शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ४/ब्राह्मण ४

विकिस्रोतः तः

५.४.४

मैत्रावरुण्या पयस्यया प्रचरति । तस्या अनिष्ट एव स्विष्टकृद्भवत्यथास्मा आसन्दीमाहरन्त्युपरिसद्यं वा एष जयति यो जयत्यन्तरिक्षसद्यं तदेनमुपर्यासीनमधस्तादिमाः प्रजा उपासते तस्मादस्मा आसन्दीमाहरन्ति सैषा खादिरी वितृण्णा भवति येयं वर्ध्रव्यूता भरतानाम् - ५.४.४.१

तामग्रेण । मैत्रावरुणस्य धिष्ण्यं निदधाति स्योनाऽसि सुषदाऽसीति शिवामेवैतच्छग्मां करोति - ५.४.४.२

अथाधीवासमास्तृणाति । क्षत्रस्य योनिरसीति तद्यैव क्षत्रस्य योनिस्तामेवैतत्करोति - ५.४.४.३

अथैनमासादयति । स्योनामासीद सुषदामासीदेति शिवां शग्मामासीदेत्येवैतदाह क्षत्रस्य योनिमासीदेति तद्यैव क्षत्रस्य योनिस्तस्यामेवैनमेतद्दधाति - ५.४.४.४

अथान्तरांसेऽभिमृश्य जपति । निषसाद धृतव्रत इति धृतव्रतो वै राजा न वा एष सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मणे यदेव साधु वदेद्यत्साधु कुर्यात्तस्मै वा एष च श्रोत्रियश्चैतौ ह वै द्वौ मनुष्येषु धृतव्रतौ तस्मादाह निषसाद धृतव्रत इति वरुणः पस्त्यास्वेति विशो वै पस्त्या विक्ष्वेत्येवैतदाह साम्राज्याय सुक्रतुरिति राज्यायेत्येवैतदाह यदाह साम्राज्याय सुक्रतुरिति - ५.४.४.५

अथास्मै पञ्चाक्षान्पाणावावपति अभिभूरस्येतास्ते पञ्च दिशः कल्पन्तामित्येष वा
अयानभिभूर्यत्कलिरेष हि सर्वानयानभिभवति तस्मादाहाभिभूरसीत्येतास्त पञ्च दिशः कल्पन्तामिति पञ्च वै दिशस्तदस्मै सर्वा एव दिशः कल्पयति - ५.४.४.६

अथैनं पृष्ठतस्तूष्णीमेव दण्डैर्घ्नन्ति । तं दण्डैर्घ्नन्तो दण्डवधमतिनयन्ति तस्माद्राजा ऽदण्ड्यो यदेनं दण्डवधमतिनयन्ति - ५.४.४.७

अथ वरं वृणीते । यं ह वै कं च सुषुवाणो वरं वृणीते सोऽस्मै सर्वः समृध्यते तस्माद्वरं वृणीते - ५.४.४.८

स ब्रह्मन्नित्येव प्रथममामन्त्रयते । ब्रह्म प्रथममभिव्याहराणि ब्रह्मप्रसूतां वाचं वदानीति तस्माद्ब्रह्मन्नित्येव प्रथममामन्त्रयते त्वं ब्रह्मासीतीतरः प्रत्याह सवितासि सत्यप्रसव इति वीर्यमेवास्मिन्नेतद्दधाति सवितारमेव सत्यप्रसवं करोति - ५.४.४.९

ब्रह्मन्नित्येव द्वितीयमामन्त्रयते । त्वं ब्रह्मासीतीतरः प्रत्याह वरुणोऽसि सत्यौजा इति वीर्यमेवास्मिन्नेतद्दधाति वरुणमेव सत्यौजसं करोति - ५.४.४.१०

ब्रह्मन्नित्येव तृतीयमामन्त्रयते । त्वं ब्रह्मासीतीतरः प्रत्याहेन्द्रोऽसि विशौजा इति वीर्यमेवास्मिन्नेतद्दधातीन्द्रमेव विशौजसं करोति - ५.४.४.११

ब्रह्मन्नित्येव चतुर्थमामन्त्रयते । त्वं ब्रह्मासीतीतरः प्रत्याह रुद्रोऽसि सुशेव इति तद्वीर्याण्येवास्मिन्नेतत्पूर्वाणि दधात्यथैनमेतच्छमयत्येव तस्मादेष सर्वस्येशानो मृडयति यदेनं शमयति - ५.४.४.१२

ब्रह्मन्नित्येव पञ्चममामन्त्रयते । त्वं ब्रह्मासीतीतरोऽनिरुक्तं प्रत्याह परिमितं वै निरुक्तं तत्परिमितमेवास्मिन्नेतत्पूर्वं वीर्यं दधात्यथात्रानिरुक्तं प्रत्याहापरिमितं वा अनिरुक्तं तदपरिमितमेवास्मिन्नेतत्सर्वं वीर्यं दधाति तस्मादत्रानिरुक्तं प्रत्याह - ५.४.४.१३

अथ सुमङ्गलनामानं ह्वयति । बहुकार श्रेयस्कर भूयस्करेति य एवंनामा भवति कल्याणमेवैतन्मानुष्यै वाचो वदति - ५.४.४.१४

अथास्मै ब्राह्मण स्फ्यं प्रयच्छति । अध्वर्युर्वा यो वाऽस्य पुरोहितो भवतीन्द्रस्य वज्रोऽसि तेन मे रध्येति वज्रो वै स्फ्यः स एतेन वज्रेण ब्राह्मणो राजानमात्मनोऽबलीयांसं कुरुते यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान्भवति तदमित्रेभ्य एवैनमेतद्बलीयांसं करोति - ५.४.४.१५

तं राजा राजभ्रात्रे प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति तेन राजा राजभ्रातरमात्मनोऽबलीयांसं कुरुते - ५.४.४.१६

तं राजभ्राता सूताय वा स्थपतये वा प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति
तेन राजभ्राता सूतं वा स्थपतिं वाऽऽत्मनोऽबलीयांसं कुरुते - ५.४.४.१७

तं सूतो वा स्थपतिर्वा ग्रामण्ये प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति तेन
सूतो वा स्थपतिर्वा ग्रामण्यमात्मनोऽबलीयांसं कुरुते - ५.४.४.१८

तं ग्रामणीः सजाताय प्रयच्छति । इन्द्रस्य वज्रोऽसि तेन मे रध्येति तेन ग्रामणीः
सजातमात्मनोऽबलीयांसं कुरुते तद्यदेवं सम्प्रयच्छन्ते नेत्पापवस्यसमसद्यथापूर्वमसदिति तस्मादेवं सम्प्रयच्छन्ते - ५.४.४.१९

अथ सजातश्च प्रतिप्रस्थाता च । एतेन स्फ्येन पूर्वाग्नौ शुक्रस्य पुरोरुचाऽधिदेवनं कुरुतोऽत्ता वै शुक्रोऽत्तारमेवैतत्कुरुतः - ५.४.४.२०

अथ मन्थिनः पुरोरुचा विमितं विमिनुतः । आद्यो वै मन्थी तदत्तारमेवैतत्कृत्वाऽथास्मा एतदाद्यं जनयतस्तस्मान्मन्थिनः पुरोरुचा विमितं विमिनुतः - ५.४.४.२१

अथाध्वर्युः । चतुर्गृहीतमाज्यं गृहीत्वाऽधिदेवने हिरण्यं निधाय जुहोत्यग्निः पृथुर्धर्मणस्पतिर्जुषाणो अग्निः पृथुर्धर्मणस्पतिराज्यस्य वेतु स्वाहेति - ५.४.४.२२

अथाक्षान्निवपति । स्वाहाकृताः सूर्यस्य रश्मिभिर्यतध्वं सजातानाम्मध्यमेष्ठ्यायेत्येष वा अग्निः पृथुर्यदधिदेवनं तस्यैतेऽङ्गारा यदक्षास्तमेवैतेन प्रीणाति तस्य ह वा एषाऽनुमता गृहेषु हन्यते यो वा राजसूयेन यजते यो वैतदेवं वेदैतेष्वक्षेष्वाह गां दीव्यध्वमिति पूर्वाग्निवाहौ दक्षिणा - ५.४.४.२३

अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तदेनं मध्यत एवैतस्य प्रजापतेर्दधाति मध्यतः सुवति तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोति - ५.४.४.२४

अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सोऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य - ५.४.४.२५

[सम्पाद्यताम्]

वर्ध्रव्यूता - वर्ध्राश्चर्मरज्जवः, ताभिर्व्यूता सन्नद्धा भवति भरतानाम् अन्येषां तु रज्जुमात्रम्।– सायण