शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search


ब्राह्मण १

१ सदसो मध्ये उपविष्टस्य केशवस्य पुरुषस्य मुखे समन्त्रकं सार्थवादं ताम्रस्यत्वेधनविधानं, केशवलोहायासदन्दशूकानामन्तरालवर्तित्वस्य सम्यगुपपा- दनमध्वर्युः प्राचीदक्षिणाप्रतीच्युदीच्यूर्ध्वा इत्येताः पञ्च दिशो यजमान- माक्रमयन्प्राच्यादितत्तद्दिग्लिङ्गकान्मन्त्रा न्वाचयेदिति विधानं, दिशां समारोहणं समस्य संवत्सरारोहात्मना तस्य प्रशंसनं, आस्तृतस्य शार्दूलचर्मणोऽपरे ऽन्ते पूर्वं निहितस्य सीसस्येदानीं समंत्रकं पदा प्रासनविधानं,प्रसंगान्नमुचिदैत्यशिरसः सीसेन निरासस्याख्यायिकामुखेनोपपादनं, समंत्रकं साभिप्रायं शार्दूलचर्मारोहणविधानं, रुक्मस्य मृत्युपरिहारत्वोपपादनसहितमधःप्रदेशे स्थापनस्य समंत्रकं विधानं गुणविशेषाभिधानपुरःसरं रुक्मस्य समंत्रकं शिरसि निधानविधानम्, अधऊर्ध्वप्रदेशे रुक्मनिधानस्यायुःप्रवृद्धिरूपत्वेन प्रशंसनं, यजमानस्य बाह्वोरुद्ग्रहणं विधाय तत्र पूर्वपक्षत्वेन हिरण्यरूपा इतीमं मंत्रं विनियुज्य च तस्य मंत्रस्याध्या-त्मिकाधिदैविकार्थद्वयविवरणं, पूर्वपक्षत्वेन विनियुक्तं मंत्रं प्रतिषिध्य तत्र सिद्धान्ततया स्वमतेन मित्रोऽसि इत्येतस्य मंत्रस्य सार्थवादं विनियोजनम्, ऊर्ध्वबाहुत्वेनावस्थितस्य यजमानस्य विधित्सिताभिषेकप्रशंसार्थमर्थवादश्चेति.


ब्राह्मण २

२ ऊर्ध्वबाहुकाय प्राङ्मुखत्वेन स्थिताय यजमानाय पुरोहिताध्वर्योरन्यतरेण ब्राह्मणेन पूर्वमभिषेकः कर्तव्यः पश्चादितरैरित्येतद्विधाय तत्र सार्थवादं मंत्राणां विनियोजनं, विनियुक्तेषु मंत्रेषु सर्वत्रानुषज्यमानस्य मंत्रान्तरस्य 'सार्थवादं विधानं, क्रियमाणाभिषेकजलस्य स्वदेहे सार्थवादं विमार्जनं विधाय तत्र मंत्रं विनियुज्य तस्य प्रथमपादतात्पर्योपेतमध्यात्माधिदैविकार्थद्वयविवरणम्, अध्वर्युः शार्दूलचर्मण्येव यजमानं त्रीन्विष्णुक्रमान्कामयेदिति समंत्रकं साभिप्रायं विधानं, स्वमित्रवैश्यपात्रत्रय- शेषाणां ब्राह्मणस्य पालाशपात्रे सकारणं व्यासेचनविधानं, संस्रवैः प्रसिक्तं ब्राह्मणस्य पालाशपात्रं राज्ञः प्रियतमाय पुत्राय ब्राह्मणपरिपठितमन्त्रमुक्त्वा दद्यादिति विधानं, गार्हपत्यं प्रत्यागत्यान्वारब्धस्य पुत्रस्य ' प्रजापते न त्व० ' इत्यनेन मन्त्रेण हवनविधानं, तत्र मन्त्रे ऊहप्रकारं कथयित्वा साभिप्रायं तदर्थविवरणं, पालाशपात्रशेषस्यग्नीध्रीये उत्तरार्धप्रदेशे सोपपत्तिकं सकारणं समन्त्रकं हवनविधानं, चेत्यादि


ब्राह्मण ३

३ अभिषेकोत्तराणि कर्माणि तत्र पूर्वं गवां शतमधिकं वा आहवनीयमुत्तरेण संस्थापयेदिति परकृतिरूपार्थवादसहितं विधानं, सार्थवादं समन्त्रकं यजमानस्य रथोपावहरणविधानं रथयजमानयोर्वज्रेन्द्रात्मकत्वोपपादनं च, रथस्य प्रदेश- विधानपुरःसरमश्वयोर्योजनस्य समन्त्रकं विधान तत्र मन्त्रे मित्रावरुणशब्दार्थप्रदर्शनं च, रथस्याश्वचतुष्ट्योपेतत्वं दक्षिणापथेन गमनं च विधाय संस्थापनप्रदेशविधानं, यजमानस्य 'रथरोहणं समंत्रकं विधाय तस्यामन्त्रस्य पदशोऽनूद्य व्याख्यानं, दक्षिणभागे युक्तस्याश्वस्य समन्त्रकं प्राजनविधानं तन्मन्त्रव्याख्यानं च, पूर्वं स्थापितानां गवां मध्ये रथस्य समंत्रकं स्थापनविधानं, स्वानां स्थापितानां गवां मध्ये एकस्या गोर्धनुष्कोट्या समन्त्रकं स्पर्शनविधानं, स्वानां स्थापितासु गोषु रथस्थापनस्य प्रशंसनं, स्थापितानां गवां स्वामिने स्वायान्यासां तावतीनां गवां सार्थवादं प्रतिदानविधानं, स्थापितानां गवां मध्ये दक्षिणतोऽश्वानां स्थापनं विधाय रथमुदग्गमनमार्गेण नीत्वाऽन्तःपात्यदेशे स्थापयेदिति समन्त्रकं विधानं, मन्त्रार्थयुतैश्चतुर्भिर्मन्त्रै रथविमोचनीयहोमस्य, सार्थवादं विधानं, सोपपत्तिकं वाराह्योरुपानहोरुपमोकविधानं, प्रत्यवेक्षमाणस्य यजमानस्य सकारणं मा तड इन्द्र ते इति मन्त्रजपविधानं, समन्त्रकं रथादवरोहणं विधाय मन्त्रस्य रथपक्षे सूर्यपक्षे चार्थं प्रदर्श्य मन्त्रगतछन्दोविशेषस्य प्रशंसनं, प्रथमं यन्तुरवस्थानं सकारणं निषिध्य सयन्तृकस्य रथस्य रथवाहनेऽनसिस्थापनविधानम्, आहवनीयस्योत्तरतः पूर्वाग्नेरुद्वृत्ततयाऽवस्थानविधानं, रथवाहनस्य दक्षिणेंऽशे शतमानयोरासंजनविधानं, वर्त्मनि औदुम्बर्याः शाखाया उपगूहनविधानं, सप्रयोजनं तयोः शतमानयोरन्यतरस्य- औदुम्बर्याः शाखायाश्च समन्त्रकमुपस्पर्शनविधानम्, एतयोर्ब्रह्मणे सार्थवादं दानविधानं, मैत्रावरुणधिष्ण्यस्य पूर्वभागे निहितायां व्याघ्रचर्मदेशे मित्रा- वरुणदेवत्यायां पयस्यायां यजमानस्य बाह्वोरवहरणस्य सार्थवादं समन्त्रकं विधानं चेति.


ब्राह्मण ४

४ पयस्याप्रचारः - तत्र स्विष्टकृतः पूर्वं मैत्रावरुण्या पयस्यायाः प्रचरणविधानं, सार्थवादमासन्द्याहरणं विधाय तत्रासन्द्यां यजमानविशेषेण खादिरत्ववर्ध्रव्यूतत्वेति गुणद्वयविशेषस्य विधानम् आहृताया आसन्द्या मैत्रावरुणधिष्ण्य- स्याग्रे मन्त्रमन्त्रार्थयुतं निधानविधानं, समन्त्रकमधीवासास्तरणविधानम्,
अधीवासोत्तरायामासन्द्यां सुन्वतो यजमानस्य समन्त्रकमुपवेशनविधानं, यज. मानस्य हृदयदेशादिस्पर्शनपूर्वकं जप- विधानं जपमंत्रस्य प्रतिपादनमनूद्य व्याख्यानं च, मन्त्रमन्त्रार्थसहितं यजमानहस्ते पञ्चाक्षावापस्य विधानं तेन पञ्चदिग्विजयसिद्धिर्जातेति दर्शनं, सुन्वतो यजमानस्य पृष्ठतस्तूष्णीं दण्डै- रवहननविधानं, यजमानस्य वरवरणस्याभिधानं, यजमानो ब्रह्मन्निति पदं पंच- कृत्व आमन्त्रयेत्तं च सवितृवरुणेन्द्ररुद्रवाचकैस्त्वं ब्रह्मासीत्यादिभिश्चतुर्भिर्मन्त्रैः प्रत्यामन्त्रयेदितरं इति साभिप्रायं विधानं, यजमानकर्तृकपञ्चमामन्त्रणस्य प्रतिवचने कंचिद्विशेषं दर्शयित्वा तस्य प्रशंसनं, सुमंगलनाम्नो यजमानस्य बहुकार इति मन्त्रेणाह्वानं कर्तव्यमिति विधानं, पुरोहितोऽध्वर्युर्वा राजा राजभ्राता सूतः स्थपतिर्वा ग्रामणीः सजातश्चेत्येतेषां मध्ये पूर्वः पूर्व उत्तरस्मा उत्तरस्मै स्फ्यं समन्त्रकं प्रयच्छेदिति मन्त्रार्थविवरणसहितं साभिप्रायं विधानं, राजादिसजातान्तेषु स्फ्यप्रदानस्य सम्भूय प्रशंसनं, सजातप्रतिप्रस्थात्रोर्द्यूतस्थानकरणस्य समन्त्रकं सशेषं विधानं-मन्थिग्रहपुरोरुचा विमितकरणविधानञ्च, अध्वर्योश्चतुर्गृहीतेनाज्येनाधिदेवने हिरण्यनिधानपूर्वकं समन्त्रकं होमकरणविधानम्, तत्र विमितेऽक्षनिवापं समन्त्रकं विधाय सोपत्तिकं तस्य देवतासन्तर्पकत्वप्रदर्शनम्, देवनकाले गामेव पणीकृत्य गां दीव्यध्वम् इति प्रैषं चोक्त्वा राजसूयकर्मविद्गृहे पणीकृतां गामानीय ताडयेदिति विधानं, पूर्वाग्निवाहयोरनुडुहोर्द्यूतकर्मणो दक्षिणात्वेन ब्रह्मणे प्रदानकथनं, पयस्याश्विष्टकृदिडादीति- कर्तव्यता प्रदर्शनं, तत्सहैव प्रधान- स्विष्टकृदन्तरालेऽनुष्ठितस्य देवनादिकस्य प्रजापतिमध्यनिधानरूपेण प्रशंसनं चेत्यादि।


ब्राह्मण ५

५ अत्र दशसंख्याकानि-संसृपाहवींषि दशपेयाख्यसोमयागस्य दीक्षाः- उपसद्यागः-ऋत्विग्विशेषेण दक्षिणाश्च विधीयन्ते-तत्रादौ हवींषि विधातुमुपोद्घातः, हविर्नामनिर्वचनं द्वेधा दशपेयशब्दनिर्वचनं च, पितामह- दशगणप्रसंख्यानेन सदःप्रसर्पणं कर्तव्यमिति पूर्वपक्षयित्वा तद्दूषयित्वा च सवित्रादिदशदेवताः संख्याय सदप्रसर्पणं कर्तव्यमिति सिद्धान्ततया स्वमतं प्रतिष्ठाप्य तस्य वरुणवृत्तान्तेन प्रशंसनं, संसृप्च्छब्दवाच्यहविर्निर्वापकालप्रदर्शनं, सावित्रो द्वादशाष्टान्यतरकपालः पुरो- डाशः-सारस्वतश्चरुः-त्वाष्ट्रो दशकपालः पुरोडाशः-पौष्णश्चरुः ऐन्द्र एकादशकपालः पुरोडाशः बार्हस्पत्यश्चरुः-वारुणो यवमयश्चरुः-इत्येतेषां हविषां प्रत्यहमेकैकस्यक्रमेण सार्थवादं निर्वपणं कर्तव्यमिति विधानम्, तेषु सप्तसु हविःषु प्रत्यहमेकैकं पुण्डरीक प्रदेयमितिविधानं च, दत्तदास्यमान द्वादशपुण्डरीकात्मकस्रक्प्रतिमोकरूपाया दशपेयस्य दीक्षायाः सविशेषं विधानं, पुण्डरीकगतसंख्यायाः सम्भूय मासात्मकसंवत्सरात्मना प्रशंसनं, राजानं क्रीत्वेत्याद्यनुष्ठानप्रकारं प्रदर्श्योपसद्यागविधानम्, उपसद्यागेऽ- ग्निसोमविष्णुदेवताकोपसत्प्रतिनिधित्वेन संसृप्हविषां मध्ये उत्तमानां आग्ने- योऽष्टाकपालः पुरोडाशः-सौम्यश्चरुः वैष्णवस्त्रिकपालः पुरोडाशश्चरुर्वा इत्येतेषां त्रयाणां उपसत्प्रतिनिधित्वेन निर्वापं पूर्वपक्षयित्वा तं दूषयित्वा च सप्तमाष्टमनवमदिनेषु प्रत्यहमेकैकामुपसदमनुष्ठाय तत्तदन्ते आग्नेयसौम्यवैष्ण- वानां त्रयाणां संसृप्हविषां निर्वापकथनम्, उपसद्देवताहविषां आग्नेयादिसंसृप्हविषां चान्योऽन्यं सहेतुकं संसर्पणविधानं, दशपेयस्य सोमसंस्थारूपत्वोपवर्णनं, द्वादशानां गर्भिणीना गवां दक्षिणात्वेन दानं विधाय तद्गतायाः संख्यायाः सम्भूय संवत्सरात्मना प्रकारद्वितयेन प्रशंसनं, ऋत्विग्विशेषेण दक्षिणाविशेषस्य दानविधानम्, एतासां विशिष्टदक्षिणानां सम्भूय संवत्सरात्मना प्रशंसनं चेत्यादि.