सामग्री पर जाएँ

शुक्लयजुर्वेदः/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ शुक्लयजुर्वेदः
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
युधिष्ठिरस्य राजसूयः

अध्यायः 10
अभिषेकार्थ जल आदानादि राजसूयशेष चरकसौत्रामणी। राजसूयः 1-30, चरकसौत्रामणी 31-34

10.1
अपो देवा मधुमतीर् अगृभ्णन्न् ऊर्जस्वती राजस्वश् चितानाः ।
याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥

10.2
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृष्ण ऽ ऊर्मिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
वृषसेनो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥

10.3
अर्थेत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
अर्थेत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
ओजस्वती स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
आपः परिवाहिणी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
अपां पतिर् असि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
अपां पतिर् असि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ।
अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रं मे देहि स्वाहा ।
ऽ अपां गर्भो ऽ सि राष्ट्रदा राष्ट्रम् अमुष्मै देहि ॥

10.4
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
मान्दा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
वाशा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शविष्ठा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
शक्वरी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
जनभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा ।
विश्वभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
आपः स्वराज स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त ।
मधुमतीर् मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वानाः ।
ऽ अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः ॥

10.5
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अग्नये स्वाहा ।
सोमाय स्वाहा ।
सवित्रे स्वाहा ।
सरस्वत्यै स्वाहा ।
पूष्णे स्वाहा ।
बृहस्पतये स्वाहा ।
इन्द्राय स्वाहा ।
घोषाय स्वाहा ।
श्लोकाय स्वाहा ।
अᳬंशाय स्वाहा ।
भगाय स्वाहा ।
अर्यम्णे स्वाहा ॥

10.6
पवित्रे स्थो वैष्णव्यौ ।
सवितुर् वः प्रसव ऽ उत् पुनाम्य् अच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि स्वाहा राजस्वः ॥

10.7
सधमादो द्युम्निनीर् आप ऽ एता अनाधृष्टा ऽ अपस्यो वसानाः ।
पस्त्यासु चक्रे वरुणः सधस्थम् अपाᳬं शिशुर् मातृतमास्व् अन्तः ॥

10.8
क्षत्रस्योल्वम् असि ।
क्षत्रस्य जराय्व् असि ।
क्षत्रस्य योनिर् असि ।
क्षत्रस्य नाभिर् असि ।
इन्द्रस्य वात्रघ्नम् ।
मित्रस्यासि वरुणस्यासि ।
त्वयायं वृत्रं वधेत् ।
दृवासि ।
रुजासि ।
क्षुमासि ।
पातैनं प्राञ्चम् ।
पातैनं प्रत्यञ्चम् ।
पातैनं तिर्यञ्चं दिग्भ्यः पात ॥

10.9
आविर्मर्याः ।
ऽ आवित्तो ऽ अग्निर् गृहपतिः ।
आवित्त ऽ इन्द्रो वृद्धश्रवाः ।
ऽ आवित्तौ मित्रावरुणौ धृतव्रतौ ।
आवित्तः पूषा विश्ववेदाः ।
ऽ आवित्ते द्यावापृथिवी विश्वशम्भुवौ ।
आवित्तादितिर् उरुशर्मा ॥

10
अवेष्टा दन्दशूकाः ।
प्राचीम् आ रोह गायत्री त्वावतु रथन्तरꣳ साम त्रिवृत् स्तोमो वसन्त ऽ ऋतुर् ब्रह्म द्रविणम् ॥

10.11
दक्षिणाम् आ रोह त्रिष्टुप् त्वावतु बृहत् साम पञ्चदश स्तोमो ग्रीष्म ऽ ऋतुः क्षत्रं द्रविणम् ॥

10.12
प्रतीचीम् आ रोह जगती त्वावतु वैरूपꣳ साम सप्तदश स्तोमो वर्षा ऽ ऋतुः विड् द्रविणम् ॥

10.13
उदीचीम् आ रोहानुष्टुप् त्वावतु वैराजꣳ सामैकविꣳश स्तोमः शरद् ऋतुः फलं द्रविणम् ॥

10.14
ऊर्ध्वाम् आ रोह पङ्क्तिस् त्वावतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिꣳशौ स्तोमौ हेमन्तशिशिराव् ऋतू वर्चो द्रविणम् ।
प्रत्यस्तं नमुचेः शिरः ॥

10.15
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
मृत्योः पाहि ।
ओजो ऽसि सहो ऽस्य् अमृतम् असि ॥

10.16
हिरण्यरूपा ऽउषसो विरोक ऽउभाव् इन्द्रा ऽउदिथः सूर्यश् च ।
आ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ।
मित्रो ऽसि वरुणो ऽसि ॥

10.17
सोमस्य त्वा द्युम्नेनाभिषिञ्चाम्य् अग्नेर् भ्राजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण ।
क्षत्राणां क्षत्रपतिर् एध्य् अति दिद्यून् पाहि ॥

10.18
इमं देवा ऽअसपत्नꣳ सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय ।
इमम् अमुष्य पुत्रम् अमुष्यै पुत्रम् अस्यै विश ऽएष वो मी राजा सोमो स्माकं ब्राह्मणाना राजा ॥

10.19
प्र पर्वतस्य वृषभस्य पृष्ठान् नावश् चरन्ति स्वसिच ऽइयानाः ।
ता ऽ आववृत्रन्न् अधराग् उदक्ता ऽ अहिं बुध्न्यम् अनु रीयमाणाः ।
विष्णोर् विक्रमणम् असि ।
विष्णोर् विक्रान्तम् असि ।
विष्णोः क्रान्तम् असि ॥

10.20
प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास् ते जुहुमस् तन् नो ऽ अस्तु ।
अयम् अमुष्य पिताऽसाव् अस्य पिता ।
वयꣳ स्याम पतयो रयीणा स्वाहा ।
रुद्र यत् ते क्रिवि परं नाम तस्मिन् हुतम् अस्य् अमेष्टम् असि स्वाहा ॥

10.21
इन्द्रस्य वज्रो ऽसि ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि ।
अव्यथायै त्वा स्वधायै त्वाऽरिष्टो अर्जुनः ।
मरुतां प्रसवेन जय ।
आपाम मनसा ।
सम् इन्द्रियेण ॥

10.22
मा त ऽ इन्द्र ते वयं तुराषाड् अयुक्तासो ऽ अब्रह्मता विदसाम ।
तिष्ठा रथम् अधि यं वज्रहस्ता रश्मीन् देव युवसे स्वश्वान् ॥

10.23
अग्नये गृहपतये स्वाहा ।
सोमाय वनस्पतये स्वाहा ।
मरुताम् ओजसे स्वाहा ।
इन्द्रस्येन्द्रियाय स्वाहा ।
पृथिवि मातर् मा मा हिꣳसीर् मो ऽ अहं त्वाम् ॥

10.24
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा ऽ अद्रिजा ऽ ऋतं बृहत् ॥

10.25
इयद् अस्यायुर् अस्यायुर् मयि धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
ऊर्ग् अस्य् ऊर्जं मयि धेहि ।
इन्द्रस्य वां वीर्यकृतो बाहू ऽअभ्युपाव हरामि ॥

10.26
स्योनासि सुषदासि ।
क्षत्रस्य योनिर् असि ।
स्योनाम् आ सीद सुषदाम् आ सीद क्षत्रस्य योनिम् आ सीद ॥

10.27
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥

10.28
अभिभूर् अस्य् एतास् ते पञ्च दिशः कल्पन्ताम् ।
ब्रह्मꣳस् त्वं ब्रह्मासि सवितासि सत्यप्रसवः ।
वरुणो ऽसि सत्यौजाः ।
ऽ इन्द्रो ऽसि विशौजाः ।
रुद्रोऽ सि सुशेवः ।
बहुकार श्रेयस्कर भूयस्कर ।
इन्द्रस्य वज्रो ऽसि तेन मे रध्य ॥

10.29
अग्निः पृथुर् धर्मणस् पतिर् जुषाणो अग्निः पृथुर् धर्मणस् पतिर् आज्यस्य वेतु स्वाहा ।
स्वाहाकृताः सूर्यस्य रश्मिभिर् यतध्वꣳ सजातानां मध्यमेष्ठ्याय ॥

10.30
सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिर् इन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाग्निना तेजसा सोमेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्र सर्पामि ॥

10.31
अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ।
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥

10.32
कुविद् अङ्ग यवमन्तो वयं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥

10.33
वयꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥

10.34
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥



भाष्यम्(उवट-महीधर)

दशमोऽध्यायः।
तत्र प्रथमा
अ॒पो दे॒वा मधु॑मतीरगृभ्ण॒न्नूर्ज॑स्वती राज॒स्वश्चिता॑नाः ।
याभि॑र्मि॒त्रावरु॑णाव॒भ्यषि॑ञ्च॒न्याभि॒रिन्द्र॒मन॑य॒न्नत्यरा॑तीः ।। १ ।।
उ० अपो देवा मधुमतीः । वरुणस्यार्षं प्राक् चरकसौत्रामण्याः । अब्देवत्या त्रिष्टुप् । या अपो देवाः मधुमतीः मधुस्वादोदकाः । अगृभ्णन् गृहीतवन्तः । ऊर्जस्वतीः अन्नवतीः । राजस्वः राजानं याः सुवन्ति जनयन्ति ता राजस्वः। चितानाः चेतयमानाः परिदृष्टकारिण्यः । किंच याभिरद्भिर्मित्रावरुणावभ्यषिञ्चन्नभिषिक्तवन्तः । देवा इत्यनुवृत्तिः। याभिः इन्द्रम् अनयन् नीतवन्तः । अत्यरातीः अतीत्य अरातीः अदनवतीः शत्रुसेनाः । प्रकृतत्वाद्देवाः पदमस्ति ताः गृह्णामीति शेषः ॥ १॥
म०. नवमेऽध्याये वाजपेय-राजसूयसंबन्धि कियदपि कर्मोक्तं । दशमेऽभिषेकार्थजलादानादिराजसूयशेषश्चरकसौत्रामणी चोच्यते । तत्र इडान्तेऽपो गृह्णाति यूपमुत्तरेण नैमित्तिकीरसंभवाद्गत्वेतराः पृथक् पात्रेष्वौदुम्बरेषु ( का० १५ । ४ । २०-२२) 'सारस्वतीर्गृह्णात्यपो देवाः' (१५ । ४ । ३३ ) इति । इडाग्रहणं कार्यशेषोपलक्षणम् । देवसूहविषां भागपरिहरणान्ते कृते अभिषेकार्था वक्ष्यमाणा अपो वक्ष्यमाणप्रकारेणौदुम्बरवृक्षपात्रेषु पृथग्गृह्णाति । तत्र विशेषः । निमित्तवशात्प्राप्या नैमित्तिक्यः यथान्तरिक्षात्प्रतिगृह्यातपवर्षाः प्रुष्वाः गोरुल्व्या इत्याद्याः ता राजसूयारम्भात् प्रागेव संपाद्य तदानीं यूपमुत्तरेण गृह्णीयात् । कुतः असंभवात् तदानीमातपवर्षणादेर्निमित्तस्याभावात् इतरा अनैमित्तिकीरपो गत्वा तदानीमेव गृह्णीयात् । तत्र मन्त्रानाह । अपो देवा इति सरस्वतीनदीसंबन्धिनीरप आदौ गृह्णाति । चरकसौत्रामण्याः प्राग्वरुण ऋषिः । अब्देवत्या त्रिष्टुप् । देवा इन्द्रादयो या अपोऽगृभ्णन् गृहीतवन्तः । किंभूता अपः । मधुमतीः मधुरस्वादोपेताः । तथा ऊर्जस्वतीः ऊर्जा विद्यते यासु । विशिष्टान्नरसवतीः । राजस्वः राज्ञः सूयन्ते जनयन्तीति राजस्वः नृपोत्पादिकाः । चितानाः चेतयमानाः सदेवतत्वात्परिदृष्टकारिणीः । पुनस्ता एव विशिनष्टि । याभिरद्भिर्देवा मित्रावरुणौ अभ्यषिञ्चन् मित्रावरुणयोरभिषेकं कृतवन्तः । याभिरद्भिर्देवा इन्द्रं देवमरातीः शत्रून् अत्यनयन् अतीत्य नीतवन्तः इन्द्रं शत्रूनत्यक्रामयन्नित्यर्थः । 'छन्दसि परेऽपि' (पा० १ । ४ । ८१) इति अतेरुपसर्गस्य क्रियापदात्परत्वम् । ता अपो गृह्णामीति शेषः ॥ १॥

द्वितीया।
वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ वृष्ण॑ ऊ॒र्मिर॑सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि वृ॑षसे॒नो॒ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॑ वृषसे॒नो॒ऽसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि ।। २ ।।
उ० अनेन मन्त्रेण सारस्वतीर्गृहीत्वा अनन्तरं हुत्वा षोडशापो गृह्यन्ते । तत्र प्रथमो होममन्त्रः। द्वितीयो ग्रहणमन्त्रः। नदीप्रवाहेऽवस्थितस्य पशोर्वा पुरुषस्य वा यौ ऊर्मी व्यर्दतः तौ गृह्णाति । स यः प्राङुदर्दति प्राङुद्गच्छति तं गृह्णाति । वृष्ण ऊर्मिरसि राष्ट्रदाः । यस्त्वं वृष्णो वर्षितुः सेक्तुः संबन्ध्य ऊर्मिरसि । वृषा हि यदि पुरुषो यदि पशुः राष्ट्रदाश्च । राष्ट्रं जनपदः तस्य स्वभावत एव दातासि तं त्वां ब्रूमो राष्ट्रं मे मह्यं देहि । स्वाहा गृह्णामि । वृष्ण ऊर्मिरसि राष्ट्रदाः राष्ट्रममुष्मै । अमुष्मा इति यजमानस्य नामग्रहः । देहि । एवमुपरितना अपि मन्त्रा व्याख्येयाः । द्वितीयमूर्मिं गृह्णाति । वृषसेनोसि । वृषा युवोच्यते । वृषप्रधाना सेना यस्य स वृषसेनः । स्यन्दमानाः ॥ २॥
म० 'जुहोत्युत्तरासु चतुर्गृहीतं वृष्ण ऊर्म्यादिभिः स्वाहाकारान्तैः पूर्वैः पूर्वैः प्रतिमन्त्रमुत्तरैरुत्तरैर्गृह्णाति' ( का० १५ । ४ । ३४) 'अवगूढात्पशोः पुरुषाद्वा पूर्वापरा ऊर्मी इति' (१५ । ४ । २३ ) सारस्वतीरादायोत्तरासु षोडशस्वप्सु, वृष्ण ऊर्मिरित्यादिभिः स्वाहान्तैः पूर्वपूर्वमन्त्रैश्चतुर्गृहीताज्यानि गृह्यमाणासु जुहुयात् उत्तरैः स्वाहाहीनैर्मन्त्रैस्ताः क्रमेण गृह्णाति । उत्तरमन्त्रेषु अमुष्मै इति पदस्थाने चतुर्थ्यन्तं यजमाननाम ग्राह्यम् । वृष्ण ऊर्मिरित्यादयो विश्वभृत स्थेत्यन्ता मन्त्राः संहितायां द्विशः पठितास्तेषां पूर्वः पूर्वः स्वाहान्तस्तेनाज्यहोमः उत्तरोत्तरः स्वाहाहीनस्तेनापामादानम् । तत्र गत्वा जले प्रविष्टात्पशोर्नराद्वा यौ पूर्वापरौ कल्लोलौ तौ हुत्वा गृह्णातीति सूत्रार्थः । वृष्ण ऊर्मिरसीत्यादीनि आपः स्वराज इत्यन्तानि यजूंषि लिङ्गोक्तदेवतानि । हे कल्लोल, त्वं वृष्णो वर्षितुः सेक्तुः पशोर्नरस्य वा संबन्धी ऊर्मिः कल्लोलोऽसि । राष्ट्रदाः राष्ट्रं जनपदं ददातीति राष्ट्रदाः स्वभावत एव देशप्रदो भवसि अतो राष्ट्रं मे मह्यं देहि स्वाहा हविर्दत्तमस्तु । एवं हुत्वाथ गृह्णाति वृष्ण ऊर्मिरसि राष्ट्रदा अतोऽमुष्मै यजमानाय राष्ट्रं जनपदं देहि । अमुष्मै इति चतुर्थ्यन्तं यजमाननाम ग्राह्यम् । एवमुपरितना अपि मन्त्रा व्याख्येयाः । अपरोर्मिं गृह्णाति वृषसेनोऽसि वृषा सेचनसमर्था सेना जलराशिरूपा यस्य स वृषसेनः । व्याख्यातमन्यत् ॥ २॥

तृतीया ।
अ॒र्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ ऽर्थेत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्तौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहौज॑स्वती स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्ताप॑: परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ ऽप॑: परिवा॒हिणी॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्ता॒पां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ ऽपां पति॑रसि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देह्य॒पां गर्भो॑ऽसि राष्ट्र॒दा रा॒ष्ट्रं मे॑ देहि॒ स्वाहा॒ ऽपां गर्भो॑ सि राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ देहि॒ ।। ३ ।।
उ० अर्थेत स्थ राष्ट्रदाः । अर्थं प्रयोजनं निष्पादयितुं याः यन्ति गच्छन्ति ता अर्थतः । अस्तेर्बहुवचनं स्थइति । राष्ट्रदाः। एतदपि बहुवचनम् । राष्ट्रं मे दत्त । दत्तेति ददातेर्बहुवचनम्। व्याख्यातमन्यत् । प्रतिलोमाः तु ओजस्वतीः ओजसा बलेन युक्ताः सत्यः एताः प्रतिलोमाः स्यन्दन्ते। अपयतीः आपः परिवाहिणीः । हे आपः, याः यूयं परिवाहिणीः सर्वतो वहनशीलाः स्थ उक्तमन्यत् । नदीपतिः अपांपतिरसि । ऋज्वर्थः । निवेष्ट्यम् 'वेष्ट वेष्टने' अस्य निपूर्वस्यान्त्यव्यापत्या निवेष्ट्य आवर्त उच्यते । स्यन्दमानाः स्थावराः प्रत्यागता आपः ॥३॥
म० 'स्यन्दमाना इति नद्यादिप्रवाहस्था अपो गृह्णाति' । (का० १५ । ४ । २४ ) अर्थेतः अर्थं प्रयोजनमुद्दिश्य नद्यादेः सकाशाद् यज्ञदेशं यन्ति गच्छन्तीत्यर्थेतः । इणः क्विपि तुगागमः। तथाविधा यूयं राष्ट्रदा देशदात्र्यः स्थ भवथ । मे राष्ट्र दत्त यच्छत । दत्तेति बहुवचनम् अन्यद्व्याख्यातम् ( का० १५। ४ । २५)। प्रतिलोमाः । वहन्तीनां याः प्रतिगच्छन्ति तासु होमादाने । हे आपः, यूयमोजस्वतीः ओजसा बलेन युक्ता भवथ । 'अपयतीरिति' ( का० १५ । ४ । २६) वहन्तीनामपां मध्याद्या मार्गान्तरेण गत्वा पुनस्तत्र मिलन्ति ता अपयत्यस्तासु होमादाने । हे आपः, यूयं परिवाहिणीः स्थ परि सर्वतो वहन्तीति परिवाहिण्यः सर्वतोवहनशीला भवथ उक्तमन्यत् (का० १५ । ४ । २७ । ) नदीपतिमिति । -समुद्रस्यापां होमादाने । अपां जलानां पतिः स्वामी पालकोऽसि । (का० १५ । ४ । २९) निवेष्या इति । निवेष्य आवर्तस्तद्भवा निवेष्याः नद्यादौ यत्राम्भोभ्रमस्तत्र होमादाने हे जलभ्रम, त्वमपां गर्भो मध्यवर्ती भवसि ॥ ३ ॥

चतुर्थी।
सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑त्वचस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ सूर्य॑वर्चस स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ मान्दा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ व्रज॒क्षित॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ वाशा॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शवि॑ष्ठा स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॒ शक्व॑री स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ जन॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रं मे॑ दत्त॒ स्वाहा॑ विश्व॒भृत॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ द॒त्ताप॑: स्व॒राज॑ स्थ राष्ट्र॒दा रा॒ष्ट्रम॒मुष्मै॑ दत्त । मधु॑मती॒र्मधु॑मतीभिः पृच्यन्तां॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य वन्वा॒ना अना॑धृष्टाः सीदत स॒हौज॑सो॒ महि॑ क्ष॒त्रं क्ष॒त्रिया॑य॒ दध॑तीः ।। ४ ।।
वाशा-वाशी पाठभेदः
उ० सूर्यत्वचस स्थ । सूर्यस्येव त्वक् यासां ताः सूर्यत्वचस आतपवर्ष्याः स्थ । सूर्यवर्चसः स्थ राष्ट्रदाः सूर्यवर्चसः सूर्यस्येव वर्चस्तेजो यासां ताः सूर्यवर्चसः । सरस्याः मान्दास्थ | मन्दतेर्मादनार्थस्य मन्दः । तत्र हि मोदन्ति भूतानि बहूदकत्वात् , तत्र भवा आपो मान्दाः । कूप्याः गृह्णाति । व्रजक्षित स्थ । व्रज इति मेघनामसु पठितम् । इह तूदकवत्वसाम्यात्कूप उच्यते । व्रजे क्षियन्ति व्रजक्षितः पुष्या अवस्थायाः । वाशीस्थ । 'वश कान्तौ' । कामिता अभिलषिताः स्थ । ता हि सर्व एव कामयन्ते अन्नहेतुत्वात् । मधुशविष्ठा स्थ । शव इति बलनाम शविष्ठा बलिष्ठाः । बलिष्ठं हि मधु त्रिदोषशमनत्वात् । उक्तं च 'त्रिदोषघ्नं मधु प्रोक्तं केचिदिच्छन्ति वातलम्' इति । गोरुल्व्यागृह्णाति । शक्करीस्थ । 'शक्लृ शक्तौ' 'आतो मनिन्क्वनिब्वनिपश्च' । शक्नुवन्ति हि गावो जगदुद्धर्तुं वाहदोहादिभिः । पयः जनभृतः । जनान् हि पयो बिभर्ति बालभावे धृतं । विश्वभृतः विश्वं सर्वं देवाद्यपि धृतं बिभर्ति । मरीचीः । आपः स्वराज स्थ । हे आपः, या यूयं स्वराजस्थ स्वकीयमेव राज्यं यासां तास्तथोक्ताः। अनन्याश्रितराज्या इत्यर्थः । व्याख्यातमन्यत् । औदुम्बरपात्रे संमासिञ्चत्येता मधुमतीः मधुमतीमधुररसवत्यः मधुररसवतीभिरद्भिः पृच्यन्तां सृज्यन्ताम् । महि महत् क्षत्रं क्षत्रियाय राज्ञे वन्वानाः। वनोतिः संभजनार्थः। संभजमानाः। मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधाति । अनाधृष्टाः अनाधर्षिताः रक्षोभिः सीदत उपविशत । सहोजसः सवीर्याः सहबलेन । किंकुर्वाणाः। महि महत्क्षत्रं क्षत्रियाय राज्ञे दधतीः स्थापयन्त्यः ॥ ४ ॥
म० 'स्यन्दमानानां स्थावराः प्रत्याताप इति'। ( का० १५ । ४ । ३० ) वहदपां मध्ये याः स्थिराः सदा घर्मे वर्तमानास्तासु होमादाने । हे आपः, यूयं सूर्यत्वचसो भवथ सूर्यस्येव त्वचस्त्वक् यासां ताः सूर्यत्वचसः सदा तापे वर्तमानत्वात् त्वचःशब्दः सान्तस्त्वग्वाची । 'अन्तरिक्षात्प्रतिगृह्यातपवर्ष्या इति' (का० १५। ४ । ३१) आतपे वर्षति सति गगनादप आदायादौ संपादिताः सन्ति यूपमुत्तरेण तासु होमादाने। सूर्यस्येव वर्चस्तेजो यासां ताः सूर्यवर्चसः तादृश्यो भवथ । 'सरस्या इति' (का० १५ । ४ । ३२) तडागभवास्वप्सु होमादाने । हे आपः, यूयं मान्दाः स्थ । मन्दतेर्मोदनार्थस्य रूपं मन्दन्ते भूतानि यत्र बहूदकत्वात्ता मान्दाः भवथ । 'कूप्य इति' । (का. १५ । ४ । ३) कूपे भवाः कूप्यास्तत्र होमादाने । हे आपः, यूयं व्रजक्षितो भवथ । व्रज इति मेघनामसु पठितम् । अत्र तूदकधारणसामर्थ्यात् कूप उच्यते । व्रजे कूपे क्षियन्ति निवसन्ति व्रजक्षितः । (का० १५ । ४ । ३२) प्रुष्वा इति । 'प्रुष सेचने' प्रुष्णन्ति ओषधीः सिञ्चन्तीति प्रुष्वाः अवश्यायरूपाः तृणाग्रेषु स्थितास्तासु वस्त्रक्षेपेण या आत्ताः सन्ति ता यूपमुत्तरेण हुत्वा ग्राह्याः । वाशाः स्थ । 'वश कान्तौ' उश्यन्ते जनैः काम्यन्तेऽन्ननिष्पत्तिहेतुत्वाद्वाशा यूयं भवथ । 'मध्विति' ( का० १५ । ४ । ३२) मधुनि होमादाने । हे मधुरूपा आपः, यूयं शविष्ठाः। शव इति बलनाम। बलिष्ठाः बलदात्र्यो भवथ। त्रिदोषबलशमनत्वाद्बलकरं मधु । 'गोरुल्व्या इति' ( का० १५। ४ । ३२) उल्वं गर्भवेष्टनं तत्र भवा उल्व्याः प्रसूयमानधेनुगर्भवेष्टनोत्थजलं पूर्वं गृहीतमस्ति यूपमुत्तरेण तत्र होमादाने । शक्करीः । 'शक्लृ शक्तौ' 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति वनिप्प्रत्ययः 'वनो र च' ( पा० ४।१।७ इति ङीप् रेफश्च । शक्नुवन्ति वाहदोहादिभिर्जगदुद्धर्तुमिति शक्वर्यो गावस्तत्संबन्धिन्यो यूयं भवथ । ‘पय इति' ( का० १५ । ४ । ३२) दुग्धस्य होमपूर्वं ग्रहणम् । हे आपः, यूयं जनभृतो भवथ बालभावे जनान् जन्तून् बिभ्रति पुष्णन्तीति जनभृतः । 'घृतमिति' ( का० ५ । ४ । ३२ ) घृते होमादाने । हे घृतरूपा आपः, यूयं विश्वभृतः विश्वं सर्वं जगद्देवादिकं बिभ्रति विश्वभृतो भवथ राष्ट्रदाः । एवं सारस्वत्यादयो घृतान्ताः सप्तदशाप उक्ताः । 'आपः स्वराज इति मरीचीर्गृहीत्वा गृहीत्वाञ्जलिना सर्वासु सᳪं᳭सृजतीति' ( का० १५ । ४ । ३५) रविकरतप्ता आपो मरीचयस्ता अञ्जलिनादाय पूर्वगृहीतास्वप्सु योजयेत् प्रतिग्रहणमन्त्रः संसर्गस्तूष्णीम् । 'नात्र होमः षोडशाहुतीर्जुहोति द्वयीषु न जुहोति सारस्वतीषु च मरीचिषु च' (५। ३ । ४ । २३) इति श्रुतेः । हे आपः, मरीचिरूपा यूयं स्वराजः स्थ स्वेनैव राजन्ते ताः स्वराजः अनन्याश्रितराज्या भवथ । राष्ट्रदाः अतोऽमुष्मै यजमानाय राष्ट्रं देशं दत्त । 'औदुम्बरे पात्रे समासिञ्चत्येना मधुमतीरिति' ( का० १५ । ४ । ३६) एनाः सारस्वत्याद्या अप उदुम्बरकाष्ठपात्रे एकीकरोति । मन्त्रावृत्तिः । अब्देवत्यं यजुः । मधुमतीः मधुरसवत्य एता आपो मधुमतीभिर्मधुरस्वादोपेताभिरद्भिः पृच्यन्तां संसृज्यन्ताम् । किंभूता एताः । महि महत् क्षत्रं बलं क्षत्रियाय राज्ञे यजमानाय वन्वानाः संभजमानाः ददत्य इत्यर्थः । वनोतिः संभजनार्थः । 'मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधात्यनाधृष्टा सीदतेति' (का० १५ । ४ । ३७ ) औदुम्बरे पात्रे एकीकृतास्ता अपो मैत्रावरुणधिष्ण्याग्रे सदसि सादयति । अब्देवत्यम् । हे आपः, यूयं सीदत तिष्ठत । किंभूता यूयम् । अनाधृष्टाः अपराभूता रक्षोभिः । सहोजसः ओजसा सहिताः बलयुक्ताः । तथा महि महत्क्षत्रं बलं क्षत्रियाय राज्ञे दधतीः दधत्यः स्थापयन्त्यः ॥ ४ ॥

पञ्चमी
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑
पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहा
ऽᳪं᳭शा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॑ ऽर्य॒म्णे स्वाहा॑ ।। ५ ।।
उ० व्याघ्रचर्मारोहति । सोमस्य त्विषिः सोमस्य दीप्तिर्भवसि यतः अतः तव इव यथा तव त्विषिरेवं मम त्विषिर्भूयात् । 'यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिः' इति श्रुतिः। षट् पुरस्तादभिषेकस्य पार्थानि जुहोति । अग्नये स्वाहेति प्रतिमन्त्रम् षडुपरिष्टात् इन्द्राय स्वाहेति प्रतिमन्त्रम् ॥ ५॥
म० 'व्याघ्रचर्मास्तृणाति सोमस्य त्विषिरिति' (का० १५ । ५।१)। मैत्रावरुणधिष्ण्याग्रासादितपालाशादिपात्रचतुष्टयस्य पुरस्ताद्व्याघ्रचर्मास्तृणाति । चर्मदेवत्यम् । हे चर्म, त्वं सोमस्य त्विषिर्दीप्तिरसि भवसि अतस्तवेव त्वत्सदृशी मे मम त्विषिः - कान्तिर्भूयात् 'यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिः' (५। ३ । ५। ३) इति श्रुतेः। 'पार्थानामग्नये स्वाहेति षट् जुहोति प्रतिमन्त्रम्' ( का० १५ ।५। ३ ) 'पार्थानामिन्द्राय स्वाहेति षट् जुहोति प्रतिमन्त्रमिति' । ( का० १५ । ५। ३४ ) । पार्थसंज्ञानां द्वादशमन्त्राणां मध्ये अग्नय इत्यादीनि षट् पार्थान्यभिषेकादौ जुहोति इन्द्रायेत्यादि षट् अभिषेकान्ते सकृद्गृहीताज्यैः । लिङ्गोक्तानि द्वादश यजूंषि अङ्गतीत्यग्निः । सुनोति सोमः । सूते सुवति प्रेरयति वा सविता । सरः शब्दप्रवाहो यस्याः सा सरस्वती । पुष्णाति पूषा । बृहतां साम्नां पतिर्बृहस्पतिः । इन्दति ईष्टे इन्द्रः । घुष्यति शब्दं करोति घोषः । श्लोक्यते कीर्त्यते जनैरिति श्लोकः । अंशयति विभाजयति पुण्यपापे तत्फलदानेनेति अंशः । 'अंश विभाजने' धातुः । भज्यते सेव्यते स भगः । इयर्ति व्याप्नोति विश्वमित्यर्यमा । एतेभ्यः सुहुतमस्तु ॥ ५ ॥

षष्ठी।
प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः सोम॑स्य दा॒त्रम॑सि॒ स्वाहा॑ राज॒स्व॒: ।। ६ ।।
उ० पवित्रे करोति । पवित्रे स्थः । पवित्रे स्थो वैष्णव्यौ व्याख्यातम् । उत्पुनाति । सवितुर्वः । व्याख्यातम् । अनिभृष्टमसि । अत्र मन्त्रावयवा एकवचनान्ताः। श्रुत्या तु बहुवचनान्ता व्याख्याताः । आपो ह्यत्राभिधेयमिति । अतः श्रुत्यर्थोऽनुक्रियते । 'भ्रस्जो पाके' इत्ययं धातुः ऋषिणा व्याख्यातः । अनिभृष्टमसीति । कोर्थः । अनाधृष्टाः स्थ रक्षोभिः । वाचो बन्धुः । वाचः बन्धुभूताः । 'यावद्वै प्राणेष्वापो भवन्ति तावद्वाचो वदति' इति श्रुतिः । तपोजाः । तपःशब्देनाग्निरुच्यते तस्माज्जायन्ते । 'अग्नेर्वै धूमो जायते' इत्यादिश्रुतिः । सोमस्य दात्रमसि सोमस्य दात्र्यः स्थ । 'यदा वा एनमेताभिरद्भिः षुण्वन्ति' इत्यादिश्रुतिः। स्वाहा राजस्वः। स्वाहाकारेण पूताः सत्यः राजस्वः भवथ । राजानं या सुवन्ति जनयन्ति ता राजस्वः ॥ ६ ॥
म० 'पवित्रे कृत्वा हिरण्यमेनयोः प्रवयतीति' (का० १५। ५। ४)। प्रकृतिवत्पवित्रे स्थ इति पवित्रे कृत्वा तयोः स्वर्णं बध्नाति । पवित्रे स्थः व्याख्यातम् [ अध्या० १ क० १२] । 'ताभ्यामुत्पुनात्यपः सवितुर्व इति' (का० १५ । ५ । ५)। सहिरण्याभ्यां दर्भपवित्राभ्यां मैत्रावरुणधिष्ण्याग्रासादिता औदुम्बरपात्रस्थाः अभिषेकार्था अप उत्पुनाति सवितुरित्यादिना राजस्व इत्यन्तेन मन्त्रेण । अब्देवत्यम् । सवितुः सर्वप्रेरकस्य परमेश्वरस्य प्रसवेऽनुज्ञायां स्थितोऽहम् अच्छिद्रेण छिद्ररहितेन समीचीनेन पवित्रेण सूर्यस्य किरणैश्चोत्पुनामि हे आपः, वो युष्मान् उत्पवनं करोमि । अनिभृष्टमसि । आपोऽत्राभिधेयाः अतोऽत्रैकवचनान्ता मन्त्रावयवाः श्रुत्या बहुवचनान्ता व्याख्याताः अतः श्रुत्यनुसारेण व्याख्यायते। हे आपः, यूयमनिभृष्टा स्थ । 'भ्रस्ज पाके' अयं धातुर्धृष्ट्यर्थे व्याख्यातः । अनिधृष्टाः न नितरां धृष्टाः अपराभूताः रक्षोभिः । वाचो बन्धुः वाण्या बन्धुभूताः 'यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदति' (५ । ३।४।१६) इति श्रुतेः, 'आपोमयी वाक्' इति सामश्रुतेश्च । तथा तपोजाः तपःशब्देनात्राग्निरुच्यते तपसोऽग्नेर्जातास्तपोजाः । 'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता जायन्ते तस्मादाह तपोजाः' (५। ३ । ५ । १७) इति श्रुतेः 'वायोरग्निरग्नेरापः' (तैत्ति० आर० ८ । १) इति श्रुत्यन्तरात् सोमस्य दात्रमसि सोमस्य दात्र्यो दानकर्त्र्यो भवथ 'यदा वा एनमेताभिरभिषुण्वन्त्यथाहुतिर्भवति' (५। ३ । ५। १८) इति श्रुतेः सोमदात्र्य आपः । स्वाहा राजस्वः स्वाहाकारेण पूताः सत्यः राजस्वो जनस्य राजानं सुवते जनयन्तीति राजस्वो राजजनिका भवथ ॥ ६ ॥

सप्तमी।
स॒ध॒मादो॑ द्यु॒म्निनी॒राप॑ ए॒ता अना॑धृष्टा अप॒स्यो वसा॑नाः ।
प॒स्त्या॒सु चक्रे॒ वरु॑णः स॒धस्थ॑म॒पाᳪं᳭ शिशु॑र्मा॒तृत॑मास्व॒न्तः ।। ७ ।।
उ० अभिषेचनीष्वेनां व्यानयति । सधमादो द्युम्नीः । अब्देवत्या वारुणी त्रिष्टुप् । या एताः सधमादः सहमदनाः सह एकस्मिन्पात्रे माद्यन्ति मदनं कुर्वन्ति ताः। द्युम्नीः वीर्यवत्यः आपः एताः अनाधृष्टाः अनभिभूता रक्षोभिः । अपस्यः अप इति कर्मनाम तत्र साधुः अपस्यः । वसानाः 'वस आच्छादने' आच्छादयन्त्यः पात्राण्यवस्थिताः । तास्वप्सु पस्त्यासु । पस्त्यमिति गृहनामसु पठितम् । गृहरूपासु विशां रूपेणावस्थितासु । चक्रे कृतवान् वरुणो राजा सधस्थं सहस्थानं प्रतिष्ठाम् । कथंभूतो वरुणः । अपां शिशुः । 'अपां वा एष शिशुर्भवति यो राजा राजसूयेन यजति' इति | श्रुतिः । मातृतमासु अतिशयेन निर्मात्रीषु । अन्तर्मध्ये चक्रे सधस्थमिति संबन्धः ॥ ७ ॥
म० 'अभिषेचनीयेष्वेनां व्यानयति सधमाद इति' (का० | १५ । ५। ६)। उत्पूता अभिषेकार्था आपोऽभिषेकार्थेषु पालाशौदुम्बरवाटाश्वत्थेषु पात्रेषु पूर्वासादितेषु चतुर्धा विभज्य निनयति । वरुणदेवत्या त्रिष्टुप् । या एता आपो वर्तन्ते । कीदृश्यः । सधमादः सह एकस्मिन् पात्रे माद्यन्ति हृष्यन्ति मादयन्ते प्रीणयन्ति वा ताः सधमादः । सहपूर्वान्मादयतेः क्विप् 'सध मादस्थयोश्छन्दसि' ( पा० ६ । ३ । ९६ ) इति सहस्य सधादेशः । द्युम्निनीः द्युम्नं वीर्यमस्ति यासां ता द्युम्निन्यः पूर्वसवर्णदीर्घः । 'द्युम्नं द्योततेर्यशो वान्नं वा' ( नि० ५। ५) इति यास्कः । अनाधृष्टाः रक्षोभिरनभिभूताः । अपस्यः । अप इति कर्मनाम । अपसि कर्मणि साध्व्यः अपस्यः । 'तत्र साधुः' ( पा० ४ । ४ । ९८ ) इति यत् 'सुपां सुलुक्' (पा. ७ । १ । ३९) इति जसः सुरादेशः । वसानाः 'वस आच्छादने' वसते आच्छादयन्ति पात्राणीति वसानाः । या एवंविधा आपस्तासु अन्तर्मध्ये वरुणो देवः सधस्थं सहस्थानं चक्रे कृतवान् । सह स्थीयते यस्मिन् तत् सधस्थम् । किंभूतो वरुणः । | अपां शिशुः बालकः । 'अपां वा एष शिशुर्भवति यो राजसूयेन यजते' ( ५। ३ । ५। १९ ) इति श्रुतेः वरुणो राजसूययाजित्वादपां शिशुः । किंभूतास्वप्सु । पस्त्यासु पस्त्यमिति गृहनाममु पठितम् । गृहरूपासु सर्वेषामाधारत्वात् तथा मातृतमासु अतिशयेन जगन्निर्मात्रीषु ॥ ७ ॥

अष्टमी।
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्र॑घ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒ऽयं वृ॒त्रं ब॑धेत् । दृ॒बाऽसि॑ रु॒जाऽसि॑ क्षु॒माऽसि॑ । पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त ।। ८ ।।
उ० तार्प्यं परिधापयति । क्षत्रस्योल्बमसि । उल्बं गर्भाधारमुदकम् । पाण्ड्वं परिधापयति । क्षत्रस्य जराय्वसि । जरायुर्गर्भवेष्टनम् । अधिवासं प्रतिमुञ्चति । क्षत्रस्य योनिरसि । गर्भसंभवस्थानं योनिः । उष्णीषं संहृत्य पुरस्तादवगूहति । क्षत्रस्य नाभिरसि । नाभ्या सन्नद्धा गर्भा जायन्त इत्याशयः। अथ धनुरधितनोति । इन्द्रस्य वार्त्रघ्नमसि । इन्द्रस्य संबन्धि यद्वार्त्रघ्नम् , वृत्रो येन हत इति वार्त्रघ्नं धनुरासीत्तत्त्वमसीति शेषः । बाहू विमार्ष्टि । मित्रस्य त्वमसि मित्रस्य संबन्धी त्वमसीति दक्षिणम् । वरुणस्यासि वरुणस्य संबन्धि त्वमसीति सव्यम् । धनुः प्रयच्छति । त्वयायं वृत्रं वधेत् धनुषा अयं यजमानो वृत्रं शत्रुं वधेत् हन्यात् । तिस्र इषूरादत्ते । दृवासि 'दॄ विदारणे' दृणातीति दृवा । रुजासि 'रुजो भङ्गे' अस्य रुजा । क्षुमासि । 'क्ष्मायी विधूनने' अस्य क्षुमा । यजमानाय प्रयच्छति । पातैनं प्राञ्चम् । पात पालयत एनं यजमानं प्रागञ्चनं प्रत्यगञ्चनं तिर्यगञ्चनम् । दिग्भ्यः पातं अन्याभ्योऽपि दिग्भ्यः पालयत ॥ ८॥
म० तार्प्यप्रभृतीनि क्षत्रस्येति प्रतिमन्त्रम्' (का० १५ । ५। ५) 'तार्प्यं परिधापयतीति' (१५ । ५। ७)। तार्प्यपाण्ड्वाधीवासोष्णीषाणि क्रमेण चतुर्भिर्यजुर्भिः परिधत्ते । तार्प्यं क्षौमं वल्कलं घृताक्तवस्त्रं वा तार्प्यदैवतम् । हे तार्प्य, त्वं क्षत्रस्य यजमानस्य उल्बं गर्भाधारभूतमुदकमसि । यजमानो गर्भस्थानीयः । 'पाण्ड्वं निवस्त इति' (का० १५ । ५। १२)। रक्तकम्बलं परिधत्ते । पाण्ड्वदैवतम् । क्षत्रस्य गर्भस्थानीयस्य यजमानस्य जरायु गर्भवेष्टनचर्म हे पाण्ड्व, त्वमसि । 'अधीवासं प्रतिमुच्येति' (का० १५ । ५। १३) कञ्चुकं गले बध्नाति । अधीवासदैवतम् । हे अधीवास, त्वं क्षत्रस्य योनिरसि गर्भसंभवस्थानं योनिः । 'उष्णीषᳪं᳭ संवेष्ट्य निवीतेऽवगूहते नाभिदेशे परिहरते वेति' (का० १५ । ५। १३) शिरोवेष्टनं शिरसि संवेष्ट्य तत्प्रान्तौ परिहितवासोनीव्यां गोपयति नाभिदेशे वेष्टयति वा । उष्णीषदैवतम् । हे उष्णीष, त्वं क्षत्रस्य नाभिर्गर्भबन्धनस्थानमसि नाभ्या सन्नद्धा गर्भा जायन्त इत्याहुः । 'इन्द्रस्य वार्त्रघ्नमिति धनुरातनोतीति' (का० १५। ५ । १७)। अध्वर्युर्धनुरधिज्यं करोति । धनुर्दैवतम् । हे धनुः, त्वमिन्द्रस्य संबन्धि वार्र््घ्नं वृत्रोऽनेन हन्यत इति वार्त्रघ्नं वृत्रनाशकं धनुरसि । तदातनोमीति शेषः । 'मित्रस्य वरुणस्येत्यस्य बाहू विमार्ष्टीति' (का० १५ । ५। १८) । मित्रस्य वरुणस्येति मन्त्राभ्यामस्य धनुषो बाहू प्रान्तौ करेण प्रत्येकं विमार्ष्टि । बाहुदैवते यजुषी । हे दक्षिणकोटे, त्वं मित्रसंबन्धी भवसि । हे वामबाहो, त्वं वरुणसंबन्धी भवसि । 'धनुः प्रयच्छति त्वयायमिति' (का० १५ । ५। १९) । यजमानाय धनुर्ददाति । धनुर्दैवतम् । हे धनुः, अयं यजमानस्त्वया धनुषा कृत्वा वृत्रं शत्रुं वधेत् हन्यात् । 'दृवासीति प्रतिमन्त्रमादाय तिस्र इषूः प्रयच्छति पातैनमिति प्रतिमन्त्रमिति' (का० १५ । ५। २०)। दृवासीत्यादिमन्त्रत्रयेण बाणत्रयमादाय पातैनमित्यादिमन्त्रत्रयेण प्रत्येकं यजमानाय ददाति । षड्यजूंषि इषुदेवत्यानि। हे इषो, त्वं दृवासि 'दॄ विदारणे' दृणाति शत्रून्विदारयतीति दृवा। हे इषो, त्वं रुजासि 'रुजो भङ्गे' रुजति शत्रून्भनक्ति रुजा। हे इषो, त्वं क्षुमासि 'क्ष्मायी विधूनने' क्ष्मायति शत्रून् कम्पयतीति क्षुमा । यजमानाय ददाति । हे इषवः, प्राञ्चं प्रागञ्चनं पूर्वदिश्यवस्थितमेनं यजमानं यूयं पात पालयत । प्रत्यञ्चं प्रत्यगञ्चनं पश्चिमदिश्यवस्थितमेनं यजमानं पात । तिर्यञ्चं तिर्यगञ्चनमितस्ततोऽवस्थितमेनं यजमानं पात । दिग्भ्योऽन्याभ्योऽपि दिग्भ्यः सकाशादेनं पात रक्षत ॥ ८ ॥

नवमी।
आ॒विर्म॑या॒ आवि॑त्तो अ॒ग्निर्गृ॒हप॑तिरावि॑त्त॒ इन्द्रो॑ वृ॒द्धश्र॑वा॒ आवि॑त्तौ मि॒त्रावरु॑णौ धृ॒तव्र॑ता॒वावि॑त्तः पू॒षा वि॒श्ववे॑दा॒ आवि॑त्ते॒ द्यावा॑पृथि॒वी वि॒श्वश॑म्भुवा॒वावि॒त्तादि॑तिरु॒रुश॑र्मा ।। ९ ।।
उ० अथैनमाविदो वाचयति । आविर्मर्याः । आवेदयन्ति ज्ञापयन्ति यजमानमेताभिर्मन्त्रव्याहृतिभिरेताभ्यो देवताभ्य इत्याविद आविर्मर्याः । मर्या इति मनुष्यनाम । हे मर्याः, आविः प्रकाशः प्रकटोऽयं यजमानो युष्मत्समक्षं कथ्यते । कथिते च श्रुतिः प्रयोजनं वदति । 'सोऽस्मै सवमनुमन्यते' इत्याविर्मर्या इत्याद्येकवचनादिभिः। सवो जन्म । उत्पत्तिरिति यावत् । आवित्तो अग्निर्गृहपतिः । श्रुत्युक्तैर्विभक्तिव्यत्ययैर्व्याख्यायन्ते । आविदितो ज्ञापितोऽग्नये गृहपतये यजमानः । आवित्त इन्द्रः आवेदित इन्द्राय वृद्धश्रवाः वृद्धं श्रवो धनं यस्य स वृद्धश्रवाः । आवित्तौ मित्रावरुणौ । आविदितौ मित्रावरुणाभ्यां धृतव्रताभ्यां । व्रतमिति कर्मनाम । धारितकर्मभ्याम् । आवित्तः पूषा आवेदितः पूष्णे । विश्ववेदसे सर्वज्ञाय सर्वधनाय वा । आवित्ते द्यावापृथिवी । आविदितो द्यावापृथिवीभ्यां विश्वशंभुभ्याम् सर्वं सुखेन संभावयित्रीभ्याम् । आवित्तादितिः आविदितोऽदितये । उरुशर्मणे उरु पृथु महत् शर्म शरणं यस्याः सा तथोक्ता । सर्वा एवाविदः श्रुत्या लक्षणया व्याख्याताः । तद्यथा 'आविर्मर्या इत्यनिरुक्तं प्रजापतिर्वा अनिरुक्तः' इत्यादिस्तास्तथा व्याख्येयाः । एवं वा मन्त्राणां प्रत्यक्षवृत्तित्वात् ॥ ९॥
म०. 'आविर्मर्या इति वाचयतीति' (का० १५ । ५ । २१)। इषुसमर्पणानन्तरमाविर्मर्या इत्यादीन् सप्त मन्त्रानाविस्संज्ञान् यजमानं वाचयति । प्रजापतिदैवतम् । मर्या इति मनुष्यनामसु पठितम् । हे मर्या मनुष्या ऋत्विजः, यूयमाविः प्रकटा भवथेति शेषः । सम्यक्कर्मानुतिष्ठतेत्यर्थः । यद्वा हे मर्याः ऋत्विजः, अयं यजमानः आविः प्रकटो युष्मत्समक्षं कथ्यत इति शेषः । आवित्तो अग्निर्गृहपतिः । श्रुत्युक्तैर्विभक्तिव्यत्ययैर्व्याख्यायते गृहपालकायाग्नयेऽयं यजमान आवित्त आवेदितः ज्ञापितः। प्रथमान्तं पदद्वयं प्रतिमन्त्रं चतुर्थ्यर्थे । वृद्धं श्रवो धनं कीर्तिर्वा यस्य स वृद्धश्रवाः तस्मै इन्द्रायायं यजमान आवित्तः । व्रतमिति कर्मनाम । धृतं व्रतं कर्म याभ्यां तौ धृतव्रतौ ताभ्यां धारितकर्मभ्यां मित्रावरुणाभ्यामावित्तौ । आवित्तः आवेदितः । विश्ववेदसे सर्वज्ञाय पूष्णेऽयमावित्तः । विश्वस्य सर्वस्य शं सुखं भवति याभ्यां ते विश्वशंभुवौ ताभ्यां द्यावापृथिवीभ्यामावित्ते । वचनलिङ्गव्यत्ययः आवित्तः । उरु महत् शर्म शरणं सुखं वा यस्याः सा उरुशर्मा तस्यै अदितये आवित्ता आवित्तोऽयं यजमानः । यद्वा यथाश्रुतमेव व्याख्या । गृहपतिरग्निरावित्त आवेदितो यजमानमिति शेषः । एवमग्रेऽपि ॥ ९ ॥

दशमी
अवे॑ष्टा दन्द॒शूका॑: प्राची॒मारो॑ह गाय॒त्री त्वा॑ऽवतु रथन्त॒रᳪं᳭ साम॑ त्रि॒वृत्स्तोमो॑ वस॒न्त ऋ॒तुर्ब्रह्म॒ द्रवि॑णम् ।। १० ।।
उ० केशवास्ये लोहायसमाविध्यति । अवेष्टा दन्दशूकाः अवेष्टाः । अवपूर्वो यजिर्नाशने वर्तते । नाशिताः दन्दशूकाः अत्यर्थं दशनशीलाः मृत्यव इहाभिप्रेताः। तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति' इति श्रुतेः । सुन्वन्तमाक्रमयन् दिशो वाचयति । प्राचीमारोह प्राचीं दिशमाक्रमस्व । आक्रममाणं च त्वा गायत्री अवतु पालयतु । रथन्तरं च साम त्वामवतु । त्रिवृत्स्तोमः त्वामवतु । वसन्तऋतुः त्वामवतु । ब्रह्मद्रविणं ब्राह्मणजातिर्धनभूता त्वामवतु इति वाक्यशेषः । ब्राह्मणजातेः साधनभावाद्धनत्वमुच्यते ॥ १० ॥
म० 'अवेष्टा इति लोहायसमाविध्यति केशवास्ये सदोऽन्तरुपविष्टायेति' (का० १५ । ५ । २२)। सदःसमीपोपविष्टस्य दीर्घकेशनरस्य मुखे ताम्रं क्षिपति । मृत्युनाशनं यजुः । अवपूर्वो यजिर्नाशनार्थः । दन्दशूका अत्यर्थ दशनशीला मृत्युहेतवः सर्पसदृशा यज्ञविघ्नकारिणो राक्षसादयोऽवेष्टाः नाशिता भवन्त्विति शेषः । 'तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति' (५। ४ । १।१) इति श्रुतिः 'सुन्वन्तमाक्रमयन् दिशः प्राचीमारोहेति वाचयति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गमिति' (का० १५ । ५ । २३ ) । यजमानं यथालिङ्गं प्रतिमन्त्रं प्रतिदिशं दिश आक्रमयन् वाचयति । पञ्च यजूंषि यजमानदेवत्यानि । हे यजमान, त्वं प्राचीं दिशमारोह आक्रमस्व । तथाविधं त्वा छन्दसां मध्ये गायत्री छन्दोऽवतु रक्षतु । साम्नां मध्ये अभि त्वा शूर नोनुम इत्यस्यामृच्युत्पन्नं रथन्तरं साम । (छ० सं० १।३ । १।५१) त्वां रक्षतु । स्तोमानां मध्ये त्रिवृत्स्तोमोऽवतु । ऋतूनां मध्ये वसन्त ऋतुरवतु । ब्रह्म ब्राह्मणजातिस्त्वदीयं द्रविणं धनं रक्षतु । यद्वा धनरूपा ब्राह्मणजातिस्त्वामवतु । ब्राह्मणादीनां धनसाधनत्वाद्धनत्वमुच्यते। त्रिवृत्स्तोमस्य स्वरूपं सामब्राह्मणे ( २५ तमे ब्रा० २।१) आम्नातम् । 'तिसृभ्यो हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स मध्यमया तिसृभ्यो हिंकरोति स उत्तमयोद्यतौ त्रिवृतौ विष्टुतिरिति'। अस्यायमर्थः । उपास्मै गायतेत्यादीनि (ऋ० सं० ६। ७ । ३६) तृचात्मकानि त्रीणि सूक्तानि सन्ति तेषु तिसृभिर्ऋग्भिर्गायेत् । काभिस्तिसृभिः । प्रथमया त्रिष्वपि सूक्तेषु या प्रथमा तया स उद्गाता गायेत् । तथा सति तिसृभिर्गीतं भवति सोऽयं प्रथमपर्यायः । द्वितीये पर्याये सूक्तत्रयगतयोत्तमा गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसंबन्धिनी विशिष्टा स्तुतिः संपद्यते | सेयं स्तुतिरुद्यतीति नाम्ना संपद्यत इत्यर्थः ॥ १० ॥

एकादशी।
दक्षि॑णा॒मारो॑ह त्रि॒ष्टुप् त्वा॑ऽवतु बृ॒हत्साम॑ पञ्चद॒शः स्तोमो॑ ग्री॒ष्म ऋ॒तुः क्ष॒त्रं द्रवि॑णम् ।। ११ ।।
उ० एवं दक्षिणामारोहेति चतस्रः कण्डिका व्याख्येयाः। | छन्दःसामस्तोमऋतुद्रविणप्रभृतिभिर्भेदः । चतुर्थ्यां कण्डिकायां फलं द्रविणमिति पठ्यते ॥ ११ ॥
म० अथ द्वितीयो मन्त्रः । हे यजमान, त्वं दक्षिणां दिशमाक्रम । त्रिष्टुप् छन्दः । त्वामिद्धि हवामहे इत्यस्यामृच्युत्पन्नं बृहत्साम (छ० सं० १ । ३।१।१।५) । | पञ्चदश स्तोमः । ग्रीष्म ऋतुः । द्रविणरूपं क्षत्रं क्षत्रियजातिः एते त्वामवन्तु । क्षत्रं तव द्रविणमवत्विति वा । पञ्चदशस्तोमस्वेवमाम्नातः (२५ तमब्रा० २ । ४) 'पञ्चभ्यो । हिंकरोति स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चदशस्य विष्टुतिरिति । | पूर्वोक्तस्त्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः । अन्ये तु स्तोमा एकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्रायं क्रमः । प्रथमपर्याये आवृत्तिः पञ्चभिस्तत्रादौ तिसृभिर्ऋग्भिर्गायेत् इतरे द्वे सकृत्सकृद्गायेत् । द्वितीयपर्याये प्रथमां सकृत् मध्यमां तिसृभिः तृतीयां सकृत् । तृतीयपर्याये आद्ये द्वे सकृत् तृतीयां तिसृभिरिति पञ्चदशस्तोमसंबन्धिनी विष्टुतिः पञ्चपञ्चिनीत्यभिधीयत इत्यर्थः ॥ ११॥

द्वादशी।
प्र॒तीची॒मा रो॑ह॒ जग॑ती त्वाऽवतु वैरू॒पᳪं᳭ साम॑ सप्तद॒श स्तोमो॑ व॒र्षा ऋ॒तुर्विड् द्रवि॑णम् ।। १२ ।।
म० अथ तृतीयो मन्त्रः । हे यजमान, त्वं प्रतीची दिशमारोह । जगती छन्दः त्वामवतु । यद्द्याव इन्द्र ते शतमित्यस्यामृच्युत्पन्नं वैरूपं साम (छ० सं० १।३।२।४)। सप्तदशः स्तोमः । वर्षा ऋतुः । विट् वैश्यजातिलक्षणं द्रविणम् । एते त्वामवन्तु । यद्वा वैश्यजातिस्ते द्रविणमवतु । सप्तदशस्तोमस्त्वेवमाम्नातः ( २५ तमब्रा० २ । ७) 'पञ्चभ्यो हिंकरोति स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिरिति । प्रथमपर्याये प्रथमां त्रिर्गायेत् मध्यमोत्तमे सकृत् । द्वितीयपर्याये प्रथमोत्तमे सकृन्मध्यमां त्रिर्गायेत् । तृतीयपर्याये प्रथमां सकृद्गायेन्मध्यमोत्तमे त्रिरिति सप्तदशस्तोमस्य विविधस्तुतिर्दशसप्तेत्यभिधीयत इत्यर्थः ॥ १२ ॥

त्रयोदशी।
उदी॑ची॒मा रो॑हानु॒ष्टुप् त्वा॑ऽवतु वैरा॒जᳪं᳭ सामै॑कवि॒ᳪं᳭श स्तोम॑: श॒रदृ॒तुः फलं॒ द्रवि॑णम् ।। १३ ।।
उ० तत्र धान्यफलं वा यज्ञफलं वा अभिप्रेतम् ॥१३॥
म० अथ चतुर्थो मन्त्रः । हे यजमान, त्वमुदीची दिशमारोह । अनुष्टुप् छन्दः । पिबा सोममिन्द्र मन्दतु त्वा एतस्यामृच्युत्पन्नं वैराजं साम (छ० सं० १।५।१)। एकविंशः स्तोमः । शरदृतुः । फलं यज्ञफललक्षणं द्रविणं धनम् । एते त्वामवन्तु । एकविंशस्तोमस्त्वेवमाम्नातः (२५ तमब्रा० २। १४ ) 'सप्तभ्यो हिंकरोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिंकरोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्टुतिरिति' । प्रथमपर्याये प्रथममध्यमे त्रिर्गायेदुत्तमा सकृत् । द्वितीयपर्याये प्रथमां सकृद्गायेन्मध्यमोत्तमे त्रिः । तृतीयपर्याये मध्यमा सकृद्गायेत् प्रथमोत्तमे त्रिरित्येकविंशस्तोमस्य विष्टुतिः सप्तसप्तिनीत्युच्यत इत्यर्थः ॥ १३ ॥

चतुर्दशी ।
ऊ॒र्ध्वामा रो॑ह प॒ङ्क्तिस्त्वा॑ऽवतु शाक्वररैव॒ते साम॑नी त्रिणवत्रयस्त्रि॒ᳪं᳭शौ॒ स्तोमौ॑ हेमन्तशिशि॒रावृ॒तू वर्चो॒ द्रवि॑णं॒ प्रत्य॑स्तं॒ नमु॑चे॒: शिर॑: ।। १४ ।।
उ० वर्चो द्रविणमित्यत्रापि तेजो ब्रह्मवर्चसं वा अभिप्रेतम् । सीसं निरस्यति । प्रत्यस्तम् । 'असु क्षेपणे' प्रतिगृह्य क्षिप्तम् । नमुचेरसुरस्य शिरः ॥ १४ ॥
म० अथ पञ्चमो मन्त्रः । हे यजमान, ऊर्ध्वां दिशमारोह । पङ्क्तिश्छन्दः । प्रोष्वस्मै पुरोरथमित्येतस्यामृच्युत्पनं शाक्करं साम (छ० सं० २ । ९ । १ । १४ । १) रेवतीर्नः सधमाद इत्येतस्यामृच्युत्पन्नं साम रैवतम् (छ० सं० १। २।२।१।९-२)। त्रिणवत्रयस्त्रिंशौ स्तोमौ । हेमन्तशिशिरावृतू । वर्चस्तेजो ब्रह्मवर्चसं वा द्रविणम् । एते त्वामवन्तु । यद्वा वर्चस्तेजोऽभिमानी देवस्ते धनं रक्षतु । त्रिणवः स्तोम एवमाम्नातः (प. ब्रा० ३ । १) 'नवभ्यो हिंकरोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिंकरोति स एकया स तिसृभिः स पञ्चभिर्नवभ्यो हिंकरोति स पञ्चभिः स एकया स तिसृभिर्वज्रो वै त्रिणव इति' । प्रथमपर्याये प्रथमां त्रिर्गायेन्मध्यमां पञ्चकृत्वः उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृद्गायेन्मध्यमां त्रिरुत्तमां पञ्चकृत्वः। तृतीयपर्याये प्रथमां पञ्चकृत्वो मध्यमां सकृदुत्तमां त्रिर्गायेत् सोऽयं त्रिरावृत्तनवसंख्योपेतत्वात्त्रिणवनामको वज्रसमानः स्तोमः । त्रयस्त्रिंशः स्तोम एवमाम्नातः (प० ब्रा० ३ । ३) 'एकादशभ्यो हिंकरोति स तिसृभिः स सप्तभिः एकयैकादशभ्यो हिंकरोति स एकया स तिसृभिः स सप्तभिरेकादशभ्यो हिंकरोति स सप्तभिः स एकया स तिसृभिरन्तो वै त्रयस्त्रिंश इति' । प्रथमपर्याये प्रथमां त्रिर्गायेन्मध्यमां सप्तकृत्व उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृन्मध्यमां त्रिरुत्तमां सप्तकृत्वः । तृतीयपर्याये प्रथमां सप्तकृत्वो मध्यमां सकृदुत्तमां त्रिर्गायेत् । सोऽयं त्रयस्त्रिंशः स्तोमः सर्वेषां स्तोमानामन्तः । 'आक्रम्य पादेन सीसं निरस्यति प्रत्यस्तमिति' ( का० १५ । ५ । २४ )। व्याघ्रचर्मपश्चाद्भागे निहितं सीसमाक्रम्य पादेन क्षिपेत् । असुरदेवत्यम् । नमुचेरसुरस्य शिरो मस्तकं प्रत्यस्तम् । 'असु क्षेपणे' प्रतिगृह्य क्षिप्तं सीसरूपेण ॥ १४ ॥

पञ्चदशी।
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् । मृ॒त्योः पा॒ह्योजो॑ऽसि॒ सहो॑ऽस्य॒मृत॑मसि ।। १५ ।।
उ० व्याघ्रचर्मारोहति । सोमस्य त्विषिरसि व्याख्यातम् । रुक्ममधः पदं कुरुते । मृत्योः पाहि । हे रुक्म, मृत्योः सकाशान्मां गोपाय । शिरसि च रुक्मं करोति । ओजोऽसि ओज इति मनोवृत्तिः, जेष्याम्यमुमिति या प्रतिज्ञा सोच्यते । सह इति बाह्यं बलमुच्यते । अमृतमिति प्रकटार्थम् ॥ १५॥
म०. 'व्याघ्रचर्मारोहयति सोमस्य त्विषिरिति' (का० १५ । ५ । २५)। अभिषेकार्थं राजानं व्याघ्रचर्मणि स्थापयेत् । चर्मदेवत्यं व्याख्यातम् (क० ५) । 'रुक्ममधः पदं कुरुते मृत्योरिति' ( का० १५ । ५। २६) । पादतले हिरण्यं कुर्यात् । रुक्मदैवतम् । हे सुवर्ण, मृत्योः सकाशान्मां पाहि पालय । 'शिरसि च नवतर्द्मᳪं᳭ शततर्द्मं वौजोऽसीति' ( का. १५ । ५ । २७)। नवच्छिद्रं शतच्छिद्रं वा सौवर्णमण्डलं यजमानशिरसि कुर्यात् । रुक्मदैवतम् । हे हिरण्य, त्वमोजोऽसि अमुं जेष्यामीति मनोवृत्तिरोजः तद्रूपं त्वमसि । शारीरं बलं सहस्तद्रूपमसि । अमृतं विनाशरहितं त्वमसि ॥ १५ ॥

षोडशी।
हिर॑ण्यरूपा उ॒षसो॑ विरो॒क उ॒भावि॑न्द्रा॒ उदि॑थ॒: सूर्य॑श्च ।
आ रो॑हतं वरुण मित्र॒ गर्त्तं॒ तत॑श्चक्षाथा॒मदि॑तिं॒ दितिं॑ च मि॒त्रो॒ऽसि॒ वरु॑णोऽसि ।। १६ ।।
उ० बाहू उद्गृह्णाति । हिरण्यरूप उषसो मैत्रावरुणीत्रिष्टुप् यजुरन्ता । मित्रोऽसि वरुणोऽसीति यजुः । हे हिरण्यरूपौ मित्रावरुणौ, यौ युवां उषसो विरोके उषसो व्युत्थानकाले । उभावपि हे इन्द्रौ । 'इदि परमैश्वर्ये' परमेश्वरौ उदिथः उद्गच्छथः । सूर्यश्च ययोर्युवयोः कार्यसंपादनाय सूर्य उदेति तौ युवाम् आरोहतम् । हे वरुण, हे मित्र, गर्तं पुरुषम् । 'बाहू वै मित्रावरुणौ पुरुषो गर्तः' इति श्रुतिः । अध्यात्मविषयं व्याचष्टे अधिदैवं तु गर्तो रथः । ततश्चक्षाथामदितिं दितिं च ततोऽनन्तरं पश्यतम् । अदितिम् अदीनम् स्वकर्मविहितानुष्ठातारम् , दितिं दीनं नास्तिकवृत्तिम् । अमुमेवार्थं श्रुतिराह । ततः पश्यतं स्वं चारणं चेत्येवैतदाह । अपरो मन्त्रविकल्पः । मित्रोऽसि वरुणोऽसि । बाहू एवोच्यते । मित्रस्त्वमसि वरुणस्त्वमसि ॥ १६ ॥
म० 'बाहू उद्गृह्णाति हिरण्यरूपा इति' ( का० १५ । ५ । २८)। यजमानबाहू ऊर्ध्वौ करोति । मित्रावरुणदेवत्या त्रिष्टुप् यजुरन्ता मित्रोऽसीति यजुः । हे वरुण शत्रुनिवारक, दक्षिणबाहो, हे मित्र सखिवत्पालक वामबाहो, तौ युवां गर्तं पुरुषमारोहत मारोहणं कुरुतम् । 'बाहू वे मित्रावरुणौ पुरुषो गर्तः' (५। ४ । १ । १५ ) इति श्रुतिरध्यात्मविषयं वाचष्टे । पुरुषारोहणानन्तरमदितिमखण्डितां स्वसेनां दितिं खण्डितां परसेनां चक्षाथां क्रमेणानुग्रहदृष्ट्या समीक्षेथाम् । तौ कौ । यौ युवामुभौ द्वौ उषसो विरोके रात्रेः समाप्तौ उदिथः उदयं कुरुथः । एतेर्लटि मध्यमद्विवचने इथ इति रूपम् । सूर्योदयानन्तरं स्वस्वव्यापारे प्रवर्तेथे इत्यर्थः । सूर्यश्च उदेति ययोर्युवयोः कार्यसंपादनायेत्यर्थः । किंभूतौ युवाम् । हिरण्यरूपौ हिरण्यवद्रूपं ययोस्तौ सुवर्णखचितकटकाद्यलंकारेण हिरण्यवद्भासमानौ । तथा इन्द्रौ सामर्थ्योपेतौ । एवमध्यात्ममर्थः । अधिदैवं त्वयमर्थः । हे वरुण, हे मित्र मित्रावरुणौ देवविशेषौ, युवां गर्तं रथोपरिभागं गर्तसदृशमारोहतम् । परबाणेभ्यो रक्षितुं चर्मकीलकादिभिराच्छादितो रथस्योपरिभागो गर्तसदृशो भवति । रथोऽपि गर्त उच्यते 'गृणातेः स्तुतिकर्मणः' (नि०३ । ५) इति यास्कोक्तेर्गर्तो रथः । यौ युवामुषसो विरोके उषःकालानन्तरम् उदिथः उद्गच्छथः सूर्यश्चेत्तदा उदेति । किंभूतौ । हिरण्यरूपौ अतितेजस्विनौ । इन्द्रौ परमेश्वरौ । ततो रथारोहणानन्तरमदितिं दितिं च युवां चक्षाथाम् अदितिमदीनं विहितानुष्ठातारं दितिं दीनं नास्तिकवृत्तं च पश्यतम् । अयं पापी अयं पुण्यवानिति युवां पश्यतमित्यर्थः । अमुमर्थं श्रुतिराह 'ततः पश्यतᳪं᳭ स्वं चारणं चेत्येवैतदाहेति' (५ । ४ । १ । १५) 'मित्रोऽसि वरुणोऽसीति वा' (का० १५ । ५ । २९) । अनेन मन्त्रेण वा बाहू उद्गृह्णाति । हे वामबाहो, मित्रोऽसि । हे दक्षिणबाहो, त्वं वरुणोऽसि ॥१६॥

सप्तदशी
सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ ।
क्ष॒त्राणां॑ क्ष॒त्रप॑तिरे॒ध्यति॑ दि॒द्यून्पा॑हि ।। १७ ।।
उ० यजमानमभिषिञ्चति । सोमस्य त्वा द्युम्नेन । 'द्युम्नं द्योततेर्यशो वा अन्नं वा' । सोमस्य त्वा द्युम्नेन अभिषिञ्चामि । अग्नेर्भ्राजसा अग्नेर्दीप्त्या । सूर्यस्य वर्चसा सूर्यस्य रोचिषा । इन्द्रस्येन्द्रियेण वीर्येण । श्रुत्या च सर्वाण्येव वीर्याणि व्याख्यातानि । अभिषिञ्चामीति सर्वशेषः । क्षत्राणां क्षत्रपतिरेधि इति सर्वशेषः । त्वं च एतैरभिषिक्तः सन् क्षत्राणां सर्वेषामधिपतिः एधि भव । अतिदिद्यून्पाहि अतीत्यातिक्रम्य दिद्यून् इषून् पाहि गोपायात्मानम् । 'इषवो वै दिद्यव इषुवधमेवैनमेतदतिनयति' इति श्रुतिः ॥ १७ ॥
म० 'स्थितं प्राञ्चमभिषिञ्चति पुरोहितोऽध्वर्युर्वा पुरस्तात्पालाशेन प्रथमं पश्चादितरे द्वितीयेन स्वस्तृतीयेनामित्र्यो राजन्यो वैश्यश्चतुर्थेन सोमस्य त्वा द्युम्नेनेति प्रतिमन्त्रमभिषिञ्चामीति सर्वत्र साकाङ्क्षत्वात् क्षत्राणां क्षत्रपतिरेधीति चेमममुष्येति च प्रथमो देवसूवदिति' ( का० १५ । ५ । ३०-३३) । अस्यार्थः । रुक्मसहितव्याघ्रचर्मणि प्राङ्मुखमवस्थितं राजानं पुरोहितादयः पुरस्तादवस्थायाभिषिञ्चेयुः । पालाशौदुम्बरन्यग्रोधाश्वत्थानि चतुर्विधान्यभिषेकजलपात्राणि स्थापितानि । तत्र पालाशपात्रेण पुरोहिताध्वर्य्वोरन्यतरः प्रथममभिषिञ्चेत् । इतरे स्वादयः पश्चादवस्थिता अभिषिञ्चेयुः । तानेवाह । स्वो राज्ञो भ्राता द्वितीयेनौदुम्बरपात्रेण मित्रभूतः कश्चित् क्षत्रियस्तृतीयेन वटपात्रेण वैश्यश्चतुर्थेनाश्वत्थपात्रेणाभिषिञ्चति । चतुर्णामभिषेक्तॄणां क्रमेण सोमस्याग्नेः सूर्यस्येन्द्रस्य ते चत्वारो मन्त्राः । अभिषिञ्चामीति पदमग्रिमेषु त्रिषु मन्त्रेष्वनुवर्तते । क्षत्राणामित्यवयवोऽपि प्रथमादिमन्त्रषु योज्यः । इमममुष्येति मन्त्रं प्रथमः पुरोहितोऽध्वर्युर्वा देवसूहविःष्विव नामग्रहणयुक्तं पठति । प्रथमग्रहणादन्येषामिमममुष्येति मन्त्रशेषो न भवति ब्राह्मणानाᳪं᳭ राजेति मन्त्रलिङ्गादिति सूत्रार्थः । चतुर्णां मन्त्राणां यजमानो देवता । हे यजमान, सोमस्य द्युम्नेन चन्द्रस्य यशसा त्वा त्वामभिषिञ्चामि तेनाभिषिक्तः सन् क्षत्राणां क्षत्रपतिरेधि क्षत्रियाणां सर्वेषां मध्ये क्षत्रपतिः क्षत्रियेश्वर एधि भव । अति दिद्यून् पाहि । 'दो अवखण्डने' द्यन्ति खण्डयन्ति दिद्यवो बाणाः । 'इषवो वै दिद्यव इषुवधमेवैनमेतदतिनयति' (५। | ४ । २ । २ ) इति श्रुतेः तानतिक्रम्य शत्रुप्रयुक्तानिष्वादीनपसार्य इमं यजमानं हे सोम, त्वं पाहि पालय ॥ १७ ॥

अष्टादशी।
इ॒मं दे॑वा असप॒त्नᳪं᳭ सु॑वध्वं मह॒ते क्ष॒त्राय॑ मह॒ते ज्यै॑ष्ठ्याय मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ ।
इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रमस्यै वि॒श ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॒ᳪं᳭राजा॑ ।। १८ ।।
उ० इमं देवाः व्याख्यातम् ॥ १८॥
म० इमं देवाः । व्याख्यातापि व्याख्यायते । हे देवाः सोमादयः, दशरथस्य पुत्रं कौशल्यायाः पुत्रं कोशलायै विशे प्रजायै तिष्ठन्तमिमं राममसपत्नं शत्रुरहितं कृत्वा महते क्षत्राय महते ज्येष्ठत्वाय महते जानराज्यायेन्द्रस्यैश्वर्याय यूयं सुवध्वं प्रेरयध्वम् । हे अमी कोशलाः, एष रामो वो युष्माकं राजा अस्माकं ब्राह्मणानां तु सोमो राजा । एतावन्तं मन्त्रं पठित्वा पुरोहितोऽध्वर्युर्वाभिषिञ्चेत् । राजभ्रातुर्मन्त्रमाह । अग्नेर्भ्राजसाभिषिञ्चामि क्षत्राणामित्यादि इन्द्रस्येन्द्रियायेत्यन्तो मन्त्रः । हे यजमान, अग्नेर्वैश्वानरस्य भ्राजसा तेजसा त्वामभिषिञ्चामि । क्षत्राणामित्यादेः पूर्ववद्व्याख्या । राजमित्रमन्त्रमाह । सूर्यस्य वर्चसाभिषिञ्चामि । क्षत्राणामित्यादि पूर्ववत् । हे यजमान, सूर्यस्य तेजसा त्वामभिषिञ्चामि । अन्यत्पूर्ववत् । वैश्यमन्त्रमाह । इन्द्रस्येन्द्रियेणाभिषिञ्चामि क्षत्राणामित्यादि पूर्ववत् । हे यजमान, इन्द्रस्य वीर्येण त्वामभिषिञ्चामि क्षत्राणामित्यादि पूर्ववत् । श्रुत्या तु द्युम्नादिशब्दैर्वीर्याण्येव व्याख्यातानि ॥ १८ ॥

एकोनविंशी।
प्र पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठान्नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ।
ता आऽव॑वृत्रन्नध॒रागुद॑क्ता॒ अहिं॑ बु॒ध्न्य॒मनु॒ रीय॑माणाः ।
विष्णो॑र्वि॒क्रम॑णमसि॒ विष्णो॒र्विक्रा॑न्तमसि॒ विष्णो॑: क्रा॒न्तम॑सि ।। १९ ।।
उ० कण्डूयनाभिषेकेण कणान्प्रलिम्पति प्र पर्वतस्य । अब्देवत्या त्रिष्टुप् । या एता आहुतिपरिणामभूता आपः ताः पर्वतस्य पर्ववतोऽग्नेः पार्थिवस्य । स हि पर्ववान् पौर्णमास्यमावस्याचातुर्मास्यादिभिः पर्वभिः । वृषभस्य वर्षितुः पृष्ठात् । उत्थायेति शेषः । नावः । 'णू स्तुतौ' । नूयन्ते स्तूयन्ते स्तोत्रशस्त्रहोममन्त्रैरिति नाव आहुतिपरिणामभूता आपः चरन्ति गच्छन्ति आदित्यमण्डलं प्रति । स्वसिचः स्वयमेव सिञ्चन्तीति स्वसिचः । इयानाः। 'इण् गतौ' । 'ताच्छील्यवयोवचन' इत्यादिना चानश् । गमनशीलाः। ता हि आदित्यमण्डलं प्राप्य मध्यस्थानमागच्छन्ति । मध्यस्थानात्पृथिवीम् । तथाचोक्तम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति । ता आववृतमधरागुदक्ताः । आववृत्रन् आदित्यमण्डलं प्राप्य ता एवावर्तन्ते । अधराक् अधोञ्चनाः । उदक्ताः । 'उन्दी क्लेदने' क्विप् । 'उन्दनेन क्लेदनेन स्तम्भनेनाभ्यक्ता आपः । अहिर्बुध्न्यम् । अहिमेव बुध्नमन्तरिक्षं तत्र भवो बुध्न्यो मेघस्तं बुध्न्यं मेघ मध्यस्थानम् । अनुरीयमाणाः । रीयतिर्गत्यर्थः। अनुप्रविश्य मेघच्छिद्रैर्गच्छन्त्यो भूमिं प्राप्नुवन्तीति शेषः । अथवा आदित्यः पर्वतशब्देनोच्यते । या एताः पर्वतस्यादित्यस्य वृषभस्य पृष्ठात् इयानाः निर्गच्छन्त्यः नावः नाव्या आपः । प्रचरन्ति सर्वतो गच्छन्ति स्वयं सिक्ताः । नाव्या आदित्यस्य या उपरिष्टादापस्ता उच्यन्ते । तथाच श्रुतिः 'नाव्या उ एव यजुष्मत्य इष्टकाः' इत्युपक्रम्य 'षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्ति' इत्याह । ताः प्रावृट्काले आवर्तन्ते । अधराञ्चः उदक्ता व्यक्ताः । अहिं मेघं बुध्न्यम् अनुरीयमाणाः अनुप्रविश्य शुषिरैरनुगच्छन्त्यः । अथवा याः पर्वतस्य हिमवद्विन्ध्याद्रेः वृषभस्य वर्षितुः सेक्तुः पृष्ठात् इयानाः नावश्चरन्ति । नावा तार्या महानद्यः प्रचरन्ति स्वयं सिक्ताः, ता एव राजसूययाजिनोऽर्थाय आवर्तन्ते गृह्यमाणाः अभिषेकपात्रेषु उदक्ता उत्क्षिप्ताः । उत्पूर्वस्याञ्चतेरेतद्रूपम् । अधराक् अधराञ्चः अधोञ्चनाः । अहिम् अहन्तारं यजमानं शत्रूणाम् बुध्नम् बुध्नशब्देन मूलमुच्यते तत्र भवं यजमानं बुध्न्यं प्रधानमित्यर्थः । अनुरीयमाणाः यजमानं प्रत्यनुसिच्यमानाः । ता आववृत्रन्नित्यादिसंबन्धनीयम् । चर्मणि त्रिर्विक्रमयति यजमानम् । विष्णोर्विक्रमणम् । विष्णोः यज्ञस्य विक्रमणं यच्च विक्रान्तं यच्च क्रान्तं तत्सर्वं त्वमसि इति योजना ॥ १९॥
म० 'कण्डूयन्याभिषेकेण प्रतिलिम्पते प्र पर्वतस्येति' '(का. १५। ६ । ८)। यजमानः कृष्णविषाणया कृत्वाभिषेकोदकेन स्वाङ्गलग्नेन स्वाङ्गं लिम्पति । अब्देवत्या त्रिष्टुप् । प्रेत्युपसर्गश्चरन्तीति पदेन संबध्यते । नावः प्रचरन्ति । नूयन्ते स्तूयन्ते स्तोत्रशस्त्रमन्त्रैरिति नावः । यद्वा नुदन्ति प्रेरयन्ति फलप्राप्त्यै ता नावः । आहुतिपरिणामभूता आपः प्रचरन्ति गच्छन्ति आदित्यमण्डलं प्रति । 'ग्लानुदिभ्यां डौः' (उ० २। ६४) इति नुदतेडौँप्रत्ययः । किं कृत्वा । वृषभस्य वर्षितुरग्नेः पृष्ठात् पृष्ठप्रदेशात् उत्थायेति शेषः । किंभूतस्य वृषभस्य । पर्वतस्य पर्वाणि पौर्णमास्यमावास्याचातुर्मास्यादीनि विद्यन्ते यस्य स पर्वतस्तस्य 'तप्पर्वमरुद्भ्यां' इति तप्प्रत्ययः । किंभूता नावः । स्वसिचः स्वेनैवात्मनैव सिञ्चन्ति विश्वमभिषिञ्चन्ति स्वसिचः । तथा इयानाः यन्तीत्येवंशीला इयानाः । एतेः 'ताच्छील्यवयोवचनशक्तिषु चानश्' (पा० ३ । २ । १२९) इति चानश्प्रत्ययः चित्वादन्तोदात्तं पदम् । गमनशीलाः ता हि आदित्यमण्डलं प्राप्य मध्यस्थानमागच्छन्ति मध्यस्थानात्पृथिवीम् । तदुक्तम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' (म० ३ । ७६) इति । ता आहुतिपरिणामभूता आप आदित्यमण्डलं प्राप्याधराक् आववृत्रन् अधस्तादावर्तन्ते । वृतेर्णिजन्ताल्लुङि रगागमश्छान्दसः। किंभूतास्ताः । उदक्ताः ऊर्ध्वमक्ताः । 'अञ्चु गतिपूजनयोः' । ऊर्ध्वं गताः सत्यः अहिं मेघमनु रीयमाणाः मेघमनुसरन्त्यः। रियतिर्गत्यर्थः । किंभूतमहिम् । बुध्न्यं बुध्नमन्तरिक्षं तत्र भवो बुध्न्यः अन्तरिक्षे वर्तमानम् । यद्वायमर्थः । पर्वतशब्देनादित्य उच्यते । वृषभस्य वर्षितुः पर्वतस्यादित्यस्य पृष्ठादियानाः निर्गच्छन्त्यो नावः स्तुत्या आपः प्रचरन्ति सर्वतो गच्छन्ति । किंभूताः । स्वसिचः स्वयं सेक्त्र्यः आदित्योपरिष्टादापो नाव्या उच्यन्ते । तथा च श्रुतिः 'नाव्या आप एव यजुष्मत्य इष्टकाः' (१० । ५। ६ । १४) इत्युपक्रम्य षष्टिश्च वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्तीत्याह' । ता उदक्ता व्यक्ताः सत्यः बुध्न्यमन्तरिक्षस्थमहिं मेघमनुरीयमाणा अनुप्रविश्य गच्छन्त्यः सत्यः प्रावृट्काले अधराक् अधस्ताद्भूमिं प्रति आववृत्रन् आवर्तन्ते आगच्छन्ति । यद्वायमर्थ ऋचोऽस्याः । वृषभस्य वर्षणसमर्थस्य पर्वतस्य हिमवद्विन्ध्यादेः पृष्ठादियाना गच्छन्त्यो वहन्त्यो नावो नौतार्या महानद्यो गङ्गाद्याः प्रचरन्ति स्वसिचः स्वमात्मीयं यजमानक्षेत्रं सिञ्चन्ति ताः ता एव नावोऽधराक् अधस्तात् आववृत्रन् राजसूययाजिनोऽर्था वर्तन्ते । किंभूताः। उदक्ता अभिषेकपात्रेषु उत्क्षिप्ताः प्रक्षिप्ताः । तथा बुध्न्यं बुध्नशब्देन मूलमुच्यते तत्र भवं बुध्न्यं प्रधानमित्यर्थः । अहिमहन्तारं शत्रूणां यजमानमनुरीयमाणाः यजमानं प्रति सिच्यमानाः । 'चर्मणि त्रिर्विक्रमयति विष्णोरिति प्रतिमन्त्रमिति' (का. १५ । ६।९)। अध्वर्युर्यजमानेन व्याघ्रचर्मणि त्रिभिर्मन्त्रैस्त्रिवारं पादप्रक्षेपं कारयेत् । त्रीणि यजूंषि यजमानदेवत्यानि । हे मदीय प्रथमप्रक्रम, त्वं विष्णोर्व्यापनशीलस्य यज्ञपुरुषस्य जगदीश्वरस्य त्रिविक्रमावतारस्य विक्रमणं प्रथमपादप्रक्षेपेण जितो भूलोकोऽसि । हे द्वितीयप्रक्रम, त्वं विष्णोः विक्रान्तं द्वितीयपादप्रक्षेपेण जितमन्तरिक्षमसि । हे तृतीयप्रक्रम, त्वं विष्णोः क्रान्तं तृतीयपादप्रक्षेपेण जितं त्रिविष्टपमसि । इदं मन्त्रत्रयं लोकत्रयजये हेतुभूतं तित्तिरिराह "विष्णुक्रमान्क्रमते विष्णुरेव भूत्वेमांल्लोकानभिजयतीति' । 'इमे वै लोका विष्णोर्विक्रान्तं विष्णोर्विक्रमणं विष्णोः क्रान्तम्' (५ । ४।२।६) इति श्रुतेः ॥ १९ ॥

विंशी।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्त्व॒यम॒मुष्य॑ पि॒तासाव॒स्य पि॒ता व॒यᳪं᳭ स्या॑म॒ पत॑यो रयी॒णाᳪं᳭ स्वाहा॑ ।
रुद्र॒ यत्ते॒ क्रिवि॒ परं॒ नाम॒ तस्मि॑न्हु॒तम॑स्यमे॒ष्टम॑सि॒ स्वाहा॑ ।। २० ।।
उ० जुहोति प्रजापतेन । प्राजापत्या त्रिष्टुप् यजुर्मध्या। अयममुष्य पितासावस्य पितेति यजुः । हे प्रजापते, न त्वदेतान्यन्यो विश्वरूपाणि परिता बभूव । त्वत्तोऽन्यो देवताविशेषः एतानि सर्वाणि नानाजातीयानि वर्तमानकालसंबन्धीनि रूपाणि परि समन्ततः। ता तानि च यान्युत्पन्नानि उत्पत्स्यन्ते वा । बभूव । अत्र नकारः संबध्यते । न बभूव न भवति आत्मरूपत्वेन यस्मात् अतो ब्रवीमि यत्कामास्ते जुहुमस्तन्नो अस्तु येन कामेन ते तव जुहुमः तत्कामरूपमस्माकमस्तु । यजुः कथंभूतम् । व्याख्यायते । अयममुष्य पिता अयं पुत्रः अमुष्य यजमानस्य पिता । असावस्य पिता असौ यजमानः अस्य पुत्रस्य पिता । सर्वथा सपुत्रा वयमेव स्याम भवेम । पतयोः रयीणां धनानाम् । स्वाहा सुहुतमस्तु । जुहोति । रुद्र यत्ते हे भगवन् रुद्र, यत् ते तव क्रिवि । 'क्रिवि हिंसाकरणयोः' कर्तृ हिंसितृ वा परमुत्कृष्टं नाम नमनम् । एवं रुद्रं संबोध्य अथेदानीं हव्यमाह । तस्मिन् नाम्नि हुतम् असि अमेष्टमसि । अमाशब्दो गृहवचनः । गृहे इष्टमसि स्वाहा ॥ २० ॥
म० 'शालाद्वार्ये जुहोति पुत्रेऽन्वारब्धे प्रजापत इति' (का. १५ । ६ । ११)। ततः सदसः शालायामागत्य पुत्रेऽन्वारब्धे शालाद्वार्येऽग्नौ जुहोति । प्रजापतिदेवत्या त्रिष्टुप् यजुर्मध्या तृतीयचतुर्थपादमध्येऽयममुष्येति यजुर्युक्ता । हे प्रजापते, त्वत्त्वत्तः अन्यो देवताविशेषः तानि एतानि विश्वा विश्वानि सर्वाणि रूपाणि नानाजातीयानि वर्तमानभूतभविष्यत्कालविषयाणि न परिबभूव परिभवितुं समर्थो नाभूत् । परिभवः सृष्टेरप्युपलक्षणम् । त्वदन्यो देव एतानि भूतानि स्रष्टुं संहर्तुं चाप्यशक्त इत्यर्थः । अतो वयं यत्कामास्ते जुहुमः यः कामो येषां ते यत्कामाः येन कामेन त्वां जुहुमः तत्कामरूपं फलं नोऽस्माकमस्तु । यजुर्व्याख्यायते । अयममुष्य पितेति पुत्रं पित्रीकृत्य तयोर्नाम गृह्णाति । अयं रामोऽमुष्य दशरथस्य पिता । असावस्य पितेति यथायथमेव नामग्रहः । यथा असौ दशरथोऽस्य रामस्य पितेति । सर्वथा सपुत्रा वयं रयीणां धनानां पतयः स्याम भवेम । 'आग्नीध्रीये पालाशेन शेषान् जुहोति रुद्र यत्त इत्युत्तरार्ध इति' । 'पालाशेनाभिषेकपात्रेणाभिषेकोदकशेषानाग्नीध्रीयाग्नेरुत्तरभागे जुहोति' (का० १५। ६ । १२) । रुद्रदेवत्यम् । हे रुद्र, यत्ते तव क्रिवि कर्तृ हिंसितृ वा परमुत्कृष्टं नामास्ति । 'क्रिवि हिंसाकरणयोः' इप्रत्ययः । एवं रुद्रं संबोध्य होमद्रव्यमाह । हे हविः, तस्मिन् रुद्रनाम्नि त्वं हुतमसि अमेष्टं चासि । अमाशब्दो गृहवाची । मदीये गृहे इष्टं दत्तमसि स्वाहा सुहुतमस्तु ॥ २० ॥

एकविंशी।
इन्द्र॑स्य॒ वज्रो॑ऽसि मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युनज्मि ।
अव्य॑थायै त्वा स्व॒धायै॒ त्वाऽरि॑ष्टो॒ अर्जु॑नो म॒रुतां॑ प्रस॒वेन॑ ज॒यापा॑म॒ मन॑सा॒ समि॑न्द्रि॒येण॑ ।। २१।।
उ० रथमुपावहरति । इन्द्रस्य वज्रोऽसि । व्याख्यातम् । तं युनक्ति । मित्रावरुणयोर्देवयोः त्वा त्वां प्रशास्त्रोः । प्रशिषा प्रशासनेन युनज्मि तमातिष्ठति । अव्यथायै । 'व्यथ भयचलनयोः' । अभयाय अचलनाय वा त्वामधितिष्ठामि । स्वधायै अन्नरसाय च त्वामधितिष्ठामीति शेषः। अरिष्टः अनुपहिंसितः । अर्जुनः अर्जुनशीलः । 'अर्जुनो ह वै नामेन्द्रः' इति श्रुतिः। 'दक्षिणधुर्यं प्राजति'। मरुतां प्रसवेन जय मरुतां संबन्धिन्यामभ्यनुज्ञायां वर्तमानः सन् शत्रून् जय । मध्ये गवामुद्यच्छति । अपाम मनसा व्याप्तवन्तो मनसा वयम् । तदुपरि क्रान्तभर्गः धनुरार्त्न्या गामुपस्पृशति । समिन्द्रियेण संगताः स्म वयमिन्द्रियेण वीर्येण ॥ २१ ॥
म० वाजपेयवद्रथमवहृत्य दक्षिणस्यां वेदिश्रोणौ युनक्ति पूर्ववन्मित्रावरुणयोरिति चतुर्भिरिति' (का० १५। ६ । १५)। वाजपेये इव रथवाहणाद्रथमिन्द्रस्य वज्रोऽसीति मन्त्रेण भूमाववतार्य मित्रावरुणयोरिति मन्त्रेण चतुर्भिरश्वैर्वाजपेयवदेव युनक्ति । प्रत्यश्वं मन्त्रः इन्द्रस्य वज्रोऽसीत्येव मन्त्रो न वाजपेयसंबन्धी सर्वः । तावन्मात्रस्यैवात्र पाठात् । पूर्ववदिति धूर्गृहीतं दक्षिणश्रोणिदेशे वेद्यामानीय युनक्ति पूर्वं दक्षिणं तत उत्तरं ततो दक्षिणाप्रष्टिं ततः सव्याप्रष्टिम् । अनिर्देशात्त्रयाणां योजने प्राप्ते चतुर्भिरित्युक्तमिति सूत्रार्थः । रथदेवत्यम् । हे रथ, त्वमिन्द्रस्य वज्रोऽसि । युनक्ति । रथदेवत्यम् । प्रशास्त्रोः मित्रावरुणयोः देवयोः प्रशिषा प्रशासनेन हे रथ, त्वां युनज्मि योजयामि । 'अव्यथायै त्वेति सुन्वन्नारोहतीति' (का० १५ । ६।१७) यजमानश्चात्वालदेशस्थः रथमारोहति । रथदेवत्यम् । अरिष्टोऽनुपहिंसितः अर्जुनोऽर्जुनतुल्य इन्द्र इत्यर्थः । 'अर्जुनो ह वै नामेन्द्रः' (५ । ४ । ३ । ७) इति श्रुतेः । एवंभूतोऽहं हे रथ, त्वा त्वामव्यथायै । 'व्यथ भयचलनयोः' । अभयाय अचलनाय वा । स्वधायै अन्नरसाय च त्वामधितिष्ठामि । 'मरुतामिति दक्षिणधुर्यं प्राजतीति' (का० १५।६।१८)। यजमानेन सहारूढो यन्ता दक्षिणाश्वं कशया प्रेरयेत् । धुर्यदेवत्यम् । हे धुर्य, मरुतां देवानां प्रसवेनाज्ञया त्वं जय शत्रूनिति शेषः । ‘गवां मध्ये स्थापयत्यपामेति' (का० १५ । ६ । १९)। पूर्वमेवाहवनीयोत्तरतः स्थापितानां गवां मध्ये तं रथं स्थापयेत् । यजमानदेवत्यम् । वयं मनसा सह अपाम प्राप्तवन्तो यदुपक्रान्तं तत्कर्म 'धनुरार्त्न्योपस्पृशति गां यजमानः समिन्द्रियेणेति' (का० १५ । ६ । २०) । धनुःकोट्या गां स्पृशेत् । यजमानदेवत्यम् । वयमिन्द्रियेण वीर्येण सङ्गताः स्मः ॥२१॥

द्वाविंशी। .
मा त॑ इन्द्र ते व॒यं तु॑राषा॒डयु॑क्तासो अब्र॒ह्मता॒ विद॑साम ।
तिष्ठा॒ रथ॒मधि॒ यं व॑ज्रह॒स्ता र॒श्मीन् दे॑व यमसे॒ स्वश्वा॑न् ।। २२ ।।
उ० अग्रेण शालामुद्यच्छति । मा त इन्द्र ऐन्द्री त्रिष्टुप् । अत्र द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । तिष्ठा रथमधि यं वज्रहस्त । लडर्थे लोट् । यं रथमधितिष्ठसि हे वज्रहस्त, यस्मिंश्चावस्थितः आरश्मीन्देव यमसे आयमसे | आयच्छसि रश्मीन्प्रग्रहान् हे देव, स्वश्वान शोभनाश्वान् । | इदानीं प्रथमोऽर्धर्चो व्याख्यायते । व्यवहितपदसंबन्धः । प्रायः तस्मिन्रथे ते तव स्वभूते वयम् अयुक्तासः अयुक्ता एव अयुक्तासः । 'आज्जसे:-' इत्यसुक् । मा विदसाम । 'दसु उपक्षये' कर्मणि लकारः । मा विदस्येमहि मा उपक्षीयेमहि । हे इन्द्र, तुराषाट् तूर्णं सहत इति तुराषाट् तस्य संबोधनं हे तुराषाट् त इति द्वे पदे अत्रानुदात्ते तयोरेकोऽनर्थकः । माविदस्येमहीत्युक्तम् तदुपमया दर्शयितुमाह । अब्रह्मता । लुप्तोपममेतत् । अब्रह्म ते तव । ब्रह्मविज्ञानानन्दस्वभावमविनश्वरं तस्य भावो ब्रह्मता न ब्रह्मता अब्रह्मता । यथा ब्रह्मभावादन्यद्विदस्येत् एवं मा विदस्येमहीत्युपमार्थः ॥ २२॥
म० 'तावद्भूयो वा गोस्वामिने दत्त्वा पूर्वेण यूपं परीत्यान्तःपात्यदेशे स्थापयति मा त इति' (का० १५ । ६ । २२) । | स्थापितगवां पतये स्वभ्रात्रे तावत् शतमधिकं वान्यद्दत्त्वा यूपात् पूर्वदिशि परीत्यान्तःपात्यदेशे रथं स्थापयेत् । इन्द्रदेवत्या त्रिष्टुप् संवरणदृष्टा । हे वज्रहस्त, वज्रं हस्ते यस्य तत्संबुद्धिः हे देव दीप्यमान, त्वं यं रथमधितिष्ठ लडर्थे लोट् । अधितिष्ठसि । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः । यस्य च रश्मीन्प्रग्रहानायमसे आयच्छसि । किंभूतान् रश्मीन् । स्वश्वान् शोभना अश्वा येषु तान् । हे तुराषाट् , तूर्णं सहते शत्रूनभिभवतीति तुराषाट् हे इन्द्र ऐश्वर्ययुक्त, ते त्वदीया वयं ते तव तस्मिन् रथे आयुक्ताः तस्माद्भिन्नाः सन्तो मा विदसाम 'दसु उपक्षये विविधमुपक्षीणा मा भवाम । तत्र दृष्टान्तः । अब्रह्मतां लुप्तोपमानम् । अब्रह्मतेव ब्रह्म विज्ञानानन्दस्वभावमनश्वरम् तस्य भावो ब्रह्मता न ब्रह्मता अब्रह्मता यथा ब्रह्मभावादन्यद्वस्तु विदस्येदेवं वयं मा विदस्येमहीत्यर्थः ॥ २२॥

त्रयोविंशी।
अ॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा॑
म॒रुता॒मोज॑से॒ स्वाहेन्द्र॑स्येन्द्रि॒याय॒ स्वाहा॑ । पृथि॑वि मात॒र्मा मा॑ हिᳪं᳭सी॒र्मो अ॒हं त्वाम् ।। २३ ।।
उ० चत्वारि रथविमोचनीयानि जुहोति । अग्नये गृहपतये स्वाहा । सोमाय वनस्पतिरूपाय । मरुतां संबन्धिने ओजसे । इन्द्रस्य संबन्धिने इन्द्रियाय वीर्याय । भूमिमवेक्षते । पृथिविमातः, मा हिंसीर्माम् । मो अहं त्वाम् । मो च त्वाम् अहं मा हिंसिषम् ॥ २३ ॥
म० 'अग्नये गृहपतय इति चत्वारि रथविमोचनीयानि जुहोति प्रतिमन्त्रमिति' (का० १५। ६ । २३)। रथविमोचनीयसंज्ञाश्चतस्र आहुतीर्जुहोति । चत्वारि यजूंषि लिङ्गोक्तदेवत्यानि । गृहाश्रमपालकायाग्नये स्वाहा सुहुतमस्तु । वनस्पतिरूपिणे सोमाय हविर्दत्तमस्तु । इन्द्रस्येन्द्रसंबन्धिने इन्द्रियाय वीर्याय स्वाहा । मरुतां संबन्धिने ओजसे बलाय हविर्दत्तमस्तु । 'भूमिमवेक्षते पृथिवि मातरिति' ( का० १५। ६ । २४)। रथस्थ एव यजमानो भूमिं पश्येत् । भूमिदेवत्यम् । हे मातर्जगन्निर्मात्रि, हे पृथिवि भूमे, त्वं मा मां मा हिंसीः हिंसां मा कार्षीः । अहमपि त्वां पृथिवीं मो मा उ हिंसिषम् ॥२३॥

चतुर्विंशी।
ह॒ᳪं᳭सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।। २४ ।।
उ० अवतरति । हᳪं᳭सः शुचिषत् । 'सप्रपञ्चपरब्रह्माभिधायिनी अतिच्छन्दा अतिजगती'इति श्रुतेः । हंसः शुचिषत् हन्त्यध्वानमिति हंसो भगवानादित्यः शुचिषत् । शुचौ दीप्तौ सीदतीति शुचिषत् । य आदित्यरूपेण शुचिषत् यश्च वसुर्वासयिता वायुरूपेणान्तरिक्षे सीदति । यश्च होता आह्वाता अग्निरूपेण वेदौ सीदति । यश्च अतिथिरूपेण दुरोणे गृहे सीदति । यश्च नृषु मनुष्येषु प्राणभावेन सीदति । यश्च वरेषूत्कृष्टेषु सीदति । यश्च ऋते सत्ये सीदति । यश्च व्योमसु अन्तरिक्षेषु सर्वेषु सीदति । एवं सर्वत्र स्थितिभावेन स्तुत्वा अथेदानीं सर्वत्रोत्पत्तिद्वारेण स्तौति । यश्च अब्जा अप्सु जायते इत्यब्जाः। यश्च गवि पृथिव्यां चतुर्विधभूतग्रामरूपेण जायते । यश्च ऋते सत्ये जायते । यश्च अद्रौ पाषाणे अग्निरूपेण जायते मेघोऽप्यद्रिरुच्यते मेघे वा उदकरूपेण जायते । तत् ऋतम् । 'ऋ गतौ' । सर्वतो गतं परब्रह्म । बृहत् परिवृद्धम् । अनन्तमपर्यन्तम् । एवं परब्रह्मवादिनाऽस्य मन्त्रस्य तत्परब्रह्मप्रत्यवतरामीति वाक्यशेषः ॥ २४ ॥
म० 'अवरोहति हᳪं᳭सः शुचिषदिति' (का० १५ । ६ । २५)। यजमानो रथादवरोहति । सप्रपञ्चपरब्रह्माभिधायिनी सूर्यदेवत्यातिजगती वामदेवदृष्टा । हन्त्यहंकारमिति हंसो भगवानादित्य एवंविधः त्वं प्रत्यवतरामीति वाक्यशेषः। किंभूतो हंसः । शुचिषत् शुचौ दीप्तौ सीदतीति शुचिषत् आदित्यरूपेण । तथा वसुर्वासयिता नराणां प्रवर्तकः। अन्तरिक्षे सीदतीत्यन्तरिक्षसत् वायुरूपेण । होता आह्वाता देवानाम् । वेदौ सीदतीति वेदिषत् अग्निरूपेण । अतिथिः सर्वेषां पूज्यः । दुरोणे यज्ञगृहे सीदतीति दुरोणसत् आहवनीयादिरूपेण । नृषु मनुष्येषु प्राणभावेन सीदतीति नृषत् । वरेषु उत्कृष्टेषु स्थानेषु सीदतीति वरसत् । ऋते यज्ञे सीदतीति ऋतसत् । व्योम्नि आकाशे मण्डलरूपेण सीदतीति व्योमसत् । एवं सर्वत्र स्थितत्वेन स्तुत्वा सर्वत्रोत्पत्तिद्वारेण स्तौति । यः अब्जाः अप्सु उदकेषु जायते मत्स्यादिरूपेणेत्यब्जाः । गवि पृथिव्यां जायते चतुर्विधभूतग्रामरूपेणेति गोजाः । ऋते सत्ये जायत इति ऋतजाः । अद्रौ पाषाणे अग्निरूपेण जायत इत्यद्रिजाः । अद्रिर्मेघो वा अद्रौ मेघे जलरूपेण जायत इति वा । ऋतम् 'ऋ गतौ' सर्वत्र गतम् । बृहत् महत्परिवृद्धमपर्यन्तं परब्रह्मरूपो यो हंसस्तं प्रति रथादवतरामीति भावः । यद्वा हंसशब्देन रथ उच्यते । हन्ति पृथिवीमिति हंसः रथः । बृहत् महत् प्रौढमृतं यज्ञं संपादयत्विति शेषः । किंभूतो हंसः । शुचिषत् शुचौ देवयजने
रथवाहने वा सीदतीति । वसुः स्वस्योपरि यजमानं वासयतीति । अन्तरिक्षसत् वृक्षगुल्माद्यनवरुद्धेऽन्तरिक्षे सीदतीति । होता होतृसमानः । तदेव कथमित्यत आह । वेदिषत् वेद्यां सीदतीति । अतिथिः अतिथिवत्पूज्यः । दुरोणसत् दुरोणे यज्ञगृहे सीदतीति । नृषत् नृषु वाहकत्वेन सीदतीति । वरसत् वरे श्रेष्ठे राजगृहे सीदतीति । ऋतसत् ऋते यज्ञे, वाजपेयादौ सीदतीति व्योमसत् । सूर्यं वोढुं व्योमन्याकाशे सीदतीति । अब्जाः 'अप्सुयोनिर्वा अश्व' इति श्रुतेरद्भ्यो जातैरश्वैरुपेतत्वादब्जाः । गोजाः गोशब्दवाच्याद्वज्राज्जायत इति गोजाः । 'इन्द्रो वृत्राय वज्रं प्राहरत् स त्रेधा व्यभवत्तस्य स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम्' इति तैत्तिरीयश्रुतेः । ऋतजाः ऋतं यज्ञमुद्दिश्य जातत्वादृतजाः । अद्रिजाः अद्रिभ्यः पाषाणसदृशकाष्ठेभ्यो जातत्वादद्रिजाः ॥ २४ ॥

पञ्चविंशी।
इय॑द॒स्यायु॑र॒स्यायु॒र्मयि॑ धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धे॒ह्यूर्ग॒स्यूर्जं॒ मयि॑ धेहि ।।
इन्द्र॑स्य वां वीर्य॒कृतो॑ बा॒हू अ॑भ्यु॒पाव॑हरामि ।। २५ ।।
उ० उपस्पृशति शतमानौ इयदसि । इयदिति परिमाणवचनोऽयं शब्दः । शतमानमसि आयुरसि । 'आयुर्हिरण्यम्' इति श्रुतिः । आयुर्मयि धेहि । यो हि यदात्मको भवति स तद्दातुमुत्सहते । यस्माच्छतमानं हिरण्यं त्वमसि तस्मात् शताब्दपरिमाणमायुर्मयि धेहि । युङ्ङसि युनक्ति यज्ञं संभारनिवापेन दक्षिणादानेन वेति युङ् । वर्चोऽसि वर्चस्तेजः । यस्मात्त्वं वर्चोऽसि अतोऽस्माभिः प्रार्थ्यसे वर्चो मयि धेहि । औदुम्बरीं शाखामुपस्पृशति । ऊर्गस्यूर्जं मयि धेहि । ऊर्जमन्नमुच्यते । अवहरति बाहू । इन्द्रस्य वाम् । यौ इन्द्रस्य यजमानस्य वां युवां वीर्यकृतो वीर्यकारिणः संबन्धिनौ बाहू तौ अभ्युपावहरामि मैत्रावारुणीपयस्यांप्रति ॥ २५ ॥
म० 'उपस्पृशति शतमानावियदसीति' ( का० १५। ६ । । २९) । शालादक्षिणभागे स्थापितस्य रथवाहनस्य दक्षिणचक्रे बद्धौ शतमानौ शतरक्तिकानिर्मितौ सौवर्णौ मणी यजमानः स्पृशति । द्वादशाक्षरे यजुषी शतमानदेवत्ये । हे रुक्म, त्वमियदसि एतावत्परिमाणं शतरक्तिकापरिमितमसि । आयुरसि जीवनमसि तस्मादायुः शताब्दपरिमितं मयि धेहि । यो हि यदात्मकः स तद्दातुमुत्सहते । यतस्त्वं शतमानमसि ततः शताब्दपरिमितमायुर्मयि रोपय । युङ्ङसि युनक्ति यज्ञं संभारनिचयेन दक्षिणादानेन वेति युङ् वर्चस्तेजस्वी भवसि । अतो मे मम वर्चः तेजो धेहि । 'तौ ब्रह्मणे दत्त्वोर्गसीति शाखामुपस्पृशतीति' ( का० १५। ६ । ३० )। तौ शतमानौ ब्रह्मणे दत्त्वा पूर्वोक्तरथवाहने एवोपगूहितारमौदुम्बरीं शाखामुपस्पृशेत् । शाखादेवत्यम् । हे औदुम्बरि शाखे, त्वमूर्गसि अन्नरूपा भवसि । तत ऊर्जमन्नं मयि धेहि स्थापय । 'इन्द्रस्य वामित्यवहरते बाहू पयस्यायां व्याघ्रचर्मदेशे स्थितायामिति' (का० १५। ६ । २१) । अध्वर्युयजमानबाहू व्याघ्रचर्मस्थापितायां मैत्रावरुण्यां पयस्यायां नीचौ करोति । बाहुदेवत्यम् । वीर्यकृतो वीर्यकारिणः इन्द्रस्य परमैश्वर्ययुक्तस्य यजमानस्य संबन्धिनौ हे बाहू, अहं वां युवामुपावहरामि मैत्रावरुणीपयस्यां प्रति नीचौ करोमि ॥ २५ ॥

षड्विंशी
स्यो॒नाऽसि॑ सु॒षदा॑ऽसि क्ष॒त्रस्य॒ योनि॑रसि । स्यो॒नामासी॑द सु॒षदा॒मासी॑द क्ष॒त्रस्य॒ योनि॒मासी॑द ।। २६ ।।
उ० आसन्दीं निदधाति । स्योनासि । स्योनमिति सुखनाम । स्योनासि सुखरूपासि । सुषदासि सुखेन यस्यां सीदन्ति सा तथोक्ता । क्षत्रस्य योनिः स्थानमसि। सुन्वन्तमस्यामुपवेशयति । स्योनामासीद सुखरूपामासन्दीमासीद अधिरोह । सुषदाम् अधिरोह च । क्षत्रस्य स्थानमधिरोह ॥२६॥
म० 'प्राक् स्विष्टकृतः खादिरीमासन्दीं रज्जुं तां व्याघ्रचर्मदेशे निदधाति स्योनासीति' (का० १५। ६ । ३३-७)। पयस्यायाः स्विष्टकृद्धोमात्प्राक् रज्जुभिर्व्यूतां खादिरीमञ्चिकां व्याघ्रचर्मदेशे मैत्रावरुणधिष्ण्यस्य पुरो निदधाति । आसन्दीदेवत्यम् । हे आसन्दि, त्वं स्योना सुखरूपासि सुखकरी भवसि । सुषदासि सुखेन सीदन्ति यस्यां सा सुषदा सुखेनोपवेष्टुं योग्यासि । 'अधीवासमस्यामास्तृणाति क्षत्रस्य योनिरिति' ( का० १५ । ७ । २) । आसन्द्यां वस्त्रमाच्छादयति । अधीवासदैवतम् । हे अधीवास, त्वं क्षत्रस्य क्षत्रियस्य योनिर्मातृवद्धारकत्वेन कारणमसि । 'सुन्वन्तमस्यामुपवेशयति स्योनामासीदेति' ( का० १५ । ७ । ३ ) । आसन्द्यां यजमानं स्थापयेत् । यजमानदेवत्यम् हे यजमान, स्योनां सुखकरीमासन्दीमासीद आरोह । सुषदां सुखोपवेशनयोग्यामासीद ।क्षत्रस्य योनिं स्थानमासन्दीमासीद ॥ २६ ॥
 
सप्तविंशी।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा । साम्रा॑ज्याय सु॒क्रतु॑: ।। २७ ।।
उ० यजमानस्य उरोऽभिमृश्य जपति। निषसाद धृतव्रतः। वारुणी गायत्री। अधियज्ञं यजमानो वरुणः निषसाद निषण्णः धृतव्रतः । धृतं व्रतं कर्म येन स तथोक्तः । 'धृतव्रतो वै राजा न वा एष सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मणे यदेव साधु वदेद्यत्साधु कुर्यात् तस्मै वा एष श्रोत्रियश्च' इति श्रुतिः। पस्त्यासु प्रजासु । आधिपत्येनेत्युपसर्गादर्थपरिपूर्तिः। साम्राज्याय 'सम्राड्भावाय राज्याय' इति श्रुतिः । सुक्रतुः सुकर्मा । शोभनप्रज्ञो वा ॥ २७ ॥
म० 'निषसादेत्युरोऽस्यालभत इति' (का० १७ । ४ । ७) । अध्वर्युर्यजमानहृदयं स्पृशति । वरुणदेवत्या गायत्री शुनःशेपदृष्टा अष्टषट्सप्तवर्णपादत्वाद्वर्धमाना गायत्री । असौ यजमानः पस्त्यासु विक्षु प्रजासु आ निषसाद । 'विशो वै पस्त्याः ' (५। ४ । ४ । ५) इति श्रुतेः। आधिपत्येनोपविवेश। यदासन्द्यां निषण्णः स प्रजास्वेव निषण्ण इत्यर्थः । 'व्यवहिताश्च' (पा० १ । ४ । ८२) इति आङ उपसर्गस्य क्रियापदेन व्यवस्थानम् । किंभूतो यजमानः । धृतव्रतः धृतं व्रतं यज्ञलक्षणं कर्म येन स्वीकृतयज्ञः । वरुणः वारयत्यनिष्टमिति वरुणः । तथा सुक्रतुः शोभनसंकल्पः शोभनप्रज्ञो वा । किमर्थं निषसाद । साम्राज्याय सम्राजो भावः साम्राज्यम् । 'सम्राड्भावाय राज्याय' (५। ४ । ४ । ५) इति श्रुतेः ॥ २७ ॥

अष्टाविंशी।
अ॒भि॒भूर॑स्ये॒तास्ते॒ पञ्च॒ दिश॑: कल्पन्तां॒ ब्रह्मँ॒स्त्वं ब्र॒ह्माऽसि॑ सवि॒ताऽसि॑ स॒त्यप्र॑सवो॒ वरु॑णोऽसि स॒त्यौजा॒ इन्द्रो॑ऽसि॒ विशौ॑जा रु॒द्रो॒ऽसि सु॒शेव॑: । बहु॑कार॒ श्रेय॑स्कर॒ भूय॑स्क॒रेन्द्र॑स्य॒ वज्रो॑ऽसि॒ तेन॑ मे रध्य ।। २८ ।।
उ० पञ्चाक्षान्पाणावावपति । अभिभूरसि । कृतत्रेताद्वापरकलयश्चत्वारोक्षाः पञ्चमो रमणः। तत्र कलिः सर्वानन्यान् अभिभवति स उच्यते । यजमानो वा तत्संबन्धेन । अभिभूरसि अभिभवितासि । एतास्तव पञ्चदिशः कपटोपलक्षिताः क्लृप्ताः भवन्तु । ब्रह्मन्निति प्रथममामन्त्रयते यजमानः ब्रह्माणम् त्वं ब्रह्मासि सवितासि सत्यप्रसव इति । ब्रह्माह त्वमेव ब्रह्मासि भवसि सविता चासि सत्याभ्यनुज्ञः। द्वितीयं प्रत्याह त्वं ब्रह्मासि वरुणोऽसि सत्यौजाः सत्यमोजो यस्य स सत्यौजाः। तृतीयं प्रत्याह त्वं ब्रह्मासि इन्द्रश्च त्वमसि विशौजाः विश् ओजो यस्य स विडोजा इति प्राप्ते विशौजा इत्यन्याय्यः समासः । अतएव पदकारो नावगृह्णाति । चतुर्थं प्रत्याह । | त्वं ब्रह्मासि रुद्रश्च त्वमसि । सुशेवः शेव इति सुखनाम । शोभनं सुखयिता । सुमङ्गलनामानं ध्वनयति । बहुकारः बहु करोतीति बहुकारः । श्रेयस्करः श्रेयः करोतीति श्रेयस्करः । भूयः करोतीति भूयस्करः तेषां संबोधनम् हे बहुकार श्रेयस्कर भूयस्कर । स्फ्यमस्मै प्रयच्छति । इन्द्रस्य वज्रोऽसि । यतः 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' इत्युपक्रम्य 'स स्फ्यस्ततोऽयं च' इत्यादिना श्रुतिग्रन्थे उक्तः। अतस्त्वां ब्रवीमि तेन हेतुना मे मम यजमानं रध्य । रध्यतिर्वशगमने । वश <poem>वर्तिनं कुरु । 'यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान्भवति' इति श्रुतिः ॥ २८॥
म० 'अभिभूरित्यस्मै पञ्चाक्षान्पाणावाधायेति' (का० १५।। ७।५)। यजमानहस्ते द्यूतसाधनभूतान् पञ्चाक्षान् सौवर्णकपर्दान्निदध्यात् । अक्षा यजमानो वा देवता । चतुर्णामक्षाणां कृतसंज्ञा पञ्चमस्य कलिरिति । यदा पञ्चाप्यक्षा एकरूपाः पतन्ति उत्ताना अवाञ्चो वा तदा देवितुर्जयः । तत्र कलिः सर्वानक्षानमिभवति तं प्रत्युच्यते, तत्संबन्धेन यजमानं प्रति वा । हे अक्ष, यद्वा हे यजमान, त्वमभिभूरसि अभिभविता अभितो व्याप्तोसि । एताः कपर्दिकोपलक्षिताः पञ्च दिशः पूर्वादयश्चतस्र ऊर्ध्वा चेति पञ्च दिशः ते त्वदर्थं कल्पन्तां त्वत्प्रयोजनसमर्था भवन्तु । कले: सर्वाक्षाभिभावकत्वात्सुन्वतोऽपि जयापेक्षित्वात् पञ्चाक्षव्यापकत्वमिति भावः । 'वरं वृत्वा ब्रह्मन्नित्यामन्त्रयते पञ्चकृत्वः प्रत्याह व्यत्यासᳪं᳭ सविता वरुण इन्द्रो रुद्र इति त्वं ब्रह्मासीत्यादिभिरादिनैवान्त्यमिति' (का० १५ । ७ । ७ । ९) यजमानो राज्यं मेऽस्वित्यादि द्रव्यं संप्रार्थ्य पञ्चवारं ब्रह्मन्निति मन्त्रेण ब्रह्माणमामन्त्रयते । एवमामन्त्रितो ब्रह्मा त्वं ब्रह्मासीत्यादिभिः सवितासि वरुणोऽसि इन्द्रोऽसि रुद्रोऽसीत्येतैर्मन्त्रैर्व्यत्यासं यजमानं प्रत्याह । तेन चतुर्णामपि मन्त्राणामादौ त्वं ब्रह्मासीति प्रयोगः । व्यत्यासमित्यादौ यजमानो ब्रह्मन्नित्यामन्त्रयते । ब्रह्मा त्वं ब्रह्मासि सवितासि सत्यप्रसव इति प्रत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते । ब्रह्मा त्वं ब्रह्मासि वरुणोऽसि सत्यौजा इति प्रत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते ब्रह्मा त्वं ब्रह्मासि इन्द्रोऽसि विशौजा इत्याह । पुनर्यजमानो ब्रह्मन्निति ब्रह्माणमामन्त्रयते । ब्रह्मा वं ब्रह्मासि रुद्रोऽसि सुशेव इत्याह । अन्त्यं च पञ्चमं प्रतिवचनमादिनैव त्वं ब्रह्मासीत्येतावतैव कार्यं ब्रह्मणेति सूत्रार्थः । ब्रह्मन् ब्रह्मदेवत्यम् । यजमानः प्रथमं ब्रह्माणमामन्त्रयते । हे ब्रह्मन् , ऋत्विक् , त्वामामन्त्रय इति शेषः । त्वं ब्रह्मासि । पञ्च यजूंषि यजमानदेवत्यानि । ब्रह्मामन्त्रितो यजमानं प्रत्याह हे यजमान, त्वं ब्रह्मासि महान् भवसि सविता प्रेरकश्चासि । सत्यप्रसवः सत्यः प्रसवोऽनुज्ञा यस्य । द्वितीयं प्रत्याह त्वं ब्रह्मासि वरुणोऽनिष्टनिवारकोऽसि । सत्यौजाः सत्यमोजो यस्य अमोघवीर्योऽसि सत्ये वा ओजो यस्य । तृतीयं प्रत्याह त्वं ब्रह्मासि इन्द्रोऽसि ऐश्वर्यवानसि विशौजाः विक्षु प्रजास्वोजस्तेजो यस्य विडोजा इति प्राप्ते विशौजा इति छान्दसम् । अतएव पदकारो नावग्रहं चकार । चतुर्थं प्रत्याह । त्वं ब्रह्मासि रुद्रोऽसि हे राजन्, त्वं रुद्ररूपोऽसि शत्रूणां रोदनाद्द्रावणाच्च । सुशेवः शेव इति सुखनाम । शोभनं शेवः सुखं यस्मात् शोभनं सुखयिता । त्वं ब्रह्मासीत्येतावदेव पञ्चमं प्रतिवचनम् । 'बहुकारेति च ह्वयत्येवंनामानमिति' (का० १५ । ७।१०) । यजमानं बहुकारेत्यादिसुमङ्गलनामानं नरमाकारयति । लिङ्गोक्तदैवतम् । हे बहुकार, बहु कार्यं करोतीति बहुकारः श्रेयः करोतीति श्रेयस्करः भूयो बहुतरं करोतीति भूयस्करः तेषां संबोधनानि हे बहुकारेत्यादि । कल्याणनामन् , त्वामाह्वय इति शेषः । 'स्फ्यमस्मै प्रयच्छति पुरोहितोऽध्वर्युर्वेन्द्रस्य वज्र इति' (का. १५ । ७ । ११)। अस्मै यजमानाय स्फ्यं ददाति द्यूतभूमिकरणाय । स्फ्यदेवत्यम् । हे स्फ्य, इन्द्रस्य वज्रस्त्वमसि । 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' इत्यादि 'तस्य स्फ्यस्तृतीयम्' (१।२ । ४ । १) इति श्रुतेः । तेन हेतुना मे मम यजमानं रध्य । रध्यतिर्वशगमने । वशवर्तिनं कुरु । 'यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान्भवति' (५ । ४ । ४ । १५) इति श्रुतेः । यद्वा तेन मे रध्य यस्मात्त्वं वज्ररूपस्तेन कारणेन मम रध्य द्यूतभूमौ परिलेखनरूपं कार्यं साधय ॥ २८ ॥

एकोनत्रिंशी।
अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॑र्जुषा॒णो अ॒ग्निः पृ॒थुर्धर्म॑ण॒स्पति॒राज्य॑स्य वेतु॒ स्वाहा॑ स्वाहा॑कृता॒: सूर्य॑स्य र॒श्मिभि॑र्यतध्वᳪं᳭ सजा॒तानां॑ मध्य॒मेष्ठ्या॑य ।। २९ ।।
उ० हिरण्यमस्मिन्निधायाभिजुहोति। अग्निः पृथुः। योऽयं देवानामग्निः पृथुः इतरस्मादग्रे धर्मणस्पतिः धारणस्य पतिः स जुषाणः सेवमानः प्रीयमाणो वा । अग्निः पृथुः धर्मणस्पतिः आज्यस्य घृतस्य वेतु पिबतु स्वाहा सुहुतं चैतद्धविर्भवतु । अक्षान्निर्वपति । स्वाहाकृताः हे अक्षाः, स्वाहाकारपूर्विकयाहुत्या तर्पिताः सन्तः सूर्यस्य रश्मिभिर्यतध्वं स्पर्धां कुरुत । सजातानां समानजन्मनां वा भ्रातॄणां क्षत्रियाणां वा। मध्यमे । 'मध्यान्मः' मध्ये भवो मध्यमः । मध्यमे प्रदेशेऽवस्थानाय यजमानस्य । यतध्वमित्यनुवर्तते ॥ २९ ॥
म० 'द्यूतभूमौ हिरण्यं निधायाभिजुहोति चतुर्गृहीतेनाग्निः पृथुरिति' ( १५। ७ । १६ ) । एवं कृतायां द्यूतभूमौ कनकं निधाय तदुपरि चतुर्गृहीताज्यं जुहुयात् । अग्निदेवत्यम् । अग्निः आज्यस्य वेतु । कर्मणि षष्ठी । घृतं पिबतु स्वाहा सुहुतमस्तु । किंभूतोऽग्निः । पृथुः देवानां प्रथमत्वाद्विशालः । तथा धर्मणस्पतिः धारणं धर्म जगतो धारणस्य धर्मस्य वा स्वामी। जुषाणः प्रीयमाणः हूयमानं हविः सेवमानो वा । अग्निः पृथुर्धर्मणस्पतिरिति पुनःपाठ आदरार्थः । 'अक्षान्निवपति स्वाहाकृता इति' ( का० १५। ७ । १६ ) । पूर्वोक्तपञ्चाक्षान्द्यूतभूमौ क्षिपति । अक्षदेवत्यम् । हे अक्षाः, यूयं स्वाहाकृताः स्वाहाकारपूर्विकयाहुत्या तर्पिताः सन्तः सूर्यस्य रश्मिभिः किरणैर्यतध्वं स्पर्धां कुरुत । सजातानां समानजन्मनां भ्रातॄणां क्षत्रियाणां मध्यमेष्ठ्याय मध्यमप्रदेशे यजमानावस्थानाय च यतध्वं यत्नं कुरुत । यजमानं सर्वक्षत्रियश्रेष्ठं कुरुतेत्यर्थः । मध्ये भवो मध्यमः मध्यमे प्रदेशे तिष्ठतीति मध्यमेष्ठः तस्य भावो मध्यमेष्ठ्यं तस्मै ॥ २९ ॥

त्रिंशी
स॒वि॒त्रा प्र॑सवि॒त्रा सर॑स्वत्या वा॒चा त्वष्ट्रा॑ रू॒पैः पू॒ष्णा प॒शुभि॒रिन्द्रे॑णा॒स्मे बृह॒स्पति॑ना॒ ब्रह्म॑णा॒ वरु॑णे॒नौज॑सा॒ऽग्निना॒ तेज॑सा॒ सोमे॑न॒ राज्ञा॒ विष्णु॑ना दश॒म्या दे॒वत॑या॒ प्रसू॑त॒: प्रस॑र्पामि ।। ३० ।।
उ० सर्पति । सवित्रा प्रसवित्रा । सवित्रा अभ्यनुज्ञातस्य कर्त्रा प्रसूतः प्रसर्पामि । एवं सरस्वत्यादिभिर्योजनीयम् । इन्द्रेणास्मे । अस्मे इति इह तृतीयान्तम् । इन्द्रेण मया । शेष सुबोधम् ॥३०॥
म०. 'पितामहदशगणᳪं᳭ सोमपानाᳪं᳭ संख्याय सर्पणᳪं᳭ सवित्रेति वानुवाकमुक्त्वेति' ( का० १५ । ८ । १५-१६)। पित्रादयः पूर्वजाः पितामहशब्देनोच्यन्ते । ऋत्विजोऽन्ये विप्राश्च मिलिताः शतसंख्याः सन्तो दशपेययागे सौत्येऽहनि प्रतिसवनं सर्पणात्प्राक् स्वं स्वं सोमयाजिनां पित्रादीनां दशानां गणं गणयित्वा अमुकः प्रथमः सोमपः असौ द्वितीयोऽसौ तृतीय इत्यादिदशमपर्यन्तान् सोमयाजिनो गणयित्वा विभूरसीत्यादिसर्पणं धिष्ण्योपस्थानं कुर्वन्ति । सर्पणं भक्षणकाले सदःप्रवेशो वा । पक्षान्तरमाह सवित्रेति । यद्वा सवित्रा प्रसवित्रेत्येककण्डिकात्मकमनुवाकं पठित्वा शतं विप्राः सर्पणं कुर्वन्ति । दशानां सोमयाजिनामसंभवादयमेव पक्षः श्रेयानिति सूत्रार्थः । सवित्रादिदेवत्यात्यष्टिः । एताभिर्दशभिर्देवताभिः प्रसूत आज्ञप्तोऽहं प्रसर्पामि सर्पणं करोमि । प्रत्येकपाठादेकवचनं सर्पामीति । काभिर्दशभिः प्रसूत इत्यत आह । प्रसवित्रा अभ्यनुज्ञानकारिणा सवित्रा सूर्येण । वाचा वाग्रूपया सरस्वत्या । रूपैरुपलक्षितेन त्वष्ट्रा देवेन । 'त्वष्टा रूपाणामधिपतिः' इत्युक्तेः । पशुभिरुपलक्षितेन पूष्णा देवेन । अस्मे अनेन इन्द्रेण । विभक्तेः शेआदेशः । ब्रह्मणा देवयागे ब्रह्मत्वकर्त्रा बृहस्पतिना । ओजसा ओजस्विना वरुणेन । तेजसा तेजस्विना अग्निना । राज्ञा ओषधिविप्राधिपेन दीप्यमानेन वा सोमेन चन्द्रेण । दशम्या दशसंख्यापूरिकया । विष्णुना देवतया यज्ञाधिष्ठात्रा विष्णुरूपेण देवेन । एतैराज्ञप्तः प्रसर्पामीत्यर्थः॥३०॥
इति राजसूयः समाप्तः ॥

एकत्रिंशी।
अ॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।
वा॒युः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्सोमो॒ अति॑स्रुतः । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ३१ ।।
उ० इतउत्तरं चरकसौत्रामणीयं । अश्विनोरार्षम् । सुरां संदधाति अश्विभ्यां पच्यस्व । पाको नामान्नविपरिणामः । ज्येष्ठता । सरस्वत्यै इन्द्राय सुत्राम्णे शोभनत्राणाय सुत्रातव्याय वा । भैषज्यं हीन्द्रस्य कर्तव्यं सौत्रामण्या सुरां पुनाति । वायुः पूतः । सौमी गायत्री । यः सोमः वायुना पूतः । सोमः प्रथमं पूतिगन्ध आसीत् । ततो देवैर्वायुरुक्तः अपहृतविरूपगन्धं सोमं कुर्विति । ततो वायुनापहृतः सोमस्य गन्धः । ऐन्द्रवायवब्राह्मणे एतत्प्रतिपादितं तदेतदस्माभिर्व्याख्यातं विभक्तिव्यत्ययेन । यद्वा यो वायुरूपः सोमः पूतः यश्च पवित्रेण प्रत्यङ् नीचैः अधोमुखम् अतिस्रुतः 'सु गतौ' । अतिक्रम्य गतः । स सोमः । इन्द्रस्य युज्यः समानयोगी च । सखा च समानख्यानः । कथमिन्द्रं हिनस्तीति शेषः ॥ ३१ ॥
म० अथ राजसूयगतचरकसौत्रामणीमन्त्रा उच्यन्ते । राजसूयप्रान्ते विहिता सौत्रामणी चरकसौत्रामणीत्युच्यते तन्मन्त्राणामश्विनावृषी । 'पक्त्वौदनं विरूढांचूर्णीकृत्याश्विभ्यां पच्यस्वेति सᳪं᳭सृजतीति' ( का० १५ । ९ । २५)। विरूढा जाताङ्कुरा अजाताङ्कुराश्च व्रीहयः क्षौमे बद्धाः सन्ति तन्मध्ये अजाताङ्कुराणां व्रीहीणामोदनं पक्त्वा विरूढान्व्रीहींश्चूर्णीकृत्यौदनेन मिश्रयति । त्रीणि यजूंषि सुरादेवत्यानि । हे सुरे, त्वमश्विभ्यां पच्यस्व अश्विनोरर्थाय पाकं कुरु । पाको नाम विपरिणामश्रेष्ठता। सरस्वत्यै देव्यै पच्यस्व । सुष्ठु त्रायत इति सुत्रामा तस्मै सुत्राम्णे शोभनत्राणकर्त्रे सुत्रातव्याय वा इन्द्राय पच्यस्व । यतः सौत्रामण्येन्द्रस्य भैषज्यं कर्तव्यमस्ति । 'वपामार्जनान्ते कुशैः परिस्रुतं पुनाति वायुः पूत इति' ( का० १५ । १० । १०)। पशूनां वपामार्जनान्ते कर्मणि कृते दर्भैः सुरां कस्मिंश्चित्पात्रे पुनाति । सोमदेवत्या गायत्री । वायुः ‘सुपां सुलुक्' (पा० ७।१ । ३९) इत्यादिना तृतीयैकवचनस्य सु आदेशः। सोमो वायुः वायुना पूतः शोधितः पवित्रेण कुशमयेन पूतः सन् प्रत्यङ् नीचैरधोमुखः सन् अतिस्रुतः अतिक्रम्य गतः। किंभूतः । इन्द्रस्य युज्यो योगार्हः सखा सखिभूतः । 'सोमः पूर्वं पूतिगन्धोऽभूत्ततो देवैर्वायुरुक्तस्त्वं सोमᳪं᳭ सुगन्धं कुर्विति ततो वायुना सोमो दुर्गन्धमपहृत्य सुगन्धः कृतः' ( १२ । ७ । ३) | इति श्रुत्योक्तं तदयं मन्त्रो वदतीत्यर्थः ॥ ३१॥ .

द्वात्रिंशी।
कु॒विद॒ङ्ग यव॑मन्तो यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑उक्तिं॒ यज॑न्ति ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ।। ३२ ।।
उ० ग्रहं गृह्णाति । कुविदङ्ग । अनिरुक्ता सौमी त्रिष्टुप् । । कुविदिति बहुनाम । अङ्गेति क्षिप्रनाम । हे सोम, यथा केचिज्जनपदाः कुविद्बहुक्षेत्रम् अङ्गं क्षिप्रम् । यवमन्तः बहुयवाः। यतः सोमः यवं चित् । चिच्छब्दो वितर्के । यवं वितर्क्य दान्ति । 'दाप् लवने' । लुनन्ति । अनुपूर्वम् आनुपूर्व्येण वियूय पृथक्कृत्य अमिश्रित्य। एवम् इहेहैषां कृणुहि भोजनानि भोग्यानि वस्तूनि । ये बर्हिषो नमउक्तिं यजन्ति । ये यजमानाः बर्हिष उपरि स्थिताः नमउक्तिम् । नम इत्यन्ननाम । उक्तिर्वचनम् । हविर्लक्षणं नमोऽन्नमादाय उक्तिं याज्यामभिधाय यजन्ति यागं कुर्वन्ति । उपयामगृहीतोऽसीत्यादि व्याख्यातम् ॥३२॥
म० ‘ग्रहं गृह्णाति कुविदङ्गेति त्रीन् वा प्रतिदेवतमेतयैवेति' ( का० १५ । १० । १२ )। पूतायां सुरायां बदरीफलचूर्णं प्रक्षिप्य कुविदङ्गेत्येकं ग्रहं वैकङ्कतपात्रेण गृह्णाति । यद्वा कुविदङ्गेत्यृचैव त्रीन् ग्रहान्प्रतिदेवतं गृह्णाति । यथा । कुविदङ्ग उपयामगृहीतोऽस्यश्विभ्यां त्वेति प्रथमम् । कुविदङ्ग० उपयामगृहीतोऽसि सरस्वत्यै त्वेति द्वितीयम् । कुविदङ्ग० उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्ण इति तृतीयम् । तृचं काक्षीवतसुकीर्तिदृष्टम् । आद्या सोमदेवत्याऽनिरुक्ता त्रिष्टुप् । कुविदिति बहुनाम । 'अङ्गेति क्षिप्रनाम' ( नि० ५ । १७) चिदिति वितर्के । हे सोम, यथा यवमन्तः । यवा विद्यन्ते येषां ते यवमन्तः । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (पा. ८।२।९) इति यवादीनां निषेधान्मतोर्मकारस्य वकाराभावः । बहुयवसंपन्नाः कृषीवलाः । कुवित् बहुलं यवं सर्वं यवमयं सस्यं चित् विचार्य अनुपूर्वमानुपूर्व्येण वियूय पृथक्कृत्य अङ्गं क्षिप्रं दान्ति लुनन्ति । 'दाप् लवने' लट् । तथा एषां यजमानानां संबन्धीनि भोजनानि भोज्यानि वस्तूनि इह अस्मिन्नेव यजमाने कृणुहि कुरु । एषां केषाम् । ये यजमाना बर्हिष उपरि स्थिता नमउक्तिं यजन्ति । नम इत्यन्ननाम । उक्तिर्वचनम् । हविर्लक्षणमन्नमादाय उक्तिं याज्यामभिधाय यजन्ति यागं कुर्वन्ति । हे सोम, त्वमुपयामेन गृहीतोऽसि अश्विभ्यां त्वा त्वां गृह्णामि सरस्वत्यै त्वां गृह्णामि सुत्राम्णे रक्षकायेन्द्राय त्वां गृह्णामि ॥ ३२॥

त्रयस्त्रिंशी।
यु॒वᳪं᳭ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ।। ३३ ।।
उ० युवं सुरामम् । अनुवाक्या । पुत्रमिव याज्या । अनुष्टुप्त्रिष्टुभौ अश्विसरस्वतीन्द्रदेवत्ये। तत्रेतिहासमाचक्षते। नमुचिर्नामासुर इन्द्रस्य सखिभूत आस । स इन्द्रस्य विश्वस्तस्य सुरया वीर्यं पपौ। सोऽश्विनौ च सरस्वतीं चोपाधावत् । पीतवीर्योऽहं नमुचिना । ततोऽपां फेनं वज्रमसिञ्चत् तेनेन्द्रो नमुचेः शिरश्चिच्छेद । तत्र लोहितमिश्रः सुरासोमोऽतिष्ठत् तदेतदुच्यते । हे अश्विनौ, युवां सुरामम् सुरामयं सोमं सुरमणीयं वा । नमुचौ आसुरे अवस्थितम् । सचा सहभूत्वा एकीभूय । विपिपाना विविधं पिबन्तौ । हे शुभस्पती स्वामिनौ इन्द्रं कर्मसु निमित्तभूतेषु स्वकर्मकरणार्थम् आवतं पालयतम् । स्वकर्मक्षमं कुरुतमित्यर्थः ॥ ३३ ॥
म० 'ग्रहाणां युवᳪं᳭ सुरामं पुत्रमिवेति' (का० १५। ६। ८)। युवं सुरामं पुत्रमिवेति द्वे ऋचौ सुराग्रहाणां याज्यानुवाक्ये प्रथमानुवाक्या पुत्रमिवेति याज्या अनुष्टुप् अश्विसरस्वतीन्द्रदेवत्या । हे अश्विना अश्विनौ, युवं युवां कर्मसु निमित्तेषु इन्द्रमावतमपालयतं स्वकर्मक्षममकुरुतमित्यर्थः । अवतेर्लडि मध्यमद्विवचनम् । किंभूतौ युवाम् । असुर एव आसुरस्तस्मिन्नमुचौ नमुचिसंज्ञे आसुरे असुरे दैत्ये स्थितं सुरामं सुष्ठु रमयतीति सुरामं सुष्ठु रमणीयं सोमं सचा सह एकीभूय विपिपाना विपिपानौ विविधं पिबन्तौ विविधं पिबतस्तौ विपिपानौ। पिबतेर्व्यत्ययेन ह्वादित्वे शानच्प्रत्यये रूपम् । तदर्थे श्रुतावितिहासः । (१२ । ३ । ४।१) नमुचिर्नामासुर इन्द्रस्य सखासीत् । स विश्वस्तस्येन्द्रस्य वीर्यं सुरया सोमेन सह पपौ । तत इन्द्रोऽश्विनौ सरस्वतीं चोवाचाऽहं नमुचिना पीतवीर्योऽस्मि ततोऽश्विनौ सरखती चापां फेनरूपं वज्रमिन्द्राय ददुः तेनेन्द्रो नमुचेः शिरश्चिच्छेद ततो लोहितमिश्रः ससुरः सोमस्तदुदरादश्विभ्यां पीत्वा शुद्ध इन्द्रायार्पित इति तदर्पणेनेन्द्रमश्विनावरक्षतामित्यर्थः । पुनः कीदृशौ । शुभः पती शोभनं शुप् ‘शुभ दीप्तौ' इत्यस्मात् संपदादित्वाद्भावे क्विप् तस्य शुभः शोभनस्य कर्मणः पती पालकौ । 'षष्ठ्याः पतिपुत्र' (पा० ८।३ । ४३) इत्यादिना पतिशब्दे परे विसर्गस्य सकारः ॥ ३३ ॥

चतुस्त्रिंशी।
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्द॒ᳪं᳭सना॑भिः । यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक् ।। ३४ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां दशमोऽध्यायः ॥ १० ॥
उ० पुत्रमिव पितरौ यथा मातापितरौ पुत्रं पालयतः एवमुभावप्यश्विनौ हे इन्द्र, त्वाम् आवथुः । पुरुषव्यत्ययः । त्वां पालितवन्तौ । काव्यैः कविकर्मभिः । मन्त्रदर्शनैरित्यर्थः । दंसनाभिः । दंस इति कर्मनाम । कर्मभिश्च मन्त्रैश्चेत्यर्थः । कथमवगम्यते अश्विनौ त्वां पालितवन्तावित्याह । यत्सुरामं व्यपिबः शचीभिः । यस्मात्त्वं सुरामयं विविधं पीतवानसि । शचीभिः कर्मभिः । नमुचेः शिरश्छेदनं कर्म कृत्वा स्ववीर्येण नह्य दृढ एतत्कर्म कर्तुं शक्त इत्यभिप्रायः। सरस्वती त्वा मघवन्नभिष्णक् सरस्वती च त्वां हे मघवन् धनवन्, अभिष्णक् । अभिष्णक्शब्दः कण्ड्वादिषु पठ्यते तस्यैतद्रूपम् । अभिषज्येताभिषजितवती सरस्वती च त्वाम् ॥ ३४ ॥
इति उवटकृतौ मन्त्रभाष्ये दशमोऽध्यायः ॥ १० ॥
म० त्रिष्टुप् अश्विसरस्वतीन्द्रदेवत्या । हे इन्द्र उभा अश्विना उभौ अश्विनौ त्वामावथुः । अवतेर्लिटि मध्यमद्विवचनं पुरुषव्यत्ययः । आवथुः पालितवन्तौ । कैः । काव्यैः कवीनां मन्त्रद्रष्टॄणां संबन्धिभिर्मन्त्रैः कवीनामिमे काव्यास्तैः । तथा दंसनाभिः । दंस इति कर्मनाम । दंससः करणं दंसना 'तत्करोति तदाचष्टे' (पा० ३ । १ । २६ ) इति णिचि जाते ‘ण्यासश्रन्थो युच्' (पा० ३ । ३ । १०७) इति युच्प्रत्यये दंसनेति रूपम् । दृष्टान्तमाह । पुत्रमिव पितरौ यथा मातापितरौ पुत्रं पालयतस्तथाश्विनौ त्वामावथुः । अश्विनाविन्द्रस्य रक्षणं कृतवन्ताविति कथमवगम्यते तत्राह । यदिति । यद्यस्मात्कारणात् हे इन्द्र, त्वं शचीभिः कर्मभिः । नमुचिवधादिकर्माणि कृत्वेत्यर्थः । सुरामं सुष्ठु रमणीयं सोमं व्यपिबः विशेषेण पीतवानसि । पिबतेर्लङि मध्यमैकवचने रूपम् । हे मघवन् धनवन्निन्द्र, यस्माच्च सरस्वती देवी त्वा त्वामभिष्णक् उपसेवते त्वत्कृतसोमपानेन सरस्वतीकृतत्वत्सेवनेन च अश्विनौ त्वामावतुरिति ज्ञायत इत्यर्थः। 'भिष्णज् उपसेवायां' कण्ड्वादिः अस्माल्लङि 'कण्ड्वादिभ्यो यक्' (पा० ३।१।२७) इति प्राप्तस्य यको व्यत्ययेन लुक् 'हल्ड्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्' (पा०६।१।६८) इति तिपो लुक् 'लुङ्लङ्लृङ्क्ष्वडुदात्तः' (पा० ६।४ । ७१) अडागमः 'वावसाने (पा० ८ । ४ । ५६) इति जकारस्य ककारः अभिष्णगिति रूपम् ॥ ३४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । अगमद्दशमोऽध्यायो राजसूयान्तवर्णनः ॥१०॥

टिप्पणी

१०.२० प्रजापते न त्वद् एतान्य् अन्यो इति

क्रिवि उपरि टिप्पणी

प्रजापते न त्वदेतान्यन्य इति तस्यै गृहे जुहुयात् । यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति । राष्ट्रमेवास्यै प्रजा भवति । पर्णमयेनाध्वर्युरभिषिञ्चति । ब्रह्मवर्चसमेवास्मिन्त्विषिं दधाति । औदुम्बरेण राजन्यः । ऊर्जमेवास्मिन्नन्नाद्यं दधाति । आश्वत्थेन वैश्यः । विशमेवास्मिन्पुष्टिं दधाति । नैयग्रोधेन जन्यः । मित्राण्येवास्मै कल्पयति । - तै.ब्रा. १.७.८.७

क्रिमि - क्रयी। अमेष्टम् - यमेष्टम् । रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥ - तैसं १.८.१४.२

रुद्र यत्ते क्रयी परं नामेत्याह । यद्वा अस्य क्रयी परं नाम । तेन वा एष हिनस्ति । यꣳ हिनस्ति । तेनैवैनꣳ सह शमयति । तस्मै हुतमसि यमेष्टमसीत्याह । यमादेवास्य मृत्युमवयजते। - तै.ब्रा. १.७.८.६

अथ प्रतिपरेत्य गार्हपत्यमन्वारब्धे जुहोति । प्रजापते न त्वदेतान्यन्यो विश्वारूपाणि परि ता बभूव यत्कामास्ते जुहुमस्तन्नो अस्त्वयममुष्य पितेति तद्यः पुत्रस्तं पितरं करोति यः पिता तं पुत्रं तदेनयोर्वीर्ये व्यतिषजत्यसावस्य पितेति तद्यः पिता तं पितरं करोति यः पुत्रस्तं पुत्रं तदेनयोर्वीर्ये व्यतिषज्य पुनरेव यथायथं करोति - माश ५.४.२.९