सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ५/अध्यायः १/ब्राह्मण ५

विकिस्रोतः तः

५.१.५.

तद्यदाजिं धावन्ति । इममेवैतेन लोकमुज्जयत्यथ यद्ब्रह्मा रथचक्रे साम गायति नाभिदघ्न उद्धितेऽन्तरिक्षलोकमेवैतेनोज्जयत्यथ यद्यूपं रोहति देवलोकमेवैतेनोज्जयति तस्माद्वा एतत्त्रयं क्रियते - ५.१.५.१

स ब्रह्मा रथचक्रमधिरोहति । नाभिदघ्न उद्धितं देवस्याहं सवितुः सवे सत्यसवसो बृहस्पतेरुत्तमं नाकं रुहेयमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः - ५.१.५.२

अथ यदि राजन्यो यजते । देवस्याहं सवितुः सवे सत्यसवस इन्द्रस्योत्तमं नाकं रुहेयमिति क्षत्रं हीन्द्रं क्षत्रं राजन्यः - ५.१.५.३

त्रिः सामाभिगायति । त्रिरभिगीयावरोहति देवस्याहं सवितुः सवे सत्यप्रसवसो बृहस्पतेरुत्तमं नाकमरुहमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः - ५.१.५.४

अथ यदि राजन्यो यजते । देवस्याहं सवितुः सवे सत्यप्रसवस इन्द्रस्योत्तमं नाकमरुहमिति क्षत्रं हीन्द्रः क्षत्रं राजन्यः - ५.१.५.५

अथ सप्तदश दुन्दुभीननुवेद्यन्तं सम्मिन्वन्ति । प्रतीच आग्नीध्रात्प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजते वाग्वै प्रजापतिरेषा वै परमा वाग्या सप्तदशानां दुन्दुभीनां परमामेवैतद्वाचं परमं प्रजापतिमुज्जयति सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति - ५.१.५.६

अथैतेषां दुन्दुभीनाम् । एकं यजुषाऽऽहन्ति तत्सर्वे यजुषाऽऽहता भवन्ति - ५.१.५.७

स आहन्ति । बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयतेति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः - ५.१.५.८

अथ यदि राजन्यो यजते । इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयतेति क्षत्रं हीन्द्रः क्षत्रं राजन्यः - ५.१.५.९

अथैतेष्वाजिसृत्सु रथेषु । पुनरासृतेष्वेतेषां दुन्दुभीनामेकं यजुषोपावहरति तत्सर्वे यजुषोपावहृता भवन्ति - ५.१.५.१०

स उपावहरति । एषा वः सा सत्या संवागभूद्यया बृहस्पतिं वाजमजीजपताजीजपत बृहस्पतिं वाजं वनस्पतयो विमुच्यध्वमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः - ५.१.५.११

अथ यदि राजन्यो यजते । एषा वः सा सत्या संवागभूद्ययेन्द्रं वाजमजीजपताजीजपतेन्द्रं वाजं वनस्पतयो विमुच्यध्वमिति क्षत्रं हीन्द्रः क्षत्रं राजन्यः - ५.१.५.१२

अथ वेद्यन्तात् । राजन्य उदङ्सप्तदश प्रव्याधान्प्रविध्यति यावान्वा एकः प्रव्याधस्तावांस्तिर्यङ्प्रजापतिरथ यावत्सप्तदश प्रव्याधास्तावानन्वङ्प्रजापतिः - ५.१.५.१३

तद्यद्राजन्यः प्रविध्यति । एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेकः सन्बहूनामीष्टे यद्वेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यस्तस्माद्राजन्यः प्रविध्यति सप्तदश प्रव्याधान्प्रविध्यति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति - ५.१.५.१४

अथ यं यजुषा युनक्ति । तं यजमान आतिष्ठति देवस्याहं सवितुः सवे सत्यप्रसवसो बृहस्पतेर्वाजजितो वाजं जेषमिति - ५.१.५.१५

तद्यथैवादो बृहस्पतिः । सवितारं प्रसवायोपाधावत्सविता वै देवानाम्प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रासुवत्तत्सवितृप्रसूत उदजयदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानां प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रसौति तत्सवितृप्रसूत उज्जयति - ५.१.५.१६

अथ यद्यध्वर्योः । अन्तेवासी वा ब्रह्मचारी वैतद्यजुरधीयात्सोऽन्वास्थाय वाचयति वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित इत्यन्नं वै वाजोऽन्नजित इत्येवैतदाहाध्वन स्कभ्नुवन्त इत्यध्वनो हि स्कभ्नुवन्तो धावन्ति योजना मिमाना इति योजनशो हि मिमाना अध्वानं धावन्ति काष्ठां गच्छतेति यथैनानन्तरा नाष्ट्रा रक्षांसि न हिंस्युरेवमेतदाह धावन्त्याजिमाघ्नन्ति दुन्दुभीनभि साम गायति - ५.१.५.१७

अथैताभ्यां जगतीभ्याम् । जुहोति वाऽनु वा मन्त्रयते यदि जुहोति यद्यनुमन्त्रयते समान एव बन्धुः - ५.१.५.१८

स जुहोति । एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि क्रतुं दधिक्रा अनु संसनिष्यदत्पथामङ्कांस्यन्वापनीफणत्स्वाहा - ५.१.५.१९

उत स्म । अस्य द्रवतस्तुरण्यतः पर्णं न वेरनुवाति प्रगर्द्धिनः श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः स्वाहेति - ५.१.५.२०

अथोत्तरेण त्रिचेन । जुहोति वाऽनु वा मन्त्रयते द्वयं तद्यस्माज्जुहोति वाऽनु वा मन्त्रयते यदि जुहोति यद्यनुमन्त्रयते समान एव बन्धुरेतानेवैतदश्वान्धावत उपवाजयत्येतेषु वीर्यं दधाति तिस्रो वा इमाः पृथिव्य इयमहैका द्वे अस्याः परे ता एवैतदुज्जयति - ५.१.५.२१

सोऽनुमन्त्रयते । शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः - ५.१.५.२२

ते नोऽअर्वन्तः । हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः सहस्रसा मेधसाता सनिष्यवो महो ये धनं समिथेषु जभ्रिरे - ५.१.५.२३

वाजेवाजेऽवत । वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ॥ अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैरिति - ५.१.५.२४

अथ बार्हस्पत्येन चरुणा प्रत्युपतिष्ठते । तमुपस्पृशत्यन्नं वा एष उज्जयति यो वाजपेयेन यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तेनैवैतदेतां गतिं गत्वा संस्पृशते तदात्मन्कुरुते - ५.१.५.२५

स उपस्पृशति । आ मा वाजस्य प्रसवो जगम्यादित्यन्नं वै वाज आ माऽन्नस्य प्रसवो जगम्यादित्येवैतदाहेमे द्यावापृथिवी विश्वरूपे इति द्यावापृथिवी हि प्रजापतिरा मा गन्तां पितरा मातरा चेति मातेव च हि पितेव च प्रजापतिरा मा सोमो ऽअमृतत्वेन गम्यादिति सोमो हि प्रजापतिः - ५.१.५.२६

तमश्वानवघ्रापयति । वाजिन इति वाजिनो ह्यश्वास्तस्मादाह वाजिन इति वाजजित इत्यन्नं वै वाजोऽन्नजित इत्येवैतदाह वाजं ससृवांसं इति सरिष्यन्त इति वा अग्र आह सरिष्यन्त इव हि तर्हि भवन्त्यथात्र ससृवांस इति ससृवांस इव ह्यत्र भवन्ति तस्मादाह ससृवांस इति बृहस्पतेर्भागमवजिघ्रतेति बृहस्पतेर्ह्येष भागो भवति तस्मादाह बृहस्पतेर्भागमवजिघ्रतेति निमृजाना इति तद्यजमाने वीर्यं दधाति तद्यदश्वानवघ्रापयतीममुज्जयानीति वा अग्रेऽवघ्रापयत्यथात्रेममुदजैषमिति तस्माद्वा अश्वानवघ्रापयति - ५.१.५.२७

अथैतेषामाजिश्रितां रथानाम् । एकस्मिन्वैश्यो वा राजन्यो वोपास्थितो भवति स वेदेरुत्तरायां श्रोणा उपविशत्यथाध्वर्युश्च यजमानश्च पूर्वया द्वारा मधुग्रहमादाय निष्क्रामतस्तं वैश्यस्य वा राजन्यस्य वा प्राणावाधत्तोऽथ नेष्टाऽपरया द्वारा सुराग्रहानादाय निष्क्रामति स जघनेन शालां पर्येत्यैकं वैश्यस्य वा राजन्यस्य वा प्राणावादधदाहानेन त इमं निष्क्रीणामीति सत्यं वै श्रीर्ज्योतिः सोमोऽनृतं पाप्मा तमः सुरा सत्यमेवैतच्छ्रियं ज्योतिर्यजमाने दधात्यनृतेन पाप्मना तमसा वैश्यं विध्यति तैः स यं भोगं कामयते तं कुरुतेऽथैतं सहिरण्यपात्रमेव मधुग्रहं ब्रह्मणे ददाति तं ब्रह्मणे दददमृतमायुरात्मन्धत्तेऽमृतं ह्यायुर्हिरण्यं तेन स यं भोगं कामयते तं कुरुते - ५.१.५.२८