शतपथब्राह्मणम्/काण्डम् ५/अध्यायः १/ब्राह्मण २

विकिस्रोतः तः

५.१.२ वाजपेये ग्रहविशेषाः

अंशुं गृह्णाति । सर्वत्वायैव तस्माद्वा अंशुं गृह्णात्यथैतान्प्रज्ञातानेवाग्निष्टोमिकान्ग्रहान्गृह्णात्याग्रयणात् - ५.१.२.१

अथ पृष्ठ्यान्गृह्णाति । तद्यदेवैतैर्देवा उदजयंस्तदेवैष एतैरुज्जयति - ५.१.२.२

अथ षोडशिनं गृह्णाति । तद्यदेवैतेनेन्द्र उदजयत्तदेवैष एतेनोज्जयति - ५.१.२.३

अथैतान्पञ्च वाजपेयग्रहान्गृह्णाति । ध्रुवसदं त्वा नृषदम्मनःसदमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येषां वै लोकानामयमेव ध्रुव इयं पृथिवीममेवैतेन लोकमुज्जयति - ५.१.२.४

अप्सुषदं त्वा घृतसदं व्योमसदमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येषां वै लोकानामयमेव व्योमेदमन्तरिक्षमन्तरिक्षलोकमेवैतेनोज्जयति - ५.१.२.५

पृथिविसदं त्वान्तरिक्षसदं दिविसदं देवसदं नाकसदमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येष वै देवसन्नाकसदेष एव देवलोको देवलोकमेवैतेनोज्जयति - ५.१.२.६

अपां रसमुद्वयसं सूर्ये सन्तं समाहितमपां रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्येष वा अपां रसो योऽयं पवते स एष सूर्ये समाहितः सूर्यात्पवत एतमेवैतेन रसमुज्जयति - ५.१.२.७

ग्रहा ऊर्जाहुतयः । व्यन्तो विप्राय मतिं तेषां विशिप्रियाणां वोऽहमिषमूर्जं समग्रभमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतममिति सादयत्यूर्ग्वै रसो रसमेवैतेनोज्जयति - ५.१.२.८

तान्वा एतान् । पञ्च वाजपेयग्रहान्गृह्णाति प्रजापतिं वा एष उज्जयति यो वाजपेयेन यजते संवत्सरो वै प्रजापतिः पञ्च वा ऋतवः संवत्सरस्य तत्प्रजापतिमुज्जयति तस्मात्पञ्च वाजपेयग्रहान्गृह्णाति - ५.१.२.९

अथ सप्तदश सोमग्रहान्गृह्णाति । सप्तदश सुराग्रहान्प्रजापतेर्वा एते अन्धसी यत्सोमश्च सुरा च ततः सत्यं श्रीर्ज्योतिः सोमोऽनृतं पाप्मा तमः सुरैते एवैतदुभे अन्धसी उज्जयति सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः - ५.१.२.१०

स यत्सप्तदश । सोमग्रहान्गृह्णाति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावतैवास्यैतत्सत्यं श्रियं ज्योतिरुज्जयति - ५.१.२.११

अथ यत्सप्तदश । सुराग्रहान्गृह्णाति सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञः स यावानेव यज्ञो यावत्यस्य मात्रा तावतैवास्यैतदनृतं पाप्मानं तम उज्जयति - ५.१.२.१२

त उभये चतुस्त्रिंशद्ग्रहाः सम्पद्यन्ते । त्रयस्त्रिंशद्वै देवाः प्रजापतिश्चतुस्त्रिंशस्तत्प्रजापतिमुज्जयति - ५.१.२.१३

अथ यत्र राजानं क्रीणाति । तद्दक्षिणतः प्रतिवेशतः केशवात्पुरुषात्सीसेन परिस्रुतं क्रीणाति न वा एष स्त्री न पुमान्यत्केशवः पुरुषो यदह पुमांस्तेन न स्त्री यदु केशवस्तेन न पुमान्नैतदयो न हिरण्यं यत्सीसं नैष सोमो न सुरा यत्परिस्रुत्तस्मात्केशवात्पुरुषात्सीसेन परिस्रुतं क्रीणाति - ५.१.२.१४

अथ पूर्वेद्युः । द्वौ खरौ कुर्वन्ति पुरोऽक्षमेवान्यं पश्चादक्षमन्यं नेत्सोमग्रहांश्च सुराग्रहांश्च सह सादयामेति तस्मात्पूर्वेद्युर्द्वौ खरौ कुर्वन्ति पुरोऽक्षमेवान्यं पश्चादक्षमन्यम् - ५.१.२.१५

अथ यत्र पूर्वया द्वारा । वसतीवरीः प्रपादयन्ति तदपरया द्वारा नेष्टा परिस्रुतं प्रपादयति दक्षिणतः पात्राण्यभ्यवहरन्ति पुरोऽक्षमेव प्रत्यङ्ङासीनोऽध्वर्युः सोमग्रहान्गृह्णाति पश्चादक्षं प्राङासीनो नेष्टा सुराग्रहान्त्सोमग्रहमेवाध्वर्युर्गृह्णाति सुराग्रहं नेष्टा सोमग्रहमेवाध्वर्युर्गृह्णाति सुराग्रहं नेष्टैवमेवैनान्व्यत्यासं गृह्णीतः - ५.१.२.१६

न प्रत्यञ्चमक्षमध्वर्युः । सोमग्रहमतिहरति न प्राञ्चमक्षं नेष्टा सुराग्रहं नेज्ज्योतिश्च तमश्च संसृजावेति - ५.१.२.१७

उपर्युपर्येवाक्षमध्वर्युः । सोमग्रहं धारयत्यधोऽधोऽक्षं नेष्टा सुराग्रहं सम्पृचौ स्थः सं मा भद्रेण पृङ्क्तमिति नेत्पापमिति ब्रवावेति तौ पुनर्विहरतो विपृचौ स्थो वि मा पाप्मना पृङ्क्तमिति तद्यथेषीकाम्मुञ्जाद्विवृहेदेवमेनं सर्वस्मात्पाप्मनो विवृहतस्तस्मिन्न तावच्चनैनो भवति यावत्तृणस्याग्रं तौ सादयतः - ५.१.२.१८

अथाध्वर्युः । हिरण्यपात्रेण मधुग्रहं गृह्णाति तं मध्ये सोमग्रहाणां सादयत्यथोक्थ्यं गृह्णात्यथ ध्रुवमथैतान्त्सोमग्रहानुत्तमे स्तोत्र ऋत्विजां चमसेषु व्यवनीय जुह्वति तान्भक्षयन्त्यथ माध्यन्दिने सवने मधुग्रहस्य च सुराग्रहाणां चोद्यते तस्यातः - ५.१.२.१९