु धनं विन्दते लभते । अध अथेत्यर्थः । 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति संहितायां दीर्घः । अथानन्तरं विश्वाहा विश्वानि च तान्यहानि च विश्वाहा । 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया। 'राजाहःसखिभ्यष्टच्' (पा० ५ । ४ । ९१) इति प्राप्तस्य टच्प्रत्ययस्य वैकल्पिकत्वाच्छान्दसो वाभावः । अनन्तरं धने लब्धे सति विश्वाहा सर्वदा अरपः पापरहितः सन् गृहे स्वसदने एधते वर्धते । नास्ति रपो यस्यासावरपः। 'रपो रिप्रमिति पापनामनी भवतः' (निरु० ४ । २१) इति यास्कः । आशीर्दा आशिषो दातारौ इति दम्पतीविशेषणं वा । विभक्तेराकारः । दम्पती यज्ञफलं प्राप्नुताम् तयोः पुत्रो जायताम् स च धनं लब्ध्वा निष्पापः स्वगृहे वर्धतामिति आशीर्वचने श्रद्धां कुरुतेति सर्वार्थः ॥ ५॥

षष्ठी
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वे दि॑वे वा॒मम॒स्मभ्य॑ᳪं᳭ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑: स्याम ।। ६ ।।
उ० सावित्रं गृह्णाति । वाममद्य । सावित्री त्रिष्टुप् । हे सवितः, वामं वननीयम् अद्य अस्मिन् अद्य सावीरिति संबन्धः । वाममु श्वः । वामं च उपाशंसनीये काले सावीः 'श्व उपांशुशंसनीयः कालः' इति हि यास्क आह । किंवा बहुनोक्तेन दिवेदिवे वाममस्मभ्यं सावीः । अहन्यहनि वाममस्माकं प्रसूयाः । किंच वामस्य हि क्षयस्य देवभूरेः । क्षयशब्दो निवासवचन आद्युदात्तत्वात् । 'क्षयो निवासे' इति हि पाणिनिराद्युदात्तत्वं स्मरति । वामस्य च निवासस्य हे देव दानादिगुणयुक्त, भूरेर्बहुनो धनपूर्णस्य दाता भवेति शेषः। अनया धिया । धीरिति कर्मनाम । अनेन च सोमाख्येन कर्मणा वामभाजः अभिलषितभाजिनो वयं संभवेम ॥ ६॥
म० 'भक्षयित्वेडामुपाᳪं᳭ श्वन्तर्यामपात्रयोरन्यतरेण सावित्रग्रहणं वाममद्येति' ( का० १० । ५। १३ ) । सवनीयपुरोडाशेडां भक्षयित्वा सवनीयसंबन्धि कर्म समाप्य उपांश्वन्तर्यामयोरन्यतरेण सावित्रं गृह्णाति । कण्डिकाद्वयात्मको मन्त्रः । सवितृदेवत्या त्रिष्टुब् भरद्वाजदृष्टा । हे सवितः, सर्वस्य प्रेरयितर्देव, अद्यास्मिन्दिने अस्मभ्यमस्मदर्थे वामं वननीयं कर्मफलं सावीः प्रेरय देहीत्यर्थः । 'षू प्रेरणे' लुङ् अडभावश्छान्दसः । वाममु श्वः । उ अप्यर्थे । श्वोऽपि समनन्तरदिनेsपि वामं सावीः । दिवेदिवे तत ऊर्ध्वं दिनेदिनेऽस्मभ्यं वामं सावीः । हि यस्मात् अया अनया । नलोपश्छान्दसः । धिया श्रद्धायुक्तया बुद्ध्या वयं वामभाजः स्याम भवेम । वामं वननीयं यज्ञकर्म भजन्ति वामभाजः यज्ञानुष्ठातारो भवेम । किमर्थम् । वामस्य संभजनीयस्य भूरेः विस्तीर्णस्य बहुकालीनस्य क्षयस्य स्वर्गनिवासस्य सिद्धय इति शेषः । 'क्षयो निवासे' इत्याद्युदात्तत्वात् क्षयशब्दो निवासार्थः । दिवेदिवे इत्यह्नो नामसु पठितम् । यद्वोत्तरार्धस्यायमर्थः । हे देव, वामस्य वननीयस्य भूरेः धनपूर्णस्य क्षयस्य निवासस्य दाता भवेति शेषः । धीरिति कर्मनाम । अनया धिया सोमाख्येन कर्मणा वयं वामभाजोऽभिलषितभागिनो भवेम ॥ ६॥

सप्तमी।
उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॒ऽसि चनो॒धाश्च॑नो॒धा अ॑सि॒ चनो॒ मयि॑ धेहि ।
जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे ।। ७ ।।
उ० उपयामगृहीतोऽसि सावित्रोऽसि । सवितृदेवत्योऽसि चनोधाश्चनोधा असि । चन इत्यन्ननाम । 'अभ्यासे भूयांसमर्थं मन्यन्ते' । अतिशयेन चान्नस्य धारयितासि । अतः चनोऽन्नं मयि धेहि स्थापय । किंच जिन्व यज्ञम् । जिन्वतिः प्रीतिकर्मा । तर्पय यज्ञं तर्पय च यज्ञपतिं यजमानम् भगाय यज्ञफलाय । देवाय सवित्रे त्वा गृह्णामीति शेषः ॥ ७ ॥
म०. सावित्रम् । हे सोम, त्वमुपयामेन ग्रहेण गृहीतोऽसि । हे ग्रह, त्वं सावित्रः सवितृदेवत्योऽसि । चन इत्यन्ननाम । चनोऽन्नं धत्त इति चनोधाः अन्नस्य धारयिता । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १० । ४२) इति यास्कोक्तेः । यतस्त्वमत्यन्तं चनोधा असि अतश्चनोऽन्नं मयि धेहि स्थापय । किंच यज्ञं जिन्व प्रीणय । जिन्वतिः प्रीतिकर्मा । यज्ञपतिं यजमानं च जिन्व तर्पय । भगाय ऐश्वर्यादिगुणयुक्ताय सवित्रे सर्वप्राणिनां प्रसवादिकर्त्रे देवाय त्वां गृह्णामीति शेषः । भगमस्यास्तीति भगः । अर्शआदित्वादच । 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इति ॥ ७ ॥

अष्टमी।
उ॒प॒या॒मगृ॑हीतोऽसि सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नम॑: ।
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। ८ ।।
उ० वैश्वदेवं गृह्णाति । उपयामगृहीतोऽसीति व्याख्यातम् । सुशर्मासि स्वाश्रयोऽसि । सुप्रतिष्ठानः शोभनं प्रतिष्ठानं प्रतिष्ठा अस्येति सुप्रतिष्ठानः महत्साधनसंपन्नः । 'प्राणो वै सुशर्मा सुप्रतिष्ठानः' इति श्रुतिः। प्राणहेतुत्वात्प्राण इत्युच्यते । अन्नं वै ग्रहोऽन्नं वै प्राणहेतुः । यस्मात्त्वं सुशर्मासि सुप्रतिष्ठानश्च तस्मात् बृहदुक्षाय नमः महासेचनाय जगदुत्पत्तिबीजाय प्रजापतये नमो भवितुमर्हतीति शेषः । नम इत्यन्ननामसु पठितम् । 'प्रजापतिर्वै बृहदुक्षः' इति श्रुतिः । विश्वेभ्यस्त्वा देवेभ्य इति व्याख्यातम् ॥ ८॥
म० 'अभक्षितेन महावैश्वदेवग्रहणमुपयामगृहीतोऽसि सुशर्मासीति' ( का० १० । ६ । २) अभक्षितेनैव सावित्रग्रहपात्रेण पूतभृतः सकाशान्महावैश्वदेवग्रहस्य ग्रहणं करोत्यध्वर्युः। वैश्वदेवम् । हे वैश्वदेव ग्रह, त्वमुपयामेन गृहीतोऽसि । यतः सुशर्मासि शोभनं शर्म सुखमाश्रयो वा यस्य स सुशर्मा । तथा सुप्रतिष्ठानः सुष्ठु प्रतिष्ठानं पात्रे स्थितिर्यस्य तादृशोऽसि । विशेषणद्वयेन प्राणरूपोऽसीत्यर्थः । 'प्राणो वै सुशर्मा सुप्रतिष्ठानः' (४ । ४ । १ । १४) इति श्रुतेः ग्रहस्यान्नरूपवादन्नस्य च प्राणहेतुत्वाद् ग्रहस्य प्राणत्वम् । यस्मादीदृशोऽसि तस्माद् बृहदुक्षाय बृहन्महांश्चासौ उक्षा सेक्ता च बृहदुक्षः तस्मै महते सेक्त्रे जगदुत्पादयित्रे प्रजापतये नमोऽन्नं भवितुमर्हसीति शेषः । नम इत्यन्ननाम । 'प्रजापतिर्वै बृहदुक्षः ' (४।४। १ । १४) इति श्रुतेः बृहदुक्षशब्देन प्रजापतिः । विश्वेभ्यो देवेभ्योऽर्थाय त्वां गृह्णामि । सादयति एष ते व्याख्यातम् ॥ ८ ॥

नवमी।
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य देव सोम त॒ इन्दो॑रिन्द्रि॒याव॑त॒: पत्नी॑वतो॒ ग्रहाँ॑२ ऋध्यासम् ।
अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒ताऽभू॑त् ।
अ॒हᳪं᳭ सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत् ।। ९ ।।
उ० पात्नीवतं गृह्णाति उपयामगृहीतोसीति । बृहस्पतिसुतस्य ब्रह्मणाभ्यनुज्ञातस्य । हे देवसोम, ते तव इन्दोः इन्द्रियावतः वीर्यवतः पत्नीवतः पत्नीसंयुक्तस्य सतो ग्रहानन्यानुपांशुप्रभृतीन् ऋद्यासं समर्धयेयम् । प्रचरणीसंस्रवशेषेण श्रीणाति । अहं परस्ताम् । त्रिष्टुप् । प्रजापतिरूपेणात्मानं पश्यन् श्रीणाति । अहं परस्तादस्य जगतः अहं चाधस्तात् । यच्चैतदन्तरिक्षं तदु मे तदेव मे पिता पाताभूत् । अहं च सूर्यमुभयतो ददर्श । परस्तादधस्ताच्च पश्यामि । सूर्यस्य परस्तान्मम शिर इत्यभिप्रायः । यच्च देवानां परमं गुहा तदप्यहमेव ॥९॥
म० 'उपयामगृहीतोऽसि बृहस्पतिसुतस्येति प्रतिप्रस्थाता पात्नीवतं गृह्णातीति' (का० १० । ६ । १६) उपांश्वन्तर्यामपात्रयोरेकतरेण प्रतिप्रस्थाता पात्नीवतं ग्रहं गृह्णाति सोमदेवत्यम्। हे देव दीप्यमान हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि अतस्ते तव संबन्धिनोऽन्यान् ग्रहानुपांशुप्रभृतीनहमृध्यासं समर्धयेयम् । किंभूतस्य ते बृहस्पतिसुतस्य बृहतो महतो यज्ञकर्मणः पतिर्बृहस्पतिर्यजमानस्तेन सुतस्याभिषुतस्य । यद्वा बृहस्पतयो ब्राह्मणा ऋत्विजैस्तैरभिषुतस्य । तथा इन्दोः 'उन्दी क्लेदे' उनत्तीतीन्दुस्तस्य क्लेदनरूपस्य रसरूपस्येत्यर्थः । तथा इन्द्रियावतः इन्द्रियं वीर्यमस्यास्तीतीन्द्रियवान् तस्य । संहितायां दीर्घः । तथा पत्नीवतः पत्नीसंयुक्तस्य । 'प्रचरणीशेषेण श्रीणात्येनमहं परस्तादिति' ( का० १०।६।१७) प्रचरणीशिष्टेनाज्येन पात्नीवतग्रहं मिश्रयेत् । प्रजापतिरूपात्मदेवत्या त्रिष्टुप् । अत्र मन्त्रद्रष्टा स्वस्य सर्वगतपरमात्मरूपत्वमभिप्रेत्य वदति । अहं परमात्मरूपः सन् परस्तात् उपरि द्युलोकादौ तथाहमवस्तात् अधस्तनभूलोकादौ च तिष्ठामीति शेषः । यदन्तरिक्षं मध्यवर्तिलोकरूपमस्ति तदु तदेव मे देहधारिणो मम पिताभूत् पितृवत्पालकं भवति । अहं परमात्मरूपः सन्नुभयतः उपरिष्टादधस्ताच्च स्थित्वा सूर्यं ददर्श पश्यामि । देवानामिन्द्रादीनां यत्परमं गुहा अत्यन्तं गोप्ये हृदयेऽस्ति तदेवाहमस्मि ॥ ९॥
 
दशमी।
अग्ना३इ॒ पत्नी॑वन्त्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा॑ ।
प्र॒जाप॑ति॒र्वृषा॑ऽसि रेतो॒धा रेतो॒ मयि॑ धेहि प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय ।। १० ।।
उ० जुहोति । अग्ना३इ पत्नीवन् । 'एचो प्रगृह्यस्यादूराद्धूते' इति प्लुतः । हे अग्ने पत्नीसंयुक्त । सजूर्देवेन त्वष्ट्रा । समप्रीतिर्देवेन त्वष्ट्रा सोमं पिब स्वाहा पत्नी उद्गातारमवेक्षते। प्रजापतिः । त्वं प्रजापतिः वृषा च । रेतोधाः रेतसः सेक्ता धारयितासि स्वभावत एव त्वां ब्रवीमि । रेतो मयि धेहि स्थापय । प्रजापतेश्च तव वृष्णः सेक्तुः रेतोधसः रेतोधारयितुः स्वभूतं रेतोधां रेतसो धारयितारम् पुंस्पुत्रम् अशीय प्राप्नुयाम् ॥ १०॥
म० 'अग्ना ३ इ पत्नीवन्नित्युत्तरार्धे जुहोतीति पात्नीवतं ग्रहमग्नेरुत्तरभागे जुहोति' (का० १०। ६ । १६)। अग्निदैवत्यम् । ‘एचोऽप्रगृह्यस्य' (पा० ८ । २ । १०७ ) इत्यादिना अग्ने शब्दगतस्य एकारस्य आइ इत्यादेशौ आकारस्य प्लुतत्वम् । हे अग्ने, हे पत्नीवन् पत्नीयुक्त, त्वष्ट्रा देवेन सजूः समानप्रीतिः सन् सोमं पिब स्वाहा सुहुतमस्तु । 'पत्नीᳪं᳭ सदः प्रवेश्यापरेणोत्तरत उपविष्टामुद्गात्रा समीक्षयति प्रजापतिर्वृषासीति' ( का० १० । ७ । ३) नेष्टा पश्चिमद्वारेण पत्नीं सदः प्रवेश्योद्गातुरुत्तरतः स्थितामुद्गातारं पश्येति प्रेषयेत् सा च तं पश्येत् । हे उद्गातः, प्रजापतिः प्रजानां पालकस्त्वं वृषासि सेक्ता भवसि । रेतोधा रेतसो वीर्यस्य धारयिता चासि। एवंभूतस्त्वं रेतो वीर्यं मयि धेहि स्थापय । ततो वृष्णो वीर्यस्यसेक्तः रेतोधसो वीर्यस्य धारयितुः प्रजापतेस्ते तवानुग्रहात्, रेतोधां रेतसो धारयितारं प्रजोत्पादनसमर्थ पुत्रमशीय प्राप्नुयाम् । अश्नोतेर्व्यत्ययेनादादित्वं लिङ्युत्तमैकवचने ॥ १० ॥

एकादशी।
उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा । हर्यो॑र्धा॒नाः स्थ॑ स॒हसो॑मा॒ इन्द्रा॑य ।। ११ ।।
उ० हारियोजनं गृह्णाति । उपयामगृहीतोऽसि हरिरसि हरितवर्णोऽसि । हरिः सोमो हरितवर्ण इति । हारियोजनः। इन्द्राश्वौ हरितावत्र युज्यते इति हरियोजनः। हरियोजन एव हारियोजनः । स्वार्थे तद्धितः 'ऋक्सामे वै हरी' इति श्रुत्यपेक्षः । हरिभ्यां त्वा । गृह्णामीति शेषः । धाना आवपति । | हर्योर्धानास्थ हरितवर्णयोरिन्द्राश्वयोर्धाना भवथ यूयम् । | सोमेन च सहिता इन्द्राय भवथ प्राणभक्षः ॥ ११ ॥
म० 'द्रोणकलशे हारियोजनग्रहणमुपयामगृहीतोऽसि हरिरसीति' (का० १० । ८ । १) । आग्रयणादिति शेषः । ऋक्सामदेवत्यम् । हे ग्रह, त्वं हरिर्हरितवर्णोऽसि 'हरी रश्मिर्हरिः सोमो हरिर्हरितवर्णवान्' इत्यभिधानात् । उपयामेन गृहीतश्चासि। | किंभूतस्त्वम् । हारियोजनः हरी इन्द्राश्वौ योजयतीति हरियोजन इन्द्रस्तस्यायं हारियोजन इन्द्रसंबन्धी तं त्वा त्वां हरिभ्यामृक्साममन्त्राभ्यां गृह्णामीति शेषः । 'ऋक्सामे वै हरिः ऋक्सामाभ्याᳪं᳭ ह्येनं गृह्णाति' (४ । ४ । ३ । ६) इति श्रुतेः 'धानाश्चावपति हर्योर्धाना इति' (का० १०। ८ । २)। हारियोजने भ्रष्टयवान्निदध्यात् । धानादेवत्यम् । सहसोमाः । सोमेन सहिता धाना भ्रष्टयवाः, यूयमिन्द्राय इन्द्रस्य हर्योः हरितवर्णयोरश्वयोः स्थ भवथ इन्द्राश्वसंबन्धिनो यूयमित्यर्थः ॥ ११॥

द्वादशी।
यस्ते॑ अश्व॒सनि॑र्भ॒क्षो यो गो॒सनि॒स्तस्य॑ त इ॒ष्टय॑जुषः स्तु॒तसो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ।। १२ ।।
उ० यस्ते अश्वसनिः । यस्तवाश्वं सनोति संभजते भक्षः । यश्च गाः सनोति तस्य तव संबन्धिनः । इष्टयजुषः इष्टानि हि यजूंषि भवन्ति । स्तुतस्तोमस्य । अस्मिन्नेवावसरे स्तुताः म्तोमा भवन्ति । शस्तोक्थस्य । शस्तानि ह्युक्थानि भवन्ति । उपहूतस्य अभ्यनुज्ञातस्य उपहृतोऽभ्यनुज्ञातो भक्षयामि ॥ १२॥
म० 'यस्ते अश्वसनिरिति प्राणभक्षं भक्षयित्वोत्तरवेदौ निवपन्तीति' (का० १० । ८ ।'५)। सर्वर्त्विजो धाना आदाय मन्त्रेणावघ्रायोत्तरवेदौ क्षिपन्ति । भक्षद्रव्यदैवत्यम् । हे धानासहित सोम भक्षद्रव्य, यस्ते तव भक्षो भक्षणमश्वसनिः । 'षणु दाने' अश्वान्सनोतीत्यश्वसनिः अश्वानां दाता । यश्च ते भक्षो गाः सनोति गवां दाता तस्य तादृशस्य ते तव तादृशं भक्षमुपहूतोऽनुज्ञातोऽहं भक्षयामि । कीदृशस्य ते । इष्टयजुषः इष्टानि यजूंषि यस्य स इष्टयजुस्तस्य । तथा स्तुतस्तोमस्य उद्गातृभिः स्तुताः स्तोमाः स्तोत्राणि यस्य स स्तुतस्तोमस्तस्य । तथा शस्तोक्थस्य होतृभिः शस्तानि उक्थानि शस्त्राणि यस्य स शस्तोक्थस्तस्य । तथा उपहृतस्याभ्यनुज्ञातस्य तदेतानि भवन्तीत्यर्थः ॥ १२॥

त्रयोदशी।
दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॒कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्या॒त्मकृ॑तस्यैनसोऽव॒यज॑नम॒स्येन॑स एनसोऽव॒यज॑नमसि ।
यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्वस्यैन॑सोऽव॒यज॑नमसि ।। १३ ।।
उ० शकलाधानम् । देवकृतस्य देवविषयकृतस्य । एनसः पापस्य अवयजनम् । अवपूर्वो यजिर्नाशने वर्तते । नाशनं भवसि । मनुष्यविषयस्य पापस्य नाशनमसि पितृविषये कृतस्य पापस्य नाशनमसि। आत्मविषये कृतस्य पापस्यात्मनिन्दादेः नाशनमसि । एनसएनसः यावन्ति पापानि तेषां सर्वेषां नाशनमसि । यच्चान्यदप्येनः पापं विद्वान् चकार कृतवान् । यच्चाविद्वान् अजानानः तस्य सर्वस्य नाशनमसि ॥ १३॥
म० 'शाकलाधानं देवकृतस्येति प्रतिमन्त्रमिति' (का० १०। ८ । ६)। षट् षड्यूपशकलानि सर्वेऽग्नौ निदध्युः । षड्यजूंष्यग्निदेवत्यानि । हे शकल, त्वं देवकृतस्य देवविषये विहितस्य एनसो यजनाभावादिलक्षणस्य पापस्य त्वमवयजनमसि नाशकं भवसि । अवपूर्वो यजिर्नाशनार्थः । अवयजतीत्यवयजनम् । मनुष्यकृतस्य मनुष्येषु कृतस्य द्रोहनिन्दादेरेनसोऽवयजनमसि । पितृकृतस्य पितृषु कृतस्यैनसः श्राद्धाकरणादेर्नाशनमसि । आत्मविषये कृतस्य पापस्यात्मनिन्दादेर्नाशनमसि । एनसएनसः यावन्ति पापानि तावतां सर्वेषां नाशनमसि । किंच विद्वान् जानानो ज्ञानपूर्वकं यदेनः पापमहं चकार कृतवान् अविद्वान् अज्ञानपूर्वं च यदहमेनश्चकार तस्य सर्वस्यैनसः ज्ञानाज्ञानपूर्वस्य पापस्य त्वमवयजनं नाशनमसि ॥ १३ ॥

चतुर्दशी ।
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪं᳭ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ।। १४ ।।
उ० चमसानभिमृशन्ति।संवर्चसेति व्याख्यातम् ॥१४॥
म०. 'अपरेण चात्वालं यथास्वं चमसान् पूर्णपात्रानवमृशन्ति हरितकुशानवधाय सं वर्चसेति' (का० १० । ८ । ७) | पूर्णपात्रानुदकपूर्णानित्यर्थः । त्वाष्ट्री त्रिष्टुप् (अ० २ क.२४ ) व्याख्यातापि व्याख्यायते । वर्चसा ब्रह्मवर्चसेन वयं समगन्महि सङ्गता भवाम । गच्छतेर्लङि अदादित्वाच्छपो लुकि उत्तमबहुवचने 'मो नो धातोः' (पा. ८।२।६४) | इति मस्य नकारः । पयसा क्षीरादिरसेन समगन्महीत्यनुवर्तते। तनूभिरनुष्ठानक्षमैः शरीरावयवैः समगन्महि । शिवेन समीचीनेन कर्मश्रद्धायुक्तेन मनसा समगन्महि । किंच सुदत्रः शोभनदानः त्वष्टा देवो रायो धनानि विदधातु । तन्वः शरीरस्यास्मदीयस्य यद्विलिष्टं विश्लिष्टम् । 'लिश अल्पीभावे' निष्ठान्तः । | विशेषेण न्यूनमङ्गं तदनुमार्ष्टु न्यूनत्वपरिहारेणानुकूलं कृत्वा शोधयतु ॥ १४ ॥

पञ्चदशी।
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒: सᳪं᳭ सू॒रिभि॑र्मघव॒न्त्सᳪं᳭ स्व॒स्त्या ।
सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ᳪं᳭ सुम॒तौ य॒ज्ञिया॑ना॒ᳪं᳭ स्वाहा॑ ।। १५ ।।
उ० नव समिष्टयजूंषि जुहोति । समिन्द्रेण इत्याद्याः षट् त्रिष्टुभः । तत्र त्रिभिः परिधीनाप्याययति त्रिभिर्देवता व्यवसृजति । समिन्द्र णः । ऐन्द्री। समित्ययमुपसर्गो नेषीत्यनेन क्रियापदेन संबध्यते । हे भगवन्निन्द्र, संनेषि संगमयसि नः अस्मान् । मनसा संगमयसि च गोभिर्वाग्भिर्वादिभिः पशुभिः | संगमयसि च सूरिभिः पण्डितैः । हे मघवन् , संगमयसि च स्वस्त्या अविनाशेन । स्वस्तीत्यविनाशनाम । संगमयसि च ब्रह्मणा देवकृतं देवैर्दृष्टं त्रयीलक्षणम् । तदेव स्पष्टयति । यदस्ति यन्नित्यमित्यर्थः । संगमयसि च देवानां सुमतौ । | तृतीयया विपरिणामः । शोभनया मत्या । यज्ञियानां यज्ञसंपादिनाम् । यस्त्वमस्मानेवं सर्वैर्मनःप्रभृतिभिः संगमयसि तस्मै त एतद्धविः स्वाहा सुहुतमस्तु इति शेषः ॥१५॥
म० 'समिन्द्र ण इति नव समिष्टयजूᳪं᳭ षि जुहोति प्रतिमन्त्रमिति' ( का० १० । ८ । ११)। नवभिर्मन्त्रैः समिष्टयजुःसंज्ञा नवाहुतीर्जुहुयात् । तत्राद्यः विश्वदेवदेवता त्रिष्टुप् अत्रिदृष्टा । समित्युपसर्गो नेषीत्यनेन संबध्यते न इत्यस्य णत्वम् । हे मघवन्धनवन् हे इन्द्र, मनसानुग्रहयुक्तेन नोऽस्मान् त्वं संनेषि संनयसि संयोजयसि । गोभिः वाग्भिर्गवादिपशुभिर्वा संनेषि । व्यत्ययेन शपो लुकि लटि मध्यमैकवचने नेषीति रूपम् । सूरिभिः पण्डितैर्होत्रादिभिः संयोजयसि स्वस्त्या क्षेमेण च संनेषि । ब्रह्मणार्थज्ञानसहितेन वेदेन संनेषि । देवकृतं देवार्थं कृतं कर्म यदस्ति यज्ञाख्यं देवैः कृतं दृष्टं वा यत्कर्म तेन संनेषि । तथा यज्ञियानां यज्ञसंबन्धिनां देवानां सुमतौ । सुमत्यानुग्रहबुद्ध्या संयोजयसि । 'सुपां सुपो भवन्ति' (पा. ७।१।३९) इति तृतीयार्थे सप्तमी। यस्त्वमस्मानेवं मनआदिभिः संयोजयसि तस्मै स्वाहा एतद्धविः सुहुतमस्तु ॥ १५ ॥

षोडशी।
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪं᳭ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ।। १६ ।।
उ० संवर्चसा पयसा । व्याख्यातम् ॥ १६ ॥
म० अथ द्वितीयः । त्वाष्ट्री त्रिष्टुप् प्रजापतिदृष्टा व्याख्याता [क० १४ ] ॥ १६ ॥

सप्तदशी।
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः ।
त्वष्टा॒ विष्णु॑: प्र॒जया॑ सᳪं᳭ ररा॒णा यज॑मानाय॒ द्रवि॑णं दधात॒ स्वाहा॑ ।। १७ ।।
उ० धाता रातिः । षट् देवता अस्यामृचि । धाता सविता प्रजापतिः अग्निः त्वष्टा विष्णुः एते षट् निधिपा देवाः । इदं समिष्टयजुर्लक्षणं रातिर्दानम् जुषन्तां सेवन्ताम् । जुषित्वा च प्रजया रराणाः यजमानसंबन्धिन्या प्रजया संरममाणाः । यजमानाय एतद्द्रविणं । दधातेति प्रथमपुरुषस्य स्थाने मध्यमपुरुषश्छान्दसः। दधतु स्थापयन्तु । एवं तावदस्य मन्त्रस्य सम्यग्योजना प्रतिभाति ॥ १७ ॥
म० अथ तृतीयः । धातृसवितृप्रजापतिदेवाग्नित्वष्टृविष्णुदेवत्या त्रिष्टुप् । धाता सविता प्रजापतिः अग्निः त्वष्टा विष्णुः एते षट् देवा इदमस्मद्धविः समिष्टयजुर्लक्षणं जुषन्तां सेवन्ताम्। किंभूतो धाता। रातिः राति प्रयच्छतीति रातिः दानशीलः । 'क्तिच्क्तौ च संज्ञायाम्' (पा० ३।३। १७४) इति कर्तरि क्तिच्प्रत्ययः चित्त्वादन्तोदात्तः। किंभूतः प्रजापतिः । निधिपाः निधीन्पातीति निधिपाः महापद्मशङ्खपद्मादिनिधीनां नवानां पालयिता । किंभूतोऽग्निः । देवः दीप्यमानः किंच ते एते देवाः प्रजया यजमानसंबन्धिन्या सन्तत्या सह संरराणाः सम्यग्रममाणाः सन्तः यजमानाय द्रविणं धनं दधात दधतु ददतु । व्यत्ययेन प्रथमपुरुषस्थाने मध्यमः पुरुषः 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) इति तबादेशस्तस्य, तेनालोपाभावः । स्वाहा एतेभ्यः सुहुतमस्तु ॥ १७ ॥

अष्टादशी।
सु॒गा वो॑ देवा॒: सद॑ना अकर्म॒ य आ॑ज॒ग्मेदᳪं᳭ सव॑नं जुषा॒णाः ।
भर॑माणा॒ वह॑माना ह॒वीᳪं᳭ ष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि॒ स्वाहा॑ ।। १८ ।।
उ० सुगा वः । हे देवाः सुगमनीयानि वो युष्माकं सदनानि स्थानानि अकर्म कृतवन्तो वयं ये यूयमाजग्म आगताः । सवनमिदं जुषाणाः यज्ञमेतं सेवमानाः । अथेदानीं परिसमाप्ते यज्ञे । भरमाणा वहमाना हवींषि । ये तु रथिनः ते रथेषु भरमाणा वहमाना हवींषि । ये तु अरथिनस्ते स्कन्धावसक्तिकासु हवींषि वहमानाः । अस्मे धत्त वसवो वसूनि । अस्मासु दत्त हे वसवो वासयितारः, , वसूनि धनानि ॥ १८॥ ...
म० अथ चतुर्थः । देवदेवत्या त्रिष्टुप् तुर्यः पादो दशार्णः । हे देवाः, ये यूयमिदं सवनं यज्ञं जुषाणाः सेवमानाः सन्तः . आजग्म आगताः । गमेर्लिटि मध्यमबहुवचनम् । तेषां वो युप्माकं सदना सदनानि स्थानानि सुगा सुगानि सुखेन गम्यते येषु तानि सुगानि सुगमनीयानि वयमकर्म अकार्ष्म कृतवन्तः। 'सदुरोरधिकरणे' (पा० ३ । २ । ४८) इति सुउपसर्गे गमेर्डप्रत्यये सुगेति रूपं विभक्तेराकारः । करोतेश्चिललोपे लुङि उत्तमबहुवचने अकर्मेति रूपम् । किंच हे वसवः वासयन्तीति वसवो वासयितारो विवासहेतवो देवाः । अस्मै अस्मासु यूयं वसूनि धनानि धत्त स्थापयत । किंभूता यूयं यज्ञसमाप्तौ हवींषि भरमाणा ये रथिनस्ते तु रथेषु बिभ्रतः रथहीना वहमानाः स्कन्धेषु हवींषि वहन्तः । यद्वा भरमाणाः पुष्णन्तः वहमानाः रथादिभिर्नयन्तः तेभ्यो युष्मभ्यं स्वाहा सुहुतमस्तु ॥ १८ ॥

एकोनविंशी।
याँ२ आऽव॑ह उश॒तो दे॑व दे॒वाँस्तान् प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ ।
ज॒क्षि॒वाᳪं᳭ स॑: पपि॒वाᳪं᳭ स॑श्च॒ विश्वेऽसुं॑ घ॒र्मᳪं᳭ स्व॒राति॑ष्ठ॒तानु॒ स्वाहा॑ ।। १९ ।।
उ० याँ आवहः । हे भगवन्नग्ने, यान् आवहः आहूतवानसि । उशतः कामयमानान् हे देव, देवान् तान् प्रेरय अनुव्रज्यादिभिः । स्वे स्वकीये सधस्थे सहस्थाने गृहे । किमुक्त्वा प्रेरयेतिचेदत आह । ये यूयं जक्षिवांसः पशून् पुरोडाशं च । पपिवांसश्च सोमम् । विश्वे सर्वे ते इदानीं परिसमाप्ते यज्ञे असुं घर्मं स्वरातिष्ठतानु । 'अनुर्लक्षणे' इति कर्मप्रवचनीयसंज्ञा । असुं प्राणवातमन्वातिष्ठत । घर्मं चादित्यमन्वातिष्ठत । स्वर्द्युलोकमन्वातिष्ठत । यस्य यत्र गृहा इत्यभिप्रायः ॥ १९॥
म० अथ पञ्चमो मन्त्रः । आग्नेयी त्रिष्टुप् । इदानीं देवान् विसृजति । हे अग्ने, हे देव दीप्यमान, उशतो हवींषि कामयमानान् यान्देवान् त्वमावहः आहूतवानसि तान् देवान् स्वे स्वकीये सधस्थे सहनिवासस्थाने प्रेरय प्रस्थापय सह तिष्ठन्ति यस्मिन् तत्सधस्थम् 'सधमादस्थयोश्छन्दसि' (पा० ६ । ३ : ९६) इति स्थे परे सहस्य सधादेशः । किमुक्त्वा प्रेरयामीति चेत् अत आह । हे देवाः, विश्वे सर्वे यूयं जक्षिवांसः 'घस्लृ अदने' 'क्वसुश्च' (पा० ३ । २ । १०७) इति क्वसुः । 'वस्वेकाजाद्धसाम्' (पा० ७।२।६७) इतीट् । सवनीयपशुपुरोडाशान् भक्षितवन्तः । तथा पपिवांसः सोमपानं कृतवन्तश्चेदानीं यज्ञसमाप्तौ असुं हिरण्यगर्भप्राणलक्षणं वायुं वायुमण्डलमित्यर्थः । घर्ममादित्यमण्डलं वा स्वः द्युलोकं वा अन्वातिष्ठत आश्रयत । यस्य यस्य यत्र गृहाः सन्ति तांस्तानन्वातिष्ठतेत्यर्थः । 'छन्दसि परेऽपि' (पा. १ । ४ । ८१) इति अनोः क्रियापदात्परत्वम् । स्वाहा सुहुतमस्तु हविः ॥ १९ ॥

विंशी।
व॒यᳪं᳭ हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्न॑ग्ने॒ होता॑र॒मवृ॑णीमही॒ह ।
ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन् य॒ज्ञमुप॑ याहि वि॒द्वान्त्स्वाहा॑ ।। २० ।।
उ० वयᳪं᳭ हि त्वा । अग्निं व्यवसृजति । वयमेव त्वां प्रयति प्रगच्छति प्रारभ्यमाणे यज्ञे अस्मिन् हे अग्ने । होतारमवृणीमहि वृतवन्तः । इह मन्त्रे अग्निर्देवो होतेति । त्वं च वृतः सन् ऋधगयाः । ऋध्नोतेः पूर्वं पदं, यजतेरुत्तरं पदम् । ऋध्नुवन्नयाक्षीः समर्धयन्निष्टवानसि । किंच ऋधगुताशमिष्ठाः । उत अपि च ऋध्नुवन्नेव यज्ञप्रायश्चित्तं शमितवानसि । इदानीं प्रजानन्यज्ञपरिसमाप्तिं गृहमुपयाहि । विद्वान् जानानः स्वमधिकारम् ॥ २० ॥
म० अथ षष्ठः । आग्नेयी त्रिष्टुप् इदानीमग्निं विसृजति । हे अग्ने, हि यस्मात्कारणादिहास्मिन् दिने स्थाने वा अस्मिन् । यज्ञे प्रयति प्रवर्तमाने सति होतारं देवानामाह्वातारं होमनिष्पादकं वा त्वा त्वां वयमवृणीमहि वृतवन्तः । 'अग्निर्वै दैव्यो होते ति श्रुतेः तस्मात्कारणाद्धृतस्त्वमृधक् समृद्धं यथा भवति तथा अयाः । यद्वा ऋध्नोतीति ऋधक् ऋध्नुवन् यज्ञं समर्धयन्सन् अयाः अयाक्षीः इष्टवानसि । यज्ञं कारितवानसीत्यर्थः । यजतेश्र्लिलोपे यकारस्य छान्दसं रुत्वम् । उतापि च ऋधक् ऋध्नुवन्नेव अशमिष्ठाः यज्ञप्रायश्चित्तं शमितवानसि विघ्नशान्तिं वा अकार्षीः स त्वमिदानीं यज्ञं प्रजानन् यज्ञं समाप्तमवगच्छन् । उपयाहि स्वगृहं गच्छ । किंभूतस्त्वम् विद्वान्पण्डितः स्वाधिकारं जानन्नित्यर्थः । स्वाहा तुभ्यं सुहुतमस्तु ॥ २० ॥

एकविंशी।
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪं᳭ स्वाहा॒ वाते॑ धाः ।। २१ ।।
उ० देवागातुविद इति व्याख्यातम् ॥ २१ ॥
म० अथ सप्तमः । वातदेवत्या विराट् मनसस्पतिदृष्टा व्याख्यातापि ( अध्या० २ क. २१) उच्यते । 'कै गै शब्दे' गीयते नानाविधैर्वैदिकशब्दैः प्रतिपाद्यत इति गातुर्यज्ञस्तं विदन्ति जानन्तीति गातुविदः तादृशा हे देवाः, गातुं वित्त्वा अस्मदीयो यज्ञः प्रवृत्त इति विदित्वा गातुमित यज्ञं गच्छत । यद्वा गातुं वित्त्वा यज्ञं समाप्तं विदित्वा गातुमित । 'गाङ् गतौ' गायते गम्यते यत्र स गातुर्मार्गस्तं गच्छत यज्ञं समाप्तं मत्वा यज्ञेन तुष्टाः सन्तः स्वकीयं मार्गं गच्छत । एवं देवानुक्त्वा प्रजापतिमाह । हे मनसस्पते, अस्मदीयस्य मनसो यष्टुं प्रेरणेन पालक परमेश्वर हे देव, इममनुष्ठितं यज्ञं स्वाहा त्वद्धस्ते दधामि त्वं च वाते धाः वायुरूपे देवे यज्ञं धेहि स्थापय ॥२१॥

द्वाविंशी।
यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञपतिं॑ गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ ।
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाक॒: सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑ ।। २२ ।।
उ० यज्ञं विसृजति । यज्ञ यज्ञं गच्छ । हे यज्ञ, यज्ञमेव त्वं गच्छ । नहि त्वत्तोऽन्यदस्ति सर्वात्मा हि त्वमित्यभिप्रायः । यज्ञपतिं यजमानं गच्छ स्वां च योनिं गच्छ। द्रव्यं देवता हि यज्ञस्य स्वा योनिः । एष ते यज्ञः । अयं तव शरीरभूतो यज्ञः संस्कृतः ऋत्विग्भिः । हे यज्ञपते, सह सूक्तवाकः साङ्गः सर्वशरीरः सर्वैरिरुपेतः । सोमः पशुः सवनीयाश्च पुरोडाशा वीरा उच्यन्ते । तं च जुषस्व आसेवस्व ॥ २२ ॥
म० अथाष्टमः । यज्ञदैवतं यजुः । यज्ञं विसृजति । हे यज्ञ, त्वं यज्ञं गच्छ स्वप्रतिष्ठार्थं यज्ञनामकं विष्णुं गच्छ । यज्ञपतिं यजमानं गच्छ । फलप्रदानेन यजमानं प्राप्नुहीत्यर्थः। स्वां योनिं गच्छ । स्वनिष्पत्त्यर्थं स्वां योनिं स्वकारणभूतां वायोः क्रियाशक्तिं गच्छ । द्रव्यं देवता च यज्ञस्य योनिः सर्वात्मा त्वमिति भावः । स्वाहा सुहुतमस्तु । अथ नवमः समिष्टयजुर्मन्त्रः । यज्ञपतिदैवतम् । हे यज्ञपते यजमान, एषोऽनुष्ठीयमानो यज्ञस्ते तव त्वदीयोऽस्ति । कीदृशः सहसूक्तवाकः
सूक्तवाकैः स्तोत्रैः सहितः । तथा सर्ववीरः सर्वे वीरा यस्मिन् स तथा सोमः पशुः । सवनीयचरुपुरोडाशा वीरा उच्यन्ते तैः सहितः य ईदृशस्तं यज्ञं जुषस्व फलभोगेन सेवस्व । स्वाहा सुहुतमस्तु ॥ २२॥

त्रयोविंशी।
माहि॑र्भू॒र्मा पृदा॑कुः । उ॒रुᳪं᳭ हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ।
नमो॒ वरु॑णाया॒धिष्ठि॑तो॒ वरु॑णस्य॒ पाश॑: ।। २३ ।।
(अभिष्ठितो – पाठभेदः)
उ० कृष्णविषाणमेखले चात्वाले प्रास्यति । माहिर्भूः । व्याख्यातम् । अपोऽवक्रमयन्वाचयति । उरुᳪं᳭ हि । वारुणी त्रिष्टुप् । एकं तावद् उरुं विस्तीर्णं हि अतिशयेन राजा वरुणः चकार कृतवान् । सूर्याय । षष्ठ्यर्थे चतुर्थी । सूर्यस्य पन्थानम्। अन्वेतवा उ अन्वेतवान् अन्वहमागमनाय । अपरम् । अपदे पादा प्रतिधातवेऽकः । यत्र पदं दत्तं प्रतिमुद्रान्यायेन नोपलक्ष्यते तस्मिन् पदे पथि अन्तरिक्षलोके पादा पादानाम् । षष्ठीबहुवचनस्थाने आकारः । प्रतिधातवे प्रतिनिधाय अकः । कृतवान् आलम्बनमिति शेषः । सूर्यस्यैव । उतापवक्ता हृदयाविधश्चित् । उत अपिच । अपवक्ता अपवदिता आक्षेप्ता हृदयाविधश्चित् । चिच्छब्दोप्यर्थे । हृदयं यो विध्यति मर्माण्युच्चार्योच्चार्य पिशुनः तस्याप्यपवदिता किमुतान्येषामत्युक्तकारिणामिति । य इत्थंभूतो वरुणः सोऽवभृथाय तीर्थं ददात्विति शेषः । अपोवक्रमयन्वाचयति नमो वरुणाय । अधिष्ठितः आक्रान्तः वरुणस्य पाशो नालं बन्धनाय ॥२३॥
म०. 'कृष्णविषाणमेखले चात्वाले प्रास्यति माहिर्भूरिति' ( का० १० । ८ । १३) । यजमानहस्तस्थं मृगशृङ्गं मध्ये बद्ध्वा मेखला चेत्युभे विस्रस्य चात्वाले क्षिपेत् । रज्जुदेवत्यम् । हे रज्जो, त्वमहिः सर्पो मा भूः । पृदाकुः अजगरः सर्पविशेषः सोऽपि मा भूः । 'उरुᳪं᳭ हीति वाचयतीति' ( का. १०। ८ । १५)। अवभृथाय जिगमिषुरध्वर्युश्चात्वालसमीपस्थं प्राङ्मुखं यजमानं वाचयेत् । वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । उशब्दोऽवधारणे । वरुण एव राजा सूर्याय अन्वेतवे । षष्ठ्यर्थे चतुर्थी । सूर्यस्यान्वेतुमनुक्रमेणान्वहं गन्तुं हि यम्मात् उरुं विस्तीर्णं पन्थां पन्थानं मार्गं चकार । क्व अपदे नास्ति पदं यस्मिन् यत्र दत्तं पदं प्रतिमुद्रितं न भवति तस्मिन्नन्तरिक्षे मार्गं कृतवानित्यर्थः । तम्मादस्माकमपि अपदे अन्तरिक्षे पादा प्रतिधातवे पादौ निक्षेप्तुं । विभक्तेराकारः । मार्ग कः करोतु । स्वर्गगमनाय मार्ग करोत्वित्यर्थः । करोतेरदादित्वेन लङि शपो लुक् अडभाव आर्षः । किंच यो वरुणः उतापिच हृदयाविधश्चिदपवक्ता हृदयं विध्यति मर्मोच्चारणेन पीडयति हृदयवित् 'नहिवृतिवृषि-' (पा० ६ । ३ । ११६ ) इत्यादिना क्विबन्ते व्यधौ परे हृदयस्य दीर्घः । तस्य हृदयाविधः पिशुनस्यापि अपवदिता चिच्छब्दोऽप्यर्थे । निन्दकस्यापि तिरस्कर्ता किमुतान्येषां पापकारिणामित्यर्थः । ईदृशो वरुणोऽवभृथाय मार्गं ददात्वित्यर्थः । अन्वेतवै प्रतिधातवे। अनुपूर्वादिणः प्रतिपूर्वाद्दधातेश्च 'तुमर्थे सेसे-' (पा० ३।४।९) इत्यादिना क्रमात्तवैतवेप्रत्ययौ 'नमो वरुणायेति वाचयत्यपोऽवक्रमयन्निति' ( का० १० । ८ । २१)। अवभृथस्नानार्थमपः प्रवेशयन्यजमानं वाचयेत् । वारुणं यजुः । वरुणस्य पाशोऽधिष्ठितः आक्रान्तस्तस्मान्न बन्धनक्षमस्तस्मै वरुणाय नमो नमस्कारोऽस्त्विति शेषः ॥ २३ ॥

चतुर्विंशी।
अ॒ग्नेरनी॑कम॒प आ वि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्य॒म् ।
दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑ ।। २४ ।।
उ० समिधं प्रास्याभिजुहोति । अग्नेरनीकम् । आग्नेयी त्रिष्टुप् । अग्नेरनीकमिति परोक्षलिङ्गम् । दमेदमे समिधं यक्ष्यग्ने प्रत्यक्षं लिङ्गमेकस्मिन्वाक्ये । अत एवं व्याख्यायते । यस्य तवाग्नेः सतः अनीकं मुखम् । अप उदकमाविवेश प्रविवेश प्रविष्टम् अपान्नपात्संज्ञकम् । प्रति रक्षन् असुर्यम् असुरस्य स्वं मायादिकम् । स त्वमिदानीं दमेदमे । दम इति गृहनाम । यज्ञगृहे यज्ञगृहे । अश्वमेधविषया वीप्सा । तत्र हि नानावभृथान्यहानि भवन्ति । समिधं यक्षि यज । यजतिः संगतिकरणार्थः । समिधं संगतां कुरु आत्मसात्कुरु । ' ततोऽनन्तरं घृतं प्रति ते तव जिह्वा ज्वाला उच्चरण्यत् । उच्चरन्तु समिधः सकाशात् ॥ २४ ॥
म० 'प्रास्य समिधं चतुर्गृहीतेनाभिजुहोति अग्नेरनीकमिति' (का० १० । ८ । २२)। अप्सु समिधं प्रक्षिप्य चतुर्ग्रहीतेनाज्येन तदुपरि जुहुयात् । अग्निदेवत्या त्रिष्टुप् । अग्नेरनीकमिति परोक्षलिङ्गं, समिधं यक्ष्यग्न इति प्रत्यक्षलिङ्गमेकस्मिन्वाक्ये त्वसङ्गतमतो यच्छब्दाध्याहारेण योज्यम् । हे अग्ने, यस्य तवाग्नेः अङ्गनशीलस्य सतोऽपान्नपात्संज्ञकमनीकं मुखमप उदकान्याविवेश आभिमुख्येन प्रविवेश हे अग्ने, स त्वं दमेदमे तत्तद्यज्ञगृहे असुर्यमसुरैः कृतं यज्ञविघ्नं प्रतिरक्षन्निवर्तयन्सन् समिधं समिन्धनसाधनं घृतं यक्षि यज सङ्गतं कुरु । यजतिः सङ्गतिकरणार्थः शपो लुकि लटि रूपम् । घृतमात्मसङ्गतं कुर्वित्यर्थः। ततोऽनन्तरं ते तव जिह्वा ज्वाला घृतं प्रति उच्चरण्यत् उच्चरतु उद्युक्तास्तु । । स्वाहा सुहुतमस्तु । दमेदमे इति वीप्साश्वमेधविषया। तत्र हि नानावभृथान्यहानि भवन्ति । उत्पूर्वाच्चरतेर्लोडर्थे न्यत्प्रत्यय औणादिकः ॥ २४ ॥

पञ्चविंशी।
स॒मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: । य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत्स्वाहा॑ ।। २५ ।।
उ० ऋजीषकुम्भं प्लावयति । समुद्रे ते । सौमी विराट् । यदित्ययं निपातो हृदयशब्देन सह संबध्यते समानलिङ्गत्वात्। यद्धृदयं समुद्रे ते तव अप्सु अन्तः अपां च अन्तर्मध्ये वर्तते तत्र त्वां गमयामि। तत्रस्थं च त्वां संविशन्तु ओषधीः । उत अपि च आपः । किंच यज्ञस्य च सूक्तोक्तौ शोभनवचनोच्चारणे नमोवाके नमस्कारवचने च विधेम । विधतिः स्थापनार्थः । हे यज्ञपते सोम ॥ २५॥
म० 'समुद्रे त इति ऋजीषकुम्भं प्लावयतीति' ( का० १० । ९।१)। गतसारः सोम ऋजीषस्तेन पूर्ण कुम्भमप्सु क्षिपेत् । सोमदेवत्या विराट दशाक्षरचतुःपादा । अन्ते वर्तमानो यच्छब्दो हृदयेन संबध्यते । हे सोम, यत्ते तव हृदयं समुद्रे अप्सु समुद्रसमानासु अप्सु बहुलोदकेषु अन्तर्मध्ये तिष्ठते वर्तत इति वा शेषः । तत्र त्वां गमयामीति शेषः । तत्रस्थं त्वा त्वामोषधीरोषधयः संविशन्तु । उत अपि च आपो जलानि त्वां संविशन्तु। : किंच हे यज्ञपते, यज्ञस्य पालक सोम, यज्ञस्य सूक्तोक्तौ शोभनवचनोच्चारणे नमोवाके नमसो वाके नमस्कारवचने च त्वा त्वां विधेम स्थापयामः । विधतिः स्थापनार्थः । स्वाहा सुहुतमस्तु ॥ २ ॥

षड्डिशी।
देवी॑राप ए॒ष वो॒ गर्भ॒स्तᳪं᳭ सुप्री॑त॒ᳪं᳭ सुभृ॑तं बिभृत । देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छं च॒ वक्ष्व॒ परि॑ च॒ वक्ष्व॑ ।। २६ ।।
उ० विसृज्योपतिष्ठते । देवीरापः । पङ्क्तिर्वा बृहती वा। अपां च सोमस्य च संगतिं वदति । हे देव्य आपः, एष सोमो वः युष्माकं गर्भो वर्तते । तं सुप्रीतं साधुतर्पितम् । सुभृतं सुपुष्टम् बिभृत धारयत । हे देव सोम, एष ते लोकः स्थानं तस्मिन्नवस्थितः शं च वक्ष्व परि च वक्ष्व शं सुखमस्मान् प्रति वह प्रापय । परिवह च अस्मत्तः सर्वा आर्तीः। तस्मिन्नः शं चैधि । सर्वाभ्यश्च न आर्तिभ्यो गोपायेति श्रुतिः ॥२६॥
म०. 'देवीराप इति विसृज्योपतिष्ठत इति' ( का० १० । ९।२)। ऋजीषकुम्भं मुक्त्वोपस्थानं कुर्यात् । अष्टत्रिंशदक्षरत्वात्पङ्क्तिर्बृहती वा । पूर्वार्धमब्देवतमुत्तरार्ध सोमदेवतम् । हे देवीर्देव्यः हे आपः, वो युष्माकमेष सोमो गर्भस्थानीयः तं तादृशं सोमं यूयं बिभृत धारयत । किंभूतं तम् । सुप्रीतं शोभनप्रीतियुक्तं साधुतर्पितं वा तथा सुभृतं सुपुष्टम् । इदानीं सोमं वदति । हे सोम, हे देव दीप्यमान, ते तव एष जललक्षणो लोकः स्थानं तस्मिन्नवस्थितः सन् त्वं शं वक्ष्व वह शं सुखमस्मान्प्रति प्रापय परिवक्ष्व च परिवह निवर्तय अस्मत्तः सर्वा आर्तीरिति शेषः। तस्मिन्नः शं चैधि सर्वाभ्यश्च न आर्तिभ्यो गोपाय' (४।४।५।२१) वहतेर्लोट् मध्यमैकवचने तङि शपि लुप्ते रूपं वक्ष्वेति ॥ २६ ॥

सप्तविंशी।
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ देवैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि । दे॒वाना॑ᳪं᳭ स॒मिद॑सि ।। २७ ।।
उ० मज्जति । अवभृथेति । व्याख्यातम् । समिधमादधाति । देवानाम् दैवीभूतानामस्माकं समिन्धनं त्वं भवसि ॥ २७ ॥
म० 'अवभृथेति मज्जयतीति' ( का० १० । ९ । ३)। ऋजीषकुम्भं जले प्रवेशयेत् । यज्ञदैवतम् । अवाचीनानि पात्राणि जलमध्ये भ्रियन्ते यस्मिन्यज्ञविशेषे सोऽवभृथः तत्संबोधनं हे अवभृथ, त्वं निचुम्पुण नितरां मन्दं गच्छ । 'चुपि मन्दायां गतौ' इति धातोः। यद्यपि त्वं निचेरुरसि नितरां चरणशीलोऽसि तथाप्यत्र निचुम्पुण नितरां मन्दं गच्छ । किं प्रयोजनमिति चेत् उच्यते । देवैर्द्योतनात्मकैरस्मदीयैरिन्द्रियैर्देवकृतं देवेषु हविःस्वामिषु कृतमेनः पापं यदस्ति तदवयासिषं जले अवनीतवानस्मि । 'देवः सुरे धने राज्ञि देवमाख्यातमिन्द्रिय'मित्यभिधानात् । तथा मत्यैर्मनुष्यैरस्मत्सहायभूतैर्ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञारूपं यदेनोऽस्ति तदप्यहमवायासिषमित्यनुवर्तते । इदमस्माभिः परित्यक्तमेनो यथा त्वां न प्राप्नोति तथा हे यज्ञ, मन्दं गच्छेति भावः। किंच हे देवावभृथाख्य यज्ञ, रिषः वधात्पाहि अस्मान्पालय । "रिष वधे' क्विप् । किंभूताद्रिषः । पुरुराव्णः पुरु बहु विरुद्धं फलं राति ददातीति पुरुरावा । ‘रा दाने' 'आतो मनिन्-' ( पा० ३ । २ । ७४ ) इत्यादिना वनिप् । विरुद्धफलदायी वधः त्वत्प्रसादादस्माकं मा भूदित्यर्थः । 'आहवनीये समिदाधानं देवानाᳪं᳭ समिदसीति' ( का० ५।५।३५)। स्नानानन्तरमाहवनीयमेत्य तस्मिन्समिधं दध्यात् । अग्निदेवतं यजुः । देवानां संबन्धिनी समित् इन्धनमसि । यद्वा । देवभूतानामस्माकं समिन्धनं भवसि ॥ २७ ॥

इतः परमनुबन्ध्यायां गर्भिण्यां प्रायश्चित्तं कथ्यते ॥
अष्टाविंशी।
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह । यथा॒ऽयं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑ति । ए॒वा॒यं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह ।। २८ ।।
उ० इत उत्तरमनूबन्ध्या यदि गर्भिणी स्यात्तत्र प्रायश्चित्तिरुच्यते । त्र्यवसाना महापङ्क्तिः। एजतु दशमास्यः एजतु चलतु। 'एजृ कम्पने'। दशमासकालावच्छिन्न इव गर्भो जरायुणा सह। जरायुर्गर्भवेष्टनम् । कथं चलतु इत्यत उपमया दर्शयति । यथायं वायुरेजति यथा च समुद्रश्चलति । एतौ हि सदाचलनौ । एवमयं दशमास्यः । 'तमेतदप्यदशमास्यं सन्तं ब्रह्मणैव यजुषा दशमास्यं करोतीति' श्रुतिः । अस्रत् । स्रंसतेरेतद्रूपं स्रवतेर्वा । स्रंसतु स्रवतु वा । जरायुणा सह अस्रत् अपसरतु गर्भो वेष्टनेन सह ॥ २८ ॥
म० 'निरुह्यमाणमभिमन्त्रयत एजतु दशमास्य इति' (का० २५ । १० । ७)। यद्यनूबन्ध्या वशा गर्भिणी स्यात्तदा विशसने मातुः सकाशात्पृथक् क्रियमाणं गर्भमभिमन्त्रयेत । अवसानत्रययुक्ता गर्भदेवत्या महापङ्क्तिः। अष्टाक्षराः षट् पादा यस्याः सा महापङ्क्तिः । गर्भः जरायुणा सह एजतु । 'एजृ कम्पने' । जरायुर्गर्भवेष्टनं तेन सह कम्पतां चलतु । किंभूतो गर्भः । दशमास्यः दश मासा जाता यस्य सः । दशमासकालावच्छिन्न इव चलत्वित्यर्थः । कथं चलतु तत्राह । यथा येन प्रकारेणायं वायुरेजति चलति यथा च समुद्र एजति । एतौ हि सदा कम्पनशीलौ । एवेति निपात एवमर्थे । एवमयं दशमास्यः संपूर्णावयवो गर्भो जरायुणा सह अस्रत्स्रंसतां निर्गच्छतु। यद्यप्ययं गर्भो दशमास्यो नास्ति तथापि संपूर्णस्येव निर्गमनमाशास्यते । 'तमेतदप्यदशमास्यं सन्तं ब्रह्मणैव यजुषा दशमास्यं करोति' (४ । ५। २ । ४) इति श्रुतेः 'स्रंस अधःपतने' व्यत्ययेन परस्मैपदे शपो लुकि च कृते 'हल्ङ्याब्भ्यः -' (पा० ६। १।६८) इति तिपि लुप्ते 'वावसाने' (पा० ८ । ४ । ५६) इति सस्य दत्वे 'अनिदिताम्-' (पा० ६ । ४ । २४ ) इति नलोपे अडागमे च अस्रदिति रूपम् ॥ २८ ॥

एकोनत्रिंशी।
यस्यै॑ ते य॒ज्ञियो॒ गर्भो॒ यस्यै॒ योनि॑र्हिरण्यी ।
अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ᳪं᳭ स्वाहा॑ ।। २९ ।।
उ० अवदानान्यनुजुहोति । यस्यै ते यज्ञियः । अनुष्टुप् वशोच्यते । यस्यास्ते तव यज्ञियो गर्भः यज्ञार्हो गर्भः यस्याश्च तव योनिर्हिरण्ययी क्रियते ब्रह्मणा यजुषा तां त्वां गर्भेण संगमयामि । यस्य च गर्भस्य अङ्गानि अह्रुता अह्रुतानि अनवखण्डितानि । 'ह्रुह्वरेश्छन्दसी'ति ह्रुरादेशः । तं गर्भं मात्रा अनूबन्ध्यालक्षणया समजीगमं संगमयामि ॥ २९॥
म० 'अवदानान्यनुजुहोति यस्यै त इति' ( का० २५ । । १० । ११)। वशावदानानि हुत्वा गर्भरक्तं जुहुयात् । वशादेवत्यानुष्टुप् । हे वशे, यस्यास्ते तव गर्भो यज्ञियः यज्ञार्हः यस्यै यस्याश्च तव योनिर्हिरण्ययी सुवर्णमयी 'ऋत्व्यवास्त्व्य-' (पा० । ६।४।१७५) इति निपातः । सुवर्णमयी मन्त्रेण क्रियत इत्यर्थः । तादृशीं त्वां गर्भेण सङ्गमयामीति शेषः । यस्य गर्भस्याङ्गान्यह्रुता। 'ह्वृ कौटिल्ये' 'ह्रुह्वरेश्छन्दसि' (पा० ७ । २ । ३१) इति ह्रुरादेशो निष्ठायाम् । अकुटिलानि अखण्डितानि तं गर्भं मात्रा जनन्यानूबन्ध्यालक्षणया समजीगमं सङ्गमयामि । गमेर्ण्यन्तस्य लुङि चङि रूपम् । स्वाहेति होमार्थः ॥ २९ ॥

त्रिंशी।
पुरुद॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीर॑: । एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॒ चतु॒ष्पदीम॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ता॒ᳪं᳭ स्वाहा॑ ।। ३० ।।
उ० अध्वर्योरनुहोममेधं जुहोति । गर्भः स्तूयते इन्दुसंस्तवेन । पुरुदस्मो बहुदानः । विषुरूपः बहुरूपो हि गर्भो भवति । इन्दुः सोमः । पशोर्हि सोमसंस्तवो विद्यते । अन्तरुदरे व्यवस्थितो महिमानं महाभाग्यम् आनञ्ज । अञ्जतेर्व्यतीकरणार्थस्यैतद्रूपम् । व्यक्तीकरोति । धीरः मेधावी । इत्थंभूतं महिमानमानञ्ज धीरो येन एकपदीं द्विपदीं त्रिपदीं चतुष्पदीमष्टापदीमपि वशामवगणयित्वा भूतरूपेण भुवनानि भूतजातानि अनुप्रथन्ताम् । वशाया अङ्गमनुप्रथयते वृद्धिरेवं भूतानां भविष्यतीत्यभिप्रायः । कथमियं वशा चतुष्पदी सती एकपद्यादिभेदैरुच्यते । अवप्लुत्य स्तूयत इति ब्रूमः । वशेत्येकपदी, वपया अङ्गैश्च द्विपदी, उपयट् होमैश्च त्रिपदी चतुष्पदी पत्नीसंयाजैश्चतुर्भिर्वा पादैः । अष्टापदी तु गर्भसंबन्धिभिः पादैः ॥३०॥
म० 'स्विष्टकृतमनुजुहोति पुरुदस्म इति' ( का० २५ । १० । १५)। प्रचरण्यां स्रुचि प्रतिप्रस्थाता सर्व गर्भरसमवदायाध्वर्युणा स्विष्टकृद्धोमे कृते सति जुहुयात् ॥ गर्भदैवत्यं यजुः । इन्दुरूपेण गर्भः स्तूयते । इन्दुः क्लेदनरूपः सोमसदृशो गर्भो महिमानं महत्त्वमानञ्ज व्यक्तीकरोतु । अञ्जतेर्व्यक्तीकरणार्थस्य लिटि रूपम् 'तस्मान्नुड् द्विहलः' (पा० ७ । ४ । ७१) ति नुडागमः । विशेषणैर्महिमानमाह । कीदृश इन्दुः । पुरुदस्मः पुरु दस्म यस्य बहुदानयुक्तः । विषुरूपः बहुरूपः अन्तरुदरे स्थितः धीरो मेधावी एवंभूतं महिमानमानञ्जेत्यर्थः । एवं महिमवतो गर्भस्य मातरमनूबन्ध्यां भुवना भुवनानि भूतजातानि अनुप्रथन्तां प्रख्यातां कुर्वन्तु । विशेषणैः प्रख्यातिमाह कीदृशीम्। एकपदीमेकं पदं यस्यास्तां वपयैकपदयुताम् । द्विपदीं वपया अङ्गैश्च द्विपदयुताम् । त्रिपदीं त्रीणि पदानि यस्यास्तामुपयड्ढोमैस्त्रिपदीं । चतुष्पदीं पत्नीसंयाजैश्चतुर्भिः पादैर्वा चतुःपादयुताम् । अष्टापदीं स्वपादैर्गर्भपादैश्चाष्टपादयुताम् एवंभूतां वशां गणयित्वा भूतान्यनुप्रथन्तामिति संबन्धः । स्वाहा सुहुतमस्तु ॥ ३० ॥

एकत्रिंशी।
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जन॑: ।। ३१ ।।
उ० जुहोति मरुतो यस्य । मारुती गायत्री । मरुतः यस्य क्षये निवासगृहे । 'क्षयो निवास' इत्याद्युदात्तः । पाथ 'पा पाने' शपो लुप् । पिबथ पानादीन्कुरुथ । हे दिवोविमहसः द्युलोकस्य महयितारः पूजयितारः । स सुगोपातमोजनःस सुगुप्ततमो यजमानजनः । युष्मद्गुप्तानां न भयमस्तीत्यभिप्रायः ॥ ३१ ॥
म०. 'समिष्टयजुरन्ते शामित्र एव जुहुयात्तिष्ठन्मरुत इत्यस्वाहाकृत्येति' ( का० २५ । १० । १८)। समिष्टयजुर्होमान्ते शामित्राग्नावेव अस्वाहान्तेन मन्त्रेणोष्णीषवेष्टितं गर्भ जुहोति मन्त्रान्ते स्वाहाकारमनुच्चार्य जुहुयादित्यर्थः । मरुद्देवत्या गायत्री गोतमदृष्टा । हे दिवो विमहसः विशिष्टं महो येषां ते द्युलोकसंबन्धिना विशिष्टेन महसा तेजसा युक्ताः । यद्वा विशिष्टं महन्ति पूजयन्ति ते विमहसः द्युलोकस्य पूजयितारो हे मरुतः, यस्य यजमानस्य क्षये यज्ञगृहे यूयं पाथ सोमपानं कुरुथ । 'पा पाने' शपो लुक् पिबादेशाभावश्च छान्दसः संहितायां दीर्घः 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति सूत्रेण । हि निश्चितं स जनः यजमानाख्यः सुगोपातमः गोपायतीति गोपा रक्षकः अत्यन्तं शोभनो गोपा यस्य स सुगोपातमः युष्मद्गुप्तानां भयं नास्तीत्यर्थः ॥ ३१ ॥

द्वात्रिंशी। ।
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ।। ३२ ।।
उ० अङ्गारैरभिसमूहति महीद्यौः द्यावापृथिव्यौ गायत्री। महती द्यौः पृथिवी च नः अस्माकमिमं यज्ञं मिमिक्षताम् । 'मिह सेचने' । सिञ्चतु स्वैः स्वैर्भागैः पिपृतां नः बिभृतां नः अस्मान् भरीमभिः भरणैः हिरण्यपशुधान्यादिभिः । समाप्तोऽग्निष्टोमः ॥ ३२॥
म० 'मही द्यौरित्यङ्गारैरभ्यूहतीति' (का० २५ । १० ।। १८) । शामित्रे क्षिप्तं गर्भमङ्गारैश्छादयेत् । द्यावापृथिवीदेवत्या गायत्री मेधातिथिदृष्टा । मही महती द्यौः द्युलोकः पृथिवी भूलोकश्च नोऽस्माकमिमं यज्ञं मिमिक्षताम् । मिह सेचने' सन्नन्तः सेक्तुमिच्छतां । स्वैःस्वैर्भागेः पूरयतामित्यर्थः । भरीमभिः भरणैर्हिरण्यपशुधान्यादिभिः स्वैः स्वैर्भागैर्नोऽस्मदीयं गृहं पिपृतां पूरयताम् ॥ ३२ ॥
इत्यग्निष्टोममन्त्राः समाप्ताः ॥

त्रयस्त्रिंशी।
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीन॒ᳪं᳭ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।। ३३ ।।
उ० अथ षोडशी अग्ने पवस्वेत्येतस्मात्प्राक् । आतिष्ठ। तिस्र ऐन्द्र्योऽनुष्टुभः । आतिष्ठ अधितिष्ठ आरोह हे वृत्रहन् वृत्रस्य हन्तः, रथं युक्तौ ते तव ब्रह्मणा त्रयीलक्षणेन इन्द्रागच्छेत्यादिना हरी हरितवर्णावश्वौ । तौ हि आह्वानानीन्द्रस्योपश्रुत्य, प्राप्त आवयोर्नियोजनकाल इति मन्यमानौ स्वयमेवात्मानं रथे युञ्जाते अत एवमाह युक्ता ते ब्रह्मणा हरी इति । अथेदानीं रथारूढस्य अर्वाचीनम् अस्मदभिमुखम् सु साधु ते तव मनः हे इन्द्र, ग्रावा सोमाभिषवकारी कृणोतु करोतु वग्नुना वग्नुरिति वाङ्नामसु पठितम् । सोमाभिषवध्वनिना । उपयाम गृहीतोसीन्द्राय त्वा षोडशिनं गृह्णामि एष ते योनिः इन्द्राय त्वा षोडशिने ॥ ३३ ॥
म० अथ षोडशी अग्ने पवस्व (क० ३७) इत्यस्मात्प्राक् 'प्रातःसवनेऽतिग्राह्यान्गृहीत्वा षोडशिनं खादिरेण चतुःस्रक्तिनातिष्ठ युक्ष्वा हीति वेति' ( का० १२ । ५। २)। प्रातःसवने आग्रयणग्रहणानन्तरमाग्नेयमतिग्राह्यमादाय चतुःकोणेन खादिरोलूखलेनातिष्ठ युक्ष्वा हीति मन्त्रयोरन्यतरेण सोपयामेन षोडशिग्रहं गृह्णीयात् । इन्द्रदेवत्यानुष्टुब् गोतमदृष्टा । हे वृत्रहन्निन्द्र । ते तव हरी हरितवर्णावश्वौ ब्रह्मणा त्रयीलक्षणेन इन्द्रागच्छेत्यादिमन्त्रेण युक्ता रथे संयुक्तौ अतस्त्वं रथमातिष्ठ आरोह । इन्द्राह्वानं श्रुत्वास्मन्नियोजनकालः प्राप्त इति मत्वाश्वौ स्वयमेव रथे युञ्जाते इति युक्ता इत्युक्तम् । किंच ग्रावा सोमाभिषवपाषाणः ते तव रथारूढस्य मनोऽर्वाचीनमस्मद्यज्ञाभिमुखं सु कृणोतु सुतरां करोतु । केन वग्नुना । वग्नुरिति वाङ्नामसु पठितम् । वाचा श्रवणीयेन सोमाभिषवशब्देन । हे सोम, उपयामेन गृहीतोऽसि षोडशिने । षोडशं स्तोत्रमस्यास्तीति षोडशी तस्मै इन्द्राय त्वा त्वां गृह्णामीति शेषः । सादयति हे ग्रह, एष ते योनिः स्थानं षोडशिन इन्द्राय त्वां सादयामीति शेषः॥ ३३ ॥

चतुस्त्रिंशी।
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।। ३४ ।।
उ० द्वितीयो ग्रहणमन्त्रः । युक्ष्वा हि । 'युजिर् योगे' । युङ्ग्धि । हि यस्मात् केशिनौ प्रलम्बकेसरौ हरी हरितवर्णावश्वौ वृषणौ वर्षितारौ सेक्तारौ तरुणौ । कक्ष्यप्रा कक्ष्या अश्वस्य संनाहरज्जुः । 'प्रा पूरणे' । कक्ष्यां यावापूरयतः तावेवमुच्येते । तौ युक्त्वा रथे तमास्थाय । अथ समनन्तरमेव नोऽस्माकम् हे इन्द्र, सोमपाः सोमपानशीलः गिरामुपश्रुतिं चर स्तुतिलक्षणां गिरं वाचमुपश्रुत्य चर आगच्छास्मद्गृहम् । उपयामेत्यादि समानम् ॥ ३४ ॥
म० द्वितीयो ग्रहणमन्त्रः । इन्द्रदेवत्यानुष्टुब् मधुच्छन्दो'दृष्टा । हे इन्द्र, हि निश्चितं हरी हरितवर्णौ त्वदीयावश्वौ युक्ष्वा । रथेन संयोजय । कीदृशौ हरी । केशिना प्रलम्बकेसरौ तथा वृषणा । 'वृष सेचने' । वृषणौ वर्षितारौ सेक्तारौ तरुणौ । 'वा षपूर्वस्य निगमे' (पा० ६ । ४ । ९) इति दीर्घाभावः । तथा कक्ष्यप्रा कक्षे भवः कक्ष्यः अश्वसन्नाहरज्जुः कक्ष्यं मध्यबन्धन प्रातः पूरयतस्तौ कक्ष्यप्रौ स्थूलावयवावित्यर्थः । अथानन्तरं रथारोहणानन्तरं हे इन्द्र, सोमपाः सोमपानं कुर्वन्नोऽस्मदीयानां गिरामृग्यजुःसामलक्षणानां वाचामुपश्रुतिमुपश्रवणं चर गच्छ प्राप्नुहि । अस्मद्गिरः शृण्वित्यर्थः । वाचं श्रुत्वास्मद्गृहमागच्छेत्यर्थः । उपयाम एष ते एते व्याख्याते । अथेत्यत्र संहितायां दीर्घः ॥ ३४ ॥

पञ्चत्रिंशी।
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिने॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ।। ३५ ।।
उ० तृतीयो मन्त्रविकल्पः। इन्द्रमिद्धरी। इच्छब्द एवार्थे । इन्द्रमेव हरितवर्णावश्वौ वहतः प्रापयतः । अत्र 'ऋक्सामे वै हरी' इति श्रुतेः द्विवचनान्तहरिशब्दस्य ऋक्सामवाचकत्वाद्धरितवर्णावश्वाविन्द्रमेनं वहतमिति व्याख्यानं न घटते । हरितवर्णयोर्ह्यश्वयोः सर्वत्र सुलभत्वात् । इन्द्राश्वयोश्च हरितवर्णत्वमप्रसिद्धम् 'मयूररोमभिः पृषती अभूताम्' इत्यादिश्रुतेर्दर्शनात् । 'पशवो वै देवानां छन्दाᳪं᳭ सि' इत्यादिश्रुतिपर्यालोचनया नानावर्णच्छन्दोमये ऋक्सामे एवेन्द्रं वहत । इति युक्तं नतु हरितवर्णावश्वौ । कथंभूतमिन्द्रम् । अप्रतिधृष्टशवसम् न प्रतिवर्षयितुं शक्यते शवो बलं यस्य स अप्रतिधृष्टशवाः तमप्रतिसृष्टशवसम् । क्व वहत इत्याह । ऋषीणां च वसिष्ठप्रभृतीनां च स्तुतीः उप समीपे । यज्ञं च मानुषाणाम् मनुष्याणां यजमानानामुप समीपे वहत इति वर्तते। उपयामेत्यादि समानव्याख्यानम् ॥ ३५ ॥
म० षोडशिग्रहे तृतीयो मन्त्रविकल्पः 'आग्रयणाद्वेन्द्रमिद्धरी इति गृहीत्वेति' कठसूत्रोक्तेः । इन्द्रदेवत्यानुष्टुब् गोतमदृष्टा । इत् एवार्थे । हरी हरितवर्णावश्वौ ऋषीणां स्तुतीरुप वसिष्ठादीनां मुनीनां स्तुतिसमीप इन्द्रमित् इन्द्रमेव वहतः प्रापयतः । च पुनः मानुषाणां यजमानानां यज्ञमुप यज्ञसमीपे च हरी इन्द्रं : वहतः। किंभूतमिन्द्रम् । अप्रतिधृष्टशवसम् प्रतिधर्षयितुं पराभवितुं शक्यं प्रतिधृष्टं न प्रतिधृष्टमप्रतिधृष्टं शवो बलं यस्य सोऽप्रतिधृष्ठशवास्तम् । उपयाम एष ते इति व्याख्याते ॥३५॥

षट्त्रिंशी।
यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ सᳪं᳭ ररा॒णस्त्रीणि॒ ज्योती॑ᳪं᳭ षि सचते॒ स षो॑डशी ।। ३६ ।।
उ० षोडशिग्रहमुपतिष्टते । यस्मान्न जातः । त्रिष्टुप् । षोडशी परब्रह्मरूपेण स्तूयते । यस्मादन्यः पर उत्कृष्टो जातो देवो नास्ति न विद्यते महिम्नातश्चाविवेश आविशति भुवनानि भूतजातानि विश्वा विश्वानि सर्वाणि अन्तर्यामिरूपेण । तथाच श्रुतिः 'यः सर्वेषु भूतेषु तिष्ठति यश्च प्रजापतिर्भवति' इति । प्रजया संरराणः संरममाणः क्रीडन् । यश्च त्रीणि ज्योतींषि अग्निवायुसूर्यलक्षणानि सचते सेवते परमात्मरूपेण स षोडशीग्रहः ऋषेर्दृष्टार्थस्य प्रीतिर्भवत्याख्यानयुक्ता ॥ ३६॥
म० 'उपस्थायैनं यस्मान्न जात इति' ( का० १२ । ५।। १९)। षोडशिग्रहमुपतिष्ठेत् । इन्द्रदेवत्या त्रिष्टुप् विवस्वद्दृष्टा। परब्रह्मरूपेण षोडशी स्तूयते । यस्मात्पुरुषादन्यो व्यतिरिक्तः परः उत्कृष्टो देवादिर्जातः संभूतो नास्ति न विद्यते यश्च विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि आविवेश अन्तर्यामिरूपेण प्रवृष्टवान्सः प्रजापतिः स्वोत्पन्नप्रजापालकस्त्रीणि ज्योतींषि अग्निवायुसूर्यलक्षणानि तेजांसि विषयज्ञापकानि सचते सेवते । स्वतेजसा तज्ज्योतिषामुज्जीवनं करोतीत्यर्थः । 'येन सूर्यस्तपति तेजसेद्धः' इत्यादिश्रुतेः । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' (भ० गी० १५ । १२) इति स्मृतेश्च । किंभूतः प्रजापतिः । प्रजया संरराणः प्रजारूपेण सम्यग्रममाणः । तथा षोडशी षोडशकलात्मकलिङ्गशरीरोपहितः स एव सर्वव्यवहाराश्रय इत्यर्थः । 'यः सर्वेषु भूतेषु तिष्ठन्नि'त्यादिश्रुतेः ॥३६॥ :

सप्तत्रिंशी।
इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा तौ ते भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑ ।। ३७ ।।
उ० षोडशिनं भक्षयति । इन्द्रश्च सम्राट् त्रिष्टुप् यजुरन्ता । सह प्राणेनेति यजुः । इन्द्रवरुणौ देवता षोडशीग्रहो वा । इन्द्रश्च सम्राट् यो वाजपेययाजी । वरुणश्च । चकारौ समुच्चयार्थीयौ । राजा यो राजसूययाजी । 'राजा वै राजसूयेनेट्वा भवति सम्राट् वाजपेयेन' इति श्रुतिः । ताविन्द्रवरुणौ ते तव हे षोडशिग्रह, भक्षं चक्रतुः कृतवन्तौ ।
अग्रे प्रथमम् । एतमित्यस्य भक्षेण सह संबन्धः । तयोर्भक्षमनु कुर्वन्नहं भक्षं भक्षयामि । मदीयेन च भक्षणेन वाग्देवी जुषाणा सेवमाना सोमस्य तृप्यतु सह प्राणेन ॥ ३७॥
म० 'इन्द्रश्च सम्राडिति भक्षणमिति' । षोडशिग्रहं भक्षयेत् । इन्द्रवरुणदेवत्या षोडशिदेवत्या वा त्रिष्टुब् यजुरन्ता । अन्त्यपादौ द्वादशाणौ सह प्राणेनेति यजुः विवस्वद्दृष्टा । हे षोडशिग्रह, तौ देवौ इन्द्रावरुणौ ते तव एतं सोममग्रे प्रथमं भक्षं चक्रतुः । तौ कौ । इन्द्रो वरुणश्च । चकारौ समुच्चये । | किंभूत इन्द्रः । सम्राट् परमैश्वर्ययुक्तः वाजपेययाजीत्यर्थः । किंभूतो वरुणः । राजा राजसूययाजी 'राजा वै राजसूयेनेष्ट्वा भवति सम्राड्वाजपेयेन' (५।१।१।१३) इति श्रुतेः। तयोरिन्द्रावरुणयोः संबन्धिनं भक्षमनु पश्चात् अहम् भक्षयामि सोमं पिबामि । जुषाणा मदीयेन भक्षेण सेवमाना वाग्देवी सरस्वती प्राणेन प्राणदेवतया सह सोमस्य तृप्यतु सोमेन तृप्ता भवतु । 'तृप्त्यर्थानां करणे षष्ठी वेति सोमशब्दात् षष्ठी । स्वाहा सुहुतमस्तु ॥ ३७ ॥
इति षोडशियागः संपूर्णः ॥

अष्टात्रिंशी। .
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑: सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ।
अग्ने॑ वर्चस्वि॒न्वर्च॑स्वाँ॒स्त्वं दे॒वेष्वसि॒ वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ।। ३८ ।।
उ० अथातिग्रहपुरोरुचस्तिस्रो गायत्र्योऽनीन्द्रसूर्यदेवत्याः अग्ने पवस्व हे भगवन्नग्ने, पवस्व । पवतिः प्रवृत्यर्थोऽन्तर्भावितण्यर्थः । पवस्व प्रवर्तयस्व । यस्त्वं स्वपा सुकर्मा । अप इति कर्मनामसु पठितम् । अस्मे अस्मासु वर्चः ब्रह्मवर्चसम् । सुवीर्यं शोभनवीर्यम् । दधद्रयिं मयि पोषम् धारयन् स्थापयन् रयिं धनं मयि पोषं पुष्टिं च प्रवर्तयस्वेति संबन्धः । उपयाम गृहीतोऽसि अग्नये त्वा वर्चसे । एष ते योनिः अग्नये त्वा वर्चसे । व्याख्यातम् । भक्षमन्त्रः अग्ने वर्चस्विन् । हे अग्ने, वर्चस्विन् ब्रह्मवर्चसेन संयुक्त । यथा त्वं देवेष्वसि वर्चोयुक्तः एवमहं मनुष्येषु वर्चोयुक्तो भूयासं भवेयम् । स्वयंभूरसीत्येतस्मिन्मन्त्रे वर्चोदा असीति वर्चःशब्दो ब्रह्मवर्चसपर्यायो वर्णितः श्रुत्या 'तद्ध्येव ब्राह्मणेनेष्टव्यं यद्ब्रह्मवर्चसे स्यात्' इति । अतोऽस्मिन्मन्त्रे वर्चःशब्दो ब्रह्मवर्चसपर्यायो दर्शितः ॥ ३८॥
म० अथ द्वादशाहमन्त्राः । 'पृष्ठ्यः षडहस्तत्रातिग्राह्यग्रहणं त्र्यहे पूर्णेऽग्ने पवस्वोत्तिष्ठन्नदृश्रमित्यध्वहमेकैकम्' ( का० १२ । ३ । १-२ ) 'अग्ने वर्चस्विन्निन्द्रौजिष्ठ सूर्य भ्राजिष्ठेति भक्षणं यजमानैरिति' ( क. ६) अस्ति कश्चित् पृष्ठ्यः षडहाख्यः क्रतुः। स तु षड्भिरहोभिर्निष्पाद्यः। तत्र पूर्वस्मिन्नहस्त्रये क्रमेणाग्ने पवस्वेत्यादिभिर्मन्त्रैरतिग्राह्यान्ग्रहान् गृह्णीयात्तथैवाग्ने वर्चस्विन्नित्यादिभिर्मन्त्रैस्तत्तद्ग्रहशेषं भक्षयेत् । तत्र प्रथमो यथा । अग्ने पवस्व । अग्निदेवत्या गायत्री वैखानसदृष्टा । आद्यौ सप्तार्णौ पादौ । एषा यजुरन्ता। उपयाम एष त इति द्वे यजुषी। हे अग्ने, त्वमस्मै अस्मासु सुवीर्य शोभनं वीर्यं यस्मिंस्तादृशं शोभनसामर्थ्योपेतं वर्चो ब्रह्मवर्चसं पवस्व । पव गत्यर्थः अन्तर्भूतण्यर्थः। गमय प्रापय । 'सुपां सुलुक्' (पा. ७ । १ । ३९ ) इति विभक्तेः शेआदेशे अस्मे इति रूपम् । किंभूतस्त्वम् । स्वपाः । अप इति कर्मनाम । शोभनान्यपांसि यस्य स स्वपाः सुकर्मा । एवमृत्विग्भिः सह संप्रार्थ्य स्वयं याचते । मयि यजमाने रयिं धनं दधत् धारयन् स्थापयन्सन् पोषं पुष्टिं पुत्रपश्वादिवृद्धिं पवस्व प्रवर्तयेति संबन्धः । उपयामयतीत्युपयामो ग्रहः हे सोम, तेन त्वं गृहीतोऽसि । हे ग्रह, वर्चसे वर्चस्विने तेजस्विनेऽग्नये त्वां गृह्णामीति शेषः । सादयति एष खरप्रदेशस्तव योनिः स्थानं वर्चस्विनेऽग्नये त्वां सादयामीति शेषः । भक्षणमन्त्रः । हे वर्चस्विन् विशिष्टतेजोयुक्त हे अग्ने, त्वं देवेषु इन्द्रादिषु मध्ये वर्चस्वानतिदीप्तिमानसि अतस्त्वत्प्रसादादहमपि मनुष्येषु मध्ये वर्चस्वान्ब्रह्मवर्चससंपन्नो भूयासं भवेयम् ॥३८॥

एकोनचत्वारिंशी।
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वौजसे ।
इन्द्रौ॑जिष्ठौजि॑ष्ठ॒स्त्वं दे॒वेष्वस्योजि॑ष्ठो॒ऽहं म॑नु॒ष्ये॒षु भूयासम् ।। ३९ ।।
उ० उत्तिष्ठन्नोजसा । मातुरुत्सङ्गादुत्तिष्ठन् ओजसा बलेन सह पीत्वी पीत्वा । शिप्रे अवेपयः । शिप्रे हनू नासिके वा । 'टुवेपृ कम्पने' । अतिपानोद्वेगान्नासिके कम्पितवानसि । किं तद्द्र्व्यं यत्पीत्वा अवेपय इत्यत आह । सोमम् । हे भगवन् इन्द्र, चमूसुतम् । अधिषवणचर्म चमूशब्देनोच्यते । अधिषवणचर्मण्यभिषुतं सोमं पीत्वा अवेपय इति संबन्धः । उपयामगृहीतोऽसीन्द्राय त्वौजस एष ते योनिरिन्द्राय त्वौजसे । प्रगुणं ग्रहं भक्षयति । इन्द्रौजिष्ठ । हे इन्द्र, ओजिष्ठ अतिशयेनौजसा युक्त । यथा ओजिष्ठस्त्वं देवेष्वसि एवमोजिष्ठोऽहं मनुष्येषु भूयासम् ॥ ३९॥
म० द्वितीयोऽतिग्राह्यग्रहणमन्त्रः । इन्द्रदेवत्या गायत्री कुरुस्तुतिदृष्टा यजुरन्ता । हे इन्द्र, त्वमोजसा बलेन सह उत्तिष्ठन्नुत्सङ्गादुद्गच्छन्सन् शिप्रे हनू नासिके वा अवेपयः ‘टुवेपृ कम्पने' कम्पितवानसि । किं कृत्वा सोमं पीत्वी पीत्वा । 'स्नात्व्यादयश्च' ( पा० ७।१।४९ ) इति निपातः । किंभूतं सोमम् । चमूसुतं चम्वामधिषवणचर्मणि सुतमभिषुतम् सोमपानं कृत्वातिहर्षवशान्नासे कम्पितवानित्यर्थः । हे ग्रह, त्वमुपयामगृहीतोऽसि ओजसे बलवते इन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः ओजस इन्द्राय सादयामि । भक्षणमन्त्रः हे इन्द्र, हे ओजिष्ठ ओजो बलमस्यास्तीत्योजस्वी । 'अस्माया-' ( पा० ५। २ । १२१ ) इत्यादिना विनिप्रत्ययः । अत्यन्तमोजस्वी ओजिष्ठः 'अतिशायने तमबिष्ठनौ' (पा० ५ । ३ । ५५) इति । इष्ठन्प्रत्ययः । 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इतीष्ठनि परे विनिलोपः टिलोपश्च । तत्संबोधनमोजिष्ठ अतिबलयुक्त, त्वं यथा देवेष्वोजिष्ठोऽसि एवं मनुष्येषु मध्येऽहमोजिष्ठोऽतिबलो भूयासम् ॥ ३९ ॥

चत्वारिंशी।
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒२ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनि॒: सूर्या॑य त्वा भ्रा॒जाय॑ ।
सूर्य॑ भ्राजिष्ठ॒ भ्राजि॑ष्ठ॒स्त्वं दे॒वेष्वसि॒ भ्राजि॑ष्ठो॒ऽहं म॑नु॒ष्ये॒षु भूयासम् ।। ४० ।।
उ० अदृश्रमस्य । 'दृशिर प्रेक्षणे' । अस्य कर्मणि प्रथमपुरुषबहुवचनस्थाने छान्दसं रूपमदृश्रमिति । दृश्यन्ते अस्य सूर्यस्य प्रज्ञानकृतत्वात्केतवो रश्मयः । केतुरिति प्रज्ञानामसु पठितम् । वि इत्यनर्थको निपातः । अथवा व्यदृश्रमिति संबन्धः । जनान् अनु अनुगताः भ्राजन्तः देदीप्यमानाः । कथंभूता दृश्यन्ते । अग्नयो यथा अग्नय इव । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजाय । भक्षयति । हे सूर्य भ्राजिष्ठ अतिशयेन भ्राजिष्ट । यथा भ्राजिष्ठस्त्वं देवेष्वसि एवं भ्राजिष्ठोऽहं मनुष्येषु भूयासम् ॥४०॥
म० तृतीयोऽतिग्राह्यमन्त्रः । सूर्यदेवत्या गायत्री प्रस्कण्वदृष्टा यजुरन्ता । दृशेर्लुङि 'इरितो वा' (पा० ३ । १ । ५७ ) इति च्लेरङादेशे 'ऋदृशोऽङि गुणः' (पा० २ । ४ । १६) इति उत्तमैकवचने अदर्शमिति प्राप्ते 'शीङो रुड्वेत्तेर्विभाषा बहुलं छन्दसीति' (पा० ७ । १ । ६-८) दृशेरुत्तरस्य मिबादेशस्यामो रुडागमो धातोर्गुणाभावश्छान्दसः । अदृश्रमिति रूपम् । कर्मणि लुङि प्रथमपुरुषबहुवचनस्थाने द्रष्टव्यमदृश्यन्तेत्यर्थे । वीत्युपसर्गोऽदृश्रमित्यनेन संबध्यते । केतुरिति प्रज्ञानामसु पठितम् । अस्य सूर्यस्य केतवः प्रज्ञाहेतवः सर्वपदार्थज्ञानकृतो रश्मयः किरणा जनाननु सर्वप्राणिनोऽनुगता वि अदृश्रम् विशेषेणादृश्यन्त । सूर्यकराः सर्वजनानुगता व्यापका दृश्यन्त इत्यर्थः । तत्र दृष्टान्तः । भ्राजन्तो ज्वलन्तोऽग्नयो वह्नयो यथा जनानुगता दृश्यन्ते तद्वत् । हे ग्रह, त्वमुपयामेन गृहीतोऽसि भ्राजते दीप्यतेऽसौ भ्राजस्तस्मै सूर्याय त्वां गृह्णामि । सादयति एष तव योनिः भ्राजाय दीप्ताय सूर्याय त्वां सादयामि । तृतीयोऽतिग्राह्यभक्षणमन्त्रः । अत्यन्तं भ्राजो भ्राजिष्टः हे भ्राजिष्ठ अतिदीप्त हे सूर्य, त्वं यथा देवेषु भ्राजिष्ठोऽसि तथाहमपि मनुष्येषु भ्राजिष्ठोऽतिदीप्तिमान्भूयासम् ॥ ४० ॥
इति द्वादशाहः संपूर्णः ॥

एकचत्वारिंशी।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒जायै॒ष ते॒ योनि॒: सूर्या॑य त्वा भ्रा॒जाय॑ ।। ४१ ।।
उ० विषुवति ग्रहं गृह्णाति । उदु त्यं जातवेदसम् । व्याख्यातम् । देवार्षंतु ॥ ४१ ॥
म० 'उदु त्यमिति ग्रहग्रहणमिति' (का० १३ । २ । ११) गवामयनाख्यस्य संवत्सरसत्रस्य विषुवन्नामके मध्यमेऽहनि सौर्यपशूपालम्भादूर्ध्वमतिग्राह्यग्रहणं कार्यम् । सौरी गायत्री देवदृष्टा पुनर्व्याख्यायते ( अ० ७ । क० ४१ ) । त्यं तं प्रसिद्धं जातवेदसं जातानां प्रजानां ज्ञातारं जातप्रज्ञं वा देवं देवनशीलं सूर्य केतवः प्रज्ञाहेतवः किरणा उ आशु उद्वहन्ति उदयाचलादुद्गमयन्ति । किमर्थं । विश्वाय । षष्ठ्यर्थे चतुर्थी । विश्वस्य दृशे दर्शनाय । सर्वं जगद्द्रष्टुमित्यर्थः । उपयाम एष ते व्याख्याते ॥ ४१॥

द्विचत्वारिंशी।
आ जि॑घ्र क॒लशं॑ म॒ह्या त्वा॑ विश॒न्त्विन्द॑वः।
पुन॑रू॒र्जा नि व॑र्तस्व॒ सा न॑: स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मा वि॑शताद्र॒यिः ।। ४२ ।।
उ० अथ रोहिणीगोरभिमन्त्रणं द्वाभ्यामृग्भ्यां महापङ्क्तिप्रस्तारपङ्क्तिभ्यां द्रोणकलशमवघ्रापयति । आजिघ्र । कुसुरुविन्दोरार्षम् । महीति गोनामसु पठितम् । आभिमुख्येन जिघ्र द्रोणकलशं हे महि । किंच आ त्वा विशन्त्विन्दवः । आविशन्तु त्वामिन्दवः सोमाः य एते द्रोणकलशसंबन्धिनः। किंच । पुनरपि ऊर्जा अन्नेन सहिता निवर्तस्व । यां त्वामेवं स्तुमः सानः अस्माकं सहस्रं गवां यदेतदस्माभिर्दत्तं तत् धुक्ष्व । दुहतिर्दानार्थः । पुनर्देहि । त्वत्प्रसादाच्च उरुधारा बहुधारा पयस्वती पयसा संयुक्ता पुनरपि मामाविशतात् आविशतु । रयिः धनम् ॥ ४२ ॥
म० 'हविर्धानाग्नीध्रयोरन्तरे द्रोणकलशमेनामाघ्रापयत्याजिघ्रेति' ( का० १३ । ४ । १९) । गर्गत्रिरात्रादावहीने त्रिसुत्ये गोसहस्रं दक्षिणास्ति तत्र सहस्रसंख्यापूरणी रोहिणी धेनुस्तां हविर्धानाग्नीध्रयोर्मध्यस्थां द्रोणकलशमाघ्रापयेत् । गोदेवत्या महापङ्क्तिः कुसुरुविन्दुदृष्टा अष्टार्णषट्पादा । महीति गोनाम । हे महि हे धेनो, त्वं कलशं द्रोणकलशाख्यं पात्रमाजिघ्र आभिमुख्येनाघ्राणं कुरु । किंच हे धेनो, इन्दवः सोमाः त्वा त्वामाविशन्तु द्रोणकलशस्थाः सोमास्त्वां प्रविशन्तु । | किंच ऊर्जा विशिष्टरसेन पयोभूतेन सह पुनः अस्मान्प्रति निवर्तस्व । या त्वमेवं मया स्तुता सा त्वं नोऽस्माकं सहस्रं धुक्ष्व सहस्रसंख्यं धनं देहि । यद्वा गवां सहस्रं यदस्माभिर्दत्तं तन्नोऽस्मभ्यं धुक्ष्व पुनर्देहि । दुहतिर्दानार्थः । किंच त्वत्प्रसादादुरुधारा बहुपयोयुक्ता पयस्वती धेनुर्मा मां पुनराविशतात् आगच्छत्वित्यर्थः । तथा रयिः धनमपि मा मामाविशतात् ॥ ४२ ॥

त्रिचत्वारिंशी।
इडे॒ रन्ते॒ हव्ये॒ काम्ये॒ चन्द्रे॒ ज्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति ।
ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेभ्यो॑ मा सु॒कृतं॑ ब्रूतात् ।। ४३ ।।
उ० दक्षिणेऽस्याः कर्णे यजमानो जपति । इडे रन्ते । हे इडे । इडानाम मनोर्दुहिता तया गौरुपमीयते । इडेव त्वमसि । रन्ते रमयतीति रन्ता । हव्ये हूयन्तेऽस्या विकारा यज्ञेष्विति हव्या । काम्ये मनुष्याणां ह्येतासु कामाः प्रविष्टाः । चन्द्रे चन्द्र इवाह्लादयतीति चन्द्रा । ज्योते तस्यैव ज्योतिर्ज्योत्स्ना । 'द्युत दीप्तौ' अस्य ज्योता । अदिते अदीने । सरस्वति सर इत्युदकनाम सर्तेः तद्वति । हे महि महति । विश्रुति विविधं श्रूयत इति विश्रुति । एतानि ते तव हे अघ्न्ये, अहन्तव्ये नामानि अतिशयगुणयुक्तानि तैरभिहिता सती देवेभ्यो मां सुकृतं सुकृतकारिणं ब्रूतात् ब्रूहि ॥ ४३ ॥
म० इडे रन्त इति दक्षिणेऽस्याः कर्णे यजमानो जपतीति' ( का० १३ । ४ । २० )। पूर्वोक्ताया धेनोर्दक्षिणकर्ण यजमानो जपेत् गोदेवत्या प्रस्तारपङ्क्तिः कुमुरुविन्दुदृष्टा । यस्या आद्यौ पादौ द्वादशार्णौ अन्त्यावष्टार्णौ सा प्रस्तारपङ्क्तिः । । ईड्यते स्तूयते इति इडा मनोर्दुहिता तत्तुल्या । रमयतीति रन्ता । हूयते यद्दुग्धं यज्ञेष्विति हव्या, हूयते आहूयते सवैरिति वा हव्या । काम्यत इति काम्या 'मनुष्याणाᳪं᳭ ह्येतासु कामाः प्रविष्टाः' इति श्रुतेः । चन्दयत्याह्लादयतीति चन्द्रा । 'द्युत दीप्तौ' द्योतयति प्रकाशयतीति ज्योता दकारस्य जः । अदितिरदीनाऽनवखण्डिता । सरस्वति सरतीति सरः क्षीरं तद्वति । सर इत्युदकनाम सर्तेरिति (नि. ९ । २६) यास्कोक्तेः । उदकशब्देनात्र क्षीरमुच्यते । मही महती । विविधं श्रूयते स्तूयत इति विश्रुतिः । न हन्तुं योग्या अघ्न्या अहन्तव्या । तासां संबोधनानि हे धेनो एवंभूते, ते तव एता एतानि अतिशयगुणयुक्तानि नामानि एतैर्नामभिरभिहिता सती देवेभ्यः सुकृतं सुष्ठु करोतीति सुकृत् तं सुकृतं शोभनकर्मकारिणं मां त्वं ब्रूताद्ब्रूहि वद । अयं यजमानः पुण्यकर्तेति देवेभ्यो वदेत्यर्थः ॥ ४३ ॥

चतुश्चत्वारिंशी।
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ२ अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑: ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृधे॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑ ।। ४४ ।।
उ० महाव्रतीयं ग्रहं गृह्णाति । वि न इन्द्र । अनुष्टुप् । इन्द्रो विमृद्गुणयुक्तो देवता । वि न इन्द्र मृधो जहि वि जहि विनाशय नः अस्माकं हे इन्द्र, मृधः संग्रामान् । किंच नीचा यच्छ पृतन्यतः । ये पृतनां संग्राममिच्छन्ति ते पृतन्यतः तान्पृतन्यतो मनुष्यान्नीचा यच्छ नीचैर्निगृह्णीष्व । यश्चास्मान् अभिदासति 'दसु उपक्षये' । उपक्षयति तमधरं निकृष्टमर्वाचीनं तमो गमय । उपयामगृहीतोऽसीन्द्राय त्वा विमृध एष ते योनिरिन्द्राय त्वा विमृधे । व्याख्यातम् ॥४४॥
म० 'ग्रहं गृह्णाति वि न इन्द्र वाचस्पतिं विश्वकर्मन्निति वेति' ( का० १३ । २ । १७ ) गवानयनस्योपान्त्ये महाव्रतेऽहनि प्राजापत्यपशूपालम्भादूर्ध्वमैन्द्रग्रहग्रहणे मन्त्रत्रयम् । तत्राद्यः । इन्द्रदेवत्यानुष्टुप् शासदृष्टा । हे इन्द्र, नोऽस्माकं मृधः शत्रून्संग्रामान्वा विजहि विशेषेण नाशय । किंच पृतन्यतः नीचा यच्छ । पृतनां संग्रामं सेनां वा इच्छन्ति पृतन्यन्ति पृतन्यन्तीति पृतन्यन्तस्तान् । 'सुप आत्मनः क्यच् (पा० ३ । १ । ४) इति पृतनाशब्दात्क्यचि प्रत्यये 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७ । ४ । ३९ ) इति टिलोपे शतृप्रत्यये च रूपम् । पृतन्यतः सेनामिच्छतः शत्रून्नीचान्न्यग्भूतान् यच्छ निगृह्णीष्व । युद्धादुपरतान्कुर्वित्यर्थः । किंच यश्चान्योऽस्मानभिदासति । 'दसु उपक्षये' । उपक्षयति तं शत्रुमधरं निकृष्टं तमो नरकं गमय प्रापय । संहितायां दीर्घः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि विशिष्टो मृत् संग्रामो यस्य तस्मै विमृधे विशिष्टसंग्रामवते इन्द्राय त्वां गृह्णामि । सादयति एष तव योनिः विमृद्गुणविशिष्टायेन्द्राय त्वां सादयामि ॥ ४४ ॥

पञ्चचत्वारिंशी।
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मणे ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।। ४५ ।।
उ० द्वितीयो मन्त्रविकल्पः । वाचस्पतिं । त्रिष्टुप् विश्वकर्मणी । स नो विश्वानीति तदः श्रवणाद्यदोऽध्याहारः कर्तव्यः। नित्यसंबन्धौ हि यत्तदौ । यं वाचोधिपतिं प्राणरूपेण इन्द्ररूपेण वा विवक्ष्यते । 'तस्मादाहुरिन्द्रो वाग्' इति श्रुतिः । विश्वकर्माणं सर्वस्य कर्तारम् । ऊतये अवनाय तर्पणाय वा । मनोजुवम् मनस इव यस्य जुवः मनोजुवः स एवमुच्यते । मनोगतिमित्यर्थः । वाजे अन्ने अस्मिन्महाव्रतीयलक्षणे विषयभूते । अद्य अस्मिन् द्यवि हुवेम आह्वयामः । स आहूतः सन् नोऽस्माकं विश्वानि सर्वाणि हवनानि आह्वानानि जोषत् जुषतां सेवताम् । विश्वशंभूः । शमिति सुखनाम । सर्वस्य सुखेन भावयिता । अवसे अव इत्यन्ननाम । अस्माकमन्नदानाय साधुकर्मा । उपयामगृहीतोऽसीति व्याख्यातम् ॥४५॥
म० अथ द्वितीयः । विश्वकर्मदेवता त्रिष्टुप् शासदृष्टा । ईदृशमिन्द्रं वाजे महाव्रतीयलक्षणान्नविषये अद्यास्मिन् दिने वयं हुवेम आह्वयाम । किमर्थम् । ऊतये अवनाय रक्षणाय । | किंभूतम् । विश्वकर्माणं विश्वानि समस्तानि जगदुत्पत्त्यादीनि कर्माणि यस्य तम् । तथा वाचस्पतिं वाचां पालयितारं वाचोऽधिपतिं । 'तस्मादाहुरिन्द्रो वाक्' इति श्रुतेः। तथा मनोजुवम् । जूरिति जवनाम । मनसो जूरिव जव इव जवो यस्य स मनोजूस्तम् । स ईदृश इन्द्रो नोऽस्माकं विश्वानि सर्वाणि हवनानि आह्वानानि अवसेऽन्नायान्नसमृद्ध्यै रक्षणाय वा जोषत् जुषताम् अस्मदाह्वानं साधु साध्विति सेवताम् । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे 'इतश्च लोपः परस्मैपदेषु' (पा. ३ । ४ । ९७ ) तिप इलोपे जोषदिति रूपम् । किंभूतः सः । विश्वशंभूः विश्वस्य शं सुखं भवत्यस्मादिति विश्वशंभूः साधुकर्मा शोभनकर्मकर्ता । हे ग्रह, उपयामगृहीतोऽसि विश्वकर्मणे सर्वकर्त्रे इन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः विश्वकर्मणे इन्द्राय त्वां सादयामि ॥ ४५ ॥

षट्चत्वारिंशी।
विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् ।
तस्मै॒ विश॒: सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ।। ४६ ।।
उ० अपरो मन्त्रविकल्पः । विश्वकर्मन्हविषा । त्रिष्टुबैन्द्री वैश्वकर्मणी च । हे विश्वकर्मन् , अन्नेन हविषा महाव्रतीयलक्षणेन वर्धनेन च वर्धयित्रा । त्रातारं जगतः इन्द्रम् अकृणोः कृतवानसि अवध्यं च । तस्मै चैवंप्रभावायेन्द्राय विशो मनुप्याः समनमन्त सन्नताः पूर्वीः पूर्वे वसिष्ठप्रभृतयः। इदानींतना अपि सन्नताः । अयमेव हि इन्द्रः उग्रः उद्गूर्णवज्रः विहव्यश्च । विविधेषु कार्येषु आहूयत इति विहव्यः यथा असत् । पञ्चम्यर्थे थाल्प्रत्ययः । यतः कारणादसत् भवेत् हे विश्वकर्मन्, त्वद्धविस्सामर्थ्यादिन्द्रस्यायं प्रभाव इत्यभिप्रायः । उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मणे इति व्याख्यातम् ॥ ४६ ॥
म० तृतीयो मन्त्रविकल्पः । इन्द्रविश्वकर्मदेवत्या त्रिष्टुप् शासदृष्टा । हे विश्वकर्मन् , वर्धनेन वर्धमानेन वर्धयित्रा वा हविषा त्वमिन्द्रं त्रातारं जगतो रक्षकमवध्यं हन्तुमशक्यमप्रतिभटं चाकृणोः कृतवानसि । तस्मै तादृशायेन्द्राय पूर्वीर्विशः प्रजाः पूर्वे वसिष्ठादयो मनुष्याः समनमन्त सम्यड्नताः। पञ्चम्यर्थे थाल्प्रत्ययः । यथा यतः कारणात् अयमिन्द्रः उग्र उद्गूर्णवज्रो विहव्यो विविधेषु कार्येषु आहूयत इति विहव्यश्च असदभूत्तस्माद्विशस्तस्मै नता इत्यर्थः । विश्वकर्मन् , त्वद्धविःसामर्थ्यादिन्द्रस्यायं प्रभाव इति भावः । उपयाम एष ते इति व्याख्याते ॥ ४६ ॥

सप्तचत्वारिंशी।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा गाय॒त्रच्छ॑न्दसं गृह्णामीन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णाम्यनु॒ष्टुप्ते॑ऽभिग॒रः ।। ४७ ।।
उ० अदाभ्यं गृह्णाति। उपयाम गृहीतोऽसि । देवानामार्षम् । अग्नये त्वां गायत्रच्छन्दसं गृह्णामि एकं ग्रहणम् । इन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामि द्वितीयं ग्रहणम् । विश्वेभ्यस्त्वा देवेभ्यो जगच्छन्दसं गृह्णामि तृतीयं ग्रहणम् । एवं सवनदेवताभ्यः स्वच्छन्दस्कं सोमं गृहीत्वा अथेदानीमाह । अनुष्टुप् ते तव हे सोम, अभिगरः। 'गृ स्तुतौ' । अभिष्टव इत्यर्थः । यद्वा 'ऊर्ध्वᳪं᳭ सवनेभ्यस्तदानुष्टुभम्' इति श्रुतिः ॥ ४७ ॥
म०. 'अदाभ्यं गृह्णात्यासिच्य निग्राभ्याः पात्रे तस्मिंस्तूष्णीं त्रीनᳪं᳭ शूनवधायाग्नये त्वा गायत्रच्छन्दसमिति प्रतिमन्त्रमुपयामः सर्वत्राविशेषादिति' (का० १२ । ५ । १३-१५)। यस्मिन्नौदुम्बरे पात्रे अंशुर्गृहीतस्तस्मिन्होतृचमसस्था निग्राभ्यासंज्ञा अप आनीय तस्मिंस्तिस्रः सोमलताः प्रक्षिप्याग्नये त्वेत्यादित्रिभिर्मन्त्रैः क्रमेणादाभ्यं ग्रहं गृह्णाति । मन्त्रैः सोमलताप्रक्षेपो वेति केचित् । उपयामगृहीतोऽसीत्येतत्त्रिष्वपि मन्त्रेष्वादावनुषञ्जनीयं सर्वशेषत्वादाम्नानस्येति सूत्रार्थः । तत्र प्रथमो मन्त्रः । अदाभ्यदेवत्यानि त्रीणि यजूंषि देवदृष्टानि । हे सोम, त्वमुपयामेन ग्रहेण गृहीतोऽसि हे ग्रह, गायत्री छन्दो यस्य ग्रहस्य तं गायत्रीच्छन्दसं त्वामग्नयेऽग्निप्रीत्यर्थं गृह्णामि । द्वितीयो मन्त्रः । उपयामेन गृहीतोऽसि हे ग्रह, त्रिष्टुप् छन्दो यस्य तादृशं त्वामिन्द्राय गृह्णामि । तृतीयो मन्त्रः । उपयाम० जगती छन्दो यस्य तादृशं त्वां हे ग्रह, विश्वेभ्यो देवेभ्योऽर्थाय गृह्णामि । एवं सवनदेवताभ्यो वारत्रयं ग्रहणम् । 'अनुष्टुप्त इत्युक्त्वेति' (का० १२ । ५ । १७)। एनं मन्त्रं पठेत् । अदाभ्यदेवत्यं देवदृष्टम् । एवं स्वच्छन्दसं सोमं गृहीत्वाथ तमाह हे सोम, अनुष्टुप् छन्दस्ते तवाभिगरः अभिष्टव इत्यर्थः । 'गृ स्तुतौ' यद्वा 'ऊर्ध्वᳪं᳭ सवनेभ्यस्तदानुष्टुभम्' (११ । ५।९। ७) इति श्रुतेः ॥ ४७ ॥

अष्टचत्वारिंशी।
व्रेशी॑नां त्वा॒ पत्म॒न्ना धू॑नोमि कुकू॒नना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि शु॒क्रं त्वा॑ शु॒क्र आ धू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ।। ४८ ।।
उ० ग्रहपात्रस्थासु निग्राभ्यासु अंशूनाधूनोति । व्रेशीनां त्वा पत्मन्नाधूनोमि । मेघस्य व्रजत उदरे शेरत इति व्रेश्य | उदरस्था आप उच्यन्ते । हे सोम, व्रेशीनामपां त्वां पत्मन् पतने आधूनोमि कम्पयामि । कुकूननानां त्वा । 'कुङ् शब्दे'। अत्यर्थं कुवत्यः शब्दं कुर्वाणाः नमन्ते प्रह्वीभवन्तीति कुकूननाः मेध्या आपः । भन्दनानाम् 'भदि कल्याणे सुखे च'। कल्याणकारिण्यः सुखयित्र्यो वा भन्दनाः । मदिन्तमानाम् अत्यर्थं मदयन्ति तर्पयन्तीति मदिन्तमाः । माद्यतेः 'नाद्धस्य' इति नुमागमः । मधुन्तमानाम् अतिशयेन मधुस्वादोपेता मधुन्तमाः । शुक्रं त्वा शुक्रमक्लिष्टकर्माणं त्वां शुक्रे अक्लिष्टकर्मणि निग्राभ्यालक्षणे उदके आधूनोमि । अह्नोरूपे दिवसस्य रूपे तदपि शुक्रमेव भवति । सूर्यस्य च रश्मिषु । रश्मयस्तु प्रकाशरूपत्वादेवं भवन्ति ॥ ४८॥
म० 'धूनोत्यᳪं᳭ शुभिर्व्रेशीनां त्वेति गच्छन्नाहवनीयमिति' ( का० १२ । ५ । १७ ) । आहवनीयसमीपं गच्छन्नंशुभिरदाभ्यग्रहस्थानि जलानि चालयेत् । एतदादीनि विश्वेषां देवानामित्यन्तानि सोमदेवत्यानि देवदृष्टानि । हे सोम, व्रेशीनां व्रजतो मेघस्योदरे शेरते ता व्रेश्यो मेघोदरस्था आपस्तासां पत्मन् पतने निमित्ते वृष्टिनिष्पत्त्यर्थं त्वा त्वामाधूनोमि कम्पयामि । कुकूननानाम् । 'कुङ् शब्दे' अत्यर्थं कुवन्त्यः शब्दं कुर्वाणा नमन्ति प्रह्वीभवन्तीति कुकूनना मेघस्था आपस्तासां पतने त्वां कम्पयामि । भन्दनानाम् । 'भदि कल्याणे सुखे च' भन्दन्तीति भन्दनाः कल्याणकारिण्यः सुखयित्र्यो वा मेध्या आपः अन्यत्पूर्ववत् । मदिन्तमानाम् मादयन्तीति मदिन्यः अत्यर्थं मदिन्यो मदिन्तमाः । तमपि पुंवद्भावः 'नलोपः प्रातिपदिकान्तस्य' (पा० ८ । २ । ७) इति नलोपः 'नाद्धस्य' (पा० ८ । २ । १७ ) इति छान्दसो नुडागमः । अत्यन्तं तर्पयन्त्यो मेध्या आपः। मधुन्तमानाम् अत्यन्तं मधुस्वादोपेता मधुन्तमाः एवंविधानामपां पतने त्वां धूनोमि । किंच । शुक्रं शुद्धमक्लिष्टकर्माणं त्वां शुक्रे शुद्धे अक्लिष्टकर्मणि निग्राभ्या लक्षणे जले त्वामाधूनोमि । किंच अह्नो दिवसस्य रूपे सूर्यस्य रश्मिषु हे सोम, त्वामाधूनोमि ॥४८॥

एकोनपञ्चाशी।
ककु॒भᳪं᳭ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हच्छु॒क्रः शु॒क्रस्य॑ पुरो॒गाः सोम॒: सोम॑स्य पुरो॒गाः ।
यत्ते॑ सोमा॒दा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ।। ४९ ।।
उ० ककुभᳪं᳭ रूपं वृषभस्य । ककुभमिति महन्नामसु पठितम् । अस्य सोमलक्षणस्य वृषभस्य ककुभमादित्यलक्षणं रूपं रोचते दीप्यते । बृहन्महत्प्रभावतः शुक्रः शुक्रस्य पुरोगाः । शुक्र आदित्यः शुक्रस्य आदित्यस्य पुरोगामी । सोम एव सोमस्य पुरोगामी भवितुमर्हति यस्माद् अतः कारणात् यत्ते तव हे सोम, अदाभ्यमनुपहिंस्यं नाम जागृवि जागरणशीलं तस्मै त्वा गृह्णामि । जुहोति । तस्मै ते तव हे सोम, सोमाय स्वाहा । 'तत्सोममेवैतत्सोमाय जुहोति' इति श्रुतिः ॥ ४९॥
म० हे सोम, वृषभस्य श्रेष्ठस्य तव ककुभं महत् आदित्यलक्षणं रूपं रोचते दीप्यते । ककुभमिति महन्नामसु पठितम् । बृहत् महान् शुक्रः शुद्ध आदित्यः शुक्रस्य शुद्धस्य सोमस्य तव पुरोगाः पुरोगामी । सोम एव सोमस्य पुरोगाः पुरोगामी भवितुमर्हति । हे सोम, ते त्वदीयमदाभ्यमनुपहिंसितं जागृवि जागरणशीलं यन्नामास्ति तस्मै त्वां गृह्णामि । 'तस्मै त इति जुहोतीति' ( का. १२ । ५। १७) अदाभ्यं जुहोति । सौम्यम् हे सोम, तस्मै तादृशाय ते तुभ्यं स्वाहा सुहुतमस्तु । 'तत्सोममेवैतत्सोमाय जुहोति' (११।५ । ९ । ११) इति श्रुतेः ॥ ४९ ॥

पञ्चाशी।
उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽपी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथोऽपी॑ह्य॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि ।। ५० ।।
उ० अंशून् सोमे निदधाति । उशिक्त्वम् । 'वश कान्तौ' अस्य क्विपि उशिगिति भवति । यतः उशिक् कान्तः वल्लभः त्वं हे देव, सोम, अस्माकमतः अग्नेः प्रियं पाथः अन्नम् अपि इहि अपि गच्छ । वशी च त्वम् । 'वश कान्तौ' । शेषं व्याख्यातम् । अस्मत्सखा अस्माकं सखा । शेषं प्रगुणम् ॥ ५० ॥
म०. 'अᳪं᳭ शून्सोमे निदधात्युशिक्त्वमिति प्रतिमन्त्रमिति' (का० १२ । ५ । १८ ) मन्त्रत्रयेणोलूखलस्थानंशून्सोमे क्षिपेत् । तत्राद्यः । हे देव, दीप्यमान हे सोम, उशिक् कामयमानस्त्वमग्नेः प्रियं पाथोऽन्नमपीहि अपिगच्छ । द्वितीयः । हे देव सोम, वशी कान्तस्त्वमिन्द्रस्य प्रियमन्नं प्राप्नुहि । अथ तृतीयो मन्त्रः । हे देव सोम, अस्मत्सखा अस्माकं मित्रभूतस्त्वं विश्वेषां देवानां प्रियमभिरुचितमन्नं प्राप्नुहि 'अग्निर्वै प्रातःसवनमिन्द्रो माध्यन्दिनं सवनᳪं᳭ विश्वेदेवास्तृतीयᳪं᳭ सवनम्' इति श्रुतेः सवनदेवेभ्योऽर्पणम् ॥ ५० ॥

एकपञ्चाशी।
इ॒ह रति॑रि॒ह र॑मध्वमि॒ह धृति॑रि॒ह स्वधृ॑ति॒: स्वाहा॑ ।
उ॒प॒सृ॒जन् ध॒रुणं॑ मा॒त्रे ध॒रुणो॑ मा॒तरं॒ धय॑न् । रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त्स्वाहा॑ ।। ५१ ।।
उ० सत्रोत्थानं देवानामार्षम् । गार्हपत्ये द्वे आहुती जुहोति । इह रतिः । उत्क्रामन्ते पशवो नियम्यन्ते । इह यजमानेषु भवतां रतिः रमणम् । रम्णातिः संयमनकर्मा । यत एवमत इहैव रमध्वम् । इह धृतिर्भूयात् । इह स्वधृतिः । यत एवमत इहैव साधु धारणं भूयात् । पशूनां यजमानविषया धृतिः प्रार्थ्यते । द्वितीयां जुहोति । उपसृजन् उष्णिक् । उपसृजन्संसृजन् धरुणं धारयितारमग्निं मात्रे पृथिव्यै । मातात्र पृथिव्युच्यते । वरुणो धारयिताग्निर्मातरं पृथिवीं धयन् पिबन् रायस्पोषम् । पशवो वै रायस्पोषः' इति श्रुतिः। | पशून् अस्मासु दीधरत् धारयतु ॥ ५१ ॥ ।
म० अथ सत्रोत्थानमन्त्रा देवदृष्टाः । 'शालाद्वार्येऽन्वारब्धेष्विह रतिरिति जुहोतीति' ( का० १२ । ४ । १०)। सर्वेषु दीक्षितेष्वध्वर्युस्पृष्टेष्विदानींतनगार्हपत्ये घृतं जुहुयात् । पशुदैवतं यजुः । हे गावः, युष्मदीया रतिः रमणमिह यजमानेष्वस्तु । इहैव यूयं रमध्वम् । युष्माकमिह यजमानेषु धृतिः संतोषोऽस्तु । स्वधृतिः स्वकीयानामपि धृतिरिहैवास्तु । स्वाहा सुहुतमस्तु । 'अपरामुपसृजन्निति' ( का० १२ । ४ । ११) | शालाद्वार्ये एव द्वितीयाहुतिः उष्णिक् आद्यावष्टाक्षरौ तृतीयो द्वादशार्णः सोष्णिक् । धारयतीति धरुणोऽग्निरस्मासु रायस्पोषं रायो धनस्य पशुपुत्रसुवर्णादेः पुष्टिं दीधरत् धारयतु । धारयतेर्लुंङि रूपम् । अडभाव आर्षः । किंभूतो धरुणः । मात्रे धरुणम् । षष्ठ्यर्थे चतुर्थी । मातुः पृथिव्या धारयितारमग्निमुपसृजन् समीपं प्रापयन् तथा मातरं पृथिवीं धयन्पिबन् । तत्रोत्पन्नं हविर्भक्षयन्नित्यर्थः । स्वाहेति होमार्थः ॥ ५१॥

द्विपञ्चाशी।
स॒त्रस्य॒ ऋद्धि॑र॒स्यग॑न्म॒ ज्योति॑र॒मृता॑ अभूम॒ । दिवं॑ पृथि॒व्या अध्याऽरु॑हा॒मावि॑दाम दे॒वान्त्स्व॒र्ज्योति॑: ।। ५२ ।।
उ० सत्रस्य ऋद्धिं गायन्ति । सत्रस्य ऋद्धिरसि। बृहती। यजमामानां संस्तवः । सत्रस्य समृद्धिस्त्वमसि । यतोऽगन्म आगताः ज्योतिरादित्यलक्षणम् । अमृताश्च अभूम भूताः । दिवं चाध्यारुहाम अध्यारूढाः । पृथिव्याः सकाशात् द्युलोकं चारूढाः सन्तः अविदाम देवान् जानीमः पश्यामो देवान् स्वः स्वर्गं च पश्यामः ज्योतिरादित्यलक्षणं च । अविदामः इत्यनुवर्तते ॥ ५२ ॥
म० 'सत्रस्यर्द्धिं गायन्ति सत्रस्य ऋद्धिरिति' ( का० १२ । ४ । १२) । सर्वे दीक्षिता उत्तरहविर्धानापरकूवरीमालम्ब्य सत्रर्द्धिसंज्ञकं साम गायन्ति । बृहती यजमानानामात्मस्तुतिः सप्तैकादशनवार्णपादा। हे साम, सत्रस्य ऋद्धिः समृद्धिः त्वमसि अतो वयं यजमाना ज्योतिरादित्यलक्षणमगन्म प्राप्ताः । ततः अमृता अमरणधर्माणः अभूम भूताः । पृथिव्याः सकाशाद्दिवं द्युलोकमध्यारुहाम । अध्यारूढाः द्युलोकारूढाः ततो देवानिन्द्रादीनविदाम जानीमः पश्याम इत्यर्थः । वेत्तेर्व्यत्ययेन तुदादित्वे लङि रूपम् । ज्योतिर्ज्योतीरूपं स्वः स्वर्ग चाविदाम ॥ ५२ ॥

त्रिपञ्चाशी।
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो न॑: पृत॒न्यादप॒ तं त॒मिद्ध॑तं॒ वज्रे॑ण॒ तं त॒मिद्ध॑तम् । दू॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् । अ॒स्माक॒ᳪं᳭ शत्रू॒न्परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्षीष्ट वि॒श्वत॑: । भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याम सु॒वीरा॑ वीरैः सु॒पोषा॒: पोषै॑: ।। ५३ ।।
उ० दक्षिणस्य हविर्धानस्याधोक्षं संसर्पन्ति । युवं तमिन्द्रापर्वता । अतिच्छन्दा अष्टिः अत्यष्टिर्वा । त्र्यवसाना ऐन्द्री। प्रथमोऽर्धर्च ऐन्द्रापार्वतः । हे इन्द्रापर्वतौ, युवं तं यत्नमनुतिष्ठतम् । येन यत्नेन पुरोयुधा पुरोग्रे युत् युध्यतीति पुरोयुत् तेन पुरोयुधा बलेन । यो नः पृतन्यात् अप तं तमिद्धतमिति तदो वीप्साश्रवणाद्यदोऽपि वीप्सा क्रियते । यो यः शत्रुर्नोऽस्मान् पृतन्यात्संग्रमयेद्योधयेत् । अप तं तम् इद्धतम् । अपहतं विनाशयतं शत्रुम् । इच्छब्दोऽनर्थकः । वज्रेण तं तम् इत् हतम् । वज्रणेत्यायुधनियमः शत्रूणामुन्मूलनाय । व्याख्यातमन्यत् । इत उत्तरमिन्द्रः प्रत्यक्षो वज्रस्य तु कर्तृत्वं विवक्षितं परोक्षस्य सतः । दूरे चत्ताय छन्त्सत् । चततिर्गतिकर्मा । दूरे गताय नष्टाय शत्रवे । छन्त्सत् । छन्दतिः कामनार्थः । कामयताम् । हे इन्द्र, त्वदीयो वज्रः शत्रवे विनाशं कामयताम् । कथं परवशो वर्ततामिति चेत् कथं वज्रस्य शत्रुविनाशकामना इति चेत्, आत्मैषां रथो भवत्यात्माश्व आत्मायुधमित्यदोषः । गहनं यदिनक्षत् । गहनं वनमुच्यते उदकं वा । इनक्षतिर्व्याप्तिकर्मा । इनक्षत् रूपसादृश्यादुदकं वनं वा यत् व्याप्नोति पलाय्य गच्छति तथापि विनाशयति शत्रुर्ग्रहरूपेण तस्यापि विनाशं कामयतां त्वदीयो वज्रः । अस्माकᳪं᳭ शत्रून्परिशूर विश्वतो दर्मा दर्षीष्ट । हे शूर, त्वदीयो वज्रः अस्माकं ये शत्रवः तान्परिदर्षीष्ट । 'दॄ विदारणे' । परिविदारयतु । कथंभूतो वज्रः। दर्मा विदारणशीलः । कुतोऽवस्थितान् शत्रून् । विश्वतः सर्वतः । जपन्ति भूर्भुवःस्वः सुप्रजाः प्रजाभिः स्याम सुवीरा वीरैः सुपोषाः पोषैः । एकवचनान्तो व्याख्यातः । अयं तु बहुवचनान्तः ॥ ५३ ॥ सत्रोत्थानं समाप्तम् ॥
म० 'युवं तमिति दक्षिणस्याधोऽक्षं प्राञ्चो निःक्रामन्तीति' ( का० १२ । ४ । १४ )। सर्वे यजमाना दक्षिणहविर्धानाक्षाधोमार्गेण प्राङ्मुखाः निःसरन्ति । इन्द्रदेवत्यात्यष्टिरवसानत्रयोपेता षट्षष्ट्यक्षरत्वात् द्व्यूना आद्योऽर्धर्च इन्द्रपर्वतदेवत्यः । हे पुरोयुधा पुरोयुधौ पुरोऽग्रे युध्येते तौ पुरोयुधौ ‘इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । शत्रूणां पुरतो युद्धस्य कर्तारौ हे इन्द्रापर्वता इन्द्रपर्वतौ, युवं युवां तं शत्रुमपहतं विनाशयतम् । आदरे वीप्सा तं तम् । इदेवार्थे । तं तमेव शत्रुमपहतं तत्तत्समानमेव सर्वमपि शत्रुं विनाशयतम् । | तत्रापि विशेष्यते । वज्रेण वज्राख्येनायुधेन तं तमित् तं तमेव शत्रुं विनाशयतम् । तदो वीप्साश्रवणाद्यदोऽपि वीप्सा । यो यः शत्रुर्नोऽस्मान्पृतन्यात् पृतनां सेनां कुर्यात् । योधयेदित्यर्थः । इदानीमिन्द्रः प्रत्यक्षो वज्रस्य कर्तृत्वं चोच्यते । हे शूर इन्द्र, त्वदीयो वज्रो यद्यदा गहनमत्यन्तगम्भीरं वनं जलं वा प्रति दूरे चत्ताय । चततिर्गतिकर्मा । वनेऽतिदूरगताय शत्रवे छन्त्सत् । छन्दतिः कामनार्थः । शत्रुं प्राप्तुं कामयते तदा तमपि दूरगतमिनक्षन्प्राप्नुयात् । इनक्षतिर्व्याप्तिकर्मा । वने दूरगतमपि इच्छन् गृह्णात्येवेत्यर्थः । ततो दर्मा दारयतीति दर्मा 'दॄ विदारणे' 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) । इति मनिन्प्रत्ययः । विदारणशीलो वज्रः अस्माकमस्मदीयान् विश्वतः सर्वतः स्थितान् विश्वतः सर्वाञ्शत्रून् परिदर्षीष्ट परितो विदारयतु । दीर्यतेराशीर्लिङि तङि रूपम् । 'पृथक्कामेषु भूर्भुव इति' ( का० १२ । ४ । २८)। नानाकामेषु यजमानेषु सर्वे वाग्विसर्जनं कुर्युः । हे भूर्भुवःस्वः अग्निवायुसूर्याः, वयं प्रजाभिः सुप्रजाः स्याम वीरैः पुत्रैः सुवीराः स्याम । पोषैः पुष्टिभिः सुपोषाः स्याम भवेम । एकवचनान्तोऽयं व्याख्यातः । अत्र तु बहुवचनान्तो मन्त्रः ॥ ५३ ॥

चतुःपञ्चाशी।
प॒र॒मे॒ष्ठ्य॒भिधी॑तः प्र॒जाप॑तिर्वा॒चि व्याहृ॑तायामन्धो॒ अच्छे॑तः । स॑वि॒ता स॒न्यां वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्याम् ।। ५४ ।।
उ० परमेष्ठ्यभिधीतः । आअध्यायसमाप्तेर्नैमित्तिकानि । वसिष्ठस्यार्षम् । परमेष्ठ्यादिश्रुतिः चतुस्त्रिᳪं᳭ शत्सु सोमावस्थासु चतुस्त्रिᳪं᳭ शद्देवताभिधायिनी ऋज्वर्था। अभिधीतः अभिध्यातः संकल्पितो यजमानेन । सोमोपनायनमेतत् वाचोभिर्व्याहृतः । अहं सोमेन यक्ष्ये इत्युक्तं भवति । अच्छेतः। अच्छाभेराप्तुमिति शाकपूणिः । सोममभि इतो गतः सोमं व्याप्तुमितो गतः । अन्धोऽन्नमुच्यते । सविता सन्याम् । सनोतिः संभजनार्थः । सोमसंभक्तौ सत्याम् सलिलः प्रप्लुतः प्रप्लुतो निमग्नः । शेषं प्रगुणम् ॥ ५४॥
म० 'परमेष्ठ्यादींश्चतुस्त्रिᳪं᳭ शतं जुहोति घर्मदुग्ध्वाले चादोहे चोदीच्या दोहस्थानेऽन्यस्याः शालाया वा पुरस्तात्प्राच्याः पुच्छकाण्डाद्दक्षिणेऽस्थनि हुत्वा दोहयेत् पृषदाज्यस्कन्दने चैक इति' ( का० २५। ६ । १-६) । मृण्मयघर्मपात्रभेदे भिन्नमभिमृश्य परमेष्ठिने स्वाहा प्रजापतये स्वाहेत्यादीन्सलिलाय स्वाहेत्यन्तांश्चतुस्त्रिंशद्धोमाञ्जुहोति । घर्मदुहो गोर्मरणे तत्स्थाने उदङ्मुख्याः स्थितायाः पत्नीशालापूर्वभागे प्राङ्मुख्या वा पुच्छाद्दक्षिणेऽस्थनि परमेष्ठिने स्वाहेति चतुस्त्रिंशतमाज्याहुतीर्हुत्वा तां दोहयेत् । स्थालीस्थस्य स्रुक्स्थस्य वा पृषदाज्यस्य वा भ्रंशे एके आचार्याः परमेष्ठ्यादीञ्जुह्वतीति सूत्रार्थः । परमेष्ठ्यादयो देवा यज्ञस्य शरीराणि तस्मात्तत्तदवस्थायां होमे यज्ञश्चिकित्सितः प्रतिसंदितो भवति । तथाच श्रुतिः ‘सोमो वै राजा यज्ञः प्रजापतिस्तस्यैतास्तन्वो या एता देवता या एता आहुतीर्जुहोति स यद्यज्ञस्यार्च्छेद्यां तत्प्रति देवतां मन्येत तामनुसमीक्ष्य जुहुयाद्यदि दीक्षोपमत्स्वाहवनीये यदि प्रसुत आग्नीध्रे विवा एतद्यज्ञस्य पर्व स्रᳪं᳭ सते यद्ध्वलति सा यैव तर्हि तत्र देवता भवति तयैवैतद्देवतया यज्ञं भिषज्यति तया देवतया यज्ञं प्रतिसन्दधातीति' ( १२ । ५।१।१-२)। अथ मन्त्रार्थः । आध्यायाद्वसिष्ठ ऋषिः । यदा सोमो यजमानेनाभिधीतः संकल्पितो भवति । मनसाभिध्यातस्तदा परमेष्ठी भवति । अयमर्थः । मनसा ध्यातः सोमो यदि नोपनमेत् तदा परमेष्ठिने स्वाहेति जुहुयादिति । तथाच श्रुतिः ‘स यद्येनं मनसाभिध्यातो यज्ञो नोपनमेत् परमेष्ठिने स्वाहेति जुहुयात्परमेष्ठी हि स तर्हि भवत्यपपाप्मानᳪं᳭ हत उपेनं यज्ञो नमतीति' ( १२ । ५।१। ३)। वाचि व्याहृतायां सोमेन यक्ष्ये इति वचस्युच्चारिते सति सोमः प्रजापतिनामको भवति तदा प्रायश्चित्तापत्तौ प्रजापतये स्वाहेति जुहुयादित्यर्थः । यदा सोमः अच्छाभिमुख्येन इतः प्राप्तस्तदा अन्धो भवति । सोमं प्रति गतौ किंचिन्निमित्तं चेत्तदा अन्धसे स्वाहेति जुहुयात् । सन्यां सोमस्य संभक्तौ सत्यां सोमः सवितृनामको भवति तदा प्रायश्चित्तापत्तौ सवित्रे स्वाहेति जुहुयात् । 'अथ यदि सातः किंचिदापद्येत सवित्रे स्वाहेति जुहुयात्' (१२ । ५।१।६) इति श्रुतेः । दीक्षायां सत्यां सोमो विश्वकर्मेत्युच्यते तदा विश्वकर्मणे स्वाहेति जुहुयात् । सोमः क्रीयतेऽनया सा सोमक्रयणी गौस्तस्यामानीतायां सत्यां सोमः पूषा भवति । तदा निमित्ते पूष्णे स्वाहेति जुहुयात् ॥ ५४ ॥

पञ्चपञ्चाशी।
(१)इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॒तो ऽसु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तो विष्णु॑: शिपिवि॒ष्ट ऊ॒रावास॑न्नो॒ विष्णु॑र्न॒रन्धि॑षः ।। ५५ ।।
म०. क्रयाय द्रव्यदानेनात्मसात्करणायोपोत्थितः उपस्थापितः सोम इन्द्रामरुन्नामकश्च भवति तदा इन्द्राय मरुद्भ्यश्च स्वाहेति जुहुयात् । क्रीयमाणः सोमोऽसुरो भवति असुराय स्वाहेति तदा जुहुयात् । यजमानेन क्रीतः सोमो मित्रो भवति तदा मित्राय स्वाहेति जुहुयात् । ऊरौ यजमानोत्सङ्गे आसन्नः स्थितः सोमः शिपिविष्टो विष्णुर्भवति । शिपिषु प्राणिषु यज्ञेषु वा विष्टः प्रविष्ट एतद्गुणको विष्णुरित्यर्थः । तदा प्रायश्चित्तापत्तौ विष्णवे शिपिविष्टाय स्वाहेति जुहुयात् । प्रोह्यमाणः शकटेनोह्यमानः सोमो विष्णुर्नरन्धिषो भवति नरो धीयन्ते आरोप्यन्ते यस्मिन् स नरन्धिः संसारः तं स्यति नाशयति नरन्धिषः जगत्संहर्तृविशिष्टो विष्णुः । यद्वा 'रध हिंसायाम्' रध्यति हिनस्ति रन्धिषः हन्ता न रन्धिषः नरन्धिषः जगत्पालको वा विष्णुः । तदा विष्णवे नरन्धिषाय स्वाहेति जुहुयात् ॥ ५५ ॥
१ इतश्चतुर्णां मन्त्राणां भाष्यमस्मत्संपादितेषु चतुर्ष्वप्यादर्शेषु नोपलभ्यते।

षट्पञ्चाशी।
प्रो॒ह्यमा॑ण॒: सोम॒ आग॑तो॒ वरु॑ण आस॒न्द्यामास॑न्नो॒ ऽग्निराग्नी॑ध्र॒ इन्द्रो॑ हवि॒र्धाने ऽथ॑र्वोपावह्रि॒यमा॑णः ।। ५६ ।।
म० शकटादागतोऽवरूढः सोमनामको भवति तदा सोमाय स्वाहेति जुहुयात् । आसन्द्यां मञ्चिकायामुपविष्टः सोमो वरुणो भवति तदा वरुणाय स्वाहेति जुहुयात् । आग्नीध्रे वर्तमानः सोमोऽग्निर्भवति तदाग्नये स्वाहेति जुहुयात् । हविर्धाने वर्तमानः सोम इन्द्रो भवति तदेन्द्राय स्वाहेति जुहुयात् । 'हृदे त्वा मनसे त्वे' (अ० ७ क० १९ ) ति मन्त्रेण कण्डनार्थमुपावह्रियमाणः आनीयमानः सोमोऽथर्वनामको भवति तदाथर्वणे स्वाहेति जुहुयात् ॥ ५६ ॥

सप्तपञ्चाशी।
विश्वे॑दे॒वा अ॒ᳪं᳭ शुषु॒ न्युप्तो॒ विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑नो॒ विष्णु॑: सम्भ्रि॒यमा॑णो वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः शु॒क्र: क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः ।। ५७ ।।
म० अंशुषु सोमखण्डेषु न्युप्तः कण्डनं कृत्वारोपितः सोमो विश्वदेवनामको भवति तदा विश्वेभ्यो देवेभ्यः स्वाहेति जुहयात् । 'अᳪं᳭ शुरᳪं᳭ शुष्ट' ( अ० ५। क० ७) इत्यादिमन्त्रेण आप्याय्यमानः वर्ध्यमानः सोम आप्रीतपा विष्णुर्भवति । आ समन्तात्प्रीतान्स्वस्मिन्प्रीतिमतो भक्तान्पाति रक्षतीत्याप्रीतपाः सद्गुणविशिष्टः । तदा विष्णवे आप्रीतपाय स्वाहेति जुहुयात् । अभिषूयमाणः सोमो यमो भवति तदा यमाय स्वाहेति जुहुयात् । सम्यग्भ्रियमाणः पुष्यमाणः सोमो विष्णुर्भवति तदा विष्णवे वाहेति जुहुयात् । दशापवित्रेण पूयमानः सोमो वायुर्भवति तदा वायवे स्वाहेति जुहुयात् । पूतः सोमः शुक्रो भवति तदा शुक्राय स्वाहेति जुहुयात् । क्षीरेण दुग्धेन श्रीयते मिश्रीक्रियत इति क्षीरश्रीः तदा शुक्र एव सोमो भवति तदापि शुक्राय स्वाहेति जुहुयात् । सक्तुभिर्मिश्रितः सोमो मन्थी भवति तदा मन्थिने स्वाहेति जुहुयात् ॥ ५७ ॥

अष्टपञ्चाशी।
विश्वे॑ दे॒वाश्च॑म॒सेषून्नी॒तोऽसु॒र्होमा॒योद्य॑तो रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑त्तो नृ॒चक्षा॒: प्रति॑ख्यातो भ॒क्षो भ॒क्ष्यमा॑णः पि॒तरो॑ नाराश॒ᳪं᳭ साः ।। ५८ ।।
म० चमसेषु ग्रहपात्रेषून्नीतो गृहीतः सोमो विश्वदेवसंज्ञो भवति तदा विश्वेभ्योदेवेभ्यः स्वाहेति जुहुयात् । होमार्थमुद्यतः सोमोऽसुसंज्ञो भवति तदा असवे स्वाहेति जुहुयात् । हूयमानः सोमो रुद्रो भवति तदा रुद्राय स्वाहेति जुहुयात् । अभ्यावृत्तः होमशेषीभूतः सदः प्रति भक्षणार्थमानीतः सोमो वातो भवति तदा वाताय स्वाहेति जुहुयात् । प्रतिख्यातः ब्रह्मन्नुपह्वयस्वेत्यादिना भक्षणार्थं पृष्टः सोमो नृचक्षा भवति नॄन् मनुष्यान् चष्टे शुभाशुभकारिणः पश्यतीति नृचक्षाः तदा नृचक्षसे स्वाहेति जुहुयात् । भक्ष्यमाणः पीयमानः सोमो भक्षो भवति तदा भक्षाय स्वाहेति जुहुयात् । भक्षयित्वा सन्नः स्वखरेषु सादितः सोमो नाराशंसाः पितरो भवन्ति नरो अस्मिन्नासीनाः शंसन्तीति नराशंसो यज्ञस्तत्र हिता योग्या वा नाराशंसा नाराशंसगुणविशिष्टाः पितरः तदा निमित्तापत्तौ पितृभ्यो नाराशंसेभ्यः स्वाहेति जुहुयात् ॥ ५८ ॥

एकोनषष्टी।
स॒न्नः सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रो॒ऽभ्यवह्रि॒यमा॑णः स॑लि॒लः प्रप्लु॑तो
ययो॒रोज॑सा स्कभि॒ता रजा॑ᳪं᳭ सि वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
या पत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ।। ५९ ।।
उ० स्कन्नमभिमृशति । ययोरोजसा । वैष्णवीवारुणी त्रिष्टुप् । ययोर्विष्णुवरुणयोः ओजसा बलेन । स्कभिता रजाᳪं᳭ सि। स्कभ्नोतिः स्तम्भनार्थः । लोका रजांस्युच्यन्ते । स्तंभिता लोका न चलन्ति । यौ च वीर्येभिर्वीर्यैः स्वकीयैवीरतमौ शविष्ठौ बलिष्ठौ च श्येनाविव परबलेषु पततः । अप्रतीतौ अप्रतिगतौ अनन्याश्रितौ । सहोभिः स्वकीयैरेव बलैः तौ विष्णुवरुणौ तुल्यकार्यत्वादुभावपि विष्णू उभावपि वरुणौ । द्वितीयाद्विवचनमेतत् । अगन् गतो यज्ञः । यज्ञसाधनभूतं स्कन्नं द्रव्यं यज्ञशब्देनोच्यते । पूर्वहूतौ पूर्वस्मिन्नाह्वाने यावत्प्रधानं न हूयते तावद्विष्णुवरुणौ प्रति यज्ञो गत इत्यर्थः । यद्वा पूर्वं हूयेते इति पूर्वहूतौ विष्णुवरुणौ प्रति अगन्प्रत्यगच्छत् । गतो यज्ञ इति संबन्धः ॥ ५९ ॥
म० अवभृथार्थमुद्यतः सोमः सिन्धुर्भवति तदा सिन्धवे स्वाहेति जुहुयात् । जलमभिमुखं नीयमानः सोमः समुद्रो भवति तदा समुद्राय स्वाहेति जुहुयात् । प्रप्लुतोऽप्सु निमग्नः सोमः सलिलो भवति तदा प्रायश्चित्तापत्तौ सलिलाय स्वाहेति जुहुयात् । एताभिर्यज्ञाहुतिभिर्यज्ञः चिकित्सितः प्रतिसंहितश्च भवतीत्यर्थः । तथाच श्रुतिः ‘ता वा एताश्चतुस्त्रिᳪं᳭ शतमाज्याहुतीर्जुहोति त्रयस्त्रिᳪं᳭ शद्वै देवाः प्रजापतिश्चतुस्त्रिᳪं᳭ श एतदु सर्वैर्देवैर्यज्ञं भिषज्यति सर्वैर्देवैर्यज्ञं प्रतिसंदधातीति' ( १२ । ५। १ । ३७) । 'ययोरोजसेति चोदकेनोपसिञ्चेदिति' ( का. २५ । २ । ९)। अभिमर्शनेन विकल्पः । स्कन्नं रसरूपं सोमं जलेन सिञ्चेत् कालाहुतिहोमं वाचनं च कृत्वेति ज्ञेयम् । विष्णुवरुणदेवत्या त्रिष्टुप् । पूर्वार्धे यच्छब्दोपादानात्तच्छब्दाध्याहारः। तौ विष्णू तौ वरुणौ । एकत्र विष्णुशब्दस्यैकशेषोऽन्यत्र वरुणशब्दस्य तुल्यकार्यत्वादुभावपि विष्णू उभावपि वरुणौ कर्मभूतौ प्रति अगन् गतं स्कन्नं यज्ञसाधनमिति शेषः । कदा पूर्वहूतौ पूर्वस्मिन्नाह्वाने यावत्प्रधानं हूयते तावदेव विष्णुं वरुणं च प्रति स्कन्नं हविर्गतमित्यर्थः । विशेषणं वा । पूर्वं हूयेते तौ पूर्वहूतौ विष्णुवरुणौ प्रति हविरगन्निति संबन्धः । तौ कौ ययोर्विष्णुवरुणयोरोजसा बलेन रजांसि लोकाः स्कभिता स्तम्भितानि । 'लोका रजांस्युच्यन्ते' ( नि० ४ । १९) इति यास्कः । स्कभ्नोतिः स्तम्भनार्थः । किंच या यौ विष्णुवरुणौ पत्येते ईशाते ऐश्वर्यं कुर्वाते जगतामीश्वरावित्यर्थः । 'पत ऐश्वर्ये' दिवादिरात्मनेपदी । यद्वा पत्येते परसैन्येषु श्येनाविव पततः । किंभूतौ । वीर्येभिर्वीयैर्बलैर्वीरतमा अत्यन्तं वीरौ । तथा शविष्ठा । शव इति बलनाम । अत्यन्तं बलवन्तौ अतिशवस्विनौ शविष्ठौ 'विन्मतोर्लुक्' (पा० ५। ३ । ६५) इति विनिलोपे इष्ठनि टिलोपे शविष्ठाविति रूपम् । तथा सहोभिर्बलैरप्रतीता अप्रतिगतौ न केनापि संमुखं गन्तुं शक्यौ अनन्ययोध्यावित्यर्थः । न प्रतीयेते तावप्रतीतौ । एवंविधौ विष्णुवरुणौ प्रति स्कन्नं हविर्गतमित्यर्थः ॥ ५९ ॥

षष्टी।
दे॒वान्दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॒न॒न्तरि॑क्षमगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु
पि॒तॄन्पृ॑थि॒वीम॑गन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न्य॒ज्ञस्ततो॑ मे भ॒द्रम॑भूत् ।। ६०।।
उ० द्वितीयो मन्त्रविकल्पः । देवान्दिवम् । देवान् प्राप्य दिवं द्युलोकम् अगन् गतो यज्ञः ततो मा द्रविणमष्टु । ततो द्युलोकाद् द्रविणं यज्ञफलम् उत्पन्नं माम् अष्टु व्याप्नोतु । मनुष्यान् प्राप्य अन्तरिक्षलोकं गतो यज्ञः ततः उत्पन्नं फलं मा व्याप्नोतु पितॄन्प्राप्य पृथिवीलोकमगन् यज्ञः तत उत्पन्नं फलं मा व्याप्नोतु । अन्यमपि यं च कंच लोकं गतो यज्ञफलविशेषं ततो लोकात् मे मम भद्रमभूत् भवतु ॥ ६ ॥
म० 'देवान् दिवमिति सोमे' ( का० २५ । २ । ८)। सोमे स्कन्ने देवान् दिवमित्यभिमर्शनम् । अत्यष्टिर्यज्ञदेवत्या यजमानाशीः । अयं यज्ञो देवान्वाय्वादीन्प्राप्य दिवं द्युलोकमगन् अगच्छत् । ततो द्युलोकस्थाद् यज्ञात् द्रविणं विशिष्टभोगसाधनरूपं धनं यज्ञफलभूतं मा मामष्टु व्याप्नोतु । अश्नोतेः पदविकरणयोर्व्यत्ययः । अनेन सुकृतिनामारोहक्रममभिधायेदानीमवरोहक्रममाह । ततो द्युलोकादवरोहणकाले यज्ञो मनुष्यात् मनुष्यलोकमागच्छन् अन्तरिक्षलोकमगन् गतः । तत्र स्थितात् यज्ञाद् द्रविणं यज्ञफलं मामष्टु व्याप्नोतु । दक्षिणायने पु गमनागमनमाह । अयं यज्ञो धूमादिमार्गेण पितॄन्प्राप्य पृथिवीं भूलोकमगन् तत्र स्थिताद्यज्ञाद्द्रविणं मामष्टु व्याप्नोतु । किं बहुना । यं कंच यं कमपि लोकं यज्ञोऽगन् गतस्तस्माद् यज्ञात् मे मम भद्रं कल्याणमभूद्भूयादिति यजमानेनाशास्यते ॥ ६० ॥

एकषष्टी।
चतु॑स्त्रिᳪं᳭ श॒त्तन्त॑वो॒ ये वित॑त्नि॒रे य इ॒मं य॒ज्ञᳪं᳭ स्व॒धया॒ दद॑न्ते ।
तेषां॑ छि॒न्नᳪं᳭ सम्वे॒तद्द॑धामि॒ स्वाहा॑ घ॒र्मो अप्ये॑तु दे॒वान् ।। ६१ ।।
उ० महावीरभेदे होमः । चतुस्त्रिᳪं᳭ शत्। पङ्क्तिर्वा त्रिष्टुब्वा । चतुस्त्रिंशत्तन्तवो यज्ञस्य परमेष्ठ्यादयो ये यज्ञं वितत्निरे वितन्वन्ति । ये च इमं यज्ञं स्वधया अन्नेन ददन्ते । 'दद दाने' इत्यस्यैतद्रूपम् । पुष्यत्यर्थस्य तु पुष्णन्ति तेषां वितन्वतां यच्छिन्नं तदेतत्संदधामि । उकारोऽनर्थकः । स्वाहा सुहुतमस्तु । घर्मो महावीरो देवान् अपि गच्छतु ॥ ६१ ॥
म०. धर्मदेवत्या पतिस्त्रिष्टुब् वा द्वाचत्वारिंशदक्षरत्वात् । कात्यायनेनास्या विनियोगो नोक्तः । महावीरभेदे घृतहोमः शाखान्तरे। तन्वन्ति प्रायश्चित्तशमनेन यज्ञं विस्तारयन्तीति तन्तवो देवाश्चतुस्त्रिंशत्संख्याका ये परमेष्ठ्यादय इमं यज्ञं वितत्निरे वितेनिरे वितन्वन्ति । तनोतेर्लिटि तङि प्रथमबहुवचने 'लिटि धातोरनभ्यासस्य' (पा० ६ । १ । ८) इति द्वित्वे 'तलिपत्योश्छन्दसि' (पा० ६ । ४ । ९९ ) इत्युपधालोपे तत्निरे इति रूपम् । ये चेमं स्वधयान्नेन ददन्ते धारयन्ति 'दद दानधारणयोः' तेषां यज्ञं वितन्वतां देवानां यत् छिन्नं तदेतत् अहं संदधामि । उकारः पादपूरणः । स्वाहा सुहुतमस्तु । अनेन घृतहोमेन महावीरः संहितो भवत्वित्यर्थः । घर्मो महावीरः सविता सन्देवानप्येतु देवान्प्रति गच्छतु ॥ ६१ ॥

द्विषष्टी।
य॒ज्ञस्य॒ दोहो॒ वित॑तः पुरु॒त्रा सो अ॑ष्ट॒धा दिव॑म॒न्वात॑तान ।
स य॑ज्ञ धुक्ष्व॒ महि॑ मे प्र॒जाया॑ᳪं᳭ रा॒यस्पोषं॒ विश्व॒मायु॑रशीय॒ स्वाहा॑ ।। ६२ ।।
उ० यज्ञस्य दोह इति वाचयति । त्रिष्टुप् । प्रथमोऽर्धर्चो परोक्षो यज्ञः, द्वितीयः प्रत्यक्षो यज्ञः, अतो यत्तद्यां वाक्यपरिपूर्तिः क्रियते । यस्य तव यज्ञस्य सतः दोहः आहुतिपरिणामः विततः प्रसारितः पुरुत्रा बहुधा । ब्रह्मादिस्तम्बपर्यन्तो भूतग्रामो यज्ञपरिणाम इत्याशयः । य एवं दोहो दिग्भेदेनाष्टधा भिद्यमानो द्युलोकमन्वाततान भूमिमन्तरिक्षं च व्याप्य द्युलोकमन्वाततान स त्वं हे यज्ञ, धुक्ष्व प्रक्षर दोहं महि महान्तम् मे मम प्रजायाम् । अहं च रायस्पोषं धनस्य पुष्टिं विश्वं सर्वं च आयुः अशीय व्याप्नुयां त्वत्प्रसादात् ॥६२॥
म० 'सोमेज्योपपाते चैकैकां यथाकालᳪं᳭ हुत्वा यज्ञस्य दोह इति वाचयतीति' (का० २५ । ६ । ७)। सोमयागे यज्ञाङ्गविनाशे परमेष्ठ्यादिचतुस्त्रिंशदाहुतीनां मध्ये यथाकालम् 'अथ यदि पण्यमाने' ( १२ । ५। १ । १० ) इत्यादिश्रुत्युक्ते काले एकैकामाहुतिं हुत्वा यजमानं वाचयेत् । यज्ञदेवत्या त्रिष्टुप् । पूर्वार्धः परोक्षो द्वितीयः प्रत्यक्षोऽतो यच्छब्दाध्याहारेण योजना । हे यज्ञ, स त्वं मे मम प्रजायां सन्ततौ महि महिमानं धुक्ष्व क्षर देहीत्यर्थः । यद्वा महि महान्तं पूर्वोक्तं दोहं धुक्ष्व । अहं च त्वत्प्रसादाद्रायो धनस्य पोषं पुष्टिं विश्वं सर्वमायुश्चाशीय व्याप्नुयाम् । स कः । यस्य यज्ञस्य यजनीयस्य तव दोह आहुतिपरिणामः स प्रसिद्धो यज्ञफलरूपः पुरुत्रा बहुधा विततः प्रसृतः सन् दिग्भेदेनाष्टधा भिद्यमानो द्युलोकमन्वाततान व्याप । भूमिमन्तरिक्षं च व्याप्य स्वर्गं व्यापेत्यर्थः। ब्रह्मादिस्तम्बपर्यन्तो भूतग्रामो यज्ञपरिणाम इति भावः ॥ ६२ ॥

त्रिषष्टी।
आ प॑वस्व॒ हिर॑ण्यव॒दश्व॑वत्सोम वी॒रव॑त् । वाजं॒ गोम॑न्त॒मा भ॑र॒ स्वाहा॑ ।। ६३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायामष्टमोऽध्यायः॥८॥
उ० ध्वाङ्क्षारोहणे यूपस्य होमः । आपवस्व गायत्री सौमी पावमानी । हे सोम, आपवस्व प्रक्षर । हिरण्यवत् । क्रियाविशेषणान्येतानि । हिरण्यसंयुक्तम् । अश्ववदश्वसंयुक्तम् । वीरवत् वीरैः संयुक्तम् । वाजमन्नं च गोमन्तं गोभिः संयुक्तम् आभर । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः। अकृपणमाहर ॥ ६३ ॥
इति उवटकृतौ मन्त्रभाष्ये अष्टमोऽध्यायः ॥ ८॥
म० 'आपवस्व हिरण्यवदित्युद्गातृहोमो ध्वाङ्क्षारोहणे यूपस्येति' ( का० २५। ६ । ९)। पशौ सोमे च यूपस्य काकारोहणे उद्गात्रा होमः कार्यः । सोमदेवत्या गायत्री कश्यपदृष्टा । । हे सोम, त्वमापवस्व आगच्छ । तत्र क्रियाविशेषणानि । कथं हिरण्यवत्कनकयुक्तमश्ववदश्वयुक्तं वीरवद् वीरयुक्तं यथा तथा याहीत्यर्थः । स्वर्णाश्ववीरान्मह्यं देहीत्यर्थः । किंच हे सोम, गोमन्तं धेनुयुक्तं वाजमन्नमाभर आहर । अन्नं धेनूंश्च देहीत्यर्थः । स्वाहा सुहुतमस्तु । 'हृग्रहोर्भश्छन्दसि' (पा० ८।२। | ३२ ) इति भकारः ॥ ६३ ॥ प्रायश्चित्तानि समाप्तानि ।
श्रीमन्महीधरकृते वेददीपे मनोहरे।
ग्रहग्रहान्निमित्तान्तोऽष्टमोऽध्यायः समीरितः ॥ ८॥



टिप्पणी