शतपथब्राह्मणम्/काण्डम् ५/अध्यायः ४/ब्राह्मण १

विकिस्रोतः तः


५.४.१

केशवस्य पुरुषस्य । लोहायसमास्य आविध्यत्यवेष्टा दन्दशूका इति सर्वान्वा एष मृत्यूनतिमुच्यते सर्वान्वधान्यो राजसूयेन यजते तस्य जरैव मृत्युर्भवति तद्यो मृत्युर्यो वधस्तमेवैतदतिनयति यद्दन्दशूकान् - ५.४.१.१

अथ यत्केशवस्य पुरुषस्य । न वा एष स्त्री न पुमान्यत्केशवः पुरुषो यदह पुमांस्तेन न स्त्री यदु केशवस्तेनो न पुमान्नैतदयो न हिरण्यं यल्लोहायसं नैते क्रिमयो नाक्रिमयो यद्दन्दशूका अथ यल्लोहायसं भवति लोहिता इव हि दन्दशूकास्तस्मात्केशवस्य पुरुषस्य - ५.४.१.२

अथैनं दिशः समारोहयति । प्राचीमारोह गायत्री त्वावतु रथन्तरं साम त्रिवृत्स्तोमो वसन्त ऋतुर्ब्रह्म द्रविणम् - ५.४.१.३

दक्षिणामारोह । त्रिष्टुप्त्वाऽवतु बृहत्साम पञ्चदश स्तोमो ग्रीष्म ऋतुः क्षत्रं द्रविणम् - ५.४.१.४

प्रतीचीमारोह । जगती त्वाऽवतु वैरूपं साम सप्तदश स्तोमो वर्षा ऋतुर्विड्द्रविणम् - ५.४.१.५

उदीचीमारोह । अनुष्टुप्त्वाऽवतु वैराजं सामैकविंश स्तोमः शरदृतुः फलं द्रविणम् - ५.४.१.६

ऊर्ध्वामारोह । पङ्क्तिस्त्वाऽवतु शाक्वररैवते सामनी त्रिणवत्रयस्त्रिंशौ स्तोमौ हेमन्तशिशिरावृतू वर्चो द्रविणमिति - ५.४.१.७

तद्यदेनं दिशः समारोहयति । ऋतूनामेवैतद्रूपमृतूनेवैनमेतत्संवत्सरं समारोहयति स ऋतून्त्संवत्सरं समारुह्य सर्वमेवेदमुपर्युपरि भवत्यर्वागेवास्मादिदं सर्वं भवति - ५.४.१.८

शार्दूलचर्मणो जघनार्धे । सीसं निहितं भवति तत्पदा प्रत्यस्यति प्रत्यस्तं नमुचेः शिर इति नमुचिर्ह वै नामासुर आस तमिन्द्रो निविव्याध तस्य पदा शिरोऽभितष्ठौ स यदभिष्ठित उदबाधत स उच्छ्वङ्कस्तस्य पदा शिरः प्रचिच्छेद ततो रक्षः समभवत्तद्ध स्मैनमनुभाषते क्व गमिष्यसि क्व मे मोक्ष्यस इति - ५.४.१.९

तत्सीसेनापजघान । तस्मात्सीसं मृदु सृतजवं हि सर्वेण हि वीर्येणापजघान तस्माद्धिरण्यरूपं सन्न कियच्चनार्हति सृतजवं हि सर्वेण हि वीर्येणापजघान तद्वै स तन्नाष्ट्रा रक्षांस्यपजघान तथो एवैष एतन्नाष्ट्रा रक्षांस्यतोऽपहन्ति - ५.४.१.१०

अथैनं शार्दूलचर्मारोहयति । सोमस्य त्विषिरसीति यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिस्तस्मादाह सोमस्य त्विषिरसीति तवेव मे त्विषिर्भूयादिति शार्दूलत्विषिमेवास्मिन्नेतद्दधाति तस्मादाह तवेव मे त्विषिर्भूयादिति
- ५.४.१.११

अथ रुक्ममधस्तादुपास्यति । मृत्योः पाहीत्यमृतमायुर्हिरण्यं तदमृत ऽआयुषि प्रतितिष्ठति - ५.४.१.१२

अथ रुक्मः शतवितृण्णो वा भवति । नववितृण्णो वा स यदि शतवितृण्णः शतायुर्वा अयं पुरुषः शततेजाः शतवीर्यस्तस्माच्छतवितृण्णो यद्यु नववितृण्णो नवेमे पुरुषे प्राणास्तस्मान्नववितृण्णः - ५.४.१.१३

तमुपरिष्टाच्छीर्ष्णो निदधाति । ओजोऽसि सहो ऽस्यमृतमसीत्यमृतमायुर्हिरण्यं तदस्मिन्नमृतमायुर्दधाति तद्यद्रुक्मा उभयतो भवतोऽमृतमायुर्हिरण्यं तदमृतेनैवैनमेतदायुषोभयतः परिबृंहति तस्माद्रुक्मा उभयतो भवतः - ५.४.१.१४

File:Urdhva Hastasana (front).jpg|thumb|ऊर्ध्वबाहु


अथ बाहू उद्गृह्णाति । हिरण्यरूपा उषसो विरोक उभाविन्द्रो उदिथः सूर्यश्च आरोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं http://puranastudy.freevar.com/pur_index14/diti.htm दितिं चेति बाहू वै मित्रावरुणौ पुरुषो गर्तस्तस्मादाहारोहतं वरुण मित्र गर्तमिति ततश्चक्षाथामदितिं दितिं चेति ततः पश्यतं स्वं चारणं चेत्येवैतदाह - ५.४.१.१५

नैतेनोद्गृह्णीयात् । मित्रोऽसि वरुणोऽसीत्येवोद्गृह्णीयाद्बाहू वै मित्रावरुणौ बाहुभ्यां वै राजन्यो मैत्रावरुणस्तस्मान्मित्रोऽसि वरुणोऽसीत्येवोद्गृह्णीयात् - ५.४.१.१६

तद्यदेनमूर्ध्वबाहुमभिषिञ्चति । वीर्यं वा एतद्राजन्यस्य यद्बाहू वीर्यं वा एतदपां रसः सम्भृतो भवति येनैनमेतदभिषिञ्चति नेन्म इदं वीर्यं वीर्यमपां रसः सम्भृतो बाहू व्लिनादिति तस्मादेनमूर्ध्वबाहुमभिषिञ्चति - ५.४.१.१७