शुक्लयजुर्वेदः/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ०८ शुक्लयजुर्वेदः
अध्यायः ०९
[[लेखकः :|]]
अध्यायः १० →

अध्यायः 9
वाजपेय राजसूय यज्ञाङ्गमन्त्राः। वाजपेयः 1-34, राजसूयः 35-40

9.1
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर् वाजं नः स्वदतु स्वाहा ॥

9.2
ध्रुवसदं त्वा नृषदं मनःसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
अप्सुषदं त्वा घृतसदं व्योमसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
पृथिवीसदं त्वाऽन्तरिक्षसदं दिविसदं देवसदं नाकसदम् ।
उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥

9.3
अपाꣳ रसम् उद्वयसꣳ सूर्ये सन्तꣳ समाहितम् ।
अपाꣳ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् ।
उपयामगृहीतो सीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ॥

9.4
ग्रहा ऽ ऊर्जाहुतयो व्यन्तो विप्राय मतिम् ।
तेषां विशिप्रियाणां वो ऽ हम् इषमूर्जꣳ सम् अग्रभम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा जुष्टं गृह्णामि ।
एष ते योनिर् इन्द्राय त्वा जुष्टतमम् ।
सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तम् ।
विपृचौ स्थो वि मा पाप्मना पृङ्क्तम् ॥

9.5
इन्द्रस्य वज्रो ऽसि वाजसास् त्वयाऽयम् वाजꣳ सेत् ।
वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
यस्याम् इदं विश्वं भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ॥

9.6
अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवत वाजिनः ।
देवीर् आपो यो व ऽ ऊर्मिः प्रतूर्तिः ककुन्मान् वाजसास् तेनायं वाजꣳ सेत् ॥

9.7
वातो वा मनो वा गन्धर्वाः सप्तविꣳशतिः ।
ते ऽ अग्रेऽ श्वम् अयुञ्जꣳस् ते ऽ अस्मिन् जवम् आदधुः ॥

9.8
वातरꣳहा भव वाजिन् युज्यमान ऽ इन्द्रस्येव दक्षिणः श्रियैधि ।
युञ्जन्तु त्वा मरुतो विश्ववेदस ऽ आ ते त्वष्टा पत्सु जवं दधातु ॥

9.9
जवो यस् ते वाजिन् निहितो गुहा यः श्येने परीत्तो ऽ अचरच् च वाते ।
तेन नो वाजिन् बलवान् बलेन वाजजिच् च भव समने च पारयिष्णुः ।
वाजिनो वाजजितो वाजꣳ सरिष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥

9.10
देवस्याहꣳ सवितुः सवे सत्यसवसो बृहस्पतेर् उत्तमं नाकꣳ रुहेयम् ।
देवस्याहꣳ सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकꣳ रुहेयम् ।
देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् उत्तमं नाकम् अरुहम् ।
देवस्याहꣳ सवितुः सवे सत्यप्रसवस ऽ इन्द्रस्योत्तमं नाकम् अरुहम् ॥

9.11
बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत ।
इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत ॥

9.12
एषा वः सा सत्या संवाग् अभूद् यया बृहस्पतिं वाजम् अजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो वि मुच्यध्वम् ।
एषा वः सा सत्या संवाग् अभूद् ययेन्द्रं वाजम् अजीजपताजीजपतेन्द्रं वाजं वनस्पतयो वि मुच्यध्वम् ॥

9.13
देवस्याहꣳ सवितुः सवे सत्यप्रसवसो बृहस्पतेर् वाजजितो वाजं जेषम् ।
वाजिनो वाजजितोऽध्वन स्कभ्नुवन्तो योजना मिमानाः काष्ठां गच्छत ॥

9.14
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो ऽ अपिकक्ष आसनि ।
क्रतुं दधिक्रा ऽ अनु सꣳसनिष्यदत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत् स्वाहा ॥

9.15
उत स्मास्य द्रवतस् तुरणयतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।
श्येनस्येव ध्रजतो ऽ अङ्कसं परि दधिक्राव्णः स होर्जा तरित्रः स्वाहा ॥

9.16
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
जम्भयन्तो हिं वृकꣳ रक्षासि सनेम्य् अस्मद् युयवन्न् अमीवाः ॥

9.17
ते नो ऽ अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
सहस्रसा मेधसाता सनिष्यवो महो ये धनꣳ समिथेषु जभ्रिरे ॥

9.18
वाजे-वाजे ऽवत वाजिनो नो धनेषु विप्रा ऽ अमृता ऽ ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥

9.19
आ मा वाजस्य प्रसवो जगम्याद् एमे द्यावापृथिवी विश्वरूपे ।
आ मा गन्तां पितरा मातरा चा मा सोमो ऽ अमृतत्वेन गम्यात् ।
वाजिनो वाजजितो वाजꣳ ससृवाꣳसो बृहस्पतेर् भागम् अव जिघ्रत निमृजानाः ॥

9.20
आपये स्वाहा ।
स्वापये स्वाहा ।
ऽअपिजाय स्वाहा ।
क्रतवे स्वाहा ।
वसवे स्वाहा ।
ऽअहर्पतये स्वाहा ।
ऽअह्ने मुग्धाय स्वाहा ।
मुग्धाय वैनꣳशिनाय स्वाहा ।
विनꣳशिन ऽ आन्त्यायनाय स्वाहा ।
ऽऽअन्त्याय भौवनाय स्वाहा ।
भुवनस्य पतये स्वाहा ।
ऽअधिपतये स्वाहा ॥

9.21
आयुर् यज्ञेन कल्पताम् ।
प्राणो यज्ञेन कल्पताम् ।
चक्षुर् यज्ञेन कल्पताम् ।
श्रोत्रं यज्ञेन कल्पताम् ।
पृष्ठं यज्ञेन कल्पताम् ।
यज्ञो यज्ञेन कल्पताम् ।
प्रजापतेः प्रजा ऽ अभूम ।
स्वर्देवा ऽ अगन्म ।
अमृता ऽ अभूम ॥

9.22
अस्मे वो ऽ अस्त्व् इन्द्रियम् अस्मे नृम्णम् उत क्रतुर् अस्मे वर्चाꣳसि सन्तु वः ।
नमो मात्रे पृथिव्यै नमो मात्रे पृथिव्यै ।
ऽइयं ते राट् ।
यन्तासि यमनो ध्रुवो ऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा ॥

9.23
वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमꣳ राजानम् ओषधीष्व् अप्सु ।
ता ऽ अस्मभ्यं मधुमतीर् भवन्तु वयꣳ राष्ट्रे जागृयाम पुरोहिताः स्वाहा ॥

9.24
वाजस्येमां प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् ।
अदित्सन्तं दापयति प्रजानन् स नो रयिꣳ सर्ववीरं नि यच्छतु स्वाहा ॥

9.25
वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः ।
सनेमि राजा परियाति विद्वान् प्रजां पुष्टिं वर्धयमानो ऽ अस्मे स्वाहा ॥

9.26
सोमꣳ राजानमवसेऽग्निमन्वारभामहे।
आदित्यान् विष्णुꣳ सूर्यं ब्रह्माणं च बृहस्पतिꣳ स्वाहा ॥

9.27
अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय ।
वाचं विष्णुꣳ सरस्वती सवितारं च वाजिनꣳ स्वाहा ॥

9.28
अग्ने ऽ अच्छावदेह नः प्रति नः सुमना भव ।
प्र नो यच्छ सहस्रजित्त्वꣳ हि धनदा ऽ असि स्वाहा ॥

9.29
प्र नो यच्छत्व् अर्यमा प्र पूषा प्र बृहस्पतिः ।
प्र वाग् देवी ददातु नः स्वाहा ॥

9.30
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यन्तुर् यन्त्रिये दधामि बृहस्पतेष् ट्वा साम्राज्येनाभि षिञ्चाम्य् असौ ॥

9.31
अग्निर् एकाक्षरेण प्राणम् उद् अजयत् तम् उज् जेषम् ।
अश्विनौ द्व्यक्षरेण द्विपदो मनुष्यान् उद् अजयतां तान् उज् जेषम् ।
विष्णुस् त्र्यक्षरेण त्रीꣳल् लोकान् उद् अजयत् तान् उज् जेषम् ।
सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् तान् उज् जेषम् ॥

9.32
पूषा पञ्चाक्षरेण पञ्च दिश ऽ उद् अजयत् ता ऽ उज् जेषम् ।
सविता षडक्षरेण षड् ऋतून् उद् अजयत् तान् उज् जेषम् ।
मरुतः सप्ताक्षरेण सप्त ग्राम्यान् पशून् उद् अजयꣳस् तान् उज् जेषम् ।
बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ताम् उज् जेषम् ॥

9.33
मित्रो नवाक्षरेण त्रिवृतꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ।
वरुणो दशाक्षरेण विराजम् उद् अजयत् ताम् उज् जेषम् ।
इन्द्र ऽ एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ताम् उज् जेषम् ।
विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयꣳस् ताम् उज् जेषम् ॥

9.34
वसवस् त्रयोदशाक्षरेण त्रयोदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।
रुद्राश् चतुर्दशाक्षरेण चतुर्दशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।
आदित्याः पञ्चदशाक्षरेण पञ्चदशꣳ स्तोमम् उद् अजयꣳस् तम् उज् जेषम् ।
अदितिः षोडशाक्षरेण षोडशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ।
प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोमम् उद् अजयत् तम् उज् जेषम् ॥

9.35
एष ते निर्ऋते भागस् तं जुषस्व स्वाहा ।
ऽअग्निनेत्रेभ्यो देवेभ्यः पुरःसद्भ्यः स्वाहा ।
यमनेत्रेभ्यो देवेभ्यो दक्षिणासद्भ्यः स्वाहा ।
विश्वदेवनेत्रेभ्यो देवेभ्यो पश्चात्सद्भ्यः स्वाहा ।
मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य ऽ उत्तरासद्भ्यः स्वाहा ।
सोमनेत्रेभ्यो देवेभ्यो ऽ उपरिसद्भ्यो दुवस्वद्भ्यः स्वाहा ॥

9.36
ये देवा ऽ अग्निनेत्राः पुरःसदस् तेभ्यः स्वाहा ।
ये देवा यमनेत्रा दक्षिणासदस् तेभ्यः स्वाहा ।
ये देवा विश्वदेवनेत्राः पश्चात्सदस् तेभ्यः स्वाहा ।
ये देवा मित्रावरुणनेत्रा वा मरुन्नेत्रा वोत्तरासदस् तेभ्यः स्वाहा ।
ये देवाः सोमनेत्रा ऽ उपरिसदो दुवस्वन्तस् तेभ्यः स्वाहा ॥

9.37
अग्ने सहस्व पृतना ऽ अभिमातीर् अपास्य ।
दुष्टरस् तरन्न् अरातीर् वर्चो धा यज्ञवाहसि ॥

9.38
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
उपाꣳशोर् वीर्येण जुहोमि हतꣳ रक्षः स्वाहा ।
रक्षसां त्वा वधाय ।
अवधिष्म रक्षोऽ वधिष्मामुम् असौ हतः ॥

9.39
सविता त्वा सवानाꣳ सुवताम् अग्निर् गृहपतीना सोमो वनस्पतीनाम् ।
बृहस्पतिर् वाच ऽ इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥

9.40
इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽ एष वो ऽमी राजा सोमो स्माकं ब्राह्मणाना राजा ॥


भाष्यम्(उवट-महीधर)

नवमोऽध्यायः।
तत्र प्रथमा
देव॑ सवित॒: प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु॒ स्वाहा॑ ।। १ ।।
उ० देव सवितः । वाजपेयिका मन्त्रा एष ते निर्ऋते भाग इत्येतस्मात्प्राक् । बृहस्पतेरार्षम् इन्द्रस्य च । कर्मणः कर्मणः पुरस्तादाहुतिं जुहोति गायत्र्या त्रिष्टुभा । हे देव सवितः, प्रसुव अभ्यनुजानीहि वाजपेयलक्षणं यज्ञम् । अभ्यनुजानीहि यजमानं यज्ञपतिम् । भगाय भजनीयाय यज्ञफलाय । एवं पुरुषमुक्त्वा अथेदानीं मण्डलमाह । त्वत्प्रसादाच्च मण्डललक्षणो दिव्यो दिवि भवो गन्धर्वो गवां वाचां रश्मीनां वा धारयिता केतपूः । केतशब्देनान्नमुच्यते । अन्नस्य पविता । केतमन्नं नोऽस्माकं पुनातु शोधयतु । त्वत्प्रसादाच्च वाचस्पतिः वाजमन्नं नोऽस्माकं स्वदतु । 'स्वद आस्वादने' । आस्वादयतु ॥१॥
म० चतुर्थाध्यायमारभ्याष्टमान्तमध्यायपञ्चके अग्निष्टोममन्त्रास्तदीयप्रासङ्गिका मन्त्राश्चोक्ताः । नवमेऽध्याये वाजपेयमन्त्रा उच्यन्ते चतुस्त्रिंशत्कण्डिकापर्यन्तम् । तेषां बृहस्पतीन्द्रावृषी । तत्र 'देव सवितरिति जुहोति यजत्यादिष्विति' ( का० १४ । १ । ११) । वाजपेयाङ्गभूतानां यजतीनां दीक्षणीयाप्रापणीयादीनामादिषु सकृद्गृहीतमाज्यं जुहोति । सवितृदेवत्या त्रिष्टुप् । हे सवितः सर्वस्य प्रेरकान्तर्यामिन्, हे देव दीप्यमान, यज्ञं वाजपेयलक्षणं यागं प्रसुव अभ्यनुजानीहि प्रवर्तयेत्यर्थः । यज्ञपतिं यजमानं भगाय भजनीयायानुष्ठानरूपायैश्वर्याय प्रसुव प्रेरय । एवं मण्डलाधिष्ठातारं पुरुषमुक्त्वेदानीं मण्डलं प्रत्याह । त्वत्प्रसादाद्दिवि भवो दिव्यो गन्धर्वो गवां रश्मीनां धारयिता केतपूः केतशब्देनान्नमुच्यते । केतमन्नं पुनातीति केतपूः । अन्नस्य पावयिता सूर्यमण्डलरूपो देवो नोऽस्माकं केतमन्नं पुनातु शोधयतु । किंच त्वत्प्रसादाद्वाचस्पतिः प्रजापतिर्नोऽस्माकं वाजमन्नं हविर्लक्षणं स्वदतु आस्वादयतु स्वाहा सुहुतमस्तु ॥ १ ॥

द्वितीया
ध्रु॑व॒सदं॑ त्वा नृ॒षदं॑ मन॒:सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
अ॑प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
पृथि॒वी॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑मुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।। २।।
उ० पञ्च वाजपेयिका ग्रहा गृह्यन्ते ऐन्द्राः । ध्रुवसदं त्वा सोमाहुतिपरिणामभूतो रस एषु लोकेष्वावर्तमान इह गृह्यते सोमाध्यस्तः । ध्रुवे अस्मिन् लोके सीदतीति ध्रुवसत् ध्रुवसदं त्वाम् नृषदं मनुष्यसदम् । मनसि सीदतीति मनःसदम् । इन्द्राय त्वां जुष्टमभिरुचितं गृह्णामि उपयामगृहीतोऽसीत्ययं भिन्नक्रमः। आदौ मन्त्रावयवो द्रष्टव्यः अर्थसंबन्धात् सादयति । एष ते योनिरिन्द्राय त्वा जुष्टतममभिरुचिततमम् । द्वितीयं गृह्णाति । अप्सुषदमुदकसदं त्वां घृतसदं व्योमसदम् । व्योमशब्देनान्तरिक्षमभिधीयते । शेषं व्याख्यातम् । तृतीयं गृह्णाति । पृथिवीसदं त्वान्तरिक्षसदं दिविसदं देवसदं नाकसदम् । कमिति सुखनाम तत्प्रतिषिद्धं दुःखं प्रतिषिध्यते । यत्र गतानामल्पमप्यसुखं न विद्यते स नाको लोकः स्वर्लोकविशेषः । शेषमृजु ॥ २॥
म० 'प्रातःसवनेऽतिग्राह्यान् गृहीत्वा षोडशिनं पञ्च चैन्द्रान्ध्रुवसदमिति प्रतिमन्त्रमिति' ( का० १४ । १ । २६१ )। प्रातःसवन आग्रयणानन्तरं त्रीनतिग्राह्यानादाय षोडशिनं चादाय पञ्चेन्द्रदेवत्यान्ग्रहान्गृह्णीयात् । त्रीणि यजूंषीन्द्रदेवत्यानि । हे सोम, त्वम् उपयामयतीत्युपयामो ग्रहस्तेन गृहीतोऽसि । इन्द्राय जुष्टं प्रियं वा त्वां गृह्णामि । किंभूतं त्वाम् । ध्रुवसदं ध्रुवे स्थिरेऽस्मिन् लोके सीदतीति ध्रुवसत्तम् । | नृषु मनुष्येषु सीदतीति नृषत्तम् । मनसि सीदतीति मनःसत्तम् । । सोमाहुतिपरिणामभूतो रस एषु लोकेष्वावर्तमानः सोमाध्यस्त उच्यते । सादयति हे ग्रह, एष खरप्रदेशस्तव स्थानम् । इन्द्राय प्रियतमं त्वां सादयामीति शेषः । अथ द्वितीयम् । अप्सुषदमुदकसदं घृते सीदतीति व्योम्नि अन्तरिक्षे सीदतीति । शेषो व्याख्यातः । अथ तृतीयम् । पृथिव्यामन्तरिक्षे दिवि स्वर्गे देवेषु नास्ति अकं दुःखं यस्मिन् तस्मिन्नाके सुखान्विते स्वर्गविशेषे सीदतीति तादृशम् । शेषमृजु ॥ २ ॥

तृतीया।
अ॒पाᳪं᳭ रस॒मुद्व॑यस॒ᳪं᳭ सूर्ये॒ सन्त॑ᳪं᳭ स॒माहि॑तम् । अ॒पाᳪं᳭ रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममु॑पया॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।। ३ ।।
उ० चतुर्थं गृह्णाति । अपाᳪं᳭रसम् । रसदेवत्यानुष्टुप् । रसः सारः सोऽपां वायुः । 'एष वा अपाᳪं᳭रसो योयं पवत' इति श्रुतिः । उद्वयसम् । उद्गतं वयोऽन्नं यस्माद्वायोस्तमुद्वयसं वायुम् सूर्ये सन्तं समाहितमित्यनयोः पदयोर्व्यत्ययोऽर्थसंबन्धात् । सूर्ये समाहितं सन्तं समारोपितं स्थापितं सन्तं गृह्णामीति वक्ष्यमाणेन संबन्धः । अपां रसस्य यो रसस्तं वो गृह्णाम्युत्तमम् । अपां रसो वायुस्तस्यापि रसः प्रजापतिः, स हि यज्ञलोककालाग्निवायुसूर्यऋग्यजुःसामादि वपुः तं वःशब्देनाह । हे आपः, गृह्णामि उत्तमम् उत्कृष्टतमम् । यद्वा वःशब्दोऽनर्थकः । अपां रसस्य वायोर्यो रसः प्रजापतिस्तं गृह्णामीति तस्मिन्पक्षे योजना। उपयाम इत्यादि समानम् ॥ ३॥
म० अथ चतुर्थम् । रसदेवत्यानुष्टुप् सूर्ये समाहितं समारोपितं स्थापितं सन्तमपामुदकानां रसं सारं वायुमहं गृह्णामि । 'एष वा अपाᳪं᳭ रसो योऽयं पवते' (५।१।२।६) इति श्रुतेः। किंभूतं रसम् । उद्वयसमुद्गतं वयोऽन्नं यस्माद्वायोःस उद्वयास्तम् । वायुनैव धान्यानि निष्पद्यन्ते । किंच अपां रसस्य वायोर्यो रसः सारः प्रजापतिर्हिरण्यगर्भः स हि यज्ञलोककालाग्निवायुसूर्यर्ग्यजुःसामादिवपुः हे देवाः, वो युष्मदर्थं तं प्रजापतिमहं गृह्णामि । किंभूतम् । उत्तममुत्कृष्टतमम् । वःशब्दोऽनर्थको वा। सोमरूपेण वायुं तदभिमानिनं प्रजापतिं च गृह्णामीत्यर्थः। उपयामेति व्याख्यातम् । एष त इति सादनम् ॥ ३ ॥

चतुर्थी।
ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् । तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्ज॒ᳪं᳭ सम॑ग्रभमुपया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् । स॒म्पृचौ॑ स्थ॒: सं मा॑ भ॒द्रेण॑ पृङ्क्तं वि॒पृचौ॑ स्थो॒ वि मा॑ पा॒प्मना॑ पृङ्क्तम् ।। ४ ।।
उ० पञ्चमं गृह्णाति । ग्रहा ऊर्जाहुतयः । अनुष्टुप् । हे ग्रहाः ऊर्जमन्नं रसं ये आह्वयन्ति ते ऊर्जाहुतयः । व्यन्तः पश्यन्तो जानन्तः विप्राय मेधाविने इन्द्राय मतिं विशिप्रिया भवतेति शेषः । शिप्रे हनूनासिके वेत्युक्तम् । इह तु हनू एव गृह्येते । विगतं हन्वोः कर्म येषु ग्रहेषु ते विशिप्रियाः शोभनाभिषवसंस्कृताः सुपूताश्च विशिप्रिया उच्यन्ते। तत्र हि हन्वोर्व्यापारो न भवति । तेषां च विशिप्रियाणां सतां वः संबन्धिनाम् अहम् इषमन्नम् ऊर्जं च रसम् समग्रभम् संगृह्णामि । शेषं व्याख्यातम् । उपयाम इत्यादि व्याख्यातम् । उपर्युपर्यक्षं सोमग्रहं करोत्यध्वर्युः । अधोऽधोऽक्षं नेष्टा सुराग्रहं करोति संपृचौस्थः । 'पची संपर्के' । यौ युवां ग्रहौ संपृक्तौ स्थः तौ संपृङ्क्तं संसृजतं मां भद्रेण भन्दनीयेन कल्याणेन । तौ पुनर्विहरतः विपृचौ स्थः। यतो युवां विगतसंसर्गौ स्थः ततो वि मा पाप्मना पृङ्क्तम् विगतसंसर्गं पाप्मना मां कुरुतम् ॥ ४ ॥
म०. अथ पञ्चमम् । ग्रहदेवत्यानुष्टुप् । हे ग्रहाः, तेषां वो युष्माकं संबन्धिनमिषमन्नमूर्जं रसं चाहं समग्रभं समग्रभं सम्यग्गृह्णामि । किंभूतानां । विशिप्रियाणाम् । शिप्रे हनू नासिके वा । इह तु हनू । शिप्रयोर्हन्वोः कर्म शिप्रियं हनुचलनम् । विगतं शिप्रियं येषु ग्रहेषु ते विशिप्रियाः सम्यगभिषुताः सुपूताश्च । तत्र हि हन्वोर्व्यापारो नास्ति सुपेयत्वात् । तेषां केषां । ये यूयमूर्जाहुतयः ऊर्जमन्नरसमाह्वयन्ति ये यैर्वा ते ऊर्जाहुतयः । तथा विप्राय मेधाविने इन्द्राय मतिं विशिष्टबुद्धिं व्यन्तः जानन्तो गमयन्तो वा । वीत्यस्य गतिकर्मणो धातोः शतृप्रत्यये रूपम् । उपयाम० एष ते इति व्याख्याते ( का० १४ । २ । । ७)। उपर्युपर्यक्षमध्वर्युर्धारयत्यधोऽधो नेष्टा संपृचाविति । अध्वर्युः सोमग्रहमक्षोपरि धारयति नेष्टा सुराग्रहमक्षाधस्तात् । सहैव धारणं मन्त्रपाठश्च । ग्रहदेवते यजुषी । हे सोमसुराग्रहौ, यौ युवां संपृचौ स्थः संपृक्तौ भवथः । 'पृची संपर्के' क्विप् । तौ युवां मा मां भद्रेण भन्दनीयेन कल्याणेन संपृङ्क्तं संसृजतं संयोजयतम् । 'विपृचावित्याहरते' ( का० १४ । २ । ८) इति । अध्वर्युनेष्टारौ स्वं स्वं ग्रहं स्वसमीपमानयतः । हे ग्रहौ, यतो युवां विपृचौ वियुक्तौ स्थः ततो मा मां पाप्मना विपृङ्क्तं वियोजयतम् ॥ ४ ॥

पञ्चमी
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒यं वाज॑ᳪं᳭ से॑त् । वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता घर्मं॑ साविषत् ।। ५ ।।
उ० रथमुपावहरति । इन्द्रस्य वज्रोऽसि । इन्द्रो ह यत्र वृत्राय वज्रं प्रजहारेत्युपक्रम्य रथस्तृतीयं वा यावद्वेति | यदुक्तं तदिदमभिधीयते । यस्त्वमिन्द्रस्य वज्रोऽसि वाजसाश्च । वाजमन्नं सनोतीति वाजसाः तं त्वां ब्रवीमि । त्वया वज्रीभूतेनायं यजमानो वाजमन्नं सेत् । सनोतेर्वा एतद्रूपम् । सनुयात् संभजेदित्यर्थः । सिनुयाद्बध्नीयादित्यर्थः । धूर्गृहीतमभ्यावर्तयति । वाजस्य नु । जगत्यतिजगती वा पार्थिवी। चतुर्थः पादः सावित्रः । वाजस्य अन्नस्य । नु अनर्थकः । | प्रसवे अभ्यनुज्ञायां वर्तमाना इति शेषः । या मातरं जगन्निर्मात्रीं महीं महतीम् अदितिम् अदीनां नाम । ताम् अनुकूलां वचसा वेदवाक्येनानेन करामहे कृतवन्तः साहसिकाः । आत्मनेपदं करोतेः । यस्यां चेदं विश्वं भुवनं भूतजातम् आविवेश आविष्टम् । तस्यां पृथिव्यां नोऽस्माकं देवः दानादि गुणयुक्तः सविता सर्वस्य प्रसविता । घर्मं धारणमवस्थानं साविषत् प्रसुवताम् ॥ ५॥
म० 'मरुत्वतीयान्त इन्द्रस्य वज्र इति रथावहरणमिति' ( का० १४ । ३ । १)। महामरुत्वतीयान्ते माहेन्द्रात्पूर्वं रथवाहनाच्छकटाद्रथमवतारयति। रथदेवत्यं यजुः। हे रथ, त्वमिन्द्रस्य वज्रोऽसि । इन्द्रेण यदा वृत्राय वज्रं प्रहृतं तत्त्रिधा जातं तस्यैको भागो रथ इति 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' (१।२।४।१) इत्यादिश्रुत्या उक्तम् । किंभूतस्त्वम् । वाजसाः वाजमन्नं सनोति ददातीति वाजसाः । 'षणु दाने' विट्प्रत्ययः 'विड्वनोरनुनासिकस्यात्-' (पा० ६।४।४१) इत्याकारः । किंच अयं यजमानस्त्वया वज्रीभूतेन सहायेन वाजमन्नं सेत् । सनोतेः सिनोतेर्वा रूपम् । अन्नं सनुयात्संभजेत । यद्वा सिनुयाद्बध्नीयात्। बह्वन्नवान्भूयादित्यर्थः । 'चात्वालमावर्तयति वाजस्येति धूर्गृहीतमिति' (का० १४।३।२) । अवतारितं रथं धुरि गृहीत्वा चात्वालाद्दक्षिणेनानीय वेद्यां स्थापयेत् । पृथिवीदेवत्यातिजगती अन्त्यः पादः सवितृदेवत्यः । नु एवार्थे । वाजस्यान्नस्य प्रसवेऽनुज्ञायामेव वर्तमाना वयं यां भूमिं नाम प्रसिद्धं यथा तथा वचसा वेदवाक्येन एवंविधामनुकूलां करामहे कृतवन्तः कुर्महे वा । करोतेः शपि रूपम् । किंभूतां भूमिम् । मातरं जगन्निर्मात्रीं महीं महतीं महनीयां वा अदितिमदीनामखण्डितां वा । किंच इदं विश्वं भुवनं सर्वं भूतजातं यस्यां भूमावाविवेश आविष्टम् । सविता देवस्तस्यां भूमावेव नोऽस्माकं घर्मं धारणमवस्थानं साविषत् प्रसुवतां प्रेरयतु । 'षू प्रेरणे' इति धातोर्णिजन्तस्य लेटि साविषदिति रूपम् 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४) 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) 'इतश्च लोपः परस्मैपदेषु' ( पा० ३ । ४ । ९७ ) इति सूत्रैः ॥ ५॥

षष्ठी।
अ॒प्स्वन्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॒ भव॑त वा॒जिन॑: ।
देवी॑रापो॒ यो व॑ ऊ॒र्मिः प्रतू॑र्तिः क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाज॑ᳪं᳭ सेत् ।। ६ ।।
उ० अश्वानद्भिरभ्युक्षति । अप्स्वन्तः । अनवसाना पुरउष्णिक् अश्वदेवत्या । अप्सु अन्तरवस्थितममृतम् अप्सु च भेषजम् । तत्र हे अश्वाः, यूयं भवत वाजिनः । वाज इत्यन्ननाम तद् येषु विद्यते ते वाजिनः । अन्नवन्तो यूयं तत्र भवतेत्यर्थः । अपामुत प्रशस्तिषु । उत अपिच अपां प्रशस्तिषु प्रशस्तेषु पवित्रेषु भागेषु भवतेत्यनुषज्यते । द्वितीयः प्रोक्षणमन्त्रः । देवीरापः । हे देव्यः आपः, यो व ऊर्मिः प्रतूर्तिः । वो युष्माकम् ऊर्मिः कल्लोलो महानुदकसन्नाहः । प्रतूर्तिः प्रत्वरणः । ककुन्मान् । ककुदितिशब्देन ऋषभस्य स्कन्धदेश उन्नत उच्यते । तत्सामान्यादुदकसंघातोप्युन्नततमः ककुच्छब्देनोच्यते। बहुभिरुदकनिचयैः संयुक्तो महाप्राग्भार इत्यर्थः। वाजसाः अन्नस्य संभक्ता । तेनायमश्वः प्रोक्षितो वाजमन्नं सेत् । सनोतेः सिनोतेर्वा लिटि एतद्रूपम् । सनुयात् संभजेत् । सिनुयात् बध्नीयात् ॥ ६ ॥
म० 'अश्वान् प्रोक्षत्यपोऽवनीयमानान् स्नातान्वागतानप्स्वन्तरिति देवीराप इति वा समुच्चयो वेति' (का० १४ । ३ । ३ । ५) स्नानार्थमपो नीयमानान् स्नात्वागतान्वाश्वानप्स्वन्तरिति देवीराप इति मन्त्रेण वोभाभ्यां वा प्रोक्षेत् । अश्वदेवत्यावसानरहिता पुरउष्णिक् । अस्याः पाद आद्यो द्वादशाक्षरो द्वावष्टाक्षरौ । अप्सु उदकेषु अन्तर्मध्ये अमृतमवस्थितमप्सु भेषजमारोग्यपुष्टिकरमोषधं चावस्थितम् । हे अश्वाः, यूयं तत्रामृतभेषजयुतास्वप्सु वाजिनोऽन्नवन्तो भवत । उतापि च अपां प्रशस्तिषु प्रशस्तेषु भागेषु यूयं भवत । द्वितीयः प्रोक्षणमन्त्रः अब्देवत्यं यजुः । हे देवीः देव्यो दीप्यमाना आपः, वो युष्माकं य ऊर्मिः कल्लोलस्तेन सिक्तोऽयमश्वो वाजमन्नं सेत् सनुयाद् बध्नीयाद्वा । किंभूत ऊर्मिः । प्रतूर्तिः प्रकृष्टा तूर्तिर्वेगो यस्य प्रत्वरणशीलः। तथा ककुन्मान् ककुच्छब्देन वृषभस्कन्धे उन्नतप्रदेश उच्यते । सादृश्ये मतुप् । तत्सामान्यादुदकनिचयैः संयुक्तो बहुलोदकसंघातवान्ककुन्मानित्युच्यते । तथा वाजसाः अन्नस्य दाता ॥ ६ ॥

सप्तमी।
वातो॑ वा॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑ᳪं᳭शतिः । ते अग्रेऽश्व॑मयुञ्जँ॒स्ते अ॑स्मिञ्ज॒वमा द॑धुः ।। ७ ।।
उ० अश्वं युनक्ति । वातो वा उष्णिक् अश्वस्तुतिः । वाशब्दः समुच्चयार्थीयः । वनश्च मनश्च गन्धर्वाश्च सप्तविंशतिर्नक्षत्राणि । एते त्वां युञ्जन्तु । त्वयि च जवमादधातु । यतस्ते अग्ने प्रथममश्वमयुञ्जन् । ते अस्मिन् जवमादधुः ते च अस्मिन जवं वेगमाहितवन्तः ॥ ७ ॥
म० 'दक्षिणं युनक्ति वातो वेति' (का० १४ । ३ । ६)। दक्षिणमश्वं रथे योजयेत् । अश्वदेवत्या उष्णिक् । वाशब्दौ समुच्चयार्थौ । वातो वायुर्मन इन्द्रियं सप्तविंशतिर्नक्षत्राणि गन्धर्वा गोभूमेर्धर्तारः ते वातादयोऽग्रे पूर्वमश्वमयुञ्जन् रथे योजितवन्तः । ते च वातादयोऽस्मिन्नश्वे जवं वेगमादधुः स्थापितवन्तः ॥७ ॥

अष्टमी।
वात॑रᳪं᳭हा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑ ।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ विश्व॒वेद॑स॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ।। ८ ।।
उ० द्वितीयं युनक्ति । वातरंहा त्रिष्टुप् अश्वस्तुतिः । रिहतिर्गत्यर्थः । वातजवो भव हे वाजिन् , युज्यमानः सन् । इन्द्रस्येव च दक्षिणोऽश्वः श्रिया एधि भव अस्य यजमानस्य । युञ्जन्तु त्वां मरुतो विश्ववेदसः सर्वधना वा सर्वज्ञाना वा। आदधातु च ते तव त्वष्टा पत्सु पादेषु जवं वेगं युक्तस्य सतः ॥ ८॥
म० 'उत्तरं वातरᳪं᳭हा इति' ( का० १४ । ३ । ७)। उत्तरमश्वं युनक्ति । अश्वदेवत्या त्रिष्टुप् । हे वाजिन् वेगवन्नश्व, युज्यमानः सन् त्वं वातरंहा वातवद्वेगयुक्तो भव वातस्येव रंहो यस्य । किंच दक्षिणो दक्षिणभागे स्थितस्त्वमिन्द्रस्याश्व इव श्रिया शोभया युक्त एधि भव । किंच विश्ववेदसः सर्वज्ञाः सर्वधना वा मरुतः हे अश्व, त्वां युञ्जन्तु रथे नियोजयन्तु । | किंच त्वष्टा देवः हे अश्व, ते तव पत्सु पादेषु जवं वेगमादधातु स्थापयतु ॥८॥

नवमी।
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ ।
तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्च॒ भव॒ सम॑ने च पारयि॒ष्णुः ।
वाजि॑नो वाजजितो॒ वाज॑ᳪं᳭ सरि॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत ।। ९ ।।
उ० तृतीयं युनक्ति । जवो यस्ते । जगती अश्वस्तुतिः । जवो वेगो यस्ते तव हे वाजिन् , निहितः स्थापितः गुहा । गुहायामिति विभक्तिव्यत्ययः । गुहाशब्दो रहस्यवचनः । यश्च श्येने पक्षिणि परीत्तः। परिपूर्वस्य तनोतेरेतद्रूपम् । परिततो व्यवस्थितः अचरच्च वाते यश्च वाते त्वदीयो जवः अचरत् । तेन नो वाजिन्बलवान्बलेन वेगलक्षणेन बलेन बलवान् भूत्वा हे वाजिन् , नोऽस्माकं वाजजिच्च भव अन्नस्य च जेता भव । समने च पारयिष्णुः समने च संग्रामे च पारयिता भव । बार्हस्पत्यमश्वानवघ्रापयति । वाजिनो वाजजितः। हे वाजिनोऽश्वाः वाजजितः अन्नस्य जेतारः वाजमन्नं जेतुं सरिष्यन्तो बृहस्पतेर्भागं चरुम् अवजिघ्रत ॥९॥
म० 'दक्षिणाप्रष्टिं जवो यस्त इति' (का. १४ । ३ । ८)। दक्षिणायां धुरि प्रकृष्टं देशमश्नुत इति दक्षिणाप्रष्टिस्तादृशं तृतीयमश्वं युनक्ति । अश्वदेवत्या जगती । हे वाजिन्नश्व, यस्ते तव जवो वेगः गुहा गुहायां हृदयप्रदेशे निहितोऽवस्थापितः । 'सुपां सुलुक्' ( पा० ७ । १ । ३९) इति गुहाशब्दात् ङेर्लुक् । श्येने श्येनाख्ये पक्षिणि यो जवः परीत्तः त्वयैव परिदत्तः सन् अचरत् चरति प्रवर्तते । यश्च ते जवः परिदत्तः सन् वाते अचरत् वायौ चरति । परिपूर्वाद्ददातेर्निष्ठायां 'अच उपसर्गात्तः' (पा. ७ । ४ । ४७) इति तादेशे 'दस्ति' ( पा० ६ । ३ । १२४ ) इति दादेशे तकारे परे इगन्तोपसर्गस्य दीर्घे परीत्त इति । हे वाजिन् , तेन त्रिविधेन बलेन वेगलक्षणेन बलवान्वेगवान्सन्नोऽस्माकं वाजजित् अन्नस्य जेता भव । च पुनः समने सङ्ग्रामे पारयिष्णुः पारयिता च पारप्रापको भव । 'पार तीर कर्मसमाप्तौ' इत्यस्माच्चुरादिणिजन्तात् 'णेश्छन्दसि' (पा० ३ । २ । १३७ ) इतीष्णुप्रत्ययः । 'बार्हस्पत्यमेनानाघ्रापयति वाजिन इति' (का० १४ । ३ । १०) । बार्हस्पत्यं चरुमश्वानाघ्रापयेत् । अश्वदेवत्यं यजुः । वाजजितोऽन्नस्य जेतारो वाजमन्नं प्रति सरिष्यन्तो गमिष्यन्तो हे वाजिनोऽश्वाः, यूयं बृहस्पतेर्भागं चरुमवजिघ्रत आघ्राणं कुरुत ॥ ९॥

दशमी
दे॒वस्या॒हᳪं᳭ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑ᳪं᳭ रुहेयम् ।
दे॒वस्या॒हᳪं᳭ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ इन्द्र॑स्योत्त॒मं नाक॑ᳪं᳭ रुहेयम् ।
दे॒वस्या॒हᳪं᳭ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम् ।
दे॒वस्या॒हᳪं᳭ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ इन्द्र॑स्योत्त॒मं नाक॑मरुहम् ।। १० ।।
उ० ब्रह्मा रथचक्रमारोहति । देवस्याहं सवितुः सवे अभ्यनुज्ञायां सत्यसवसः सत्याभ्यनुज्ञायां वर्तमानस्य बृहस्पतेः संबन्धि उत्तममुत्कृष्टं नाकं स्वर्गलोकं रुहेयम् आरो
हामि । देवस्याहं सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकं रुहेयमिति देवतामात्रं विशेषः । रथचक्रादवतरति । देवस्याहं सवितुः सवे सत्यप्रसवसौ बृहस्पतेरुत्तमं नाकम् अरुहम् । प्रशब्दः प्रकर्षद्योतनार्थः । अरुहमिति च भूतकालाभिधायी। भूतो हि कालः । आरूढवानस्मीत्यर्थः । शेषमारोहणमन्त्रेण समानम् । इन्द्रस्य इति उत्तरे मन्त्रे विशेषः ॥ १०॥ |
म० 'देवस्याहमिति ब्रह्मा रथचक्रमारोहत्युत्करे नाभिमात्रे स्थाणौ स्थितमिति' ( का० १४ । ३ । १२)। उत्करप्रदेशे निखातस्य नाभिमात्रकाष्ठस्याग्रे स्थितं रथचक्रं ब्रह्मारोहेत् । ब्राह्मणकर्तृके वाजपेये लिङ्गोक्तदेवतम् । सत्यसवसः सत्याभ्यनुज्ञस्य सवितुर्देवस्य सवेऽनुज्ञायां वर्तमानोऽहं बृहस्पतेः संबन्धिनमुत्तममुत्कृष्टं नाकं स्वर्गं रुहेयमारोहामि । क्षत्रियवाजपेये चक्रारोहमन्त्रः । तत्र इन्द्रस्य नाकं रुहेयमिति विशेषः । | 'आगतेषु ब्रह्मावरोहति देवस्याहमिति' (का० १४ । ४ । ८)। यजमानादीनां सप्तदशरथेषु सप्तदशशरप्रक्षेपप्रदेशे निखातामौदुम्बरीं शाखां प्रदक्षिणीकृत्य देवयजनदेशमागतेषु सत्सु ब्रह्मा रथचक्रादवरोहति । विप्रयज्ञे पूर्वमन्त्रेण क्षात्रे उत्तरेण । सत्यं प्रकृष्टं च सवो यस्येति सत्यप्रसवाः । अत्र प्रशब्दः प्रकर्षद्योतकः । अरुहमिति भूतकालः नाकमारूढवानस्मीत्यर्थः । शेषं पूर्ववत् ॥ १० ॥

एकादशी।
बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत ।
इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत ।। ११।।
उ० दुन्दुभिमाहन्त्येकं सर्वेषां तु संस्कारो बहुवचनान्तत्वान्मन्त्रस्य । बृहस्पते वाजं जय । हे दुन्दुभयः, यूयमुच्यध्वम् बृहस्पतये वाजमन्नं जय इत्थंभूतां वाचं बृहस्पतयेऽर्थाय वदत । बृहस्पतिं च वाजमन्नं जेष्यामीति जापयत । 'जप जल्प व्यक्तायां वाचि' । जपतेः 'हेतुमति च' इति णिच्लोट् मध्यमपुरुषस्य बहुवचनम् । जापयत उद्वादय । बृहस्पतिना वाजं जितमित्यर्थः । 'जि जये' इत्यस्य वा जयं कारयतेति वा । इन्द्रवाजं जयेति देवतामात्रविशेषः ॥ ११ ॥
म० 'बृहस्पते वाजमित्येकं दुन्दुभिमाहन्ति तूष्णीमितरानिति' (का. १४ । ३ । १५) अनुवेद्युच्छ्रितस्थाण्वारोपितसप्तदशदुन्दुभीनां मध्ये एकं मन्त्रेणाहन्ति षोडश तूष्णीम् । यजुः विप्रयज्ञे मन्त्रः हे दुन्दुभयः, यूयं बृहस्पतये इति वाचं वदत । किम् । यत् हे बृहस्पते, त्वं वाजमन्नं जय । किंच हे दुन्दुभयः, यूयमेव बृहस्पतिं वाजमन्नं जापयत । बृहस्पतिनान्नजयं कारयतेत्यर्थः । 'जि जये' इत्यस्य हेतुमण्णिचि 'क्रीङ्जीनां णौ' (पा०६।१ । ४८) इति धातोराकारे कृते 'अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ' (पा. ७ । ३ । ३६) इति पुगागमे लोण्मध्यमबहुवचने जापयतेति रूपम् । क्षत्रयज्ञे दुन्दुभिवादनमन्त्रः । हे दुन्दुभयः, यूयमिन्द्रायेति वाचं वदत यत् हे इन्द्र, त्वं वाजं जय । इन्द्रवाजं यूयं जापयतेति पूर्ववत् ॥ ११॥
 
द्वादशी।
ए॒षा व॒: सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ।
ए॒षा व॒: सा स॒त्या सं॒वाग॑भू॒द्ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ।। १२ ।।
उ० दुन्दुभिमवहरति । एषा वः । एषा वः युष्माकं सा सत्या अवितथा संगतवादिनी वाक् अभूत् यया वाचा बृहस्पतिं वाजमन्नं जेष्यामीति इत्थमीदृशम् अजीजपत् । जपतेर्णिचि लुङि चङि एतद्रूपं भवति । जापितवन्तः। उद्वादितवन्त इत्यर्थः । यच्च यूयमजीजपद्बृहस्पतिं वाजमन्नं जेष्यामीति तच्च बृहस्पतिना जितम् । अतो यूयं कृतकृत्याः सन्तः हे वनस्पतयो वा वानस्पत्या दुन्दुभयो विमुच्यध्वम् । उत्तरोऽपि मन्त्रोऽनेनैव व्याख्यातो देवतामात्रं तु विशेषः ॥ १२ ॥
म० एषा व इति मन्त्रहतमवहरते तूष्णीमितरानिति' ( का० १४ । ४ । ९ । १० ) सप्तदशदुन्दुभीनां मध्ये मन्त्रवादितं मन्त्रेणावतारयति षोडश तूष्णीं स्थाणुभ्यः । पूर्वो मन्त्रो विप्रयज्ञे उत्तरः क्षात्रे । हे दुन्दुभयः, वो युष्माकमेषा वाक् सत्या समभूत् तथ्या जाता । यया वाचा बृहस्पतिं वाजमजीजपत । पुनर्बृहस्पतिं वाजमजीजपत 'अभ्यासे भूयांसमर्थं मन्यन्ते' ( नि० १० । ४२) इति यास्कोक्तेर्भूयानर्थो ग्राह्यः । अत्यन्तं बृहस्पतिमन्नजयं कारितवन्तो यूयं यया वाचा सा सत्या जातेत्यर्थः । जयतेर्णिजन्तस्य लुङि मध्यमबहुवचनेऽजीजपतेति रूपम् । हे वनस्पतयो वनस्पतिविकारा दुन्दुभयः, यूयं विमुच्यध्वं कृतकृत्याः सन्तो विमोचनं कुरुत । क्षात्रे यज्ञे उत्तरो मन्त्रः। यया वाचा इन्द्रं वाजमजीजपत सा सत्याभूदतो यूयं विमुच्यध्वं तुल्यम् ॥ १२ ॥

त्रयोदशी।
दे॒वस्या॒हᳪं᳭ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् ।
वाजि॑नो वाजजि॒तोऽध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑ना॒: काष्ठां॑ गच्छत ।। १३ ।।
उ० रथमारोहयति यजमानः । देवस्याहम् । देवस्य सवितुः सत्यप्रसवसः प्रसवे अहं वर्तमानः बृहस्पतेर्वाजस्य जेतुः संबन्धि वाजमन्नं जेषम् । वाचयति वाजिनो वाजजितः अश्वा उच्यन्ते । हे वाजिनः वाजजितः अन्नस्य जेतारः, अध्वनः मार्गान् स्कभ्नुवन्तः क्षोभयन्तः। स ह्यश्वानां स्वभावः। योजनानि अतिशीघ्रतया मिमानाः परिच्छिन्दन्तः शीघ्रं काष्ठाम् आज्यन्तं (!) गच्छत आज्यन्तोपि काष्ठोच्यते क्रान्त्वा स्थितो भवति ॥ १३ ॥
म० 'देवस्याहमिति यजुर्युक्तमारोहति यजमानः' ( का० | १४ । ३ । १८ ) मन्त्रयुक्तं रथं यजमान आरोहेत् । सत्यप्रसवसः सत्याभ्यनुज्ञस्य सवितुर्देवस्य सवेऽनुज्ञायां वर्तमानोऽहं वाजजितोऽन्नजेतुर्बृहस्पतेः संबन्धिनं वाजमन्नं जेषं जयेयं । जयतेर्लेटि उत्तमैकवचने 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे 'सिब्बहुलं लेटि' (पा० ३ । १ । ३४) इति सिप् प्रत्ययः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति मिप इकारलोपे गुणे च जेषमिति रूपम् । यद्वा लुङि अङि उत्तमैकवचनेऽडभावे । 'वाजिन इति वाचयतीति' ( का० १४ । ३ । २२)। हे वाजिनोऽश्वाः, यूयं काष्ठां गच्छत आज्यन्तं प्राप्नुत । उत्कर्ष गच्छतेत्यर्थः । आज्यन्तोऽपि काष्ठोच्यते । 'क्रान्त्वा स्थितो भवति' (नि. २ । १८ ) इति यास्कोक्तेः । 'काष्ठोत्कर्षे स्थितौ दिशि' इत्यभिधानाच्च । किंभूता यूयम् । वाजजितः अन्नस्य जेतारः । तथा अध्वनो मार्गान् स्कभ्नुवन्तः रुन्धन्तः क्षोभयन्तः। स ह्यश्वस्वभावः । तथा योजना योजनानि मिमानाः अतिशीघ्रतया परिच्छिन्दन्तः ॥ १३ ॥

चतुर्दशी।
ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑ स॒ᳪं᳭सनि॑ष्यदत्प॒थामङ्का॒ᳪं᳭स्यन्वा॒पनी॑फण॒त् स्वाहा॑ ।। १४।।
उ० द्वाभ्यां जगतीभ्यामश्वदेवत्याभ्यां जुहोति । एषस्य वाजी। अयं स वाजी वेजनवान् । क्षिपणिं तुरण्यति क्षपणमनु कशाघातमनु । तुरण्यति तूर्णमश्नुतेऽध्वानम् । कथंभूतः सन् इत्यत आह । ग्रीवायां बद्धोऽपि बद्ध आसनि ग्रीवायामुरोवध्रेण बद्धः । कक्षे पर्याणप्रदेशे सन्नाहरज्ज्वा बद्धः । आसनि आस्ये च मुखे कविकया बद्धः । किंच क्रतुं दधिक्रा अनुसंसनिष्यदत् क्रतुं कर्म प्रज्ञां वा दधिक्रा अश्वः । स हि अश्ववारं दधत् क्रामति । सनिष्यदत्। स्यन्दतेस्तनोत्यर्थे वर्तमानाद्यङ्लुकि निपात्यते । अथ कोर्थः । स्वकीयं कर्म प्रज्ञां वा दधिक्रा अत्यर्थमनुसंतनोति । किंच पथामङ्काᳪं᳭स्यन्वापनीफणत् । पथां कुटिलानि चक्राणि अतिशीघ्रतया क्षिप्रं प्राप्नोति । अन्वाङ्पूर्वस्य फणतेर्गत्यर्थे वर्तमानस्य चर्करीतवृत्तम् ॥ १४॥
म० “एष स्य इति प्रत्यृचं जुहोत्यनुमन्त्रयते वेति' ( का० १४ । ४ । ३-४)। ऋग्द्वयेनाज्यं जुहोत्यश्वाननुमन्त्रयते वा। अश्वदेवत्ये जगत्यौ दधिक्रावदृष्टे । त्यच्छब्दस्तच्छब्दपर्यायः। छान्दसः स्यः । एष वाजी सोऽयमश्वः क्षिपणिम् क्षिप्यते प्रेर्यतेऽनया सा क्षिपणिस्तां कशां कशाघातमनु तुरण्यति तूर्णमध्वानमश्नुते । यद्वा क्षिपणिं तुरण्यति कशां त्वरयति । कशायास्त्वरया शीघ्रं धावतीत्यर्थः । किंभूतोऽश्वः । ग्रीवायामपि कक्षे आसनि आस्ये च बद्धः तत्तदुचितरज्जुविशेषैः । ‘पद्दन्न-' (पा० ६ । १। ६३ ) इत्यादिना आस्यशब्दस्यासन्नादेशः सप्तम्याम् । ग्रीवायामुरोवध्रेण बद्धः । कक्षयोः समीपे अपिकक्षं पर्याणदेशस्तत्र सन्नाहरज्ज्वा बद्धः । आस्ये मुखे कविकया बद्धः । तथा दधिक्राः दधाति अश्ववारमिति दधिः । 'आदृगम-' (पा० ३ । २ । १७१) इति किप्रत्ययः । दधिः सन् क्रमतेऽध्वानमिति दधिक्राः। विटि क्रमतेराकारः। यद्वा दधीन्धारकान्मार्गावरोधानद्रिपाषाणगर्तकण्टकादीनप्यतिक्रामतीति दधिकाः। तथा क्रतुं सादिनोऽभिप्रायमनु संसनिष्यदत्सम्यगनुसंदधानः सादिसंकल्पानुसारेण गच्छन् 'दाधर्तिदर्धर्ति-' (पा० ७। ४ । ६५) इत्यादिना स्यन्दतेर्यङ्लुकि निपातोऽयम् । तथा पथां मार्गाणामङ्कांसि लक्षणानि कुटिलानि निम्नोन्नतानि अन्वापनीफणत् अतिशीघ्रं प्राप्नुवन् । समत्वमापादयन्नित्यर्थः । अन्वाङ्पूर्वस्य फणतेर्गत्यर्थस्य यङ्लुकि निपातः । पूर्ववत् । एवंविधाऽश्वस्तुतीति संबन्धः । स्वाहा सुहुतमस्तु ॥ १४

पञ्चदशी।
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑वाति प्रग॒र्धिन॑: ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्ण॑: स॒होर्जा तरि॑त्रत॒: स्वाहा॑ ।। १५ ।।
उ० उत स्मास्य । यजमानरथस्यायुक्तश्चतुर्थोऽश्वोऽनुगच्छति कविकापर्याणयुक्तः । तदभिप्रायेणाधस्तनो मन्त्रो व्याख्यातः। अथेदानी रथयुक्ताश्वानेकशः स्तौति । अपिच अस्य रथयुक्तस्याश्वस्य द्रवतो गच्छतः आज्यन्तं, तुरण्यतः तूर्णमश्नुवानस्याध्वानम् । पर्णं न वेरनुवाति प्रगर्धिनः । निरिति शकुनिनाम । पर्णं पत्रम् । न उपमार्थीयः। पक्षमिव शकुनेः रथोऽनुवाति वातोद्धतः। प्रगर्धिनः आजिं जेतुं प्रगर्धोऽस्यास्तीति प्रगर्धी अश्वः तस्य प्रगर्धिनः। यद्वा शकुनिविशेषणं। आमिषं प्रगर्धिनः शकुनेः । स ह्यामिषग्रहणार्थमतिशयेन धावति अतस्तेनोपमीयते । दक्षिणाप्रष्टिं स्तौति उत्तरेणार्धर्चेन । श्येनस्येव ध्रजतः यथा श्येनस्य ध्रजतोऽतिशयेन गच्छतः। अङ्कसम् । अङ्कशब्दः शरीरवचनः । शरीरासक्तं परिपश्यन्ति । पक्षिणं भक्षणाय गृहीतम् । तथा तस्य दधिकाव्णः अश्वस्य रथं सक्तं परिपश्यन्ति । सहोर्जातरित्रतः सहान्नेन तरतोऽतिशयेनाध्वानम् । नैवारं चरुमवजिघ्रति तदभिप्रायेण सहोर्जेत्युक्तम् ॥ १५॥
म० उत स्म अपिच अस्याश्वस्य अङ्कसं शृङ्गारचिह्नं वस्त्रचामरादिकं परि सर्वस्मिन्नपि देहे वर्तमानं सत् अनुवाति गच्छन्तमश्वमनु उत्क्षिप्तत्वेन दृश्यमानं गच्छति । कस्य किमिव । वेः पक्षिणः पर्णं न पक्ष इव यथा त्वरया गच्छतः पक्षिणः पक्ष उत्क्षिप्तो गच्छन्नवलोक्यते तथा धावतोऽश्वस्यांकसरूपं वस्त्रचामरादिकं विस्पष्टमवलोक्यत इत्यर्थः । किंभूतस्याश्वस्य । | द्रवतो गच्छतः तथा तुरण्यतस्त्वरयतः प्रगर्धिनः प्रगृध्यतीति प्रगर्धी अवधिं प्राप्तुं काङ्क्षतः पक्षिमात्रस्य पर्णमङ्कसदृष्टान्तत्वेनाभिहितम् । शीघ्रधावने श्येनदृष्टान्त उच्यते । श्येनस्येव ध्रजतो गच्छतो वेगेन 'ध्रज गतौ' दधिक्राव्णः दधीन्क्रमते दधिक्रावा धारकपर्वताद्यतिक्रामिणः। 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति क्रमतेर्वनिपि विड्वनोः-' (पा० ६ । ४ । ४१ ) इति आकारः । ऊर्जा बलेन सह तरित्रतः मार्गं भृशं तरतः यङ्लुकि निपातोऽयम् । स्वाहा सुहुतमस्तु ॥ १५ ॥

षोडशी।
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृक॒ᳪं᳭ रक्षा॑ᳪं᳭सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ।। १६ ।।
उ० उत्तरेण तृचेनैतानेवाश्वान्स्तौति । शं नो भवन्तु । त्रिष्टुप् विराड् वा । शमिति सुखनाम । सुखरूपा भवन्तु नः अस्माकं वाजिनोऽश्वाः हवेषु आह्वानेषु । देवताता देवतातौ यज्ञे मितद्रवः । ते हि मितं द्रवं गच्छन्ति सुखकरम् । स्वर्काः सुरोचनाः स्वञ्चना वा । किंच जम्भयन्तः क्षोभयन्तः अहिं सर्पं च वृकं च रक्षांसि च । सनेमीति पुराणनाम। इह तु क्षिप्रवचनो वाक्यवशात् । सनेमि क्षिप्रम् अस्मत् अस्मत्तः । युयवन् 'यु पृथग्भावे' । पृथक् कुर्वन्तु । अमीवाः व्याधीन् ॥ १६ ॥
म० 'उत्तरेण तृचेन चेति' ( का० १४ । ४ । ५) शं न इति ऋक्त्रयेणाज्यहोमोऽश्वाभिमन्त्रणं वा । अश्वदेवत्या विराड्वसिष्ठदृष्टा दशाक्षरचतुःपादा । देवानां कर्म देवतातिः 'सर्वदेवात्तातिल' (पा० ४ । ४ । १४२ ) इति देवशब्दात् कर्मणि तातिल्प्रत्ययः 'लिति' (पा० ६ । १।१९३) इति प्रत्ययात्पूर्वस्य वकारस्योदात्तत्वम् । तस्य सप्तम्यां 'सुपां सुलुक्' (पा. ७ । १ । ३९) इत्यादिना ङेराकारः। देवताता देवतातौ यज्ञे हवेषु आह्वानेषु सत्सु वाजिनोऽश्वा नोऽस्माकं शं सुखकरा भवन्तु । किंभूताः । मितद्रवः मितं परिमितं द्रवन्ति गच्छन्तीति मितद्रवः । क्विपि तुगभाव आर्षः । स्वर्काः शोभनोऽर्को येषां ते सुरुचः स्वञ्चना वा । तथा अहिं सर्पं वृकमरण्यश्वानं रक्षांसि राक्षसान् च जम्भयन्तो नाशयन्तः । किंच तेऽश्वा अस्मत्सकाशात्सनेमि क्षिप्रम् अमीवा व्याधीन्युयवन् पृथक्कुर्वन्तु । 'यु पृथग्भावे' अस्य ह्वादित्वे लङि रूपम् गुणाडभावावार्षौ । सनेमीति पुराणनाम । इह तु क्षिप्रवाचकः॥१६॥

सप्तदशी।
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
स॒ह॒स्र॒सा मे॒धसा॑ता सनि॒ष्यवो॑ म॒हो ये धन॑ᳪं᳭ समि॒थेषु॑ जभ्रि॒रे ।। १७ ।।
उ० ते नो अर्वन्तः । जगती । ते अर्वन्तः अश्वाः नोsस्माकं हवनश्रुतः । हवनमाह्वानं ये स्वभावत एव शृण्वन्ति त एवमुच्यन्ते । हवमाह्वानं विश्वे सर्वे शृण्वन्तु वाजिनोऽश्वाः मितद्रवः यजमानमपरिच्छिन्नं ये गच्छन्ति त एवमुच्यन्ते । मितद्रवः शोभनगमना वा । सहस्रसाः सहस्रस्य सनितारः संभक्तारः । मेधसाता मेधो यज्ञः स यत्र सन्यते संभज्यते स मेधसातिः तत्र मेधसातौ । सप्तम्यर्थे आकारः। सनिष्यवः संभक्तारः । महो महान्तः ये धनं समिथेषु संग्रामेषु जभ्रिरे आहृतवन्तः। तेनोऽर्वन्त इत्यतिक्रान्तं प्रतिवचनम् ॥ १७ ॥
म० अश्वदेवत्या जगती नाभानेदिष्ठदृष्टा । विश्वे सर्वे ते वाजिनोऽश्वा नोऽस्माकं हवमाह्वानं शृण्वन्तु । किंभूता अर्वन्तः। इ-यति कुटिलं गच्छन्तीत्यर्वन्तः । 'ऋ गतौ' इत्यस्माद्वनिप् 'अर्वणस्त्रसावनञः' (पा० ६ । ४ । १२७) इति त्रन्तादेशे रूपम् । हवनश्रुतः हवनमाह्वानं शृण्वन्तीति हवनश्रुतः । मितद्रवः यजमानचित्तानुकूल्येन परिमितगामिनः । सहस्रसाः सहस्रस्यानेकजनतृप्तिक्षमस्य महतोऽन्नराशेः सनितारो दातारः । मेधसाता सनिष्यवः मेधो यज्ञः सन्यते संभज्यते यत्र सा मेधसातिर्यज्ञशाला । ङेर्डाकारः । तस्यां सनिष्यवः संभक्तारः पूरयितारः । ते के । येऽश्वाः समिथेषु संग्रामेषु महः महत्पूज्यं वा धनं जभ्रिरे जह्रिरे आहृतवन्तः ॥ १७ ॥

अष्टादशी।
वाजे॑-वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व॑: पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑: ।। १८ ।।
उ० वाजेवाजे । त्रिष्टुप् । अन्नेअन्ने उपस्थिते सति अवत पालयत । हे वाजिनोऽश्वाः, नोऽस्मान् धनेषु च उपस्थितेषु पालयत हे विप्राः मेधाविनः परिदृष्टकारिणः, अमृताः अमरणधर्माणः । ऋतज्ञाः सत्यज्ञा वा यज्ञज्ञा वा। किंच अस्य नैवारचरुलक्षणस्य मध्वः मधुनः पिबत । मादयध्वं तृप्यध्वम् । नैवारं चरुमवजिघ्रन्त्यश्वस्य तदभिप्रायमेतत् । तृप्ताश्च सन्तः यात पथिभिर्देवयानैः देवाध्यासितैः ॥ १८॥
म० अश्वदेवत्या त्रिष्टुब् वसिष्ठदृष्टा । हे वाजिनोऽश्वाः, वाजेवाजे सर्वस्मिन्नन्ने उपस्थिते सति धनेषु चोपस्थितेषु सत्सु नोऽस्मानवत पालयत । किंभृता यूयम् । विप्रा मेधाविनः परिदृष्टकारिणः अमृता अमरणधर्माणः ऋतज्ञाः सत्यज्ञाः यज्ञज्ञा वा । किंच अस्य मध्वः पिबत । कर्मणि षष्ठी। इदं मधु धावनात्पूर्वं पश्चाच्चावघ्रायमाणं नैवारचरुलक्षणं मधुरं हविः पिबत । पीत्वा च मादयध्वं तृप्ता भवत । ततस्तृप्ताः सन्तो देवयानैर्देवाधिष्ठितैः पथिभिर्मार्गैर्यात गच्छत ॥ १८ ॥

एकोनविंशी।
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे ।
आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॒ चा मा॒ सोमो॑ अमृत॒त्वेन॑ गम्यात् ।
वाजि॑नो वाजजितो॒ वाज॑ᳪं᳭ ससृ॒वाᳪं᳭सो॒ बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ।। १९ ।।
उ० यजमानो नैवारं चरुमालभते । आ मा वाजस्य । त्रिष्टुप् । आजगम्यात् आगच्छेत् मा मां प्रति वाजस्यान्नस्य प्रसवोऽभ्यनुज्ञा । आ इमे द्यावापृथिवी विश्वरूपे । आगच्छेतां च इमे द्यावापृथिव्यौ विश्वरूपे सर्वरूपे । आ मा गन्तां पितरा मातरा च आगन्तामागच्छेतां च मां प्रति मातापितरौ 'पितरामातरा च छन्दसि' इति विरूपैकशेषो निपात्यते । आ मा सोमो अमृतत्वेन गम्यात् । आगच्छेच्च मां प्रति सोमः अमृतत्वेन सहितः । अश्वानवघ्रापयति नैवारं चरुम् । वाजिनो वाजजितः । हे वाजिनोऽश्वाः, वाजस्यान्नस्य जेतारः । वाजमन्नं जेतुं ससृवाᳪं᳭सः सृप्तवन्तः सन्तो बृहस्पतेः संबन्धिनं भागमवजिघ्रत निमृजानाः । 'मृजूष् शुद्धौ'। शोधयन्त एनं चरुं यजमानं च ॥ १९ ॥
म०. 'अवरुह्य नैवारमालभते तीर्थे स्थितमामा वाजस्येति' ( का० १४ । ४ । ११ ) यजमानो रथादवतीर्य चात्वालोत्करान्तरे स्थितं नैवारं चरुं स्पृशति । प्रजापतिदेवत्या त्रिष्टुब् वसिष्ठदृष्टा । वाजस्यान्नस्य प्रसव उत्पत्तिर्मा मामाजगम्यात् आगच्छतु । गच्छतेर्व्यत्ययेन ह्वादित्वे लिङि रूपम् । आ इमे विश्वरूपे सर्वरूपात्मिके इमे द्यावापृथिव्यौ मां प्रत्यागच्छेताम् । पितरा मातरा । 'पितरामातरा च छन्दसि' (पा० ६ । ३ । ३३) इति द्विरूपैकशेषो निपात्यते। अस्मदीयः पिता माता च मा मां प्रति आगन्तामागच्छताम् । व्यत्ययेनादादित्वे लोटि रूपम् । सोमश्चामृतत्वेन सहितो मा मामागम्यात् । चतुर्थ्यर्थे तृतीया । अमृतत्वाय मम देवत्वजन्मने सोमो मां प्रत्यागच्छेत् । लिङि रूपम् । 'यजुर्युक्तानाघ्रापयति वाजिन इति' ( का० १४ । ४ १२) इति । मन्त्रेण युक्तानश्वान्नैवारचरुमाघ्रापयेत् । अश्वदेवत्यं यजुः । हे वाजिनोऽश्वाः, यूयं बृहस्पतेः संबन्धिनं भागं चरुमवजिघ्रत आघ्राणं कुरुत । किंभूताः । वाजजितः वाजस्यान्नस्य जेतारः । वाजमन्नं जेतुं ससृवांसः सृतवन्तो गतवन्तः । सर्तेः क्वसुप्रत्यये रूपम् । निमृजानाः 'मृजूष् शुद्धौ' शानच्प्रत्ययः। शोधयन्तः चरुमेनं यजमानं वा पुनन्त इत्यर्थः ॥ १९ ॥

विंशी
आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वाहा॑ ऽपि॒जाय॒ स्वाहा॑ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ ऽह॒र्पत॑ये॒ स्वाहा॑
ऽह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनᳪं᳭शि॒नाय॒ स्वाहा॑ विन॒ᳪं᳭शिन॑ आन्त्याय॒नाय॒ स्वाहा ऽन्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाऽधि॑पतये॒ स्वाहा॑ ।। २० ।।
उ० द्वादशाप्तीर्जुहोति । आपये स्वाहा। प्रजापतेः संवत्सरस्य यज्ञस्य चैतानि नामानि । आप्नोतीत्यापिः। शोभनमाप्नोतीति स्वापिः । अपि जायत इति अपिजः । क्रतुः संकल्पो यज्ञो वा । वसुः वासयिता । अह्नां पतिः अहर्पतिः । अह्वे मुग्धाय । 'मुह वैचित्ये' । दिनाय मुग्धाय । वैनᳪं᳭शिनाय विनाशसंयुक्तेषु वसतीति वैनंशिनः । विनंशिने आन्त्यायनाय । अन्त्येऽयने भव आन्त्यायनः । अन्त्याय भौवनाय अन्ते भवोऽन्त्यः। भुवने भवो भौवनः। उभयविशेषणविशिष्टमप्येकं नाम । भुवनस्य पतये अधिपतये । प्रकटार्थे नामनी ॥ २० ॥
म० 'द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वेति' ( का० १४।५।१) प्राजापत्यानि द्वादश यजूंषि । संवत्सराभिमानी प्रजापतिः स्तूयते तस्यैवैतानि नामानि । आप्नोतीत्यापिस्तस्मै सुहुतमस्तु । शोभनमाप्नोतीति स्वापिः तस्मै । अपि जायते पुनःपुनरुत्पद्यते इत्यपिजस्तस्मै स्वाहा । क्रतुः संकल्पो भोगादिविषयो यज्ञो वा तस्मै । वसवे निवासहेतवे । अह्नां दिवसानां पतिरहर्पतिस्तस्मै । अतश्चत्वारि नामान्युभयविशेषणविशिष्टानि । 'मुह वैचित्ये' मुह्यतीति मुग्धस्तस्मै । अह्ने दिवसाय । विनश्यन्तीति विनंशिनः विनाशशीलाः पदार्थाः । 'मस्जिनशोर्झलि' (पा० ७।१।६० ) इति छान्दसत्वादझल्यपि नुमागमः । विनंशिषु भवो वैनंशिनस्तस्मै । मुग्धाय मोहकाय स्वाहा । अन्ते भवमन्त्यमन्त्यं च तदयनं च अन्त्यायनमन्त्यस्थानं तत्र भव आन्त्यायनस्तस्मै विनंशिने विनाशशीलाय स्वाहा । अन्ते भवोऽन्त्यः भुवने भवो भौवनस्तदुभयविशिष्टाय स्वाहा । भुवनस्य पतये जगतः पालयित्रे । अधिपतये सर्वलोकानां स्वामिने स्वाहा सुहुतमस्तु ॥ २० ॥

एकविंशी।
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पतां॒ᳪं᳭ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां॒ य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ।
प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ स्व॒र्देवा अगन्मा॒मृता॑ अभूम ।। २१ ।।
उ० षट् क्लृप्तीः। आयुर्यज्ञेन कल्पताम्। मदीयमायुरनेन यज्ञेन क्लृतं भवतु । एवमुपरितनानि व्याख्येयानि । मुखनासिकाप्रभवो वायुः प्राणः । चक्षुः श्रोत्रं च प्रकटार्थम् । पृष्ठं रथन्तरादि । शरीरस्य वा पृष्ठम् । अयं चास्मदीयो यज्ञो वाजपेयाख्येन यज्ञेन क्लृप्तो भवतु । यूपं यजमान आरोहति । प्रजापतेः प्रजा अभूम । कृतमिदमस्माभिः कर्म अतो वयं प्रजापतेः अपत्यभूताः संजाताः । गोधूमानुपस्पृशति । स्वर्देवाः । हे देवाः, स्वः स्वर्लोकमगन्म गताः । शिरसा यूपमत्युज्जिहीते । अमृता अभूम अमृताश्च संजाताः ॥२१॥ ।
म० षट् चोत्तराः षट् आयुर्यज्ञेनेत्याद्याश्चशब्दाज्जुहोति वाचयति वा' ( का० १४।५।२) प्राजापत्यानि षड्यजूंषि । | मदीयमायुर्यज्ञेन वाजपेयाख्येन कल्पतां क्लृप्तं भवतु । मुखनासिकाप्रभवः पञ्चवृत्तिकः प्राणवायुरप्यनेन यज्ञेन क्लृप्तो भवतु । चक्षुरिन्द्रियं यज्ञेन क्लृप्तं भवतु । श्रोत्रेन्द्रियं यज्ञेन क्लृप्तमस्तु । पृष्ठं रथन्तरादिकं शरीरस्य पृष्टं वा यज्ञेन कल्पताम्। यज्ञेन मदीयेन वाजपेयाख्येन यज्ञो यज्ञाधिष्ठाता विष्णुः कल्पताम् । 'प्रजापतेरित्यारोहत इति' ( का० १४ । | ५। ६) पत्नीयजमानौ निश्रेण्या यूपमारोहतः । यजमानदेवत्यानि त्रीणि यजूंषि । वयं प्रजापतेः संबन्धिन्यः प्रजा अभूम अपत्यानि जातानि । 'स्वरिति गोधूममालभत इति' 1(१४ । ५ । ७)। स्वरिति गोधूमपिष्टनिर्मितं चषालं यजमानः स्पृशेत् । हे देवाः, वयं स्वः स्वर्गमगन्म प्राप्ताः । 'शिरसा यूपमुज्जिहीतेऽमृता इति' ( १४ । ५ । ८ )। यूपादूर्ध्वं शिरः करोति । वयममृता मरणधर्मरहिता अभूम संभूताः ॥ २१ ॥

द्वाविंशी।
अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतु॑र॒स्मे वर्चा॑ᳪं᳭सि सन्तु वः । नमो॑ मा॒त्रे पृ॑थि॒व्यै॒ नमो॑ मा॒त्रे पृ॑थि॒व्या इ॒यं ते॒ राड् य॒न्ताऽसि॒ यम॑नो ध्रु॒वो॒ऽसि ध॒रुण॑: । कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा ।। २२ ।।
उ० दिशोऽनुवीक्षते । अस्मे वो अस्त्विन्द्रियम् । अस्मे अस्मासु वः युष्मत्संबन्धि अस्तु भवतु इन्द्रियं वीर्यम् । अस्मे नृम्णम् अस्मासु च धनं युष्मत्संबन्धि भवत्वित्यनुषङ्गः। उत क्रतुः अपिच क्रतुः कर्म युष्मत्संबन्धि भवत्वित्यनुषङ्गः। | अस्मे वर्चाᳪं᳭सि सन्तु वः अस्मासु च तेजांसि भवन्तु युष्मत्संबन्धीनि । पृथिवीमवेक्षते यजमानः नमो मात्रे पृथिव्यै । पृथिवीं मातरं ब्रवीमीति नमस्करोति च । अभ्यासे भूयांसमर्थं मन्यन्त इति द्विर्वचनम् । औदुम्बरीमासन्दीं बस्तचर्मणा स्तृणाति । इयं ते राट् । इयमिति लिङ्गव्यत्ययः। इदं ते तव राट् राज्यम् । अभिषिक्तोसि त्वमित्येतत्कथयति । सुन्वतमस्यामुपवेशयति । यन्तासि नियन्ता त्वमसि । तवानवच्छिन्नं यमनं कालान्तरेऽपि। ध्रुवोऽसि स्थिरोसि। धरुणः धारकोऽसि कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा । कर्षणाय त्वाम् क्षेमाय च धनाय च पुष्ट्यर्थं चोपवेशयामीतिशेषः २२
म० 'अस्मे व इति दिशो वीक्षत इति' (१४।५।९) यूपारूढ एव यजमानो दिशः पश्यति । दिग्देवत्यम् । हे दिशः, वो युष्मत्संबन्धि इन्द्रियं वीर्यमस्मे अस्मास्वस्तु । नृम्णं धनं युष्मत्संबन्धि अस्मे अस्मास्वस्तु । उत अपि च क्रतुः कर्म युष्मत्संबन्धि अस्मास्वस्तु । वो युष्माकं वर्चांसि तेजांसि अस्मे अस्मासु सन्तु भवन्तु । अस्माकं संबन्धि युष्मत्सामर्थ्यमस्त्विति भावः । 'नमो मात्र इति भूमिमवेक्षत इति' ( १४ । ५ । १२)। यूपारूढ एव यजमानो भूमिं पश्यति । पृथिवीदेवत्यम् । मात्रे मातृरूपायै पृथिव्यै नमो नमस्कारोऽस्तु । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १० । ४२ ) इति द्विरुक्तिः । 'उत्तरवेदिमपरेणौदुम्बरीमासन्दीं बस्तचर्मणा स्तृणातीयं त इति' ( का० १४ । ५। १३ ) आसन्दीदेवत्यम् । हे आसन्दि, ते तव इयं राट् इदं राज्यं राजनं राट् । संपदादित्वाद्भावे स्त्रियां क्विप् । अभिषिक्तासि त्वमिति भावः । 'सुन्वन्तमस्यामुपवेशयति यन्तासीति' ( का० १४ । ५ । १४ ) । आसन्द्यां यजमानमुपवेशयेत् । यजमानदेवत्यम् । हे यजमान, त्वं यन्ता सर्वस्य नियन्तासि । यमनः स्वयं संयमनकर्ता भवसि । अनवच्छिन्नं तव यमनमिति भावः । तथा ध्रुवः स्थिरोऽसि धरुणो धारकोऽसि । कृष्यै कर्षणाय कृषिसिद्ध्यर्थं त्वा त्वामुपवेशयामीति सर्वत्र शेषः । क्षेमाय लब्धपरिपालनाय त्वामुप० । रय्यै धनाय त्वामुप० । पोषाय पशुपुत्रादिपुष्ट्यै त्वामुप० ॥२२॥

त्रयोविंशी
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोम॒ᳪं᳭ राजा॑न॒मोष॑धीष्व॒प्सु । ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒यᳪं᳭ रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ता॒: स्वाहा॑ ।। २३ ।।
उ० वाजप्रसवीयानि जुहोति । वाजस्येमम् । तिस्रस्त्रिष्टुभो वाजप्रसवीयदेवत्याः । अत्र प्रायशो व्यवहितानां पदानां संबन्धः । वाजस्येमं प्रसवः सुषुवे । वाजस्यान्नस्य संबन्धी प्रसवः अभ्यनुज्ञानम्, इमं सोमं राजानम् अग्रे प्रथमं सुषुवे । 'षूञ् प्राणिगर्भविमोचने' इत्यस्यैतद्रूपम् । जनितवानित्यर्थः । कुतः सुषुवे । ओषधीष्वप्सु ओषधीषु वर्तमानमप्सु च वर्तमानम् । या इत्थंभूताः सोमस्य जनयित्र्य ओषधय आपश्च । ता अस्मभ्यम् अस्मदर्थम् मधुमती रसवतीः रसवत्यः भवन्तु भोग्या वा भवन्तु । वयं च ताभिरद्भिरभिषिक्ताः सन्तः स्वकीये राष्ट्रे जागृयाम अप्रमत्ताः स्याम । पुरोहिताः अग्रतो व्यवस्थिताः प्रधाना इत्यर्थः ॥२३॥
म० 'स्रुवेण संभृताज्जुहोति वाजस्येममिति प्रतिमन्त्रमिति (का० १४ । ५। २१)। औदुम्बरपात्रे एकीकृताद्दुग्धव्रीह्यादिधान्यात्स्रुवेणाहवनीये सप्त मन्त्रैर्जुहोति । तिस्रस्त्रिष्टुभः प्रजापतिदेवत्याः । प्रसूतेऽसौ प्रसवः पचादित्वादच् वाजस्यान्नस्य प्रसव उत्पादकः प्रजापतिः अग्रे सृष्ट्यादौ ओषधीषु अप्सु च वर्तमानमिमं सोमं वल्लीरूपं राजानं दीप्तिमन्तं पदार्थं सुषुवे उत्पादयामास । ता इत्थंभूताः सोमस्य जनयित्र्य ओषधय आपश्चास्मभ्यमस्मदर्थं मधुमतीर्मधुमत्यो रसवत्यो माधुर्योपेता भवन्तु भोगयोग्या भवन्तु । वयं च ताभिरभिषिक्ता राष्ट्रे स्वकीये देशे जागृयाम अप्रमत्ता भवाम । पुरोहिताः यागानुष्ठानादौ पुरोगामिनः प्रधाना इत्यर्थः । स्वाहा सुहुतमस्तु ॥ २३ ॥

चतुर्विंशी।
वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
अदि॑त्सन्तं दापयति प्रजा॒नन्त्स नो॑ र॒यिᳪं᳭ सर्व॑वीरं॒ नि य॑च्छतु॒ स्वाहा॑ ।। २४ ।।
उ० वाजस्येमां प्रसवः । यस्य वाजस्यान्नस्य संबन्धी प्रसवोऽभ्यनुज्ञानम् । शिश्रिये आश्रयति । इमां पृथिवीं दिवं द्युलोकं च विश्वा भुवनानि सम्राट् इमानि च सर्वाणि भूतजातानि शिश्रिये आश्रयति । सम्राट्लक्षणः । यश्च अदित्सन्तं दापयति अदातुमिच्छन्तं दापयति । प्रजानन् स्वमधिकारम् । स नो रयिं स मे वीरं नियच्छतु सोऽस्मभ्यं धनं सर्ववीरैः संयुक्तं नियच्छतु निगृह्णातु ददात्वित्यर्थः ॥ २४ ॥
म० वाजस्यान्नस्य प्रसव उत्पादक ईश्वर इमां पृथिवीं दिवं द्युलोकं च इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि च शिश्रिये आश्रितवान् । स च सम्राट् सर्वेषां भुवनानां राजा भूत्वा अदित्सन्तं हविर्दातुमनिच्छन्तं मां प्रजानन् अवगच्छन् मदीयबुद्धिप्रेरणेन हविर्दापयति । ततो नोऽस्मभ्यं सर्ववीरं सर्वैः पुत्रभृत्यादिभिर्युक्तं रयिं धनं नियच्छतु नियमनेन ददातु 'दाण् दाने' 'पाघ्राध्मा-' (पा० ७।३। ७८ ) इत्यादिना यच्छादेशः । स्वाहा सुहुतमस्तु ॥ २४ ॥

पञ्चविंशी।
वाज॑स्य॒ नु प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वत॑: ।
सने॑मि॒ राजा॒ परि॑ याति वि॒द्वान् प्र॒जां पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे स्वाहा॑ ।। २५ ।।
उ० वाजस्य नु प्रसव आबभूव । योऽसौ वाजस्यान्नस्य प्रसवः अभ्यनुज्ञानं विसर्गो वा । नु इति विस्मयार्थः । आबभूव ब्रह्माण्डरूपेण संबभूव जात्येन । इमा च विश्वा भुवनानि सर्वतः इमानि च विश्वानि भूतानि हिरण्यगर्भप्रभृतीनि स्तम्बपर्यन्तानि । आबभूवेत्यनुवर्तते । सर्वतः सर्वतोऽवस्थितानि । सनेमि राजा परियाति विद्वान् । सनेमीति पुराणवचनः। सोऽयमन्नस्य प्रसवश्चिरंतनो राजा परियाति सर्वतो याति स्वेच्छाचारी सन् । विद्वान् स्वमधिकारं जानानः प्रजां च पुष्टिं च वर्धयमानः अस्मे अस्माकम् ॥ २५ ॥
म० नु इति विस्मये । वाजस्य प्रसवः प्रजापतिः इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतानि सर्वतोऽवस्थितानि हिरण्यगर्भादिस्तम्बपर्यन्तानि आबभूव संभावितवान् । उत्पादितवानित्यर्थः । सनेमीति पुराणनाम । सनेमि चिरंतनो राजा दीप्तः सन् परियाति सर्वतः स्वेच्छया गच्छति । किंभूतः। विद्वान्स्वाधिकारं जानन् । तथा अस्मे अस्मासु प्रजां पुत्रादिसन्ततिं पुष्टिं धनपोषं च वर्धयमानः वर्धयन्स्वाहा सुहुतमस्तु ॥ २५॥

षड्विंशी।
सोम॒ᳪं᳭ राजा॑न॒मव॑से॒ऽग्निम॒न्वा॑रभामहे | आ॒दि॒त्यान्विष्णु॒ᳪं᳭ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॒ᳪं᳭ स्वाहा॑ ।। २६ ।।
उ० सोमं राजानम् । अनुष्टुप् लिङ्गोक्तदेवत्या । सोमं राजानम् अवसे तर्पणाय अग्निं च अन्वारभामहे । अन्वारम्भश्च तर्पणार्थ एव । आदित्यान् विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् अन्वारभामहे । तर्पणायेति सर्वेषां शेषः ॥ २६ ॥
म०. तिस्रोऽनुष्टुभस्तापसदृष्टाः प्रथमा सोमाग्न्यादित्यविष्णुसूर्यबृहस्पतिदेवत्या । अवसे रक्षणार्थं तर्पणाय वा सोमं राजानमग्निं वैश्वानरमादित्यान्द्वादश विष्णुं सूर्यं ब्रह्माणं बृहस्पतिं चान्वारभामहे अन्वारम्भणमाह्वानं कुर्महे । स्वाहा सुहुतमस्तु ॥ २६ ॥

सप्तविंशी।
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ᳪं᳭ सर॑स्वतीᳪं᳭ सवि॒तारं॑ च वा॒जिन॒ᳪं᳭ स्वाहा॑ ।। २७ ।।
उ० अर्यमणं बृहस्पतिम् । अनुष्टुप् लिङ्गोक्तदेवत्या । अर्यमणं बृहस्पतिम् इन्द्रं दानाय दानार्थं चोदय प्रेरय । आहुतिरुच्यते । वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं च । वाजिनो देवाश्वाः ॥ २७ ॥
म० अर्यमबृहस्पतीन्द्रवाग्विष्णुसरस्वतीसवितृदेवत्या । हे ईश्वर, त्वमर्यमादीन्देवान्दानाय धनप्रदानार्थं चोदय प्रेरय । बृहस्पतिमिन्द्रं देवेशं वाचं वागधिष्ठात्रीं सरस्वतीं विष्णुं सवितारं सर्वस्य प्रसवकर्तारं सूर्यम् । वाजिनमन्नवन्तमिति सर्वेषां विशेषणम् । वाजिनं देवाश्वं वा । स्वाहा सुहुतमस्तु ॥ २७ ॥

अष्टाविंशी।
अग्ने॒ अच्छा॑ वदे॒ह न॒: प्रति॑ नः सु॒मना॑ भव । प्र नो॑ यच्छ सहस्रजि॒त्त्वᳪं᳭ हि ध॑न॒दा असि॒ स्वाहा॑ ।। २८ ।।
उ० अग्ने अच्छ । अनुष्टुप् आग्नेयी । 'अच्छाभेराप्तुमिति शाकपूणिः' । हे अग्ने, अभिवद इहावस्थितान आसन्द्यां नः अस्मान् प्रति । नः सुमना भव । प्रति न इत्यनयोः पदयोः व्यत्ययः कर्तव्य इति । अस्मान्प्रति सुमनाः शोभनमनस्को भव । प्र नो यच्छ सहस्रजित् । प्रयच्छ देहि नः अस्मभ्यं हे सहस्रजित् बहुनो वसुनो जेतः, त्वं हि धनदा असि। हिशब्दो यस्मादर्थे । यस्मात्त्वमेव धनस्य दातासि नान्यः कश्चिद्देवता विशेषः ॥ २८॥
म० अग्निदेवत्या । हे अग्ने, इहास्मिन्कर्मणि नोऽस्माकमच्छ वद आभिमुख्येन ब्रूहि हितमिति शेषः । 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति संहितायां दीर्घोऽच्छशब्दस्य । किंच नोऽस्मान्प्रति सुमनाः करुणार्द्रचित्तो भव । हे सहस्रजित् सहस्रस्य बहुनो वसुनो जेतः, सहस्राणां योधानां वा जेतः, हि यस्मात्त्वं स्वभावतो धनदा धनस्य दातासि अतस्त्वं नोऽस्मभ्यं प्रयच्छ धनं देहि स्वाहा ॥ २८ ॥

एकोनत्रिंशी।
प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र बृह॒स्पति॑: । प्र वाग्दे॒वी द॑दातु न॒: स्वाहा॑ ।। २९ ।।
उ० प्र नो यच्छतु । गायत्री लिङ्गोक्तदेवत्या । प्रयच्छतु | नोऽस्मभ्यं अर्यमा । प्रयच्छतु च बृहस्पतिः । प्रकर्षेण च वाग्देवी दानादिगुणयुक्ता । ददातु नः अस्मभ्यम् ॥ २९ ॥
म०. गायत्री अर्यमपूषबृहस्पतिवाग्देवत्या । अर्यमा सूर्यविशेषो नोऽस्मभ्यं प्रयच्छतु अभीष्टं ददातु । पूषा प्रयच्छतु । उपसर्गावृत्त्या क्रियापदावृत्तिः । बृहस्पतिः प्रयच्छतु। देवी दीप्यमाना वाक् नोऽस्मभ्यं ददातु स्वाहा ॥ २९ ॥

त्रिंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रिये॑ दधामि॒ बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भि षि॑ञ्चाम्यसौ ।। ३० ।।
उ० अथैनं परिशिष्टेनाभिषिञ्चति । देवस्य त्वेति व्याख्यातम् । सरस्वत्यै वाचो यन्तुः सरस्वत्या वाचः नियमनकर्त्र्याः यन्त्रिये नियमने ऐश्वर्ये दधामि स्थापयामि । बृहस्पतेष्ट्वा बृहस्पतेश्च त्वा साम्राज्येन सम्राट्भावेन अभिषिञ्चामि । | असाविति नामग्रहणम् ॥ ३० ॥ ।
म० शेषेणाभिषिञ्चति यजमानं देवस्य त्वेति' । (का. । १४ । ५ । २२ ) होमद्रव्यशेषेण यजमानं शिरसि सिञ्चेत् । यजमानदेवत्यम् । सवितुर्देवस्य प्रसवे वर्तमानोऽहमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वा त्वां वाचो वाण्या यन्तुर्यन्त्र्या। पुंस्त्वमार्षम् । नियमनकर्त्र्याः । सरस्वत्यै षष्ठ्यर्थे चतुर्थी । सरस्वत्याः यन्त्रिये नियमने ऐश्वर्ये दधामि स्थापयामि । किंच बृहस्पतेः साम्राज्येन सम्राड्भावेन त्वा त्वामभिषिञ्चामि । असाविति तन्नामग्रहणम् ॥ ३० ॥

एकत्रिंशी।
अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त्तमुज्जे॑षम॒श्विनौ॒ द्व्य॒क्षरेण द्वि॒पदो॑ मनु॒ष्यानुद॑जयतां॒ तानुज्जे॑षं॒ विष्णु॒स्त्र्य॒क्षरेण॒ त्रीँल्लो॒कानुद॑जय॒त्तानुज्जे॑षं॒ᳪं᳭ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तानुज्जे॑षम् ।। ३१ ।। (तु. तैसं. १.७.११.१)
उ० अथोज्जितीर्वाचयति । अग्निरेकाक्षरेण प्राणमुदजयत्तमुज्जेषम् । ओश्रावयेति चतुरक्षरम् , अस्तुश्रौषडिति चतुरक्षरम् , यजेति द्व्यक्षरम् , येयजामह इति पञ्चाक्षरम् , द्व्यक्षरो वषट्कारः । स एष सप्तदशप्रजापतिरधियज्ञं समासव्यासाभ्यामुज्जीयते । अग्निः एकाक्षरेण च्छन्दसा प्राणमुदजयत् तमहमप्येकाक्षरेण च्छन्दसा उज्जेषम् । एवं सप्तदशोज्जितीर्व्याख्येयाः ॥३१॥
म० 'अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत् कृत्वेति' । ( का० १४ । ५ । २६) चतुःकण्डिकात्मकमनुवाकं द्वादशवत् द्वादश स्रुवाहुतीर्जुहोत्यापये स्वाहेति प्रतिमन्त्रं वाचयति वेति यत्पूर्वमुक्तं तद्वत्कृत्वेत्यर्थः । तेनेतैर्मन्त्रैर्जुहोति सप्तदश मन्त्रान् वाचयति वेत्यर्थः । एते मन्त्रा उज्जितिसंज्ञाः । सप्तदश यजूंषि लिङ्गोक्तदेवतानि । ओश्रावयेति चतुरक्षरं अस्तु श्रौषडिति चतुरक्षरं यजेति द्यक्षरं येयजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः एष सप्तदशाक्षरात्मकः प्रजापतिरधियज्ञं समासव्यासाभ्यामुज्जीयते । अग्निरेकाक्षरेण छन्दसा प्राणं पञ्चवृत्तिकमुदजयत् उत्कृष्टं जितवान् । तथाहमपि तादृशं तं प्राणमुज्जेषमुत्कृष्टं जयेयं वशीकुर्यामित्यर्थः । अश्विनौ देवो द्व्यक्षरेण अक्षरद्वयात्मकेन छन्दसा द्विपदः पादद्वयोपेतान्मनुष्यानुदजयतां जितवन्तौ तथाहमपि तेनैव द्व्यक्षरेण छन्दसा तान् तादृशान्मनुष्यानुज्जेषमधिकं जयेयम् । विष्णुस्त्र्यक्षरेणाक्षरत्रयात्मकेन छन्दसा त्रीन्भूरादीन् लोकानुदजयत् अहमपि ताँल्लोकानुज्जेषम् । सोमोऽक्षरचतुष्टयात्मकेन छन्दसा चतुःपदः पादचतुष्टयोपेतान्पशूनुदजयत् अहमपि तेन तान्पशूनुज्जेषम् ॥ ३१ ॥

द्वात्रिंशी।
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॒ दिश॒ उद॑जय॒त्ता उज्जे॑षंᳪं᳭ सवि॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जय॒त्तानुज्जे॑षं म॒रुत॑: स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् प॒शूनुद॑जयँ॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त्तामुज्जे॑षम् ।। ३२ ।।
म० पूषा देवः पञ्चाक्षरेण छन्दसा पञ्चसंख्याः पूर्वाद्याश्चतस्रोऽवान्तरदिशं चेति पञ्च दिश उदजयत् अहमपि ता दिशो जयेयम्। सविता सर्वस्य प्रेरको देवः षडक्षरेण छन्दसा षट्संख्यानृतूनुदजयत् तानृतूनहमुज्जेषम् । मरुतो देवाः सप्ताक्षरेण छन्दसा सप्तसंख्यान् ग्राम्यान् पशून् गवादीनुदजयन् अहं तान् ग्राम्यान्पशूञ्जयेयम् । बृहस्पतिरष्टाक्षरात्मकेन छन्दसा गायत्रीच्छन्दोभिमानिनीं देवतामुदजयत् तां तादृशीं गायत्रीं जयेयम् ॥ ३२ ॥

त्रयस्त्रिंशी।
मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ᳪं᳭ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं॒ वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तामुज्जे॑ष॒मिन्द्र॒ ए॒काद॑शाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जयँ॒स्तामुज्जे॑षम् ।। ३३ ।।
म० मित्रो देवो नवाक्षरेण छन्दसा त्रिवृतं स्तोममुदजयत्तं तादृशं स्तोममहं जयेयम् । वरुणो देवो दशाक्षरेण छन्दसा विराजम् दशाक्षरा विराडिति श्रुतिप्रसिद्धां तदभिमानिनीं देवतामुदजयत्तां विराजमहमप्युज्जेषम् । इन्द्रो देव एकादशाक्षरेण छन्दसा त्रिष्टुप्छन्दोऽभिमानिनीं देवतामुदजयत् तां त्रिष्टुभमहमुज्जेषम् । विश्वेदेवा द्वादशाक्षरेण छन्दसा जगत्यभिमानिदेवतामुदजयन् अहमपि तां जगतीं जयेयम् ॥ ३३ ॥

चतुस्त्रिंशी।
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शᳪं᳭ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षंᳪं᳭ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शᳪं᳭ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शᳪं᳭ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑ष॒मदि॑ति॒: षोड॑शाक्षरेण षोड॒शᳪं᳭ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शᳪं᳭ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ।। ३४ ।।
उ० ॥ ३२ ॥ ३३ ॥ ३४ ॥ वाजपेयः समाप्तः ॥
म० वसवस्त्रयोदशाक्षरेण छन्दसा त्रयोदशं स्तोममुदजयन् तं स्तोमं जयेयम् । रुद्रा देवाश्चतुर्दशाक्षरेण छन्दसा चतुर्दशं स्तोममुदजयन् तं स्तोममहमपि जयेयम् । आदित्या देवाः पञ्चदशाक्षरेण छन्दसा पञ्चदशं स्तोममुदजयन् तं स्तोमं जयेयम् । अदितिर्देवमाता षोडशाक्षरेण छन्दसा षोडशं स्तोममुदजयत् तेनाहमपि तं स्तोममुज्जेषम् । प्रजापतिः सप्तदशाक्षरेण छन्दसा सप्तदशाख्यं स्तोममुदजयत् तं स्तोमं तेन छन्दसाहमपि जयेयम् । एतान्मन्त्राञ्जपेदेतैर्जुहुयाद्वा ॥ ३४ ॥
इति वाजपेयमन्त्राः समाप्ताः ॥

पञ्चत्रिंशी
ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्य॑: पुर॒:सद्भ्य॒: स्वाहा॑ य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षि॒णासद्भ्य॒: स्वाहा॑ वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्य॑: पश्चा॒त्सद्भ्य॒: स्वाहा॑ मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तरा॒सद्भ्य॒: स्वाहा॒ सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्य॒: स्वाहा॑ ।। ३५ ।।
उ० अथ राजसूयं वरुणोऽपश्यत् । एष ते निर्ऋते भागः स्वयं प्रदीर्णेन जुहोति । पृथिव्यत्र निर्ऋति शब्देनोच्यते । एष ते तव हे निर्ऋते, भागः तं च सेवस्व । पञ्चधाहवनीयं व्युह्य प्रतिदिशं जुहोति । अग्निनेत्रेभ्यो देवेभ्यः । देवार्षं प्रागध्यायात् । अग्निनेत्रेभ्यो देवेभ्यः । अग्निर्नेता येषां देवानां ते अग्निनेत्राः तेभ्यो देवेभ्य इति तादर्थ्ये चतुर्थी । पुरःसद्भ्यः पुरः सीदन्तीति पुरःसदः तेभ्यः सुहुतमस्तु । अथ दक्षिणार्धे जुहोति । यमनेत्रेभ्यो देवेभ्यः । शेषं तुल्यव्याख्यानम् । अथ पश्चार्धे जुहोति । विश्वदेवनेत्रेभ्यो देवेभ्यः । अथोत्तरार्धे जुहोति । मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो देवेभ्यः । अथ मध्ये जुहोति । सोमनेत्रेभ्यो देवेभ्यः दुवस्वद्भ्यः । दुवःशब्देन हविरभिधीयते तद्येष्वस्ति ते दुवस्वन्तः तेभ्यो दुवस्वद्भ्यः ॥ ३५ ॥
म० अथ राजसूयमन्त्राः । तेषां वरुण ऋषिः । 'अष्टाकपालोऽनुमत्यै शम्यायाः पश्चाद्धविष्यमन्नᳪं᳭स्रुवे कृला दक्षिणाग्न्युल्मुकमादाय दक्षिणा गत्वा स्वयमप्रदीर्ण इरिणे वाग्नौ जुहोत्येष ते निर्ऋत इति' (का० १५ । १ । ९-१०)। फाल्गुनाद्यदशम्यामनुमत्यै अष्टाकपालः पुरोडाशो भवति तदर्थं गृहीतहविषः पेषणकाले दृषदधस्तान्निहितशम्यापश्चाद्भागे पन्नं पतितं यद्धविस्तण्डुलपिष्टरूपं तत् स्रुवे निधाय दक्षिणाग्नेरुल्मुकमादाय दक्षिणस्यां दिशि गत्वा स्वयं स्फुटिते भूभागे ऊषरे वोल्मुकाग्निं संस्थाप्य तद्धविर्जुहोतीति सूत्रार्थः । पृथिवीदेवत्यम् । निर्ऋतिरत्र पृथिवी । हे निर्ऋते पृथिवि, एष पिष्टरूपस्ते तव भागः तं भागं त्वं जुषस्व सेवस्व स्वाहा सुहुतमस्तु । 'पञ्चवातीयमाहवनीयं प्रतिदिशं व्यूह्य मध्ये च स्रुवेणाग्निषु जुहोत्यग्मिनेत्रेभ्य इति प्रतिमन्त्रमिति' (का० १५। १ ।२०)। एवं वर्षमिष्टाः कृत्वा पञ्चवातीयाख्यं कर्म विधेयं तत्राहवनीयं प्रागादिदिक्षु कृत्वा मध्ये चावशिष्य स्रुवेणाज्यं पञ्चस्वग्निषु यथालिङ्गं जुहोति। अध्यायसमाप्तिपर्यन्तं देवा ऋषयः । दश यजूंषि देवदेवत्यानि । अग्निर्नता येषां ते अग्निनेत्रास्तेभ्यः । पुरः पुरस्तात्पूर्वस्यां दिशि सीदन्तीति पुरःसदस्तेभ्यो देवेभ्यः स्वाहा सुहुतमस्तु । अथ दक्षिणे जुहोति । यमनेत्रेभ्यः यमो नेता येषां तेभ्यः । दक्षिणस्यां सीदन्तीति दक्षिणासदस्तेभ्यो देवेभ्यः स्वाहा । अथ पश्चाज्जुहोति । विश्वदेवनेत्रेभ्यः विश्वेदेवा नेतारो येषां तेभ्यः पश्चात्सीदन्तीति पश्चात्सदस्तेभ्यः स्वाहा । अथोत्तरार्धे जुहोति । मित्रावरुणनेत्रेभ्यः मित्रावरुणौ नेतारौ येषां ते मित्रावरुणनेत्राः। वा यद्वा मरुतो नेतारो येषां ते मरुन्नेत्राः । उत्तरस्यां सीदन्तीत्युत्तरासद उत्तरभागार्थास्तेभ्यो देवेभ्यः स्वाहा । अत्र मित्रावरुणनेत्रेभ्यो देवेभ्य उत्तरासद्भ्यः मरुन्नेत्रेभ्यो देवेभ्य उत्तरासद्भ्य इति मन्त्रयोर्विकल्पः । मध्ये जुहोति । सोमनेत्रेभ्यः सोमो नेता येषां तेभ्यः। उपरि सीदन्ति तिष्ठन्तीत्युपरिसदस्ते। दुवस्वद्भ्यः परिचर्यावद्भ्यः । यद्वात्र दुवःशब्देन हव्यं तद्येषामस्ति ते दुवस्वन्तस्तेभ्यो देवेभ्यः स्वाहा ॥ ३५॥

षट्त्रिंशी
ये दे॒वा अ॒ग्निने॑त्राः पुर॒: सद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षि॒णासद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्य॒: स्वाहा॒ ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्य॒: स्वाहा॑ ।। ३६ ।।
उ० सार्धं समुह्य जुहोति । ये देवा अग्निनेत्राः पुरःसदः तेभ्यः स्वाहा । तुल्यव्याख्यानाः पञ्चमन्त्रा ऋजवः ॥ ३६ ॥
म० 'उत्तराः समस्य ये देवा इति प्रतिमन्त्रमिति' (का० १५ । १ । २१) पञ्चधा विभक्तमाहवनीयमेकीकृत्य ये देवा इति पञ्चमन्त्रैः प्रत्येकं जुहुयादिति शेषः । ये देवा अग्निनेत्राः पुरःसदस्तेभ्यो देवेभ्यः स्वाहा । ये देवा यमनेत्राः पूर्ववद्व्याख्या । ये देवा विश्वदेवनेत्राः पश्चात्सदः । ये देवा मित्रावरुणनेत्राः ये देवा मरुन्नेत्रा इति मन्त्रयोर्विकल्पः । ये देवाः सोमनेत्राः उपरिसदः उपरि स्थिता दुवस्वन्तो हव्यवन्तस्तेभ्यः स्वाहा ॥ ३६ ॥

सप्तत्रिंशी।
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य । दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसि ।। ३७ ।।
उ० अपामार्गहोमः । उल्मुकमादत्ते । अमे सहस्त्र पृतनाः आग्नेय्यनुष्टुप् । हे भगवन्नग्ने, सहस्वाभिभव पृतनाः संग्रामान् । किंच अभिमातीरपास्य । सपत्नोऽभिमातिरुच्यते । सपत्नांश्च अपास्य । 'असु क्षेपणे' इत्यस्यैतद्रूपम् । अपक्षिप। कस्मात्पुनरेवं त्वमुच्यसे अत आह । दुष्टरस्तरन्नरातीः तरतेस्तृणातेर्वा दुष्टरः अशक्यप्रतिक्रियो दुर्निवारस्त्वम् । किंकुर्वन् तरन्नरातीः विनाशयन् शत्रुसेनाः। किंच वर्चोधा यज्ञवाहसि । वर्च इत्यन्ननामसु पठितम् । अन्नस्य धाता दाता वा वर्चस ओजसो वा धारयितासि । यज्ञं वहतीति यज्ञवाहास्तस्मिन्यज्ञवाहसि यजमाने ॥ ३७॥
म० 'अग्ने सहस्वेत्युल्मुकादानमिति' (का० १५ । २।५) अपामार्गतण्डुलहोमार्थं दक्षिणाग्नेरुल्मुकमादद्यात् । अग्निदेवत्यानुष्टब्देवश्रवोदेववातदृष्टा । हे अग्ने, त्वं पृतनाः शत्रुसेनाः सहस्व अभिभव । तथा अभिमातीः सपत्नोऽभिमातिरुच्यते स्त्रीत्वमार्षम् । अभिमातीन् शत्रून् अपास्य अपक्षिप निवर्तय । 'असु क्षेपणे' अस्य लोटि रूपम् । किंच यज्ञं वहतीति यज्ञवाहास्तस्मिन् यज्ञवाहसि यज्ञनिर्वाहके यजमाने वर्चोऽन्नं धाः धेहि । दधातेर्लुङि रूपम् 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६।४।७५) इत्यडभावः । किंभूतस्त्वम् । दुष्टरः दुस्तरः केनापि तर्तुमशक्यः अशक्यप्रतिक्रियो दुर्निवार इत्यर्थः । अरातीः शत्रून् तरन् तिरस्कुर्वन्विनाशयन्नित्यर्थः ॥ ३७॥

अष्टत्रिंशी। ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । उ॒पा॒ᳪं᳭शोर्वी॒र्ये॒ण जुहोमि ह॒तᳪं᳭ रक्ष॒: स्वाहा॒
रक्ष॑सां त्वा व॒धायाव॑धिष्म॒ रक्षोऽव॑धिष्मा॒मुम॒सौ ह॒तः ।। ३८ ।।
उ० जुहोति देवस्य त्वा व्याख्यातम् । उपांशोर्वीर्येण जुहोमि । अतो हतं हिंसितं रक्षः । स्वाहा सुहुतं चैतद्धविर्भवतु । स्रुवं प्रास्यति । रक्षसां त्वा वधार्थम् प्रास्यामीति शेषः । प्रत्यागच्छति । अवधिष्म हतवन्तो वयं रक्षः । जातावेकवचनम् । अवधिष्म । अमुमिति नामग्रहणं असाविति च । अथ कोर्थः । हतवन्तो वयं खदिरवर्माणं खदिरवर्मा वा हतोस्माभिः ॥ ३८ ॥
म० 'देवस्य त्वेति जुहोतीति' ( का० १५ । २ । ६) प्रागुदग्वा गत्वा गृहीतमुल्मुकं संस्थाप्य स्रुवेणापामार्गतण्डुलान्जुहुयात् । देवस्य त्वा व्याख्यातम् । उपांशोः त्रीणि यजूंषि रक्षोघ्नदेवत्यानि । उपांशुर्नाम प्रथमो ग्रहस्तस्य वीर्येण सामर्थ्यनाहं जुहोमि । अतएव रक्षो राक्षसजातिर्हतं निहतम्' स्वाहा सुहतं हविरस्तु । 'रक्षसां त्वेति स्रुवमस्यति तां दिशं यस्यां जुहोतीति' ( का० १५ । २ । ७) यस्यां दिशि होमं कुर्यात्तां दिशं प्रति स्रुवं प्रक्षिपेत् । रक्षसां राक्षसानां वधाय नाशार्थ त्वा त्वां प्रास्यामीति शेषः । 'अवधिष्म इत्यायन्त्यनपेक्षमिति' (का० १५ । २ । ७)। अध्वर्य्वादयः पश्चादनवलोकयन्तो देवयजनं प्रत्यागच्छन्ति । रक्षो राक्षसजातिं वयमवधिष्म हतवन्तः। जातावेकवचनम् । अमुमिति शत्रुनामग्रहणम् असाविति च । अमुं देवदत्तं वयमवधिष्म असौ देवदत्तो हतो मारितोऽस्माभिः ॥ ३८॥

एकोनचत्वारिंशी
स॒वि॒ता त्वा॑ स॒वाना॑ᳪं᳭ सुव॒ताम॒ग्निर्गृ॒हप॑तीना॒ᳪं᳭ सोमो॒ वन॒स्पती॑नाम् ।
बृह॒स्पति॑र्वा॒च इन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मि॒त्रः स॒त्यो वरु॑णो॒ धर्म॑पतीनाम् ।। ३९ ।।
उ० गृहीत्वा दक्षिणं यजमानबाहुं जपति । सविता त्वां सवानाम् प्रसवानामाधिपत्ये सुवतां प्रसुवताम् अभ्यनुजानतु । स हि तेषामीष्टे अग्निर्गृहपतीनाम् आधिपत्ये सुवतामित्यनुवृत्तिः । सोमो वनस्पतीनामाधिपत्ये सुवताम् । बृहस्पतिर्वाचे वागर्थमभ्यनुजानातु । इन्द्रो ज्येष्ठ्याय ज्येष्ठभावायार्थं सुवताम् । रुद्रः पशुभ्यः पश्वर्थं सुवताम् । मित्रः सत्यः सत्यायेति विभक्तिव्यत्ययः । सत्यार्थं सुवताम् । वरुणो धर्मपतीनामाधिपत्ये सुवताम् ॥ ३९ ॥
म० 'उत्तमेन चरित्वा सविता त्वेत्याह यजमानबाहुं दक्षिणं गृहीत्वा नामास्य गृह्णाति मन्त्रे यथास्थानं मातापित्रोश्च यस्याश्च जाते राजा भवतीति' (का. १५ । ४ । १३-१५)। अष्टौ देवसूहवींषि । तत्रान्तिमेन वरुणाय धर्मपतय इति वारुणेन चरुणा चरित्वा यजमानान्तिके गत्वा स्रुचौ सव्ये पाणौ कृत्वा दक्षिणं तद्बाहुमादाय सविता त्वेति कण्डिकाद्वयरूपं मन्त्रमाह । मन्त्रे यथास्थानं यजमानस्य तन्मातापित्रोर्यस्या जनपदजाते राजा भवति तस्याश्च नामानि गृह्णातीति सूत्रार्थः । अतिजगती यजमानदेवत्या । सविता सवानां प्रसवानामाज्ञानामाधिपत्ये हे यजमान, त्वा त्वां सुवतां प्रेरयतु । सर्वेषामाज्ञादानेऽधिकारी भवेत्यर्थः । अग्निर्गृहपतीनां गृहस्थानामाधिपत्ये त्वां सुवताम् । सोमो वनस्पतीनां वृक्षाणामाधिपत्ये त्वां सुवताम् । | वृक्षाः सर्वे तवोपकारका भवन्त्वित्यर्थः । बृहस्पतिर्वागर्थं त्वां सुवतां पाण्डित्याय प्रेरयतु । यद्वा षष्ठ्यर्थे चतुर्थी । वाचआधिपत्ये सुवताम् । इन्द्रो देवो ज्यैष्ठ्याय ज्येष्ठभावाय त्वां सुवताम् । रुद्रः पशुभ्यः पश्वर्थं पश्वाधिपत्ये वा त्वां सुवताम् । मित्रो देवः सत्यः । 'सुपां सुलुक्' (पा० ७ । १ । ३९) इत्यादिना चतुर्थ्याः सुआदेशः । सत्याय सत्यवाक्याय सत्यं वदितुं त्वां सुवताम् । वरुणो धर्मपतीनां धर्मेश्वराणां धर्मशीलानामाधिपत्ये त्वां सुवताम् । सवित्रादयोऽष्टौ देवसूहविषां देवतास्त्वां नानाधिपत्यानि ददत्विति वाक्यार्थः ॥ ३९ ॥

चत्वारिंशी।
इ॒मं दे॑वा असप॒त्नᳪं᳭ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ ।
इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒श ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ᳪं᳭ राजा॑ ।। ४० ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां नवमोऽध्यायः ॥९॥
उ० इमं देवा असपत्नं सुवध्वम् । इमं राजानं हे देवाः, असपत्नं सुवध्वम् । महते क्षत्राय महते ज्यैष्ठ्याय ज्येष्ठभावाय । महते च जनानां राज्याय । इन्द्रस्य च इन्द्रियाय वीर्याय । सुवध्वमिति प्रत्येकं संबन्धः । इमं अमुष्यपुत्रम् । अमुष्येति यजमानस्य पितुः षष्ठ्यन्तं नाम गृह्यते । अमुष्यै पुत्रम् । अमुष्यै इति यजमानस्य मातुर्नामग्रहः । ‘स आदित्येन दिनं मिथुनं समभवत्' इत्यादिश्रुतिः । इमममुष्य पुत्रमित्यादिस्तृतीयपादः सोमपरत्वेन व्याख्येयः। अस्यै विशे । जनपदनामग्राहः । एष वः अमी राजा । एष वः कौरवो राजा सोमः अस्तु । अस्माकं ब्राह्मणानां राजा ॥ ४०॥
इति उवटकृतौ मन्त्रभाष्ये नवमोऽध्यायः ॥ ९ ॥
म० अत्यष्टिर्यजमानदेवत्या । हे देवाः सवित्रादयः, इमममुकसंज्ञं यजमानमसपत्नं सपत्नरहितं कृत्वा सुवध्वं प्रेरयध्वम् । किमर्थं । महते क्षत्राय महत्यै क्षत्रपदव्यै । महते ज्यैष्ठ्याय ज्येष्ठभावाय । महते जानराज्याय जनानामिदं जानं जानं च तद्राज्यं च जानराज्यं । जनानामाधिपत्यायेत्यर्थः । इन्द्रस्यात्मन इन्द्रियाय वीर्याय आत्मज्ञानसामर्थ्याय इमं यजमानं सुवध्वमित्यर्थः । किंभूतमिमम् । अमुष्य पुत्रम् । अमुष्येति षष्ठ्यन्तं यजमानपितुर्नाम ग्राह्यम् । तथा अमुष्यै षष्ठ्यर्थे चतुर्थी । अमुष्या देव्याः पुत्रम् । अमुष्या इति यजमानमातुर्नामग्रहः । अस्यै विशे अस्याः कौरव्याः विशः प्रजाया अधिपतिमिति शेषः । अस्यै इति षष्ठ्यन्तं जातिनाम ग्राह्यम् । अमी इति प्रथमान्तं देशनाम ग्राह्यम्। अमी हे कुरवः पञ्चालाः, वो युष्माकमेष खदिरवर्मा राजास्तु । अस्माकं ब्राह्मणानां तु सोमश्चन्द्रो वल्लीरूपो वा सोमो राजा प्रभुरस्तु ॥ ४० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
वाजपेयो राजसूयारम्भान्तो नवमोऽगमत् ॥ ९ ॥

[सम्पाद्यताम्]