शतपथब्राह्मणम्/काण्डम् ५/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१ वाजपेययज्ञः - तत्र वाजपेययागविधायिन्याख्यायिका, तस्यां देवासुराणामन्योन्यं विपर्ययेणानुष्ठानप्रकारवर्णनम्,. वाजपेये सर्वेषां देवानां पुरस्ताद्वाजपेयस्यानुष्ठानेन बृहस्पतेरेव श्रेष्ठत्वं वक्तुमाजिधावनदर्शनम्, विधास्यमानसावित्रहोमार्थं बृहस्पतेरपि प्रथमं सवितृविषयकोपधावनदर्शनम्, वाजपेययाजिनस्तदानीमेवोत्क्रमणं भूलोके यावदत्यन्तभोगाभिलाषस्तावदिहावस्थानं तत्र जानश्रुतेयेन प्रत्यवरूढमित्याद्युभयस्योपपादनम्, ब्राह्मणस्याधिकारविध्यनुमापकबृहस्पतिवृत्तान्तानन्तरं क्षत्रियस्याप्यधिकारोऽस्तीति दर्शयितुमिन्द्रवृत्तान्तकथनम्, एवमाख्यायिकया ब्राह्मणक्षत्रियावधिकारिणौ प्रदर्श्येदानीं वाजपेययागस्योत्पत्तिविधिप्रदर्शनम्, सर्वजयेन विराडात्मकप्रजापतिजयस्यानुचितत्वात्तत्साधनभूतो वाजपेयो नानुष्ठेय- इति पूर्वपक्षमुद्भाव्य तन्निषेधस्याधिकारिविशेषनिरूपणेन परिहरणं, विदुष एव यष्टृत्वं विदुषामेव याजयितृत्वमित्युभयस्योपपादनं, वाजपेयस्याधिकारविधेरुन्नयनं, वाजपेयस्य साम्राज्यं फलमिति वक्तुं प्रसङ्गाद्राजसूयस्याधिकारिभेदेन फलभेदेन वा अवरत्वमिति प्रदर्शनं, वाजपेयस्य साम्राज्यलक्षणं फलं दर्शयित्वा तत्र कर्मारम्भे समंत्रकं सावित्रहोमविधानम् सवित्रुपधावनस्य बृहस्पतिसम्बन्धेन प्रशंसनं, सावित्रहोमस्य संकुचद्वृत्तिता प्रदर्शनं चेत्यादि .



ब्राह्मण २

२ वाजपेये ग्रहविशेषाः-तत्रांशुग्रहं विधाय प्राकृतानामुपांश्वाद्याग्रयणान्तानामतिदेशकथनम् ,अतिग्राह्यग्रहान्विधाय षोडशीग्रहविधानं, पञ्चानामिन्द्रदेवत्यानां वाजपेयग्रहाणां मंत्रतदर्थसहितं ग्रहणविधानं पञ्चसंख्यायाः प्रशंसनं च, सद्रव्याणां सप्तदशानां सोमग्रहाणां सुराग्रहाणां च विधानं, द्रव्यद्वयमनूद्य तयोः प्रशंसनम् उक्तसंख्यायाः प्रजापत्यात्मकत्वेन स्तवनं, द्विविधग्रहाणां संख्यां 'समुच्चित्य तत्प्र- शंसनं, प्राकृतं सोमक्रयणमनूद्य परिस्रुत्क्रयणविधानं, ग्रहाणामासादने प्रदेशविशेषस्य सकारणं विधानं, वसतीवरीणां .हविर्धानप्रवेशनमनूद्य परिस्रुत्प्रवेशने कस्यचिद्विशेषस्य विधानं, ग्रहवर्गद्वयग्रहणे ऋत्विजोर्नियमं दर्शयित्वा विभागेन धारणाय व्यत्यासविधानं, ग्रहाणामन्यदेशप्रापणे सकारणं निषेधकथनम्, उभयग्रहधारणे कस्यचिद्विशेषस्य सप्रयोजनं मन्त्रतत्तात्पर्यसहितं विधानम्, अक्षप्रदेशात्तयोः स्वस्वप्रदेशे समन्त्रकमवस्थापनविधानम्, अध्वर्योर्हिरण्यपात्रेण मधुग्रहग्रहणं विधाय तस्य सादनप्रदेशविधानं, प्राकृतावुक्थ्यध्रुवग्रहौ दर्शयित्वा. पृथग्ग्रहणप्रसङ्गाद्द्विविधग्रहाणां होमकालस्य भक्षणस्य च विधानं, प्रसंगात्सुराग्रहाणां मधुग्रहस्य च माध्यन्दिनसवनमध्ये विनियोगप्रदर्शनं चेत्यादि


ब्राह्मण ३

३ पशुतन्त्रम्-तत्र तावद्वाजपेयस्य सप्तसोमसंस्थात्मकत्वं दर्शायित्वा तत्राग्निष्टोमादिगतानामाग्नेयादिसवनीयपशूनां विधानं, सप्तदशाय स्तोत्राय साररवतपशोरालम्भनेन वाजपेयेऽतिरात्रस्यान्तर्भावप्रतिपादनं, वाजपेयस्य वशापृश्निरूपासाधारणपशुं विधाय तस्य प्रयो- जनपूर्वकोज्जेषगुणकमरुद्देवत्यत्वेन प्रशंसनं, प्राकृताग्नेयादीनां वपाप्रचरणेन सह विवास्यमाने मारुतीवपाप्रचरणे एकीयमतोपन्यासः, पश्ववदानानामप्यैकध्येन श्रपणं सिद्धान्तयितुं द्वैविध्यस्य पूर्वपक्षतयोद्भावनं, हविषामवदानप्रकारवर्णनमेतेषां द्विरवदानं प्रचरणं च प्रशंस्य पूर्वमर्धानां पश्चाच्चार्धानां हविषां विनियोगकथनं, तस्यास्य माहेन्द्रान्ते वपाप्रचरणस्य हविषां द्विधा श्रपणस्य च पक्षे प्रत्यवायं दर्शयित्वोक्तकीयमतस्य दूषणं, प्राकृतपशुवपाप्रचरणकाले एव मारुतीवपाप्रचरणस्य हविषामैकध्येन श्रपणस्य च विधानं, देवतासंख्यालक्षणद्वयविशिष्टानां पश्वन्तराणां विधानं, तेषु पशुषु गुणत्रयस्य विधानं, पशुतन्त्ररूपेण प्रत्यक्षसोमात्मना च स्तुत्वा तदात्मकप्रजापतेः प्राप्तिप्रतिपादनं, पशुगतां संख्यामुपजीव्य प्रशंस्य तूपरशब्दार्थकथनं, श्यामत्वमनूद्य व्याख्याय तद्गतवर्णद्वित्वमालम्ब्य च प्रशंसनं मुष्करत्वमनूद्य तद्रूपेण प्रशंसनं च, निरुक्तत्रिविधगुणानां पशूनामसुलभत्वं प्रतिपाद्य पक्षान्तरकथनम्, अस्मिंश्च पक्षे कतिपयपशूनां वर्णान्तरयुक्तत्वेऽपि कर्मणोऽङ्गवैकल्यस्य परिहारकथनम् एकेषां मतेन सप्तदशप्राजापत्यपशूनामन्ते वाग्देवत्यपशोरनुष्ठानं कर्तव्यमित्यमुं सोपपत्तिकं पक्षमनूद्य तन्निरसनं, प्राकृतपशुवपाहविभिः सह प्राजापत्यपशूनां वपाप्रचरणस्य हविर्यागस्य च विधास्यमाने होमकाले पूर्वपक्षमुद्भाव्य तस्य दूषणं कृत्वा सिद्धान्तप्रतिपादनम्, एतेषां पशूनां तद्धितश्रुतिबोधितेन पृथक्पृथग्देवतासंबन्धेन सप्तदशसंख्याकत्वात्प्रतियागं याज्यापुरोऽनुवाक्याभेदमाशंक्य देवतैक्येन सह प्रदानकत्वाद्याज्यापुरोऽनुवाक्ययोरैक्यस्य प्रतिपादनम्, अनुवाक्यापाठात्प्रागध्वर्युणा कर्तव्येऽनुवचनप्रैषे विशेषकथनम्, आश्रावणान्तरकर्तव्ये च विशेषं कथयित्वा होतुरध्वर्योश्च कर्तव्यनिरूपणं चेति.


ब्राह्मण ४

४ माध्यन्दिनसवनप्रयोगः-तत्र यजमानाभिषेकस्याजिधावनस्य च प्राधान्येन विधानं तत्र कालविधानं च, पूर्वं रथवाहने काष्ठविशेषे स्थापितमाजिधावनाय सज्जीकर्तुं तस्य रथस्य तस्मात्काष्ठादवहरणस्य मन्त्रतदर्थसहितं विधानं, धूर्गृहीतस्य रथस्य वेदिमध्येऽभ्यावर्तनस्य मन्त्रतदर्थसहितं विधानम्, अश्वानां प्रोक्षणस्य तत्कालस्य च मन्त्रद्वयतदर्थसहितं विधानं, समंत्रकमश्वेन रथयोजनविधानं, सव्याश्वस्य रथे समंत्रकं योजनविधानम्, तृतीयाश्वस्य रथे समंत्रकं योजनविधानं, उक्ताश्व- गतत्रित्वसंख्याप्रशंसनं, चतुर्थाश्वस्यानुगमनं विधायाध्वर्यवे रथप्रदानसमये तस्य रथे योजनविधानम्, उक्तार्थस्यान्यत्र राजसूयादावतिदेशकथनं, सार्थवादं द्रव्यदेवताविशिष्टचरोर्विधानं, देवता शरावसंख्याविधित्रयमनूद्य तत्प्रशंसनं, सप्रयोजन मंत्रतदर्थसहितं रथयुक्तानामश्वानामवघ्रापननिधानं चेत्यादि


ब्राह्मण ५

५ विहितमाजिधावनमनूद्य तत्प्रशंस्य च सामगानस्य यूपारोहणस्य च सार्थवादं विधानं, ब्रह्मणःसामगानर्थं रथचक्राधिरोहणविधानम्, आरोहणमनूद्य तत्र ब्राह्मणाधिकारिकपक्षे राजन्याधिकारिकपक्षे च क्रमशो मंत्रविधानं, विहितब्रह्मकर्तृकसामगाने त्रित्वसंख्याविधानं, प्रसङ्गाद्ब्रह्मणो रथावरोहणविधानम्, अत्राप्यवरोहणे पूर्ववद्ब्राह्मणराजन्यरूपयजमानभेदेन मंत्रभेदप्रदर्शनं, वाग्र्रूपप्रजापत्युज्जयहेतुत्वेन सप्तदशानां दुन्दुभीनां वादनविधानं, सप्तदशानां दुन्दुभीनां मध्ये एकस्य दुन्दुभेः समंत्रकं वादनमितरेषां तूष्णीं वादनमिति विधानं, अत्राप्याहनने पूर्ववद्ब्राह्मणराजन्यभेदेन मंत्रभेदप्रदर्शनं, ब्राह्मणराजन्यभेदेन मंत्रभेदप्रदर्शनपुरःसरं समंत्रकं सप्रकारकं दुन्दुभ्युपावहरणविधानं, ततः सार्थवादं सकारणं राजन्यकर्तृकानां सप्तदशानामिषुप्रव्याधानां विधानम्, अश्वयुक्तस्य रथस्य यजमान- कर्तृकं समंत्रकमारोहणविधानम्, उक्तार्थस्य बृहस्पतिदृष्टान्तेन दृढीकरणं, ततोऽध्वर्योः शिष्यकर्तृकं तदन्यब्रह्मचारिकर्तृकं वा ' वाजिनःइति यजमानवाचनंविधाय तद्व्याख्यानं, विहितानामाजिधावनदुन्दुभ्याहननब्रह्मकर्तृकसामगानानां प्रयोगकालविधानं, वक्ष्यमाणाभ्यां मन्त्राभ्यां हवनमनुमंत्रणं वा विकल्पेन कर्तव्यमित्युभयसमानार्थवादसहितं विधानम्, उक्तेऽर्थे मंत्रद्वयविधानं, पुनः पूर्ववद्वक्ष्यमाणेन त्र्यृचेन हवनमनुमत्रणं वा विकल्पेन कर्तव्यमित्युभयसमानार्थवादसहितं विधानम्, उक्तेऽर्थे मंत्रत्रयस्य पाठतः प्रदर्शनं, बार्हस्पत्येन चरुणा प्रत्युपस्थाय तस्य चरोःसार्थवादमुपस्पर्शनविधानं, विहिते उपस्पर्शने मंत्रं विधाय व्याख्याय च तस्य प्रजापत्यात्मना प्रशंसनम्, उपस्थापितचरुमश्वानवघ्रापयेदिति समंत्रमंत्रार्थकं साभिप्रायं सप्रयोजनं विधानं, द्वितीयब्राह्मणान्ते प्रतिज्ञातस्य सुराग्रहाणां मधुग्रहस्य च विनियोगप्रकारस्य प्रदर्शनं, तत्र निष्क्रयं प्रशंस्य प्रतिगृहीतानां सुराग्रहाणां त्वैच्छिकव्यवहारं दर्शयित्वा च क्रीतस्य मधुग्रहस्य सार्थवादं दानकथनं, ब्रह्मणा प्रतिगृहीतस्य मधुग्रहस्यैच्छिकव्यवहारप्रदर्शनं चेत्यादि.