शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ४/ब्राह्मण ५

विकिस्रोतः तः
Jump to navigation Jump to search

५.४.५

वरुणाद्ध वा अभिषिषिचानाद्भर्गोऽपचक्राम । वीर्यं वै भर्ग ऽएष विष्णुर्यज्ञः सोऽस्मादपचक्राम शश्वद्य एषोऽपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति सोऽस्य भर्गं निर्जघान - ५.४.५.[१]

तमेताभिर्देवताभिरनुसमसर्पत् । सवित्रा प्रसवित्रा सरस्वत्या वाचा त्वष्ट्रा रूपैः पूष्णा पशुभिरिन्द्रेणास्मे बृहस्पतिना ब्रह्मणा वरुणेनौजसाऽग्निना तेजसा सोमेन राज्ञा विष्णुनैव दशम्या देवतयान्वविन्दत् - ५.४.५.[२]

तद्यदेनमेताभिर्देवताभिरनुसमसर्पत् । तस्मात्संसृपो नामाथ यद्दशमेऽहन्प्रसुतो भवति तस्माद्दशपेयोऽथो यद्दश दशैकैकं चमसमनुप्रसृप्ता भवन्ति तस्माद्वेव दशपेयः - ५.४.५.[३]

तदाहुः । दश पितामहान्त्सोमपान्त्संख्याय प्रसर्पेत्तथो हास्य सोमपीथमश्नुते दशपेयो हीति तद्वै ज्या द्वौ त्रीनित्येव पितामहान्त्सोमपान्विन्दन्ति तस्मादेता एव देवताः संख्याय प्रसर्पेत् - ५.४.५.[४]

एताभिर्वै देवताभिर्वरुण एतस्य सोमपीथमाश्नुत । तथो एवैष एताभिरेव देवताभिरेतस्य सोमपीथमश्नुते तस्मादेता एव देवताः संख्याय प्रसर्पेदथ यदैवैषोदवसानीयेष्टिः संतिष्ठत एतस्याभिषेचनीयस्य - ५.४.५.[५]

अथैतानि हवींषि निर्वपति । सावित्रं द्वादशकपालं वाष्टाकपालं वा पुरोडाशं सविता वै देवानां प्रसविता सवितृप्रसूत एव तद्वरुणोऽनुसमसर्पत्तथो एवैष एतत्सवितृप्रसूत एवानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति - ५.४.५.[६]

अथ सारस्वतं चरुं निर्वपति । वाग्वै सरस्वती वाचैव तद्वरुणोऽनुसमसर्पत्तथो एवैष एतद्वाचैवानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति - ५.४.५.[७]

अथ त्वाष्ट्रं दशकपालं पुरोडाशं निर्वपति । त्वष्टा वै रूपाणामीष्टे त्वष्ट्रैव तद्रूपैर्वरुणोऽनुसमसर्पत्तथो एवैष एतत्त्वष्ट्रैव रूपैरनुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति - ५.४.५.[८]

अथ पौष्णं चरुं निर्वपति । पशवो वै पूषा पशुभिरेव तद्वरुणोऽनुसमसर्पत्तथो एवैष एतत्पशुभिरेवानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति - ५.४.५.[९]

अथैन्द्रमेकादशकपालं पुरोडाशं निर्वपति । इन्द्रियं वै वीर्यमिन्द्र इन्द्रियेणैव तद्वीर्येण वरुणोऽनुसमसर्पत्तथो एवैष एतदिन्द्रियेणैव वीर्येणानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति - ५.४.५.[१०]

अथ बार्हस्पत्यं चरुं निर्वपति । ब्रह्म वै बृहस्पतिर्ब्रह्मणैव तद्वरुणोऽनुसमसर्पत्तथो एवैष एतद्ब्रह्मणैवानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति - ५.४.५.[११]

अथ वारुणं यवमयं चरुं निर्वपति । स येनैवौजसेमाः प्रजा वरुणोऽगृह्णात्तेनैव तदोजसा वरुणोऽनुसमसर्पत्तेनो एवैष तदोजसानुसंसर्पति तत्रैकं पुण्डरीकं प्रयच्छति - ५.४.५.[१२]

उपसदो दशम्यो देवताः । तत्र पञ्च पुण्डरीकाण्युपप्रयच्छति तां द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते सा दीक्षा तया दीक्षया दीक्षते - ५.४.५.[१३]

अथ यद्द्वादश भवन्ति । द्वादश वै मासाः संवत्सरस्य सर्वं वै संवत्सरः सर्वेणैवैनमेतद्दीक्षयति यानि पुण्डरीकाणि तानि दिवो रूपं तानि नक्षत्राणां रूपं ये वधकास्तेऽन्तरिक्षस्य रूपं यानि बिसानि तान्यस्यै तदेनमेषु लोकेष्वधि दीक्षयति - ५.४.५.[१४]

अथ राजानं क्रीत्वा । द्वेधोपनह्य परिवहन्ति ततोऽर्धमासन्द्यामासाद्य प्रचरत्यथ य एषोऽर्धो ब्रह्मणो गृहे निहितो भवति तमासन्द्यामासाद्यातिथ्येन प्रचरति यदातिथ्येन प्रचरत्यथोपसद्भिः प्रचरति यदोपसद्भिः प्रचरति - ५.४.५.[१५]

अथैतानि हवींषि निर्वपति । आग्नेयमष्टाकपालं पुरोडाशं सौम्यं चरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन यथेष्ट्यैवं यजते - ५.४.५.[१६]

तदु तथा न कुर्यात् । ह्वलति वा एष यो यज्ञपथादेत्येति वा एष यज्ञपथाद्य उपसत्पथादेति तस्मादुपसत्पथादेव नेयात् - ५.४.५.[१७]

स यदग्निं यजति । अग्निनैवैतत्तेजसाऽनुसंसर्पत्यथ यत्सोमं यजति सोमेनैवैतद्राज्ञाऽनुसंसर्पत्यथ यद्विष्णुं यजति यज्ञो वै विष्णुस्तद्यज्ञम्प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वाऽऽत्मन्कुरुते - ५.४.५.[१८]

स एष सप्तदशोऽग्निष्टोमो भवति । सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वाऽऽत्मन्कुरुते - ५.४.५.[१९]

तस्य द्वादश प्रथमगर्भाः । पष्ठौह्यो दक्षिणा द्वादश वै मासाः संवत्सरस्य संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वात्मन्कुरुते - ५.४.५.[२०]

तासां द्वादश गर्भाः । ताश्चतुर्विंशतिश्चतुर्विंशतिर्वै संवत्सरस्यार्धमासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वाऽऽत्मन्कुरुते - ५.४.५.[२१]

ता ब्रह्मणे ददाति । ब्रह्मा हि यज्ञं दक्षिणतोऽभिगोपायति तस्मात्ता ब्रह्मणे ददाति हिरण्मयीं स्रजमुद्गात्रे रुक्मं होत्रे हिरण्मयौ प्राकाशावध्वर्युभ्यामश्वं प्रस्तोत्रे वशां मैत्रावरुणायऽर्षभं ब्राह्मणाच्छंसिने वाससी नेष्टापोतृभ्यामन्यतरतो युक्तं यवाचितमच्छावाकाय गामग्नीधे - ५.४.५.[२२]

ता वा एताः । द्वादश वा त्रयोदश वा दक्षिणा भवन्ति द्वादश वा वै त्रयोदश वा
संवत्सरस्य मासाः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञस्तद्यज्ञं प्रत्यक्षमाप्नोति तं प्रत्यक्षमाप्त्वाऽऽत्मन्कुरुते - ५.४.५.[२३]