सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/सत्रस्यर्द्धि

विकिस्रोतः तः
सत्रस्य ऋद्धिः साम
सत्रस्यर्द्धि साम
सत्रस्य ऋद्धिः

(१) x॥ सत्रस्यर्द्धि साम ॥ प्रजापतिस्त्रिष्टुबिन्द्रः ॥

औ꣢꣯हो꣯वा꣯औ꣯हो꣯वा꣯औ꣯होऽ३वा꣢। अ꣡गन्म꣢ज्यो꣡꣯ति꣢:।(द्विः)। अ꣡गन्म꣢ज्यो꣡꣯तिः।। अ꣢मृ꣡ता꣯अ꣢भू꣯म।(द्विः)। अमृ꣡ता꣯अ꣢भू꣯मा꣯। त꣡रिक्षं꣢पृथिव्या꣡꣯अध्या꣯रुहा꣢꣯मा꣯ । (द्विः) । त꣡रिक्षं꣢पृथिव्या꣡꣯अध्या꣯रुहा꣢꣯म । दि꣡वम꣢न्त꣡रिक्षा꣢꣯द꣡ध्या꣯रुहा꣢꣯म । (त्रिः) । अ꣡विदा꣢꣯मदे꣯वा꣡꣯न् । ( त्रिः) । समुदे꣢꣯वै꣡꣯रग꣢न्महि (त्रिः) । औ꣯हो꣯वा꣯औ꣯हो꣯वा꣯औ꣯होऽ३वा꣢ ।। सु꣡वर्ज्यो꣯ती꣣ऽ२३꣡४꣡५꣡ः ॥

( दी० ६० । प० २१ । मा० १७ )४( पे । १७०)


(१) x॥ सत्रस्यर्द्धि साम ॥ प्रजापतिस्त्रिष्टुबिन्द्रः ॥

औहोवाऔहोवाऔहोऽ३वा। अगन्मज्योतिः।(द्विः)। अगन्मज्योतिः।। अमृताअभूम।(द्विः)। अमृताअभूमा। तरिक्षंपृथिव्याअध्यारुहामा । (द्विः) । तरिक्षंपृथिव्याअध्यारुहाम । दिवमन्तरिक्षादध्यारुहाम । (त्रिः) । अविदामदेवान् । ( त्रिः) । समुदेवैरगन्महि (त्रिः) । औहोवाऔहोवाऔहोऽ३वा ।। सुवर्ज्योतीऽ२३४५ः ॥

( दी० ६० । प० २१ । मा० १७ )४( पे । १७०)


[सम्पाद्यताम्]

टिप्पणी

सत्त्रस्यर्द्ध्याग्नीध्रमुपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति। चतुरक्षराणिधनं भवति चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्ति। आतमितोर्निधनमुपयन्त्यायुरेव सर्वमाप्नुवन्ति - तांब्रा ५.४.७

पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒माऽरु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॒र्ज्योति॑रगाम॒हम् ।। वासं १७.६७ ।।

क्रमध्वम् अग्निना नाकम् उख्यꣳ हस्तेषु बिभ्रतः । दिवः पृष्ठꣳ सुवर् गत्वा मिश्रा देवेभिर् आद्ध्वम् ॥ पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् सुवर् ज्योतिर् अगा 2 महम् ॥ सुवर् यन्तो नापेक्षन्त आ द्याꣳ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारꣳ सुविद्वाꣳसो वितेनिरे ॥ अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः सुवर् यन्तु यजमानाः स्वस्ति ॥ - तैसं ४.६.५.२

महाव्रतम् -- चात्वालस्थानस्था एव प्रत्यङ्मुखाः सत्रस्यर्ध्याग्नीध्रीयमुपतिष्ठेरन् । तस्य ऋषयो देवताश्च विश्वेदेवाः । अगन्म ज्येतिरित्यादिभ्यो देवतापदेभ्यः प्रत्येकम् औहोवेति स्तोभेत् । तेषां पदवत्प्रवृत्तेः । अगन्म ज्योतिः । अमृता अभूम । अन्तरिक्षं पृथिव्या अध्यारुहाम । दिवमन्तरिक्षादध्यारुहाम । अविदाम देवान् । समु देवैरगन्महि । सुवर्ज्योतिरिति निधनानि । तस्योत्तमं निधनं यावदुच्छ्वासं ब्रूयुः । आर्षेयकल्पः अध्यायः २, पृ. १४४

यदुत्तरस्य हविर्धानस्य । जघन्यायां कूबर्यामगन्म ज्योतिरमृता अभूमेति ज्योतिर्वा एते भवन्त्यमृता भवन्ति ये सत्त्रमासते दिवं पृथिव्या अध्यारुहामेति दिवं वा एते पृथिव्या अध्यारोहन्ति ये सत्त्रमासतेऽविदाम देवानिति विन्दन्ति हि देवान्त्स्वर्ज्योतिरिति त्रिर्निधनमुपावयन्ति स्वर्ह्येते ज्योतिर्ह्येते भवन्ति तद्यदेवैतस्य साम्नो रूपं तदेवैते भवन्ति ये सत्त्रमासते - माश ४.६.९.१२

एताꣳ ह वा उदङ्कः शौल्बायनः[१] सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ।- तैसं. ७.४.५.४

  1. शुल्ब /शौल्बायनोपरि टिप्पणी