शुक्लयजुर्वेदः/अध्यायः ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १० शुक्लयजुर्वेदः
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →

अध्याय 11
अग्निचयने उखादि समिदाध्यन्त मन्त्राः

11.1
युञ्जानः प्रथमं मनस् तत्वाय सविता धियम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आभरत् ॥


11.2
युक्तेन मनसा वयं देवस्य सवितुः सवे ।
स्वर्ग्याय शक्त्या ॥

11.3
युक्त्वाय सविता देवान्त् स्वर्यतो धिया दिवम् ।
बृहज् ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥

11.4
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽ इन् मही देवस्य सवितुः परिष्टुतिः ॥

11.5
युजे वां ब्रह्म पूर्व्यं नमोभिर् वि श्लोक ऽ एतु पथ्येव सूरेः ।
शृण्वन्तु विश्वे ऽ अमृतस्य पुत्रा ऽ आ ये धामानि दिव्यानि तस्थुः ॥

11.6
यस्य प्रयाणम् अन्व् अन्य ऽ इद् ययुर् देवा देवस्य महिमानम् ओजसा ।
यः पार्थिवानि विममे स ऽ एतशो रजासि देवः सविता महित्वना ॥

11.7
देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपतिं भगाय ।
दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचं नः स्वदतु ॥

11.8
इमं नो देव सवितर् यज्ञं प्र णय देवाव्यꣳ सखिविदꣳ सत्राजितं धनजितꣳ स्वर्जितम् ।
ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहा ॥

11.9
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे गायत्रेण छन्दसाङ्गिरस्वत् पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन छन्दसाङ्गिरस्वत् ॥

11.10
अभ्रिर् असि नार्य् असि त्वया वयम् अग्निꣳ शकेम खनितुꣳ सधस्थ आ जागतेन छन्दसाङ्गिरस्वत् ॥

11.11
हस्त ऽ आधाय सविता बिभ्रद् अभ्रिꣳ हिरण्ययीम् ।
अग्नेर् ज्योतिर् निचाय्य पृथिव्या ऽ अध्य् आ भर ।
आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥

11.12
प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु सम्वतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इत् ॥

11.13
युञ्जाथाꣳ रासभं युवम् अस्मिन् यामे वृषण्वसू ।
अग्निं भरन्तम् अस्मयुम् ॥

11.14
योगे-योगे तवस्तरं वाजे-वाजे हवामहे ।
सखाय ऽ इन्द्रमूतये ॥

11.15
प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तो रुद्रस्य गाणपत्यं मयोभूर् एहि ।
उर्व् अन्तरिक्षं वीहि ।
स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥

11.16
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वद् आ भर ।
अग्निं पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।
ऽ अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ॥

11.17
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः ।
अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी ऽ आ ततन्थ ॥

11.18
आगत्य वाज्य् अध्वानꣳ सर्वा मृधो विधूनुते ।
अग्निꣳ सधस्थे महति चक्षुषा नि चिकीषते ॥

11.19
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् ।
भूम्या वृक्त्वाय नो ब्रूहि यतः खनेम तं वयम् ॥

11.20
द्यौस् ते पृष्ठं पृथिवी सधस्थम् आत्मान्तरिक्षꣳ समुद्रो योनिः ।
विख्याय चक्षुषा त्वम् अभि तिष्ठ पृतन्यतः ॥

11.21
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् ।
वयꣳ स्याम सुमतौ पृथिव्या ऽ अग्निं खनन्त ऽ उपस्थे ऽ अस्याः ॥

11.22
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाकः सु लोकꣳ सुकृतं पृथिव्याम् ।
ततः खनेम सुप्रतीकम् अग्निꣳ स्वो रुहाणा ऽ अधि नाकम् उत्तमम् ॥

11.23
आ त्वा जिघर्मि मनसा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नै रभसं दृशानम् ॥

11.24
आ विश्वतः प्रत्यञ्चं जिघर्म्य् अरक्षसा मनसा तज् जुषेत ।
मर्यश्री स्पृहयद्वर्णो ऽ अग्निर् नाभिमृशे तन्वा जर्भुराणः ॥

11.25
परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।
दधद् रत्नानि दाशुषे ॥

11.26
परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि ।
धृषद्वर्णं दिवे-दिवे हन्तारं भङ्गुरावताम् ॥

11.27
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥

11.28
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
पृथिव्याः सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामि ।
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यतम् ।
शिवं प्रजाभ्यो ऽहिꣳसन्तं पृथिव्या सधस्थाद् अग्निं पुरीष्यम् अङ्गिरस्वत् खनामः ॥

11.29
अपां पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् ।
वर्धमानो महाꣳ२ऽ आ च पुष्करे दिवो मात्रया वरिम्णा प्रथस्व ॥

11.30
शर्म च स्थो वर्म च स्थो ऽच्छिद्रे बहुले ऽ उभे ।
व्यचस्वती सं वसाथां भृतम् अग्निं पुरीष्यम् ॥

11.31
संवसाथा स्वर्विदा समीची ऽ उरसा त्मना ।
अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥

11.32
पुरीष्यो सि विश्वभरा ऽ अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने ।
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत ।
मूर्ध्नो विश्वस्य वाघतः ॥

11.33
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ऽ ईधे अथर्वणः ।
वृत्रहणं पुरंदरम् ॥

11.34
तम् उ त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
धनंजयꣳ रणे-रणे ॥

11.35
सीद होतः स्व ऽ उ लोके चिकित्वान् सादया यज्ञꣳ सुकृतस्य योनौ ।
देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥

11.36
नि होता होतृषदने विदानस् त्वेषो दीदिवाꣳ२ ऽ असदत् सुदक्षः ।
अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो ऽ अग्निः ॥

11.37
सꣳ सीदस्व महाꣳ२ ऽ असि शोचस्व देववीतमः ।
वि धूमम् ऽ अग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥

11.38
अपो देवीर् उपसृज मधुमतीर् अयक्ष्माय प्रजाभ्यः ।
तासाम् आस्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥

11.39
सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।
यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥

11.40
सुजातो ज्योतिषा सह शर्म वरूथम् आसदत् स्वः ।
वासो ऽ अग्ने विश्वरूपꣳ संव्ययस्व विभावसो ॥

11.41
उद् उ तिष्ठ स्वध्वरावा नो देव्या धिया ।
दृशे च भासा बृहता शुशुक्वनिर् आग्ने याहि सुशस्तिभिः ॥

11.42
ऊर्ध्व ऽ ऊ षु ण ऽ ऊतये तिष्ठा देवो न सविता ।
ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥

11.43
स जातो गर्भो ऽ असि रोदस्योर् अग्ने चारुर् विभृत ऽ ओषधीषु ।
चित्रः शिशुः परि तमास्य् अक्तून् प्र मातृभ्यो ऽ अधि कनिक्रदद् गाः ॥

11.44
स्थिरो भव वीड्व् अङ्ग ऽ आशुर् भव वाज्य् अर्वन् ।
पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहणः ॥

11.45
शिवो भव प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः ।
मा द्यावापृथिवी ऽ अभि शोचीर् मान्तरिक्षं मा वनस्पतीन् ॥

11.46
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा ।
भरन्न् अग्निं पुरीष्यं मा पाद्य् आयुषः पुरा ।
वृषाग्निं वृषणं भरन्न् अपां गर्भꣳ समुद्रियम् ।
अग्न ऽ आयाहि वीतये ॥

11.47
ऋतꣳ सत्यम् ऋतꣳ सत्यम् ।
अग्निं पुरीष्यम् अङ्गिरस्वद् भरामः ।
ओषधयः प्रति मोदध्वम् अग्निम् एतꣳ शिवम् आयन्तम् अभ्य् अत्र युष्माः ।
व्यस्यन् विश्वा ऽ अनिरा ऽ अमीवा निषीदन् नो ऽ अप दुर्मतिं जहि ॥

11.48
ओषधयः प्रति गृभ्णीत पुष्पवतीः सुपिप्पलाः ।
अयं वो गर्भ ऽ ऋत्वियः प्रत्नꣳ सधस्थम् आसदत् ॥

11.49
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो ऽ अमीवाः ।
सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहꣳ सुहवस्य प्रणीतौ ॥

11.50
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन ।
महे रणाय चक्षसे ॥

11.51
यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥

11.52
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥

11.53
मित्रः सꣳसृज्य पृथिवीं भूमिं च ज्योतिषा सह ।
सुजातं जातवेदसम् अयक्ष्माय त्वा सꣳ सृजामि प्रजाभ्यः ॥

11.54
रुद्राः सꣳसृज्य पृथिवीं बृहज् ज्योतिः सम् ईधिरे ।
तेषां भानुर् अजस्र ऽ इच् छुक्रो देवेषु रोचते ॥

11.55
सꣳसृष्टा वसुभी रुद्रैर् धीरैः कर्मण्यां मृदम् ।
हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु ताम् ॥

11.56
सिनीवाली सुकपर्दा सुकुरीरा स्वौपशा ।
सा तुभ्यम् अदिते मह्योखां दधातु हस्तयोः ॥

11.57
उखां कृणोतु शक्त्या बाहुभ्याम् अदितिर् धिया ।
माता पुत्रं यथोपस्थे साग्निं बिभर्तु गर्भ ऽ आ ।
मखस्य शिरोऽसि ॥

11.58
वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् ध्रुवासि पृथिव्यसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् ध्रुवास्य् अन्तरिक्षम् असि ।
धारया मयि प्रजाꣳ रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् ध्रुवासि द्यौर् असि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ।
विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वद् ध्रुवासि दिशोऽसि ।
धारया मयि प्रजा रायस्पोषं गौपत्यꣳ सुवीर्यꣳ सजातान् यजमानाय ॥

11.59
अदित्यै राम्नासि ।
अदितिष् टे बिलं गृभ्णातु ।
कृत्वाय सा महीम् उखां मृन्मयीं योनिम् अग्नये ।
पुत्रेभ्यः प्रायच्छद् अदितिः श्रपयान् इति ॥

11.60
वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ।
इन्द्रस् त्वा धूपयतु ।
वरुणस् त्वा धूपयतु ।
विष्णु त्वा धूपयतु ॥

11.61
अदितिष् ट्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् खनत्व् अवट ।
देवानाम् त्वा पत्नीर् देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् दधतूखे ।
धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वद् अभीन्धताम् उखे ।
वरूत्रीष् ट्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वच् छ्रपयन्तूखे ।
ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ।
जनयस् त्वाच्छिन्नपत्रा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽ अङ्गिरस्वत् पचन्तूखे ॥

11.62
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥

11.63
देवस् त्वा सवितोद्वपतु सुपाणिः स्वङ्गुरिः सुबाहुर् उत शक्त्या ।
अव्यथमाना पृथिव्याम् आशा दिश ऽ आ पृण ॥

11.64
उत्थाय बृहती भवोद् उ तिष्ठ ध्रुवा त्वम् ।
मित्रैतां तऽउखां परि ददाम्य् अभित्त्या ऽएषा मा भेदि ॥

11.65
वसवस् त्वा छृन्दन्तु गायत्रेण छन्दसाङ्गिरस्वत् ।
रुद्रास् त्वा छृन्दन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वत् ।
आदित्यास् त्वा छृन्दन्तु जागतेन छन्दसाङ्गिरस्वत् ।
विश्वे त्वा देवा वैश्वानरा ऽ आ छृन्दन्त्व् आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥

11.66
आकूतिम् अग्निं प्रयुजꣳ स्वाहा ।
मनो मेधाम् अग्निं प्रयुजꣳ स्वाहा ।
चित्तं विज्ञातम् अग्निं प्रयुजꣳ स्वाहा ।
वाचो विधृतिम् अग्निं प्रयुजꣳ स्वाहा ।
प्रजापतये मनवे स्वाहा ।
ऽ अग्नये वैश्वानराय स्वाहा ॥

11.67
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय ऽ इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा ॥

11.68
मा सु भित्था मा सु रिषो ऽम्ब धृष्णु वीरयस्व सु ।
अग्निश् चेदं करिष्यथः ॥

11.69
दृꣳहस्व देवि पृथिवि स्वस्तय ऽ आसुरी माया स्वधया कृतासि ।
जुष्टं देवेभ्य ऽ इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे ऽ अस्मिन् ॥

11.70
द्र्वन्न सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
सहसस् पुत्रो ऽ अद्भुतः ॥

11.71
परस्या ऽ अधि संवतो वराꣳ ऽ अभ्य् आतर ।
यत्राहम् अस्मि ताꣳ ऽ अव ॥

11.72
परमस्याः परावतो रोहिद् अश्व ऽ इहा गहि ।
पुरीष्यः पुरुप्रियोऽग्ने त्वं तरा मृधः ॥

11.73
यद् अग्ने कानि कानि चिद् आ ते दारूणि दध्मसि ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

11.74
यद् अत्त्य् उपजिह्विका यद् वम्रो ऽ अतिसर्पति ।
सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥

11.75
अहर्-अहर् अप्रयावं भरन्तोऽश्वायेव तिष्ठते घासम् अस्मै ।
रायस्पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥

11.76
नाभा पृथिव्याः समिधाने ऽ अग्नौ रायस्पोषाय बृहते हवामहे ।
इरंमदं बृहदुक्थ्यं यजत्रं जेतारम् अग्निं पृतनासु सासहिम् ॥

11.77
याः सेना ऽ अभीत्वरीर् आव्याधिनीर् उगणा ऽ उत ।
ये स्तेना ये च तस्करास् ताꣳस् ते ऽ अग्ने ऽपि दधाम्य् आस्ये ॥

11.78
दꣳष्ट्राभ्यां मलिम्लून् जम्भ्यैस् तस्कराꣳ ऽउत ।
हनुभ्याꣳ स्तेनान् भगवस् ताꣳस् त्वं खाद सुखादितान् ॥

11.79
ये जनेषु मलिम्लव स्तेनासस् तस्करा वने ।
ये कक्षेष्व् अघायवस् ताꣳस् ते दधामि जम्भयोः ॥

11.80
यो ऽ अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः ।
निन्दाद् यो ऽ अस्मान् धिप्साच् च सर्वं तं भस्मसा कुरु ॥

11.81
सꣳशितं मे ब्रह्म सꣳशितं वीर्यं बलम् ।
सꣳशितं क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥

11.82
उद् एषां बाहू ऽ अतिरम् उद् वर्चो ऽ अथो बलम् ।
क्षिणोमि ब्रह्मणामित्रान् उन् नयामि स्वाꣳ अहम् ॥

11.83
अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः ।
प्र-प्र दातारं तारिष ऽऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

भाष्यम्(उवट-महीधर)

एकादशोऽध्यायः।

तत्र प्रथमा
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्त्वाय॑ सवि॒ता धिय॑: । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑रत् ।। १ ।।
उ०. अष्टावध्याया अग्निसंबद्धास्तान्प्रजापतिर्ददर्श । साध्या वा ऋषयः प्रजापतेः प्राणभूताः । अथ पञ्चधा दर्शितः 'प्रजापतिः प्रथमां चितिमपश्यत् प्रजापतिरेव तस्या आर्षेयस् । देवा द्वितीयां चितिमपश्यन् त एव तस्या आर्षेयम् । इन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यन् त एव तस्या आर्षेयम् । ऋषयश्च चतुर्थीं चितिमपश्यन् ऋषय एव तस्या आर्षेयम् । परमेष्ठी पञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयमिति' । अथवा प्रतिकर्मदर्शी नः सवितैतानि सावित्राण्यपश्यदिति । युञ्जानः प्रथमं मनः । अष्टौ कण्डिकाः सवित्रा दृष्टाः सवितृदेवत्याः ताभिः संतताज्याहुतिर्हूयते । प्रथमाऽनुष्टुप् । अग्न्यारम्भे सविता युञ्जानः नियुञ्जानः प्रथम मनः ततोऽनन्तरम् तत्वाय । 'तनु विस्तारे' । क्त्वो यप् छान्दस उपजनः । तनित्वा विस्तार्य धियः बुद्धीः । मनसा पर्यालोच्य बुद्ध्याऽवधार्येत्यर्थः । अग्नेर्ज्योतिः अग्निसंबन्धि ज्योतिः । पञ्चसु पशुषु प्रविष्टं निचाय्य उपलभ्य । 'यथा वा अग्निः समिद्धो दीप्यते' इत्यादिना । ततः पशुरूपान्वितायाः पृथिव्या अध्याभरत् अध्याहृतवानग्निं इष्टकां कृत्वा चितवानग्निम् । श्रुतौ प्रजापतिः कर्तोपदिष्टः तदनुकृत्या इदानींतना यजमाना उपदिश्यन्ते प्रजापतिर्वै युञ्जान इति ॥ १॥
म० रमाकान्तं नमस्कृत्य गणेशं शारदां गुरुम् । संहितैकादशाध्याये मन्त्रदीपो वितन्यते ॥ एकादशमारभ्याष्टादशाध्यायपर्यन्तमग्निचयनमन्त्राः । तेषां प्रजापतिर्ऋषिः साध्या ऋषयो वा । सोऽग्निः पञ्चचितियुक्तः प्रथमचितिमन्त्राणां प्रजापतिर्ऋषिः द्वितीयचितेर्देवा ऋषयः तृतीयचितेरिन्द्राग्निविश्वकर्माण ऋषयः । चतुर्थचितेर्ऋषय एवर्षयः । पञ्चमचितिमन्त्राणां परमेष्ठी ऋषिः । तथा च श्रुतिः 'प्रजापतिः प्रथमां चितिमपश्यत् प्रजापतिरेव तस्या आर्षेयं देवा द्वितीयां चितिमपश्यन् देवा एव तस्या आर्षेयमिन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यंस्त एव तस्या आर्षेयमृषयश्चतुर्थीं चितिमपश्यन्नृषय एव तस्या आर्षेयं परमेष्ठी पञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयमिति' ( ६ । २ । ३ । १०)। चयनं कर्तुमिच्छन् फाल्गुनकृष्णप्रतिपदि पौर्णमासेष्टिं कृत्वा पुरुषाश्वगोऽव्यजानालभ्याजेन यागं कृत्वा पञ्चानां शिरांसि घृताक्तानि प्रथमचितावुपधानार्थं क्वचित्संस्थाप्य तेषां कबन्धान्यज्ञशेषं च मृद्युक्ते तडागादिजले प्रास्येत् । उखार्थमिष्टकार्थं च मृदं जलं च तत एवादेयम् । ततः फाल्गुनकृष्णाष्टम्यामुखासंभरणम् । तदर्थमाहवनीयदक्षिणाग्नी उद्धृत्याहवनीयात् प्राक् कृते चतुष्कोणे गर्ते ततस्तडागान्मृत्पिण्डमानीय भूसमं स्थापयेत् । पिण्डाहवनीयान्तराले सच्छिद्रां वल्मीकमृदं निदध्यात् ।आहवनीयाद्दक्षिणदेशेऽश्वगर्दभाजाः प्राङ्मुखाः प्रागपरा मुञ्जरसनाबद्धाः स्थाप्याः । आहवनीयोत्तरे वैण्व्युभयतस्तीक्ष्णा कल्माषी हिरण्मयी वाभ्रिः स्थाप्या। ततः कर्माह 'अष्टागृहीतं जुहोति सन्ततमुद्गृह्णन् युञ्जानः' ! ( का० १६ । २।७) इति । अस्यार्थः । गार्हपत्ये घृतं संस्कृत्य जुहूं स्रुवं च संमृज्य स्रुच्यष्टागृहीतमाज्यमाहवनीये परिस्तरणसमिदाधानपूर्वकं सन्ततमविच्छिन्नधारया स्रुचमूर्ध्वां कुर्वन्नध्वर्युर्जुहोति युञ्जान इत्याद्यष्टकण्डिकाभिः। सान्तत्यं चाष्टर्चान्ते स्वाहाकारपर्यन्तम् । आद्यानुष्टुप् तृतीयः सप्ताक्षरः । अष्टानां सविता ऋषिः देवोऽपि सविता । अथ मन्त्रार्थः । सविता सर्वस्य प्रेरकः प्रजापतिः अग्नेर्ज्योतिः चीयमानस्य वह्नेः सम्बन्धि तेजः निचाय्य पञ्चपशुषु प्रविष्टं निश्चित्योपलभ्य । यद्वा सफलानां कर्मणां साधनभूतं निश्चित्य । पृथिव्याः पशुशरीरान्विताया भूमेः सकाशादध्याभरत् अध्याहृतवान् । इष्टकाः कृत्वाग्निं चितवानित्यर्थः । सवितृशब्देन श्रुतौ प्रजापतिरुक्तः 'प्रजापतिर्वै युञ्जानः' (६।३।१।१२) इति श्रुतेः। किंभूतः । प्रथममग्न्यारम्भे मनो युञ्जानः समादधानः युङ्क्तेऽसौ युञ्जानः । किं कृत्वा । धियो बुद्धीरिष्टकादिविषयाणि ज्ञानानि तत्वाय तनित्वा। निस्तार्य मनसा पर्यालोच्य बुद्ध्यावधार्येत्यर्थः। 'तनु विस्तारे' 'समानकर्तृकयोः पूर्वकाले' ( पा० ६ । ४ । २१) इति क्त्वाप्रत्ययः । अनित्यमागमशासनमितीडागमाभावः । | 'अनुदात्तोपदेश-' (पा० ६ । ४ । ३७) इत्यादिना नलोपः 'क्त्वो यक्' (पा० ७।१। ४७) इति क्त्वाप्रत्ययान्तस्य यगागमः ॥१॥

द्वितीया।
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्ग्या॒य॒ शक्त्या॑ ।। २ ।।
उ० युक्तेन मनसा । गायत्री । युक्तेन एकाग्रेण मनसा वयं देवस्य सवितुः सवे प्रसवे वर्तमानाः स्वर्ग्याय स्वर्गसाधनाय कर्मणे । शक्त्या यथाशक्त्या प्रयत्नं कुर्म इति शेषः ॥ २॥
म०. गायत्री । तृतीयः पादः पञ्चार्णस्तेन शङ्कुमती । तदुक्तं पिङ्गलेन ‘एकस्मिन् पञ्चके छन्दः शङ्कुमती' इति । सवितुर्देवस्य प्रजापतेः सवे प्रसवे आज्ञायां वर्तमाना वयं यजमाना युक्तेनेन्द्रियेभ्यो नियमितेनैकाग्रेण मनसा स्वर्ग्याय स्वर्गसाधकाय कर्मणे शक्त्या स्वसामर्थ्येन प्रयत्नं कुर्म इति शेषः ॥ २ ॥

तृतीया ।
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म् । बृ॒हज्ज्योति॑: करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ।। ३ ।।
उ० युक्त्वाय अनुष्टुप् । सविता प्रसुवाति तानिति तदोदर्शनादिह यद्योगः कर्तव्यः । नित्यसंबन्धौ हि यत्तदौ । युक्त्वाय । यकार उपजनोऽनन्तरवचनः । युक्त्वाय सविता यत् देवान् अग्निकर्मणि अन्येन कर्मणा स्वर्यतः स्वर्लोकं गच्छतः धिया बुद्ध्या कर्मणा वा दिवं द्योतनं स्वर्गम् । बृहत् महत् ज्योतिरादित्यलक्षणम् । आत्मत्वेन करिष्यतः संस्कुर्वतः । सविता प्रसुवाति प्रसौति अभ्यनुजानाति । तानेव देवान् ॥३॥
म० अनुष्टुप् द्वितीयः सप्तार्णस्तेनैकोना । सविता तान् प्रसिद्धान् देवान् प्रसुवाति । 'षू प्रेरणे' तुदादिः 'लेटोऽडाटौ' इत्यडागमः । प्रसौति अभ्यनुजानाति प्रेरयतीत्यर्थः । किं कृत्वा । युक्त्वाय युक्त्वा क्त्वो यक् अग्निकर्मणि संयोज्य । किंभूतान्देवान् धिया बुद्ध्या कर्मणा वा अन्येन दिवं दीव्यति प्रकाशत इति दिवम् ‘इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः। द्योतनं स्वः स्वर्गं यतो गच्छतः । इणः शत्रन्तस्य यत इति रूपम् । पुनः कीदृशान् । बृहत् महत् ज्योतिः आदित्यलक्षणमात्मत्वेन करिष्यतः संस्कुर्वतः । कीदृशः सविता । सविता प्रेरयिता अन्येन कर्मणा स्वर्गं गच्छतो देवानग्निकर्मणि सविता प्रेरयिता सविता प्रजापतिः तान्देवानिन्द्रियविशेषान्युक्त्वा विषयेभ्यो नियम्य प्रसुवाति प्रकर्षेणाग्निकर्मणि प्रेरयति । कीदृशान् । स्वर्यतः स्वर्गप्राप्त्यै उद्यतान् । तथा बृहत् प्रौढं ज्योतिः चीयमानस्याग्नेस्तेजः धिया दिवं करिष्यतः तत्तदिष्टकादिविषयया प्रज्ञया द्योतमानं कर्तुमुद्यतान् ॥ ३ ॥

चतुर्थी ।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।। ४ ।।
उ० युञ्जते मन इत्यादि व्याख्यातम् । इयांस्तु विशेषः । प्रजापतिर्विप्रः बृहद्विपश्चिदित्युच्यते । देवा विप्राः ॥ ४ ॥
म० जगती व्याख्यातापि ( पूर्वं अ० ५ क० ४ ) विशेषतो व्याख्यायते । विप्रस्य ब्राह्मणस्य यजमानस्य विशेषेण प्राति पूरयति दक्षिणान्नदानादिनेति विप्रस्तस्य संबन्धिनो विप्रा ऋत्विजो मनो युञ्जते प्रथमं स्वकीयं मनो विषयेभ्यो निवर्त्य समाहितं कुर्वते । उत अपिच । धिय इष्टकादिविषयाणि ज्ञानानि युञ्जते संपादयन्ति । कीदृशस्य विप्रस्य । बृहतः प्रभोः अग्निचयनोद्योगेनाभिवृद्धस्य । तथा विपश्चितः विदुषः प्रयोगाभिज्ञस्य । विप्राः कीदृशाः । होत्राः होमशीलाः जुह्वतीति होत्राः त्रप्रत्ययः कर्मण्यालस्यरहिता इत्यर्थः । नन्विदमृत्विग्यजमानादिकं कुतो जातं तत्राह । एक एव सविता विदधे सर्वमिदं निर्मितवान् । कीदृशः वयुनावित् वयुनानि प्रज्ञानानि वेत्तीति वयुनावित् 'अन्येषामपि दृश्यते' (पा० ६।३ । १३७ ) इति दीर्घः विपश्चित् ऋत्विग्यजमानाभिप्रायज्ञः । कथमेक एव सर्वमिदं कृतवानित्यत आह । यतः सवितुर्देवस्य परिष्टुतिर्मही परितः सर्ववेदेषु श्रूयमाणा स्तुतिर्महती । अचिन्त्यः सवितुर्महिमेत्यर्थः ॥ ४ ॥

पञ्चमी।
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॒व सू॒रेः ।
शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ।। ५ ।।
उ० युजे वाम् । त्रिष्टुप् । दम्पतीयजमानौ वामित्यनेन पदेनोच्यते । युजे युनज्मि । वां युवाभ्यामर्थाय । ब्रह्म पूर्व्यं नमोभिः । प्राणाः सप्त ऋषयो ब्रह्मणा ब्रह्मशब्देनोच्यन्ते । पूर्व्यशब्देन च । नमोभिरन्नैः सहितम् । इयमेवाहुतिरन्नशब्देनोच्यते । किं प्रयोजनमिति चेत् । विश्लोक एतु पथ्येव सूरेः विविधमेतु आगच्छतु श्लोकः कीर्तिः सूरेः पण्डितस्य यजमानस्य । कथमिव । पथ्येव पथः अनपेता पथ्या । यज्ञमार्गप्रवृत्ताहुतिरुभयलोकसंचारिणी भवति एवं यजमानस्योभयलोकसंचारी श्लोको भवत्वित्यभिप्रायः । शृण्वन्तु च विश्वे सर्वे । अमृतस्य अमरणधर्मिणः प्रजापतेः पुत्रा देवाः कीर्तिम् । आ ये धामानि दिव्यानि तस्थुः । आतस्थुः आस्थिताः ये देवाः धामानि स्थानानि दिव्यानि ॥ ५॥
म० त्रिष्टुप् आद्यद्वितीयतुर्याणां व्यूहेन पूरणम् । पत्नीयजमानौ वामिति पदेनोच्यते । हे पत्नीयजमानौ, वां युवयोरर्थे नमोभिरन्नैः इदानीं हुतैघृतैः सहितं पूर्व्यं पुरातनैर्महर्षिभिरनुष्ठितं ब्रह्म परिवृढमग्निचयनाख्यं कर्माहं युजे युनज्मि संपादयामि । व्यत्ययेन तुदादित्वाच्छः । यद्वा ब्रह्मशब्देन प्राणाः सप्त ऋषयो ब्राह्मणाश्चोच्यन्ते । वामर्थे पूर्व्यं पुरातनं ब्रह्म ब्राह्मणजातिं नमोभिरन्नैर्युजे योजयामि । अन्नैर्विप्रांस्तर्पयामीत्यर्थः । किमर्थमिति चेत् सूरेः पण्डितस्य यजमानस्य श्लोकः कीर्तिर्व्येतु विविधं गच्छतु लोकद्वयं व्याप्नोतु । 'व्यवहिताश्च' (पा० १ । ४ । ८२) इति वि एतु अनयोर्व्यवधानम् । तत्र दृष्टान्तः । पथ्या इव पथोऽनपेता पथ्या यज्ञभागप्रवृत्ता आहुतिर्यथा लोकद्वयं व्याप्नोति एवं यजमानस्य श्लोकं उभयलोकसंचारी भवत्विति भावः । किंच अमृतस्य मरणधर्मरहितस्य प्रजापतेः पुत्रा विश्वे सर्वे देवा यजमानस्य श्लोकं शृण्वन्तु । के । ये दिव्यानि दिवि भवानि स्थानानि आतस्थुः अधिष्ठितवन्तः ते सर्वेऽस्य कीर्तिं शृण्वन्वित्यर्थः ॥५॥

षष्ठी।
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजा॑ᳪं᳭सि दे॒वः स॑वि॒ता म॑हित्व॒ना ।। ६ ।।
उ० यस्य प्रयाणम् । जगती । सवितैव प्रजापतिरत्राभिप्रेयते । व्यवहितपदप्रायमिदं मन्त्रवाक्यम् । यस्य देवस्य प्रयाणं अनु प्रगमनमनु अन्ये देवा ययुः जग्मुः । इच्छब्दोऽनर्थकः । महिमानमोजसा। महिमानं महाभाग्यं विभूतिम् । ओजसा बलेन ययुर्देवाः । यश्च सविता देवः पार्थिवानि रजांसि विममे । 'लोका रजांस्युच्यन्ते' । पृथिवीप्रभृतीन् लोकान्मिमीते महित्वना स्वकीयेन महाभाग्येन । स एतशः एतज्जगत्स्थावरजङ्गमं प्राणभावेन शेत इति सविता एतश इत्युच्यते । यद्वा एतश इत्यश्वनामसु पठितम् । सोऽश्वरूपेण समस्तमेतज्जगदवष्टभ्य स्थितः । तदुक्तम् 'उषा वा अश्वस्य मेध्यस्य शिरः' इत्यादिना 'सूरादश्वं वसवो निरतष्ट' इति च ॥ ६ ॥
म०. सावित्री जगती प्रथमस्य व्यूहेन पूरणम् । अन्ये देवा यस्य सवितुः प्रयाणं प्रवृत्तिमनुययुरित् अवश्यमनुगच्छन्त्येव । यत्प्रवृत्तिमनुवर्तन्त इत्यर्थः । अन्ये देवा यस्य देवस्य महिमानं महत्त्वं च ओजसा बलेनानुययुः। यश्च सविता पार्थिवानि रजांसि विममे पृथिवीप्रभृतींस्त्रींल्लोकान्मिमीते । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कः । स देवः महित्वना स्वकीयेन महाभाग्येन एतशः एतज्जगत्त्रयं स्थावरजङ्गमं प्राणभावेन शेते व्याप्नोतीत्येतशः महेर्महतो भावो महित्वं तेन । भावे छान्दसस्त्वन्प्रत्ययः । यद्वा एतश इत्यश्वनामसु पठितम् । स देव एतशः अश्वरूपेण सर्वं जगदवष्टभ्य स्थितः । 'उषा वा अश्वस्य मेध्यस्य शिरः' (१० । ६ । ४ । १) इति श्रुतेः 'सूरादश्वं वसवो निरतष्टे' ति वक्ष्यमाणत्वाच्च ( अ० २९ का. १३ ॥ ६ ॥

सप्तमी।
देव॑ सवित॒: प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ।। ७ ।।
उ० देवसवितरिति व्याख्यातम् । इयांस्तु विशेषः । वाचस्पतिर्वाचं नः स्वदतु इति । 'वाचा वा इदं कर्म प्राणो वाचस्पतिः' इति ॥ ७ ॥
म० त्रिष्टुप् । व्याख्यातापि (अ० ९ का० १) कथ्यते । हे देव सवितः, यज्ञं प्रसुव प्रकर्षेण प्रेरय यज्ञपतिं यजमानं च भगाय सौभाग्याय प्रसुव । किंच दिव्यो दिवि भवः स्वर्गस्थः केतपूः केतं परचित्ते वर्तमानं ज्ञानं पुनाति शोधयतीति केतपूः ईदृशो गन्धर्वः गां वाचं धारयतीति गन्धर्वः सविता नोऽस्माकं केतं चित्तवर्ति ज्ञानं पुनातु ब्रह्मविवर्तनेन शोधयतु । वाचः वाण्याः पतिः सविता नोऽस्मदीयां वाचं स्वदतु स्वादयतु। | अस्मदुक्ता वाक्तस्मै रोचतामित्यर्थः ॥ ७ ॥

अष्टमी।
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्य॒ᳪं᳭ सखि॒विद॑ᳪं᳭ सत्रा॒जितं॑ धन॒जित॑ᳪं᳭ स्व॒र्जित॑म् ।
ऋ॒चा स्तोम॒ᳪं᳭ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद्गा॑य॒त्रव॑र्तनि॒ स्वाहा॑ ।। ८ ।।
उ० इमं नो देव । आ अवसानाद्यजुः । इमं यज्ञं नोस्माकं हे देव सवितः, प्रणय प्रापय । कथंभूतं यज्ञम् । देवाव्यम् देवा यस्मिन्नव्यन्ते तर्प्यन्ते स देवाव्यः । सखिविदम् सखायो यस्य विद्यन्ते स सखिवित्, सखीन्वा यो विन्दते स सखिवित् तं सखिविदम् । सत्राजितम् । सत्राशब्दः सत्यवचनः। सत्यं ब्रह्म यो जयति स सत्राजित् तं सत्राजितम् । धनं यो गवादि जयतीति धनजित् तं धनजितम् । स्वर्गलोकं यो जयति स स्वर्जित् तं स्वर्जितं । ऋचा स्तोमम् गायत्र्यनवसानया ऋचा ऋग्वेदेन सह स्तोमं त्रिवृदादि समर्धय । गायत्रेण साम्ना सह रथन्तरं समर्धय । बृहत् महत् । कथंभूतं महत् । गायत्रवर्तनि गायत्रं यस्य बृहतो वर्तनि वर्त्मभूतम् ॥ ८॥
म० अवसानपर्यन्तं यजुः तस्य प्राजापत्या जगती छन्दः । हे सवितर्देव, नोऽस्माकमिमं यज्ञं प्रणय प्रापय । कीदृशं । यज्ञम् । देवाव्यं देवा अव्यन्ते तर्प्यन्ते यस्मिन्नसौ देवावीः तम् । 'अव प्रीणनादौ' अस्मादौणादिक ईप्रत्ययः । तथा सखिविदं सखायं स्वनिष्पादकं यजमानं वेत्तीति तम् । 'विद ज्ञाने' | सखीनृत्विजो विन्दते प्राप्नोतीति वा सखिवित्तम् 'विद्लृ लाभे' सखायो विद्यन्ते यस्मिन्निति वा 'विद सत्तायाम्'। सत्राजितं सत्राणि द्वादशाहादीनि जयति वशीकरोतीति सत्रजित्तम् तानि हि चीयमानमग्निमपेक्षन्ते । यद्वा सत्राशब्दः सत्यवाची। सत्रा सत्यं ब्रह्म जयतीति । धनजितं धनं गवादि फलरूपेण यो जयति संपादयतीति धनजित् । स्वर्जितं स्वः स्वर्गं जयति फलत्वेन संपादयतीति स स्वर्जित्तम् । किंच ऋचा स्तोमम् गायत्री अवसानरहिता यजुरन्ता स्वाहेति यजुः । हे सवितः, ऋचा स्तोत्रहेतुसामाधारभूतया ऋचा सह स्तोमं त्रिवृदादिकं समर्धय समृद्धं कुरु । गायत्रेण साम्ना सह रथन्तरं साम समर्धय बृहत् साम च समर्धय । कीदृशं बृहत् । गायत्रवर्तनि गायत्रं सामैव वर्तनिर्मार्गो यस्य तत् । बृहत्साम्नो गायत्रं साम वर्त्मभूतमित्यर्थः ॥ ८ ॥

नवमी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत्पृ॑थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत् ।। ९ ।।
उ०. अभ्रिमादत्ते देवस्य त्वा । व्याख्यातम् । आददे गृह्णामि अहं गायत्रेण छन्दसा । अङ्गिरस्वत् अङ्गिरसा तुल्यमङ्गिरोवदिति प्राप्ते 'अयस्मयादीनि छन्दसि' इति भसंज्ञा । श्रुतौ तु अग्निवदिति व्याख्यातम् । अभ्रिरुच्यते । त्वं च गृहीता सती पृथिव्याः सधस्थात्समानस्थानात्। अग्निं पुरीष्यं पशव्यम् । अङ्गिरस्वदाभर अङ्गिरसा तुल्यम् अग्निवद्वा आभर । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । आहर त्रैष्टुभेन छन्दसा अङ्गिरस्वत् ॥ ९॥
म०. 'देवस्य त्वेत्यभ्रिमादाय हस्त अधायेत्येनामभिमन्त्रयते' (का० १६ । २।८)। अस्यार्थः । देवस्य त्वेति कण्डिकाद्वयात्मकमन्त्रेण वैणवीमभ्रिमादाय हस्त आधायेति ऋचा (क. ११) एनामभ्रिमभिमन्त्रयते । देवस्य त्वा प्रजापतिः साध्या वा ऋषयः सावित्रं यजुः । व्याख्यातम् । आददे अभ्रिर्देवता अतिधृतिश्छन्दः । हे अभ्रे, सवितुर्देवस्य प्रसवे प्रेरणे सति अश्विनोः संबन्धिभ्यां मणिबन्धपर्यन्ताभ्यां बाहुभ्यां पूष्णः संबन्धिभ्यां साङ्गुलिभ्यां हस्ताभ्यां साधनभूताभ्यां गायत्रेण छन्दसा सहायभूतेन युक्तः सन् त्वा त्वामाददे गृह्णामि । तत्र दृष्टान्तः । अङ्गिरस्वत् अङ्गिरोभिस्तुल्यमङ्गिरोवदिति प्राप्ते 'अयस्मयादीनि छन्दसि' (पा० १। ४ । २०) इति भसंज्ञायामङ्गिरस्वदिति रुत्वाभावः । आङ्गिरस ऋषयः पूर्वं यथा त्वामगृह्णन् तद्वत् । हे अभ्रे, त्वं गृहीता सती पृथिव्याः सधस्थात् सहस्थानादुत्सङ्गात् अग्निमाभर आहर 'हृग्रहोर्भश्छन्दसि' (पा० ८ । २ । ३२ वा० १) इति हस्य भः । त्रैष्टुभेन छन्दसा कृत्वा अङ्गिरस्वत् अङ्गिरसो यथाग्निमाजह्रुः पुनरङ्गिरस्वदिति दृष्टान्तार्थातिशयार्थः ‘अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १० । ४२) इति यास्कोक्तेः । किंभूतमग्निम् । पुरीष्यं 'पशवो वै पुरीषम्' (६ । ३ । १ । ३८) इति श्रुतेः पुरीषेभ्यः पशुभ्यो हितः पुरीष्यस्तं पशव्यम् । यद्वा पुरीषशब्देन पांशुरूपा शुष्का मृदुच्यते तदर्हतीति पुरीष्योऽग्निः मृदमादायोखां कृत्वा तस्यामग्निः स्थाप्यते यतोऽतो मृदग्न्योरभेदोपचारेण मृदाहरणमेवाग्यादरहरणमित्यभिप्रायेण पुरीष्यमग्निमाहरेत्युच्यते । अयं चोपचारोऽग्निचयनप्रकरणे सर्वत्रानुवर्तिष्यते ॥ ९ ॥

दशमी।
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्निᳪं᳭ श॑केम॒ खनि॑तुᳪं᳭ स॒धस्थ॒ आ । जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वत् ।।१० ।।
उ० अभ्रिरसि । नारी स्त्री त्वमसि । किंच त्वया वयम् अग्निं शकेम । खनितुं सधस्थे आ । समानस्थानेषु वर्तमानं पृथिव्याः । आकारोऽनर्थकः । जागतेन छन्दसा अङ्गिरस्वत् ॥ १०॥
म० त्वमभ्रिरसि उखां निर्मातुं मृत्खननहेतुभूतकाष्ठविशेषोऽसि । नारी असि स्त्रीरूपा चासि । यद्वा न विद्यते अरिः शत्रुर्यस्याः सा नारी । ईष् छान्दसः । खननकाले अश्मादिना तव कुण्ठीभावो नास्तीत्यर्थः । किंच त्वया युक्ता वयं सधस्थे पृथिव्या उत्सङ्गे वर्तमानमग्निं जागतेन छन्दसा खनितुं शकेम शक्ता भवेम । शक्नोतेर्व्यत्ययेन शप् । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् ॥ १० ॥

एकादशी।
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ᳪं᳭ हिर॒ण्ययी॑म् । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ।। ११ ।।
उ० अभ्रिमभिमन्त्रयते । हस्त आधाय । अनुष्टुप् यजुरन्ता । आनुष्टुभेनेत्यादि यजुः । हस्ते अभ्रिमाधाय सविता ततस्तामेवाभ्रिं बिभ्रत् धारयन् । हिरण्ययीममृतमयीं छन्दोमयीं वा । अग्नेर्ज्योतिर्निचाय्य निभाल्य दृष्ट्वा । ततः पृथिव्या अपि सकाशात् आभरत् आहृतवान् आनुष्टुभेन छन्दसाङ्गिरस्वत् ॥ ११ ॥
म० अनुष्टब्यजुरन्ता । आनुष्टुभेनेत्यादि यजुस्तस्य यजुषस्त्रिष्टुप्छन्दः । तृतीयचतुर्थपादयोर्व्यूहेन पूर्तिः । अभ्रिदेवत्या । सविता प्रेरकः प्रजापतिर्हस्ते हिरण्ययीं स्वर्णरूपामभ्रिमाधाय स्थापयित्वा बिभ्रत् तामेव धारयन्सन् अग्नेः संबन्धि ज्योतिर्निचाय्य निश्चित्य दृष्ट्वा पृथिव्याअधि भूमेः सकाशात् आनुष्टुभेन छन्दसा आभरत् आहृतवान् । अङ्गिरस्वदिति पूर्ववत्॥११॥

द्वादशी
प्रतू॑र्तं वाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभि॑: पृथि॒व्यामधि॒ योनि॒रित् ।। १२ ।।
उ० अश्वगर्दभाजानभिमन्त्रयते यथासंख्यम् । प्रतूर्तं वाजिन्निति तिसृभिर्ऋग्भिः तिस्र एत एवाश्वादयो देवताः । आद्या आस्तारपङ्क्तिः । हे वाजिन् , प्रतूर्तम् त्वरतेरेवैतद्रूपम् । प्रकर्षेण तूर्तं तूर्णम् आद्रव आगच्छ । वरिष्ठामनुसंवतम् । वरिष्ठामुत्तमां संवतमनु । संपूर्वस्य वनोतेः क्विपि एतद्रूपम् । संभजनमुच्यते । क्षिप्रतमं वाजिन्नागच्छ उत्कृष्टं संभजनमन्वित्यभिप्रायः। तदुत्कृष्टं समजनमधुना दर्शयितुमाह । दिवि द्युलोके ते तव आदित्यरूपेण जन्म भविष्यति । आगतस्य सतः परमुत्कृष्टम् । किंच अन्तरिक्षे तव नाभिः उदरम् । पृथिव्याम् अधि उपरि योनिः स्थानं पादावित्यर्थः । उदिति पादपूरणे । विराड्रूपेणाश्वः स्तूयते । तदुक्तम् 'उषा वा अश्वस्य मेध्यस्य शिरः' इति ॥ १२॥
म० 'अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्तं युञ्जाथां योगे योग इति' (का० १६ । २ । १०)। ऋक्त्रयेण प्रत्यृचमश्वगर्दभाजानभिमन्त्रयतेऽभ्रिहस्त उपविष्ट एव । अश्वदेवत्या आस्तारपङ्क्तिः नाभानेदिष्ठदृष्टा । यस्या अन्त्यौ द्वादशकावाद्यावष्टकौ सास्तारपङ्क्तिः । 'वन संभक्तौ' संवन्यते सम्यग्भज्यते मृद्गृहणार्थ सेव्यत इति संवत् । संपूर्वस्य वनतेः क्विप्येतद्रूपम् । मृत्खननयोग्या भूमिः संवत् । सा च पाषाणाद्यभावेनातिप्रशस्तत्वाद्वरिष्ठेत्युच्यते । हे वाजिन् शीघ्रगामिन्नश्व, वरिष्ठामुत्कृष्टां संवतं भूमिमनुलक्ष्य प्रतूर्तं शीघ्रमाद्रव आगच्छ । 'नसत्तनिषत्त-' (पा० ८।२।६१) इत्यादिना क्तान्तो निपातस्वरतेः । ते तवाश्वस्य दिवि द्युलोके परममुत्कृष्टं जन्मादित्यरूपेण भविष्यति आगतस्य सतः । यद्वा ते जन्म दिवि रोहितादिदेवाश्वरूपेण प्रसिद्धम् । अन्तरिक्षे तव नाभिः उदरम् । यद्वा नियुन्नामकवाय्वश्वा अन्तरिक्षे संचरन्ति तद्रूपेणास्यान्तरिक्षवर्तित्वम् । नाभिशब्देन प्रकृष्टं शरीरमुपलक्ष्यते । पृथिव्या अधि उपरि तव योनिः स्थानमित् एव पादावेवेत्यर्थः । भूमौ ते निवासस्थानं प्रत्यक्षं दृश्यते । विराड्रूपेणाश्वः स्तूयते । एवंमहिमा त्वं शीघ्रमागच्छेत्यर्थः ॥ १२॥

त्रयोदशी।
यु॒ञ्जाथा॒ᳪं᳭ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम् ।। १३ ।।
उ० रासभमभिमन्त्रयते । युञ्जाथाम् गायत्री । अध्वर्युयजमानावुच्येते । युञ्जाथां रासभं गर्धभम् युवम् युवाम् अस्मिन्यामे अस्मिन्कर्मणि । वृषा सेक्ता गर्दभः स ययोर्वसु धनं तौ वृषण्वसू तयोः संबोधनं हे वृषण्वसू । कथंभूतं रासभम् । अग्निं भरन्तम् अग्निं संहरन्तम् । अस्मयुम् अस्मान्कामयमानम् । अस्मत्प्रेषितमिति श्रुतिः । युञ्जाथामिति संबन्धः ॥ १३॥
म० गर्दभदेवत्या गायत्री कुश्रिदृष्टा । गर्दभं मन्त्रयते । अध्वर्युयजमानावुच्येते । वृषा सेक्ता, गर्दभो वसु धनं ययोस्तौ वृषण्वसू । वर्षतीति वृषा 'कनिन्यु-' (उण०१।१५५) इत्यादिना वर्षतेरौणादिकः कनिन्प्रत्ययः । यद्वा यागनिष्पादनद्वारा वृषं फलाभिवर्षुकं वसु धनं ययोस्तौ । नलोपाभाव आर्षः । तयोः संबोधनं हे वृषण्वसू अध्वर्युयजमानौ यजमानदम्पती वा । युवं युवां रासभं गर्दभं युञ्जाथां बध्नीतम् । युजेर्लोष्टि आत्मनेपदे मध्यमद्विवचनं युञ्जाथामिति । क्व । अस्मिन् यागे अस्मिन्नग्निकर्मणि । यद्वा यामो मृद्वहनरूपो नियमविशेषस्तस्मिन्निमित्तभूते सति । कीदृशं रासभम् । अग्निं भरन्तं वोढुं समर्थमित्यर्थः । तथा अस्मयुमस्मान्कामयमानमस्मद्धितैषिणमित्यर्थः । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कः । अस्मानिच्छतीत्यस्मयुः । 'सुप आत्मनः क्यच्' (पा. ३ । १। ८) इति क्यच्प्रत्ययः । अस्मदष्टेरत्वं छान्दसम् 'क्याच्छन्दसि' (पा० ३।२।१७०) इति उप्रत्ययः ॥१३॥

चतुर्दशी।
योगे॑-योगे त॒वस्त॑रं॒ वाजे॑-वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ।। १४ ।।
उ०. अजमभिमन्त्रयते । योगेयोगे । गायत्री । योगेयोगे तवस्तरम् । तव इति बलनाम कर्मणिकर्मणि बलिनमुत्साहवन्तमेतमजम् । वाजेवाजे हवामहे । अन्नेअन्ने दातव्ये देवानां मनुष्याणां चाह्वयामः । हे सखायः ऋत्विग्यजमानाः । इन्द्रम् इन्द्रियवन्तं वीर्यवन्तम् । ऊतये अवनाय । आह्वयाम इति संबन्धः ॥ १४ ॥
म० अजदेवत्या गायत्री शुनःशेपदृष्टा । अजं मन्त्रयते । सखायः परस्परसख्यं प्राप्ता ऋत्विग्यजमानाः, वयमिन्द्रमिन्द्रियवन्तं वीर्यवन्तमिन्द्रियप्रदं वा अजमूतये अवनाय रक्षणाय हवामहे आह्वयामः । ह्वः शपि संप्रसारणम् । क्व सति । वाजेवाजे तत्तदन्ने मनुष्याणां देवानां च दातव्ये सति तत्तदन्नप्राप्तिनिमित्तं वा । किंभूतमजम् । योगेयोगे तवस्तरं युज्यतेऽनुष्ठीयत इति योगः कर्म तस्मिन् । तत्तत्कर्मणि तवस्तरं बलवत्तरमुत्साहवन्तम् । तव इति बलनाम । तवो बलमस्यास्तीति तवस्वि 'अस्माया-' (पा० ५। २ । १२१) इत्यादिना विन् । अत्यन्तं तवस्वि तवस्तरस्तम् । अतिशये तरप् ‘विन्मतोर्लुक्' (पा० ५। ३ । ६५) इति तरपि विनो लुक् ॥ १४ ॥

पञ्चदशी।
प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑ । उ॒र्वन्तरि॑क्षं॒ वी॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह ।। १५ ।।
उ० अश्वरासभावुत्रा्तमयति । प्रतूर्वन्नेहि । विराड्रूपा यजुर्गर्भा । उर्वन्तरिक्षं वीहीति यजुः । अर्धर्चेनाश्वः स्तूयते । प्रतूर्वन् प्रत्वरमाण एहि आगच्छ । अवक्रामन् अशस्तीः पादैरवष्टभ्य अशस्तीः। पाप्मनो दुष्टान् अगमने को गुण इति चेत् । रुद्रस्य भगवतो गाणपत्यम् गणपतित्वं लप्स्यस इति शेषः । अतो मयोभूः सुखस्य भावयिता भूत्वा एहि । रासभमुत्क्रामयति । उर्वन्तरिक्षं वीहि । उरु विस्तीर्णमन्तरिक्षं रक्षोभिरनाकुलितं वि इहि विविधमागच्छ । स्वस्तिगव्यूतिः स्वस्तीत्यविनाशनाम । गव्यूतिर्मार्गः भयवर्जितः । प्रभूतयवसोदकमार्गः सन् त्वम् अभयानि कृण्वन् कुर्वन् ऋत्विग्यजमानानाम् । पूष्णा पृथिव्या सयुजा समानयोगिन्या सह । सहेति 'नैकोऽध्वानं प्रपद्येत' इत्येतद्दर्शयति ॥ १५ ॥
म० 'अनुपस्पृशन्नुत्क्रामयत्येनान् प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति' (का० १६ । २ । ११)। स्पर्शमकुर्वन्नश्वादीन्भयं दर्शयन्प्राचो गमयति । विराड्रूपा त्रिष्टुप् यजुर्मध्या । उर्वन्तरिक्षं वीहीत्येतावद्यजुः । त्रय एकादशाक्षराश्चतुर्थोऽष्टाक्षरः पादो यस्याः सा विराड्रूपा । अत्र द्वितीयो द्वादशार्णस्तेनैकाधिका । ऋचो मध्ये यजुः । अस्याः पूर्वार्धस्याश्वो देवता । हे अश्व, त्वमेहि आगच्छ । किं कुर्वन् । प्रतूर्वन् तूर्वतिर्वधकर्मा । शत्रून् हिंसन् । अशस्तीः भ्रातृव्यैः क्रियमाणा अपकीर्तीरवक्रामन् पादैरवष्टम्भयन्निवारयन्नित्यर्थः । आगमने को गुण इति चेत् । मयोभूः मयः सुखं भावयतीति मयोभूः अस्माकं सुखं भावयन् सन् रुद्रस्य क्रूरदेवस्य गणवतो गाणपत्यं गणपतित्वमेहि आ समन्तात् प्राप्नुहि । अत्रागमने गणपतित्वं लप्स्यस इति भावः । उर्वन्तरिक्षम् यजुःसहितोत्तरार्धस्य रासभोत्क्रमणे विनियोगः । हे गर्दभ, अभयानि कृण्वन् ऋत्विग्यजमानानां व्याघ्रादिभ्यो भयपरिहारं कुर्वन् सयुजा समानयोगिन्या पूष्णा पृथिव्या सह उरु विस्तीर्णमन्तरिक्षं वीहि विशेषेण प्राप्नुहि । 'इयं वै पृथिवी पूषा' (६ । ३ । २ । ८) इति श्रुतेः । सह युङ्क्ते सा सयुक् तया । किंभूतस्त्वम् । स्वस्तिगव्यूतिः । स्वस्तीत्यविनाशनाम । स्वस्ति विनाशरहितो गव्यूतिर्मार्गो यस्य । भयवर्जितप्रभूतयवसोदकमार्गः सन्नागच्छेत्यर्थः । 'नैकोऽध्वानं प्रपद्येत' इति न्यायात्पूष्णा सहेत्युक्तिः ॥१५॥

षोडशी
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदा भ॑रा॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वदच्छे॑मो॒ ऽग्निं पु॑री॒ष्य॒मङ्गिर॒स्वद्भ॑रिष्यामः ।। १६ ।।
उ० अजमुत्क्रामयति । पृथिव्याः सधस्थात् पृथिव्याः सहस्थानात् । अग्निम् व्याख्यातम् । ब्रह्माध्वर्युयजमाना गच्छन्ति । अग्निं पुरीष्यम् 'अच्छाभेराप्तमिति शाकपूणिः' । अग्निं पशव्यम् अङ्गिरा इव अभिगच्छामः । यद्वा आप्तुं गच्छामः अनद्धा पुरुषमीक्षते । अग्निं पशव्यम् अङ्गिरा इव संभरिष्यामः ॥ १६॥
म० अजोत्क्रमणे विनियोगः । यजुः । आसुरी गायत्री आग्नेयी । हे अभ्रे, पृथिव्याः भूमेः सधस्थात् सहस्थानात् पुरीष्यं पशव्यमग्निमङ्गिरस्वदङ्गिरस इवाभर आहर । 'अग्निषु प्रज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति' ( का० १६ । ३ । १२)। त्रिषु अग्निषु दीप्यमानेषु ब्रह्मयजमानाध्वर्यवश्चतुष्कोणश्वभ्रस्थं मृत्तिकापिण्डं प्रति गच्छन्त्यश्वगर्दभाजा अपीति सूत्रार्थः । सामगायत्री छन्दः । पुरीष्यं पशव्यमग्निमङ्गिरस इव वयमच्छेम अच्छ अभिमुखमिमः गच्छामः । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु० ५। २८) इति यास्कः । 'अनद्धा पुरुषमीक्षते देवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति' (का० १६ । २ । १४ ) देवपितृमनुष्याणां निष्प्रयोजनोऽनद्धा पुरुषस्तं पश्यतीति सूत्रार्थः । आग्नेयं यजुः । आसुर्यनुष्टुप् । पशव्यमग्निमङ्गिरस इव वयं भरिष्यामः संपादयिष्यामः ॥१६॥

सप्तदशी।
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।। १७ ।।
उ० वल्मीकवपामादाय छिद्रेण पिण्डमीक्षते । अन्वग्निः आग्नेयी त्रिष्टुप् । प्रजापतिरूपेणात्राग्निः स्तूयते । उषसामग्रम् अनु योग्निः अख्यत् । 'ख्या प्रकथने' । प्रकथितः। उषसामग्रमादित्यं योग्निर्दीप्यत इत्यर्थः । यश्च अहान्यनुदीप्यते । प्रथमः आद्यः जातवेदाः जातप्रज्ञानः । अनुसूर्यस्य पुरुत्रा च रश्मीन् । यश्च सूर्यस्य रश्मीन् अनु पुरुत्रा बहुधा दीप्यते । अनुद्यावापृथिवी आततन्थ । यश्च द्यावापृथिव्यावनु स्वकीयं रश्मिजालम् आततन्थ आतनोति । 'बभूथाततन्थ-' इति छन्दसि निपात्यते । तमग्निं पश्याम इति शेषः ॥ १७ ॥
म० 'वल्मीकवपामादाय छिद्रेण पिण्डमीक्षतेऽन्वग्निरिति' (का० १६ । २ । १५)। वल्मीकस्य योऽवयव उन्नतत्वेनाभिवृद्धः सा वल्मीकवपा पिण्डाहवनीयान्तराले स्थापितास्ति तां गृहीत्वा तत्स्थाने स्थित्वा तच्छिद्रेण पिण्डं पश्यतीति | सूत्रार्थः । अग्निदेवत्या त्रिष्टुप्पुरोधोदृष्टा प्रथमस्य व्यूहनम् । अग्निरुषामुषःकालानामग्रमुपक्रममन्वख्यत् अनुक्रमेण प्रका शितवान् । जातं जातं वेत्ति वेदयति वा जादवेदाः अयमग्निः प्रथमः मुख्यः सन् अहानि दिनानि अन्वख्यत् । किंच सूर्यस्य रश्मीन् किरणान् पुरुत्रा बहुधा अन्वख्यत् । किंच द्यावापृथिवी उभे अपि अनुक्रमेण आततन्थ आतेनिथ आततान सर्वतो व्याप्तवान् । 'व्यत्ययो बहुलम्' (पा० ३ । १ । ८५) इति पुरुषव्यत्ययः 'बभूथाततन्थ-' (पा० ७ । २ । ६४) इत्यादिना निपातः । सर्वप्रकाशको लोकस्रष्टा योऽग्निस्तं पश्याम इति शेषः ॥ १७ ॥

अष्टादशी।
आ॒गत्य॑ वा॒ज्यध्वा॑न॒ᳪं᳭ सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्निᳪं᳭ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ।। १८ ।।
उ० अश्वमभिमन्त्रयते । आगत्य वाजी । अनुष्टुप् । आगत्य आगम्य वाजी वेजनवानश्वः अध्वानम् पन्थानं सर्वा मृधः सर्वान्संग्रामान् पाप्मनः भ्रमान् विधूनुते अपनयति । तस्मादुहैतदश्वस्य त्वा विधूनुते' इति श्रुतिः। ततो गतश्रमः सन् अग्निं सधस्थे सहस्थाने पृथिव्या वर्तमानम् । महति उत्कृष्टप्रदेशे प्रवर्तमानम् चक्षुषा निचिकीषते पश्यति । छान्दसोयं धातुः पश्यत्यर्थः ॥ १८ ॥
म० 'आगत्येत्यभिमन्त्रयतेऽश्वमिति' (का० १६।२।१७)। मृत्पिण्डान्ते तिष्ठन्नश्वमभिमन्त्रयते । अश्वदेवत्यानुष्टुब्मयोभूदृष्टा । वाजी वेगवानयमश्वः अध्वानं मार्गमागत्य प्राप्य सर्वा मृधः सर्वान् संग्रामान् पाप्मनः श्रमान् विधूनुते विविधं कम्पयति । अपनयतीत्यर्थः । ततो विगतश्रमः सन् महति उत्कृष्टे सधस्थे सहस्थाने पृथिव्यां वर्तमानमग्निमग्निहेतुं मृदं चक्षुषा निचिकीषते पश्यति । पश्यत्यर्थश्छान्दसोऽयं धातुः ॥ १८ ॥

एकोनविंशी।
आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यत॒: खने॑म॒ तं व॒यम् ।। १९ ।।
उ० अश्वेन पिण्डमधिष्ठापयति । आक्रम्य वाजिन् । अनुष्टुप् । आक्रम्य अवष्टभ्य । हे वाजिन्नश्व, पृथिवीम् अग्निमिच्छ अग्नेरन्वेषणं कुरु । 'रुचिर् दीप्तौ' क्विप् । दीप्त्या सह । यदा निमित्तभूतयान्वेषय त्वम्। किंच भूम्या वृत्वाय । 'वृतु वर्तने । क्त्वा क्त्वो यमे स्पर्शनार्थे वृत्तिः। भूमेः तत्प्रदेशं स्पर्शयित्वा नः अस्माकं ब्रूहि कथय । यतः यस्मात् प्रदेशात् खनेम तमग्निं वयम् ॥ १९॥
म०. 'आक्रम्येत्येतेन मृत्पिण्डमधिष्ठापयतीति' (का० १६ । २ । १८)। एतेनाश्वेन गर्तस्थं मृत्पिण्डमधिष्ठापयति क्रमयति मृत्पिण्डोपर्यश्वस्य सव्यं पदं स्थापयतीत्यर्थः । सूत्रस्य । अश्वदेवत्यानुष्टुप् हे वाजिन् अश्व, पृथिवीं भूमिमाक्रम्याधिष्ठाय पादस्पर्शेन परीक्ष्य रुचा दीप्त्या कृत्वा त्वमग्निमिच्छ अग्नेरन्वेषणं कुरु । अग्निहेतुं मृदं निश्चिन्वित्यर्थः । किंच भूम्या वृत्वाय 'वृतु वर्तते' क्त्वाप्रत्ययः । क्त्वो यक् अत्र स्पर्शनार्थः धातूनामनेकार्थत्वात् । भूमेः प्रदेशं स्पृष्ट्वा नोऽस्माकं त्वं ब्रूहि अयं प्रदेशो अग्निहेतुमृद्योग्य इति कथय । यतो यस्मात् प्रदेशाद्वयं तमग्निं खनेन खननेन संपादयाम । यद्वा यतः प्रदेशात्तादृशी मृत्प्राप्यते तं प्रदेशं वयं खनेम विदारयाम ॥ १९ ॥

विंशी।
द्यौ॑स्ते पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्माऽन्तरि॑क्षᳪं᳭ समु॒द्रो योनि॑: ।
वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ।। २० ।।
उ० अश्वं स्तौति पृष्ठस्योपरि पाणिं धारयन् । द्यौस्ते पृष्ठम् । बृहती । यस्य तव द्यौः पृष्ठं । पृथिवी च सधस्थं सहस्थानं पादौ । आत्मान्तरिक्षम् । समुद्र उदकं योनिरुत्पत्तिस्थानम् । तं त्वामेवंप्रभावं ब्रूमः । विख्याय चक्षुषा निरीक्ष्य चक्षुषा । त्वम् अभितिष्ठ पादैः । पृतन्यतः पृतनां संग्रामं ये कर्तुमिच्छन्ति ते पृतन्यन्तः तान् पृतन्यतः पुरुषान् ॥ २० ॥ ।
म० 'द्यौस्त इति पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन्निति' (का० १६ । २ । १९) । पिण्डोपरि पदं दधतमश्वमस्पृशंस्तिष्ठन्नध्वर्युर्दक्षिणकरमश्वपृष्ठे धारयन् मन्त्रं पठतीति सूत्रार्थः । | आर्षी । बृहती अश्वदेवत्या । हे अश्व, द्यौः द्युलोकस्ते तव पृष्ठं । पृथिवी भूलोकस्तव सधस्थं सहस्थानं । पादौ अन्तरिक्षमन्तरिक्षलोकस्तवात्मा शरीरान्तर्वर्ती जीवात्मा । समुद्र उदकं तव योनिः उत्पत्तिस्थानम् । 'अप्सु योनिर्वा अश्वः' इति श्रुतेः । एवं स्तूयमानस्त्वं चक्षुषा विख्याय उखायोग्यां मृदं विलोक्य पृतन्यतः संग्रामं कर्तुमिच्छतः शत्रून् राक्षसादींस्तस्यां मृदि गूढं स्थितानभितिष्ठ पादैराक्रम्य विनाशय । पृतनामिच्छन्ति 'सुप आत्मनः क्यच्' (पा० ३ । १।८) 'कव्यध्वरपृतनस्यर्चि लोपः' (पा० ७ । ४ । ३९ ) इति क्यचि परे पृतनाशब्दस्यान्तलोपः ततः शतृप्रत्ययः ॥ २० ॥

एकविंशी।
उत्क्रा॑म मह॒ते सौ॑भगाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन् ।
व॒यᳪं᳭ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं खन॑न्त उ॒पस्थे॑ अस्याः ।। २१ ।।
उ० अश्वमुत्क्रमयति । उत्क्राम । त्रिष्टुप् विराड् वा । उत्क्राम उद्गच्छ । महते सौभगाय ऐश्वर्याय । भगशब्द ऐश्वर्यवचनः । अस्मादास्थानात् अस्मादधिष्ठानात् यत्र त्वं तिष्ठसि। द्रविणं धनं ददातीति द्रविणोदाः यस्त्वं द्रविणोदाः हे वाजिन् । किंच उत्क्रान्ते त्वयि वयं स्याम भवेम । सुमतौ पृथिव्याः शोभनायां मतौ पृथिव्याः । अग्निं खनन्तः अग्न्यर्थं पिण्डं खनन्तः उपस्थे उत्सङ्गे अस्याः पृथिव्याः ॥२१॥
म० 'उत्क्रामेत्युत्क्रमयतीति' ( का. १६ । २ । १९)। मृत्पिण्डादश्वमुत्तारयतीत्यर्थः । विराडश्वदेवत्या दशार्णचतुष्पादा विराट् पङ्क्तिः। द्वितीय एकादशस्तेनैकाधिका । हे वाजिन् , महते सौभगाय महाभाग्याभिवृद्धयेऽस्मात् आस्थानात् खननप्रदेशाद् यत्र त्वं तिष्ठसि तस्मादुत्क्राम । भगशब्द ऐश्वर्यवाची । शोभनं भगमैश्वर्यं यस्य स सुभगस्तस्य भावः सौभगं तस्मै । कीदृशस्त्वम् । द्रविणोदाः द्रविणो धनं ददातीति द्रविणस्शब्दः सान्तः । त्वयि उत्क्रान्ते वयं पृथिव्याः भूमेः सुमतौ शोभममतौ सानुग्रहे चित्ते स्याम भवेम । कीदृशा वयम् । अस्याः पृथिव्या उपस्थे उत्सङ्गे उपरिभागे अग्निमग्न्यर्थं मृत्पिण्डं खनन्तः खनितुमुद्योगं कुर्वन्तः ॥ २१॥

द्वाविंशी।
उद॑क्रमीद् द्रविणो॒दा वा॒ज्य॒र्वाक॒: सुलो॒कᳪं᳭ सुकृ॑तं पृथि॒व्याम् ।
तत॑: खनेम सु॒प्रती॑कम॒ग्निᳪं᳭ स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ।। २२ ।।
उ० अथैनमश्वमुत्क्रान्तमभिमन्त्रयते । उदक्रमीत् त्रिष्टुप् । यतः प्रदेशादुदक्रमीत् उत्क्रान्तवान् । द्रविणोदा द्रविणस्य धनस्य दाता । वाजी वेजनवानश्वः । अर्वा अरणशीलः चञ्चल इत्यर्थः । अकः कृतवान् । सुलोकं शोभनं लोकं स्थानम् । सुकृतं पृथिव्याम् । ततः तस्मात्प्रदेशात् खनेम । सुप्रतीकम् सुखं प्रतीकम् । सुमुखमग्निम् स्वोरुहाणाः स्वर्गं लोकमारोहन्तः । अधि । अधीत्युपरिभावमैश्वर्यं वा । नाकम् । कमिति सुखनाम । न अकमसुखं यत्र गतानां भवति स नाको लोकः । उत्तममुत्कृष्टम् । इत्थंभूतस्य लोकस्य प्राप्तये एतत्कर्म कुर्म इत्यभिप्रायः ॥ २२ ॥
म० 'उदक्रमीदित्यभिमन्त्रयते' ( का० १६ । २ । २०)। पिण्डादुत्तारिताश्वं मन्त्रयते । आश्वी त्रिष्टुप् । अर्वा अरणशीलः चञ्चलो द्रविणोदाः धनदाता वाजी अश्वः यत्प्रदेशादुदक्रमीत् उत्क्रान्तवान् पृथिव्यां तं सुलोकं शोभनं लोकं प्रदेशं सुकृतं पुण्यवन्तमकः कृतवान् । करोतेर्लङि 'बहुलं छन्दसि' (पा० २।४ । ७३ ) इति शपो लुकि गुणे तिलोपे रूपम् । ततः प्रदेशाद्वयमग्निमग्निहेतुं मृदं खनेम । कीदृशमग्निम् । सुप्रतीकं शोभनं प्रतीकं मुखं यस्य तम् । कीदृशा वयम् । स्वः स्वर्गमधिरुहाणा अधिरोहन्तः अधिरोहणकामा एतत्कर्म कुर्म इति भावः। अधीत्युपरिभावे ऐश्वर्ये वा । किंभूतम् । स्वः । नाकं नास्त्यकं यत्र तं कं सुखमकं दुःखं तद्रहितं तथा उत्तममुत्कृष्टम् ॥ २२ ॥

त्रयोविंशी।
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ।। २३ ।।
उ०. मृदमभिजुहोति। आ त्वा जिघर्मि। त्रिष्टुभावाग्नेय्यौ। 'घृ क्षरणदीप्त्योः' । आजिघर्मि आसिञ्चामि त्वां घृतेन । मनसा श्रद्धाप्रोत्कण्ठितेन । प्रतिक्षियन्तं भुवनानिविश्वा प्रत्येकशो निवसन्तं भूतानि सर्वाणि । पृथुं तिरश्चा महान्तं तिर्यगञ्चनेन ज्योतिषा । वयसा बृहन्तम् वयसा धूमेन बृहन्तम् । 'इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमं सामुत्र वृष्टिर्भवति' इत्येतदभिप्रायम् । व्यचिष्ठं व्यञ्चनवन्तम् । अवकाशवन्तं अन्नै रभसम्। 'रभ राभस्ये' । अन्नैर्घृतादिभिः क्षिप्तैरुत्साहवन्तम् । बहुभिरप्यन्नैः क्षिप्तैर्नास्य शक्तिपरिहाणं भवतीत्येतदभिप्रायः । दृशानं दर्शनीयं दृश्यमानं वा । अदृष्टा अन्या देवता अयं तु दृश्य इति ॥ २३ ॥
म० 'उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे' (का. १६ । २ । २२)। अस्यार्थः । आज्यं संस्कृत्य पिण्डसमीपे उपविश्य मृदमभि अश्वपदे मृत्पिण्डोपरिस्थिताश्वपदमुद्रायामा त्वा आ विश्वत इति ऋग्भ्यां व्यतिषक्ताभ्यां स्रुवेणाहुती द्वे जुहोति व्यतिषङ्गश्चैवम् । आत्वा जिघर्मीति पूर्वस्याः पूर्वार्धं मर्यश्रीरित्युत्तरस्या उत्तरार्धं पठित्वैकाहुतिः । आ विश्वत इत्युत्तरस्याः पूर्वार्धं पृथुं तिरश्चेति पूर्वस्या उत्तरार्धं च पठित्वा द्वितीयाहुतिरिति । गृत्समददृष्टे अग्नेय्यौ द्वे त्रिष्टुभौ । हे अग्ने, मनसा श्रद्धायुक्तेन चित्तेन घृतेनाज्येन कृत्वा त्वामाजिघर्मि आसिञ्चामि दीपयामि वा । 'घृ क्षरणदीप्त्योः' भ्वादिः । कीदृशं त्वाम् । विश्वानि भुवनानि प्रतिक्षियन्तं सर्वाणि भूतानि प्रत्येकं निवसन्तं । 'क्षि निवासगत्योः' तुदादिकादस्माच्छतृप्रत्ययः । तिरश्चा पृथुं तिरो ऽञ्चतीति तिर्यक् तेन तिर्यगञ्चनेन ज्योतिषा पृथुं विस्तीर्णं वयसा धूमेन बृहन्तं महान्तम् । 'इतो वा अयमूर्ध्वं रेतः सिञ्चति धूमᳪं᳭ सामुत्र वृष्टिर्भवति' इति श्रुतेः । यद्वा तिरश्चा तिर्यक्प्रमाणेन पृथुं विस्तृतमिति बहुदेशव्याप्तिः। वयसा वयउपलक्षितेन कालेन । बृहन्तमिति बहुकालव्याप्तिः । देशकालानवच्छिन्नमित्यर्थः । तथा व्यचिष्ठं व्यचनं व्यचोऽवकाशः सोऽस्यास्तीति व्यचवान् अतिशयेन व्यचवान् व्यचिष्ठः । ‘अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठन् 'विन्मतोर्लुक्' (पा० ५ । ३ । ६५ ) इतीष्ठनि परे मतुपो लुक् । अन्नैः रभसं 'रभ राभस्ये' घृताद्यन्नैः सोत्साहम् अनेकान्नैर्हुतैरप्यस्य शक्तिक्षयो नास्तीति भावः । तथा दृशानं दर्शनीयं दृश्यमानं वा । अन्ये देवा अदृश्या अयं तु दृश्यत इति भावः । दृशेः शानन्प्रत्ययः ॥ २३ ॥

चतुर्विशी।
आ वि॒श्वत॑: प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा जर्भु॑राणः ।। २४ ।।
उ०. आ विश्वतः आजिघर्मि आसिञ्चामि त्वां विश्वतः प्रत्यञ्चं सर्वतः प्रतिगतं महाभाग्येन । यतः अरक्षसा मनसा | तज्जुषेत अक्रुध्यमानेन प्रसन्नेन मनसा तद्धविर्जुषेत भक्षयतां। यस्त्वं मर्यश्रीः मर्यैर्मनुष्यैराश्रयणीयः स्पृहयद्वर्णः स्पृहणीयवर्णश्च । अग्निरिति साभिप्रायम् 'अग्निर्वै देवानां मृदुहृदयतमः' इत्यादि गुणख्यापनार्थम् । नाभिमृशे तन्वा जर्भुराणः। | नचाभिमर्शनाय भवति तन्वा शरीरेण ज्वालालक्षणेन जर्भुराणः । 'जभजृभी गात्रविनामे' इतश्चेतश्च गच्छन् ॥ २४ ॥
म० अहमग्निमाजिघर्मि समन्तात्सिच्चामि दीपयामि च । किंभूतम् । विश्वतः प्रत्यञ्चं सर्वतः प्रत्यगात्मतया प्रतीयमानम् । सोऽग्निः रक्षसा क्रौर्यरहितेन अक्रुध्यमानेन प्रसन्नेन मनसा चित्तेन तत् घृतं जुषेत जुषतां सेवताम् । प्रार्थनायां लिङ् । कीदृशोऽग्निः । मर्यश्रीः मर्यैर्मनुष्यैः श्रीयते आश्रीयते सेव्यते इति मर्यश्रीः मनुष्यैराश्रयणीयः । स्पृहयद्वर्णः स्पृहयन् स्पृहणीयो वर्णो रूपं यस्य । यजमानैः स्पृहणीयरूप इत्यर्थः । अभिमृश्यत इत्यभिमृट् न अभिमृश्यते नाभिमृट् तस्यै नाभिमृशे । चतुर्थी तृतीयार्थे । तनोर्विशेषणम् । नाभिमृशा अभिमर्शनं कर्तुमयोग्यया दाहकत्वात् ईदृश्या तन्वा शरीरेण ज्वालालक्षणेन जर्भुराणः जृम्भत इति जर्भुराणः 'जभिजृभी गात्रविनामे' इतस्ततश्च गच्छन् जृभेरौणादिक उराणप्रत्ययः । ईदृशमग्निमाजिघर्मीति योज्यम् ॥ २४ ॥

पञ्चविंशी ।
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ।। २५ ।।
उ० परिलिखति । तिसृभिराग्नेयीभिर्गायत्र्यनुष्टुब्जगतीभिः । परि वाजपतिः अग्निः । नानादेवत्यान्यपि हव्यानि हवींषि परि अक्रमीत् । परिक्रमणं भक्षणार्थम् । वाजपतिः अन्नस्य पतिः। कविः क्रान्तदर्शनः । किं कुर्वन्हवींष्यक्रमीत् । दधत् ददत् । रत्नानि रमणीयानि धनानि । दाशुषे हवींषि दत्तवते यजमानाय ॥ २५ ॥
म० 'अभ्र्या पिण्डं त्रिः परिलिखति परिवाजपतिरिति बहिर्बहिरुत्तरयोत्तरयेति' (का० १६ । २ । २३)। अस्यार्थः । अभ्र्या वारत्रयं मृत्पिण्डं परिलिखति परया परया बहिर्बहिःप्रदेशे यथा तथा । परि वाजपतिरिति प्रथमं लिखति परित्वेति तद्बहिर्द्वितीयं त्वमग्न इति तद्बहिस्तृतीयमित्यर्थः । आग्नेयी गायत्री सोमकदृष्टा । अयमग्निर्हव्यानि नानादेवत्यानि हवींषि पर्यक्रमीत् परिक्रान्तवान् । परिक्रमणं भक्षणार्थ स्वीकरणमित्यर्थः । कीदृशोऽग्निः । वाजपतिः वाजस्यान्नस्य पतिः पालयिता । कविः क्रान्तदर्शनः । किं कुर्वन् हव्यानि पर्यक्रमीत् । दाशुषे हवींषि दत्तवते यजमानाय रत्नानि रमणीयानि धनानि दधत् प्रयच्छन् । 'दाशृ दाने' अस्य धातोः 'दाश्वान्साह्वान्-' (पा० ६ । १ । १२ ) इत्यादिना क्वसुप्रत्ययान्तो निपातः । दाशति दत्ते स्म इति दाश्वान् तस्मै दाशुषे । दधाति दत्त इति दधत् धाधातुर्दानेऽपि । 'डुधाञ् विधारणे पुष्टौ दाने' इति कल्पद्रुमोक्तेः ॥ २५ ॥

षड्विंशी ।
परि॑ त्वाऽग्ने॒ पुरं॑ व॒यं विप्र॑ᳪं᳭ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वे-दि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ।। २६ ।।
उ० परि त्वाग्ने परीत्यस्योपसर्गस्य धीमहीत्यनेन संबन्धः ध्यायतिरयम् संप्रसारणं तु छान्दसम्। परि सर्वतो ध्यायामः त्वा त्वाम् हे अग्ने, पुरं पुररूपेणावस्थितम् । अग्निः सहस्यो हि पुरोरक्षको भवति । वयं विप्रं मेधाविनं ब्राह्मणजातिं वा । सहस्य । सहसि बले भवः सहस्योऽग्निः। स हि बलेन मथ्यमानो जायते तस्य संबोधनं हे सहस्य, धृषद्वर्णं प्रसहनरूपम् दिवे दिवे अहन्यहनि । हन्तारं बाधितारम् । भङ्गुरावताम् भङ्गुरमनवस्थितं मनो येषां ते भङ्गुरावन्तः तेषां भङ्गुरावताम् । अनवस्थितचित्तवृत्तीनामित्यर्थः ॥ २६ ॥ |
म० आग्नेय्यनुष्टुप्यायुदृष्टा परीत्युपसर्गस्य धीमहीत्यनेन संबन्धः । सहस्य सहसि वले भवः सहस्यः बलेन मध्यमानस्य जायमानत्वात्तत्संबोधनं हे सहस्य हे अग्ने, वयं त्वा त्वां परिधीमहि सर्वतो ध्यायामः। ध्यायतेः संप्रसारणं छान्दसमित्युक्तम् । कीदृशं त्वाम् । पुरं पुरीरूपेण स्थितम् आग्नेय्यादिपुराणां रक्षकत्वात् , यद्वा पिपर्ति पालयतीति पूस्तम् । 'पॄ पालनपूरणयोः' क्विप् 'उदोष्ठ्यपूर्वस्य' (पा. ७ । १। १०२) इति उदादेशे पूरिति रूपम् । तथा विप्रं मेधाविनं ब्राह्मणजातॆ वा । धृषद्वर्णं 'ञिधृषा प्रागल्भ्ये' अतो व्यत्ययेन तौदादिकाच्छतृप्रत्ययः । धृष्णोतीति धृषन् प्रगल्भो वर्णो यस्य तम् । असह्यरूपमित्यर्थः । दिवेदिवे प्रतिदिनं भङ्गुरावतां हन्तारं भङ्गुरं भञ्जनीयं पापं तद्येषामस्ति ते भङ्गुरवन्तो विघातका राक्षसादयः । यद्वा | भङ्गुरमनवस्थितं मनो येषां ते भङ्गुरावन्तोऽनवस्थितचित्तवृत्तयस्तेषां विनाशयितारम् । भङ्गुरावतामिति संहितायां दीर्घः॥२६॥

सप्तविंशी।
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ।। २७ ।।
उ० त्वमग्ने हे भगवन्नग्ने, त्वं द्युभिरहोभिर्निमित्तभूतैर्मथ्यमानो जायसे । त्वमेव आशुशुक्षणिः आशु शीघ्रं शुचा दीप्त्या क्षिणोति हिनस्ति सनोति संभजते वा आशुशुक्षणिरुच्यते । त्वं अद्भ्यश्च विद्युदात्मना जायसे । त्वमश्मनः पाषाणात्परिजायसे । त्वं वनेभ्यः अरणिकाष्ठेभ्यो जायसे । त्वमोषधीभ्यो वंशादिभ्यो जायसे । त्वं नृणां मनुष्याणामग्निहोत्रिणां जायसे । तदुक्तम् 'पुत्रो ह्येष सन्स पुनः पिता भवति' इति । हे नृपते नृणां पालयितः । शुचिर्निषिक्तपाप्मा । अथापरो व्याख्यामार्गः । आशुशुक्षणिशब्दस्य पञ्चम्यर्थे प्रथमा । तथाच वाक्यस्य संयोगः । आ उपसर्गपूर्वः शोचतिः सन्नन्तः । आशुशुक्षणेः आदिदीपयिषोर्जायसे । योऽपि ग्रहं खलं वा निर्मथ्य दीपयति तस्यापि त्वं जायसे । सर्वेषामनुग्रहे प्रवृत्तो हि त्वमित्यभिप्रायः। त्वमग्ने द्युभिर्जायसे त्वमादिदीपयिषोर्जायसे । एवं त्वमद्भ्यः अश्मनः वनेभ्यः ओषधीभ्यः नृणां पुत्रत्वेन नृपते जायसे । शुचिर्दीप्त इति योजना ॥२७॥
म० आग्नेयी त्रिष्टुब् गृत्समददृष्टा प्रथमान्त्यावेकादशार्णौ द्वितीयतृतीयौ दशार्णौ पादौ यदा तदा पङ्क्तिरेव । तृतीयचतुर्थी दशार्णौ यदा तदा विराट्स्थाना त्रिष्टुप् । द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थानेत्युक्तेः । अथ मन्त्रार्थः । हे नृपते नृणां पालक हे अग्ने, त्वं द्युभिरहोभिर्निमित्तभूतैर्मथ्यमानो जायसे। प्रतिदिनं मथ्यस इत्यर्थः । यद्वा द्युभिः स्वर्गैः निमित्तभूतैस्तत्र तत्र यागशालासु जायसे । त्वमाशुशुक्षणिः आर्द्रा भूमिं शीघ्रमेव शोषयित्वा, यद्वा आशु क्षिप्रं शुचा दीप्त्या क्षणोति हन्ति तमः, सनोति संभजते वा आशुशुक्षणिः । त्वमद्भ्यो वर्षधाराभ्यो विद्युदात्मना जायसे । त्वमश्मनः परि पाषाणस्योपरि पाषाणान्तरसङ्घटनेन जायसे । त्वं वनस्पतिभ्योऽरणिकाष्ठेभ्यो जायसे । त्वमोषधिभ्यो वंशादिभ्यो जायसे वंशद्वयसङ्घर्षणेन । त्वं नृणां मनुष्याणामग्निहोत्रिणां गृहे जायसे । 'पुत्रो ह्येष सन् स पुनः पिता भवति' इति श्रुतेः । किंभूतस्त्वम् । शुचिः शुद्धिहेतुः । 'पुनः पाकान्महीमयम्' इति स्मृतेः ॥ २७ ॥

अष्टाविंशी
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामि ।
ज्योति॑ष्मन्तं त्वाऽग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् ।
शि॒वं प्र॒जाभ्योऽहि॑ᳪं᳭सन्तं पृथि॒व्या: स॒धस्था॑द॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वत्ख॑नामः ।। २८ ।।
उ० खनति । देवस्य त्वा । व्याख्यातम् । पृथिव्याः सहस्थानात् अग्निं पशव्यम् अङ्गिरसा तुल्यं खनामि । ज्योतिष्मन्तं ज्योतिषा संयुक्तं त्वां हे अग्ने, सुप्रतीकं सुमुखम् अजस्रेण अनुपक्षीणेन भानुना दीप्त्या दीद्यतं दीप्यमानम् शिवं प्रजाभ्यः शान्तं प्रजाभ्यः अहिंसन्तं प्राणिनः पृथिव्याः सहस्थानादपि । अग्निं पशव्यम् अङ्गिरसा तुल्यं खनामः २८
म० 'अभ्याभ् पिण्डं खनति देवस्य त्वेति' ( का० १६ । २। २३ ) अभ्र्या कृत्वा पिण्डं परितः खनति कण्डिकया। देवस्य त्वा व्याख्यातम् । पृथिव्याः आग्नेयं यजुः अत्यष्टिच्छन्दः । अहं पृथिव्याः सधस्थादुपरिप्रदेशात् पुरीष्यं पशव्यमग्निमङ्गिरस इव खनामि । कीदृशमग्निम् । ज्योतिष्मन्तं ज्वालायुक्तम् । हे अमे, ईदृशं खां पृथिव्याः सहस्थानात् अङ्गिरस इव वयं खनामः । कीदृशम् । सुप्रतीकं सुमुखम् । अजस्रेणानुपक्षीणेन निरन्तरं वर्तमानेन भानुना रश्मिना दीद्यतं दीप्यमानम् । छान्दसो धातुः । प्रजाभ्यः प्रजोपकारार्थं शिवं शान्तमत एवाहिंसन्तं हिंसामकुर्वन्तम् । पुनरुक्तिरादरार्था ॥ २८ ॥

एकोनत्रिंशी।
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भित॒: पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ२ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ।। २९ ।।
उ० पुष्करपर्णं कृष्णाजिनोपरिष्टात्स्थापयति । अपां पृष्ठम्। स्वराट् पङ्क्तिः । यतः अपां पृष्ठमसि उपर्यवस्थानात् । योनिः स्थानं च अग्नेः अग्न्यर्थस्य पिण्डस्य । अतस्त्वां ब्रवीमि । समुद्रमभितः पिन्वमानम् । उपपदविभक्तिर्द्वितीया । समुद्रस्योदकस्य इतश्चेतश्च सिञ्चतः । त्वं वर्धमानो महान् भव । आ च पुष्करे आसीद च पुष्करे उदके । स हि तस्य योनिः । आकारः आकृष्य व्याख्यातः । चकारो भिन्नक्रमः । विमार्ष्टि एनं चतुर्थेन पादेन । दिवो मात्रया द्युलोकस्य परिमाणेन । वरिम्णा उरुत्वेन च प्रथस्व वर्धस्व ॥ २९ ॥
म० 'कृष्णजिनमास्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपां पृष्ठमिति' (का० ६ । २ । २४) । अस्यार्थः । मृत्पिण्डोत्तरभागे प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्रापां पृष्ठमिति पादत्रयात्मकमन्त्रेण कमलिनीपत्रमास्तृणाति । पुष्करपर्णदेवत्या स्वराट्पङ्क्तिः । आद्यौ दशकावन्त्यावेकादशकाविति द्व्यक्षराधिका पङ्क्तिः स्वराट्पङ्क्तिः । द्वाभ्यां विराडित्युक्तेः । अथ मन्त्रार्थः । हे पुष्करपर्ण, त्वमपां जलानां पृष्ठमसि उपर्यवस्थानात् । अग्नेः अग्न्यर्थस्य पिण्डस्य योनिः कारणमसि । समुद्रमभितः उदकस्य परितः पिन्वमानं प्रीतिकरम् । यद्वा पिन्वमानमिति समुद्रविशेषणम् । पिन्वमानं सिञ्चन्तं समुद्रमुदकमभितः वर्धमानं सत् महत् प्रभूतं भवेति शेषः । वर्धमानो महानिति लिङ्गव्यत्ययश्छान्दसः । पुष्करे जले आसीद च । यद्वा पुष्करे आ समन्तात् महत् प्रभूतं सत् वर्धमानं वृद्धियुक्तं त्वमसि । 'विमार्ष्ट्येनद्दिव इति' (का० १६ । २ । २५)। एनत्पुष्करपर्णं विपुलं करोति । हे पुष्करपर्ण, दिवो मात्रया द्युलोकस्य परिमाणेन वरिम्णा उरुत्वेन त्वं प्रथस्व विस्तृतं भव । उरोर्भावो वरिमा तेन 'प्रस्थस्फ-' (पा० ६ । ४ । १५७ ) इत्यादिना उरोर्वरादेश इमनि ॥ २९ ॥

त्रिंशी।
शर्म॑ च स्थो॒ वर्म॑ च॒ स्थोऽच्छि॑द्रे बहु॒ले उ॒भे ।
व्यच॑स्वती॒ संव॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य॒म् ।। ३० ।।
उ० उभे कृष्णाजिनपुष्करपर्णे अभिमृशति अनुष्टुब्भ्याम् । शर्म च स्थः यौ युवां शरणं च भवथः संहननं च । अच्छिद्रे सकले बहुले महाप्राणे च । उभे अपि ते युवां ब्रवीमि । व्यचस्वती अवकाशवती भूत्वा संवसाथाम् आच्छादयतम् । आच्छाद्य च भृतं बिभृतम् । अग्निं पुरीष्यं पशव्यम् ॥३०॥
म० 'आलभत उभे शर्म च स्थ इति' ( का० १६ । २ । २३)। ऋगद्वयेन कृष्णाजिनपुष्करपर्णे सहैव स्पृशेदिति सूत्रार्थः । कृष्णाजिनपुष्करपर्णदेवत्ये द्वे अनुष्टभौ । हे कृष्णाजिनपुष्करपर्णे, उभे युवां शं च स्थः अग्नेः सुखकारिणी अपि भवथः । वर्म च स्थः कवचवद्रक्षके अपि भवथः । चौ समुच्चये। कीदृशे युवाम् । अच्छिद्रे छिद्ररहिते सकले बहुले विस्तीर्णे व्यचस्वती व्यचनं व्यचः असुन्प्रत्ययः । तद्वती अवकाशवती । तथाविधे युवां पुरीष्यं पशव्यमग्निं संवसाथां सम्यगाच्छादयतम् । 'वस आच्छादने' अदादिः । आच्छाद्य चाग्निं भृतं बिभृतं धारयतम् । बिभर्तेः 'बहुलं छन्दसि' (पा० २ । ४ । ७३) इति शपो लुक् ॥ ३०॥

एकत्रिंशी।
सं व॑साथाᳪं᳭ स्व॒र्विदा॑ स॒मीची॒ उर॑सा॒त्मना॑ ।
अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ।। ३१ ।।
उ० संवसाथाम् आच्छादयतमेनमग्निं पिण्डरूपम् । स्वर्विदा । यज्ञसूर्यदेवाहर्वचनः स्वःशब्दः। स्वर्वेत्तीति स्वर्वित् स्वर्विदा रूपेण । यद्वा द्विवचनस्य स्थाने आकारः स्वर्विदीभूत्वा । यद्वा स्वर्गविदो भूत्वा । समीची समाने संगते एकचित्ते भूत्वा । उरसात्मना च । किंच अग्निपिण्डमन्तर्मध्यतः भरिष्यन्ती धारयमाणे ज्योतिष्मन्तम् अजस्रम् अनुपक्षीणम् । कुरुतमिति शेषः । इदिति पादपूरणः ॥ ३१ ॥
म० हे कृष्णाजिनपुष्करपर्णे, ज्योतिष्मन्तं तेजस्विनमजस्रमित् निरन्तरमेवाग्निमन्तरुदरे भरिष्यन्ती धारयिष्यन्ती युवामुरसात्मना उरोरूपेण भवदीयशरीरेणाग्निं संवसाथां सम्यगाच्छादयतम् । कीदृशे युवाम् । स्वर्विदा विभक्तेराकारः । स्वर्वित्त इति स्वर्विदो यज्ञसूर्यदेवाहर्वाच्यौ । स्वःशब्दः खर्गलाभसाधन इत्यर्थः । तथा समीची सम्यगञ्चने सङ्गते । एकचित्ते इत्यर्थः ॥ ३१॥

द्वात्रिंशी
पु॒री॒ष्यो॒ऽसि वि॒श्वभ॑रा॒ अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ।
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑: ।। ३२ ।।
उ० पिण्डमभिमृशति । पुरीष्योऽसि पशव्यस्त्वमसि विश्वभराःसर्वस्य धारकः पोषको वा अथर्वा त्वा च प्राणः । त्वां प्रथमो निरमन्थत् मथितवान् हे अग्ने, पिण्डं हरति षड्भिराग्नेयीभिः। तत्र तिस्रो गायत्र्यः द्वे त्रिष्टुभौ एका बृहती। त्वामग्ने त्वां हे अग्ने, पुष्करादुदकात् अधि सकाशात् अथर्वा अतनवान् प्राणो निरमन्थत निर्जनितवान् । 'आपो वै पुष्करं प्राणोऽथर्वा' इति श्रुतिः । मूर्ध्नो विश्वस्य वाघतः । वाघत इति ऋत्विङ्नामसु पठितम् । वाघतस्तु मूर्ध्नः शिरस्तः अरण्योर्जनयति सर्वस्य कर्मणोऽङ्गभूतम् ॥ ३२ ॥
म० 'पिण्डं पुरीष्योऽसीति' (का० १६ । २ । २७) । प्रतिष्ठा गायत्री अष्टौ सप्त षट् चेति प्रतिष्ठेति पिङ्गलोक्तेः । अग्निदेवत्या । हे अग्ने, त्वं पुरीष्यः पशव्योऽसि । विश्वभरा असि विश्वं सर्वं जगद् बिभर्ति धारयति पुष्णाति वा विश्वभराः । असुन्प्रत्ययः । हे अग्ने, प्रथमः इतरेभ्यः पूर्वभावी अथर्वाख्य ऋषिः प्राणो वा त्वा त्वां निरमन्थन्निःशेषेण मथितवान् । पाणिभ्यां परिगृह्णात्येनं दक्षिणोत्तराभ्यां दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्वᳪं᳭ सकृद्धुत्वा पुष्करपर्णे निदधातीति' (का. १६ । २ । २८)। दक्षिणेनाभ्रिं धृत्वोभाभ्यां कराभ्यां सर्वं पिण्डं त्वामग्न इति षडृचेन सकृद्गृहीत्वा पुष्करपर्णे स्थापयतीति सूत्रार्थः । अग्निदेवत्यास्तिस्रो गायत्र्यो भरद्वाजदृष्टाः । हे अग्ने, अथर्वा प्राणः पुष्करादधि उदकात्सकाशात्त्वां निरमन्थत निःशेषेण मथितवान् । 'आपो वै पुष्करं प्राणोऽथर्वा' (६ । ४ । २ । २) इति श्रुतेः । वाघत इति ऋत्विङ्नामसु पठितम् । विश्वस्य सर्वस्य जगतः संबन्धिनो वाघतः ऋषिजस्त्वां मूर्ध्नोऽर्थादरणेः शिरसो निरमन्थन्तेति व्यत्ययः । यद्वा विश्वस्येति षष्ठ्येकवचनं प्रथमाबहुवचनार्थे । विश्वे सर्वे वाघत इत्यर्थः । यद्वा ऋचोऽयमर्थः । हे अग्ने, अथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत । कीदृशात्पुष्करात् । मूर्ध्नः उत्तमाङ्गवत्प्रशस्तात् विश्वस्य वाघतः सर्वजगतो वाहकात्पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनद्वारेण सर्वं जगन्निर्वहति ॥ ३२ ॥

त्रयस्त्रिंशी।
तमु॑ त्वा द॒ध्यङ्ङृषि॑: पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॑त्र॒हणं॑ पुरन्द॒रम् ।। ३३ ।।
उ० तमु त्वा । अत्राप्युकार एतस्मिन्नर्थे उत्तरेणेत्युकारः । तमेव त्वां दध्यङ् नामा ऋषिर्मन्त्राणां द्रष्टा । पुत्र ईधे। अथर्वणः । व्यवहितोऽत्र संबन्धः । अथर्वणः पुत्र ईधे । 'इन्धी दीप्तौ' आदीपयति । कथंभूतं त्वामादीपयति । वृत्रहणम् पाप्मनो हन्तारम् । पुरन्दरम् असुरपुरां च दारयितारं वा । 'दध्यङ् आथर्वणः' इति श्रुतिः ॥ ३३ ॥
म०. हे अग्ने, अथर्वणः ऋषेः पुत्रः दध्यङ्नामक ऋषिः तमु त्वा। उ एवार्थे । तमेव त्वाम् ईधे प्रज्वालितवान् । कीदृशं त्वाम् । वृत्रहणं वृत्रस्य पाप्मनो हन्तारम् । 'ब्रह्मभ्रूणवृत्रेषु हनः' इति (पा० ३ । २। ८७) क्विप् । पुरन्दरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम् । 'वाचंयमपुरन्दरौ च' (पा० ६ । ३ । ६९) इति खशि निपातः ॥ ३३ ॥

चतुस्त्रिंशी।
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒ञ्ज॒यᳪं᳭ रणे॑-रणे ।। ३४ ।।
उ० तमु त्वा तमेव त्वां पाथ्यो वृषा। 'मनो वै पाथ्यो वृषा' इति श्रुतिः। मनसा हि मुक्तेः पन्था उपलभ्यते । तदुक्तम् 'मनसैवानुद्रष्टव्यम्' इति । 'मनसाभिलष्य स्त्रियां रेतः सिञ्चति' इति वृषा मनः समीधे संदीपयति । दस्युहन्तमम् शत्रुहन्तृतमम् धनस्य जेतारम् । रणेरणे संग्रामेसंग्रामे ॥३४॥
म० पथि वर्तमानः पाथ्यः सन्मार्गवर्ती, यद्वा पाथसि अन्तरिक्षे हृदयाकाशे भवः पाथ्यः 'पाथोनदीभ्यां ड्यण' (पा. ४ । ४ । १११) इति पाथःशब्दात् ड्यणप्रत्ययः । टिलोपः । वृषा सेक्ता मनः हे अग्ने, त्वा त्वां समीधे संदीपयति । मनसा हि ब्रह्मपन्था उपलभ्यते अतः पाथ्यः । ‘मनसैवानुद्रष्टव्यम्' इति श्रुतेः । 'मनसैवाभिलष्य स्त्रियाᳪं᳭ रेतः सिञ्चति' इति । वृषा हि मनः । 'मनो वै पाथ्यो वृषा' (६ । ४ । २ । ४) इति श्रुतेः । कीदृशं त्वाम् । दस्युहन्तमम् दस्यून् हन्तीति दस्युहा अतिशयेन दस्युहा दस्युहन्तमस्तम् । 'नलोपः प्रातिपदिकान्तस्य' (पा० ८ । २ । ७) इति नलोपे दस्युहन्तम इति प्राप्ते 'नाद्धस्य' (पा० ८।२।१७) इति तमपो नुडागमः । अतिशयेन शत्रूणां हन्तारम् । रणेरणे धनञ्जयं तेषु तेषु संग्रामेषु धनस्य जेतारम् ॥ ३४ ॥

पञ्चत्रिंशी।
सीद॑ होत॒: स्व उ॑ लो॒के चि॑कि॒त्वान्सा॒दया॑ य॒ज्ञᳪं᳭ सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।। ३५ ।।
उ० सीद होतः । सीद उपविश हे होतः अग्ने, स्व उ लोके । उकारो विनिश्चयार्थीयः । स्वकीय एव लोके कृष्णाजिने । चिकित्वान् चेतनवान् परिदृष्टाधिकारः स्वमधिकारं जानानः । किंच सादया यज्ञम् स्थापय च यज्ञं त्वं सुकृतस्य साधुकृतस्य कर्मणः योनौ स्थाने कृष्णाजिने । 'कृष्णाजिनं वै सुकृतयोनिः' इति श्रुतिः। यज्ञे हि तन्यमाने अवघातः पेषणं सोमनिधानं च कृष्णाजिने एव भवतीत्येतदभिप्रायमेवमुच्यते । यश्च त्वं देवावीः देवानामवनशीलः तर्पणशीलः देवान्हविषा यजासि यजसि तं त्वां पुनः प्रार्थयामि । हे अग्ने, बृहत् महत् यजमाने वयः आयुरन्नं वा धाः धेहि ॥ ३५ ॥
म०. आग्नेयी त्रिष्टुप् देवश्रवोदेववाताभ्यां दृष्टा । हे होतः देवानामाह्वातः हे अग्ने, स्वे उ लोके । उ एवार्थे । स्वकीये एव स्थाने कृष्णाजिनाख्ये त्वं सीद उपविश । कीदृशस्त्वम् । चिकित्वान् चेतनवान् स्वाधिकारं जानन् । किंच सुकृतस्य साधुकृतस्य कर्मणो यज्ञस्य योनौ स्थाने कृष्णाजिने यज्ञं सादय स्थापय । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां क्रियापदस्य दीर्घः । यज्ञे क्रियमाणेऽवघातपेषणसोमनिधानादीनि कृष्णाजिन एव भवन्तीति कृष्णाजिनं सुकृतस्य योनिः 'कृष्णाजिनं वै सुकृतस्य योनिः' (६ । ४ । २ । ६) इति श्रुतेः। हे अग्ने, यतो देवावीः देवानवति प्रीणातीति देवावीः त्वं हविषा हव्येन कृत्वा देवान् यजासि यजसि । 'लेटोऽडाटौ' (पा. ३। ४ । ९४) इत्याडागमः । पूजयसि अतो यजमाने बृहन्महद्वय आयुरन्नं वा धाः धेहि । दधातेर्लुङि मध्यमैकवचने अधा इति प्राप्ते 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः ॥ ३५ ॥

षट्त्रिंशी।
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ२ अ॑सदत्सु॒दक्ष॑: ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ।। ३६ ।।
उ० निहोता नीत्ययमुपसर्गाऽसददित्यनेनाख्यातेन संबध्यते । न्यसदत् निषण्ण उपविष्टः होता अग्निः । होतृषदने होता यस्मिन्सीदति तद्धोतृषदनं तस्मिन् । विदानः जानानः स्वमधिकारम् त्वेषो दीप्तियुक्तः । दीदिवान् देदीप्यमानः । असदत् । सुदक्षः साधु क्षिप्रकारी । अदब्धव्रतप्रमतिः । अदब्धमनुपहिंसितं कर्म यश्च प्रकृष्टा मतिः स एवमुच्यते । वसिष्ठः वस्तृतमः । यश्च सहस्रंभरः सहस्रं बिभर्तीति सहस्रंभरः सर्वहितः । शुचिजिह्वः शुचिर्जिह्वा यस्य स शुचिजिह्वः योयं नानादेवत्यानि हवींषि अभ्यवहरति नचोच्छोषयति स शुचिजिह्व इति शक्यते वदितुम् । अग्निरिति विस्मित इवाचष्टे ॥ ३६ ॥
म० आग्नेयी त्रिष्टुप् गृत्समददृष्टा । नित्युपसर्गोऽसददित्यनेन संबध्यते । अग्निः होतृषदने न्यसीदत् । होता यस्मिन् सीदति तद्धोतृषदनम् । होमनिष्पादकयोग्यस्थाने उत्तरवेदिरूपे सम्यगुपविष्टवान् । कीदृशोऽग्निः । होता देवानामाह्वाता । विदानः स्वाधिकारं जानन् । त्वेषः 'त्विष दीप्तौ' पचाद्यच् त्वेषतीति त्वेषः दीप्तिमान् । दीदिवान् दीव्यतीति दीदिवान् ‘दिवु क्रीडादौ' अस्मात् क्वसुः । 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६ । १ । | ७ ) इत्यभ्यासदीर्घः । 'लोपो व्योर्वलि' (पा०६।१।६६) इति वलोपः । होतृधिष्ण्यादौ गमनवान् । सुदक्षः साधुकुशलः क्षिप्रकारी । अदब्धव्रतप्रमतिः 'दम्भु बधे' अदब्धमनुपहतं व्रतं कर्म यस्य सोऽदब्धव्रतः प्रकृष्टा मतिर्बुद्धिर्यस्य स प्रमतिः अदब्धश्वासावप्रमतिश्चेति सः । तथा वसिष्ठः वसति स्वस्थान इति वस्ता अत्यन्तं वस्ता वसिष्ठः वस्तृतमः । 'तुरिष्ठेमेयस्सु' (पा० ६ । ४ । १५४ ) इतीष्ठनि परे तृचो लोपः । सहस्रंभरः सहस्रं सर्वजनं बिभर्ति पुष्णातीति सहस्रंभरः । शुचिजिह्वः शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्य सः । नानादेवत्यानि हवींष्यभ्यवहरन्नप्युच्छिष्टं न करोतीति भावः ॥ ३६ ॥

सप्तत्रिंशी।
सᳪं᳭ सी॑दस्व म॒हाँ२ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
विधू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ।। ३७ ।।
उ० संसीदस्व । हे अग्ने, संगत्य सीदस्व । यतः त्वं महानसि । शोचस्व दीप्यस्व । यतस्त्वं देववीतमः अतिशयेन देवानामाप्यायिता । विसृज च विमुञ्च च विधूमम् अरुषम् अरोचनम् मियेध्य । यमेध्य इति प्राप्ते छान्दसोपकर्षः । हे प्रशस्तलक्षण । दर्शतम् दर्शनीयमाहुतिपरिणामभूतम् । 'इतो वा अयमूर्ध्वं रेतः सिंचति धूमं सामुत्र वृष्टिर्भवति' इति श्रुतिः ॥ ३७॥
म० आग्नेयी बृहती प्रस्कण्वदृष्टा । तृतीयो द्वादशार्णोऽन्येऽष्टार्णाः । मेध्यशब्दस्य छान्दसो विप्रकर्षः । हे मियेध्य हे मेध्य । यज्ञिय यज्ञार्ह हे प्रशस्त उत्कृष्ट अग्ने, त्वं संसीदस्व पुष्करपर्णे सम्यगुपविश । यस्त्वं महानसि अनेकक्रतुहेतुत्वात् । स त्वं शोचस्व 'शुच दीप्तौ' दीप्यस्व । कीदृशस्वम् । देववीतमः देवान् वेति तर्पयति देववीः 'वी कान्त्यादौ' क्विप् । अतिशयेन देववीः देववीतमः । किंच दर्शतं दर्शनीयमरुषमरोचनं धूमं विसृज विमुञ्च । वीत्युपसर्गः सृजेत्यनेन संबध्यते । 'इतो वा अयमूर्ध्वᳪं᳭ रेतः सिञ्चति धूमᳪं᳭ सामुत्र वृष्टिर्भवति' इति | श्रुतिः ॥ ३७॥

अष्टत्रिंशी
अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्य॑: ।
तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ।। ३८ ।।
उ० अवटे अप आसिञ्चति । अपो देवीः अब्देवत्या बृहती। विधूममग्ने अरुषं मियेध्येत्यानन्तर्यादग्निरुच्यते । द्यौर्वा अपो देवीरुपसृज निक्षिप वृष्टिरूपाः मधुमती रसवतीः आरोग्यदातृकाः अयक्ष्माय प्रजाभ्यः । यक्ष्मा व्याधिः भावप्रत्ययलोपः । अयक्ष्मत्वार्थं प्रजानामिति विभक्तिव्यत्ययः । तासां भूमिगतानाम् अस्थानात् अधिष्ठानात् । उज्जिहताम् उद्गच्छन्तु । ओषधयः सुपिप्पलाः साधुफलाः । पिप्पलं फलमुच्यते ॥ ३८ ॥
म० 'अपः श्वभ्रेऽवनयत्यपो देवीरिति' (का० १६ । ३ । २)। मृत्पिण्डगर्ते जलं सिञ्चति । अब्देवत्या न्यङ्कुसारिणी सिन्धुद्वीपदृष्टा । द्वितीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णा यस्याः सा न्यङ्कुसारिणी । पूर्वर्चोऽग्ने इति संबोधनमध्याह्रियते । द्यौरध्वयुर्वा संबोध्यते । हे अग्ने, यद्वा हे द्यौः, यद्वा हे अध्वर्यो, देवीः देवनशीला अपः उपसृज अस्मिन् खननप्रदेशे आसिञ्च । कीदृशीरपः । मधुमतीः रसवतीः आरोग्यदात्रीः । किमर्थम् । प्रजाभ्यः अयक्ष्माय । पञ्चमी षष्ठ्यर्थे । यक्ष्मणोऽभावोऽयक्ष्मं तस्मै प्रजानामारोग्याय । तासां सिक्तानामपां स्थानात् सुक्षेत्ररूपादस्मात् खननप्रदेशात् । ओषधयः आ समन्तादुज्जिहतामुद्गच्छन्तु। कीदृश्य ओषधयः । सुपिप्पलाः शोभनं पिप्पलं फलं यासां ताः ॥ ३८॥

एकोनचत्वारिंशी।
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् ।
यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म् ।। ३९ ।।
उ० वायुना संदधाति । सं ते वायुः । त्रिष्टुप् । अर्धर्चः पार्थिवोऽर्धर्चो वायुदेवत्यः । संदधातु तव मातरिश्वा वायुः पृथिवी । उत्तानायाः सत्या यदेतत् हृदयमवटरूपेण । विकस्तं विकसितम् । वायुरुच्यते । यो देवानाम् यस्त्वं देवानां चरसि प्राणथेन प्राणत्वेन । थकारो भावप्रत्ययार्थकः। हे देव, तस्मै कस्मै प्रजापतये तुभ्यम् इयं पृथिवी वषडस्तु | वषट्कृता भवतु । 'नोहैतावत्यन्याहुतिरस्ति यथैषा' इति श्रुतिः ॥ ३९॥
म०. 'सं त इति वातमपक्षिपति' (का० १६ । ३।३)। पिण्डगर्ते वायुं प्रेरयति । त्रिष्टुप् अर्धं पृथिवीदेवत्यमर्धं वायुदेवत्यम् । हे पृथिवि, उत्तानायाः ऊर्ध्वाभिमुखेनावस्थितायास्ते तव यद्धृदयं हृदयसदृशं खननस्थानं विकस्तं पिण्डावटरूपेण विकसितम् । इडभाव आर्षः (पा. ७ । २ । ३४) । तत्स्थानं वायुः संदधातु पूर्वोक्तेन जलप्रक्षेपेण तृणादिपूरणेन च वायुर्यथा पूर्वं तथा सम्यक्करोतु । कीदृशो वायुः । मातरिश्वा मातर्यन्तरिक्षे सर्वप्राणिनामवच्छेदकारिणि श्वयति गच्छतीति मातरिश्वा । एवं पृथिवीमुक्त्वा वायुमाह । हे देव, द्योतनादिगुणयुक्त वायो, यस्त्वं देवानामग्न्यादीनां प्राणथेन प्राणभावेन चरसि प्राणानां भावः प्राणथं । भावे छान्दसस्थल्प्रत्ययः । कस्मै प्रजापतिरूपाय | तुभ्यमियं पृथिवी वषडस्तु वषट्कृता भवतु । 'नो हैतावत्यन्याहुतिरस्ति यथैषा' (६ । ४ । ३ । ४) इति श्रुतेः ॥ ३९ ॥

चत्वारिंशी।
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒माऽस॑द॒त्स्व॑: ।
वासो॑ अग्ने वि॒श्वरू॑प॒ᳪं᳭ सं व्य॑यस्व विभावसो ।। ४० ।।
उ०. आस्तीर्णयोरन्तरानुद्गृह्णाति । सुजातो ज्योतिषा । अनुष्टुबाग्नेयी । अयमग्निः सुजातः सुजन्मा ज्योतिषा सह संयुक्तः । शर्म शरणम् वरूथं वरणीयम् गृहम् आ असदत् आसीदतु । स्वः स्वर्गाख्यम् । योक्त्रेणोपनह्यति । वासो अग्ने । हे अग्ने विभावसो विभूतधन, वासो विभूतयः । विश्वरूपं विचित्रम् । संव्ययस्व । 'व्येञ् संवरणे' परिधत्स्व ॥ ४० ॥
म०. 'आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति' ( का० १६ । ३ । ५) अस्यार्थः । आस्तीर्णयोः कृष्णाजिनपुष्करपर्णयोः प्रान्तानूर्ध्वमादत्त इति । अग्निदेवत्यानुष्टुप् द्वितीयो नवार्णः । सुजातः सुष्ठूत्पन्नोऽयमग्निः ज्योतिषा स्वकीयेन तेजसा सह शर्म सुखं यथा भवति तथा स्वः स्वर्गसदृशं वरूथं वरणीयं गृहं कृष्णाजिननिर्मितमासदत् आसीदतु प्राप्नोतु । 'त्रिवृता मुञ्जयोक्त्रेणोपनह्यति वासो अग्न इति' (१६ । ३।६)। उद्गृहीतात्कृष्णाजिनपुष्करपर्णयोरन्तान्मुञ्जयोक्त्रेण बध्नात्युत्तरार्धेनेति सूत्रार्थः । हे विभावसो, विभा दीप्तिरेव वसु धनं यस्य स विभावसुः तत्संबोधनं हे विभावसो हे अग्ने, विश्वरूपं बहुप्रकाररूपं विचित्रं वासः वस्त्रं कृष्णाजिनरूपं संव्ययस्व सम्यक् परिधत्स्व । 'व्येञ् संवरणे' अस्य रूपम् ॥ ४० ॥

एकचत्वारिंशी।
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभि॑: ।। ४१ ।।
उ० अथैनमादायोत्तिष्ठति । उदु तिष्ठ आग्नेयी बृहती। उत्तिष्ठ । उकारः पादपूरणः । हे स्वध्वर सुयज्ञिय, तत उत्थाय अव पालय नोऽस्मान् । देव्या धिया दैव्या बुद्ध्या । किंच । दृशे च दर्शनाय अस्माकम् भासा बृहता सुशुक्वनिः साधु सुशुचा संदीप्तः । आयाहि आगच्छ । हे अग्ने सुशस्तिभिः साधुशिष्टैरश्वैः ॥ ४१॥
म० 'उत्तिष्ठति पिण्डमादायोदु तिष्ठेति' (का० १६ । ३ । ७)। तं पिण्डं गृहीत्वोत्तिष्ठेदिति सूत्रार्थः । अग्निदेवत्या पथ्या बृहती विश्वमनोदृष्टा । तृतीयो द्वादशार्णः अन्ये अष्टार्णाः । हे स्वध्वर, शोभनोऽध्वरो यज्ञो येन सुष्ठु यागनिर्वाहक, हे अग्ने, उत्तिष्ठ । उ उत्तिष्ठैव उत्थाय च देव्या देवनस्वभावया धिया क्रीडापरया बुद्ध्या नोऽस्मानव पालय । 'द्व्यचोऽतस्तिङः' (पा. ६ । ३ । १३५) इति संहितायां दीर्घः । किंच हे अग्ने, सुशस्तिभिः शोभनकीर्तिभिः सह । यद्वा साधुशिष्टैरश्वैः कृत्वा आयाहि आगच्छ । किं कर्तुम् । बृहता भासा प्रौढेन तेजसा । दृशे सर्वान्प्राणिनो द्रष्टुम् । 'दृशे विख्ये च' (पा० ३ । ४ । ११) इति पश्यतेस्तुमर्थो निपातः । कीदृशस्त्वम् । सुशुक्वनिः साधु शुचो रश्मीन्वनति संभजति सुशुक्वनिः । रश्मिप्रसारक इत्यर्थः । आ अग्ने याहीति पदच्छेदः ॥ ४१ ॥

द्विचत्वारिंशी।
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ।। ४२ ।।
उ० अथैनमित ऊर्ध्वं प्राञ्चं गृह्णाति । ऊर्ध्व ऊषुण बृहती आग्नेयी । ऊर्ध्वस्तिष्ठ । ऊसू पादपूरणे । नः ऊतये अस्माकमवनाय । कथमूर्ध्वस्तिष्ठ । देवो न सविता । नकार उपमार्थीयः । देव इव सविता ऊर्ध्वः स्थितः वाजस्यान्नस्य सविता संभक्ता । भविष्यसीति शेषः । यदञ्जिभिः यस्मादञ्जिभिर्व्यञ्जकैर्द्रव्याणां रश्मिभिः । वाघद्भिः हविषां वोढृभिः सहितम् विह्वयामहे विविधमाह्वयामः । तदूर्ध्वस्तिष्ठेति संबन्धः ॥४२॥
म० 'ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षु ण इति' ( का० १६।३। ८)। प्रसारितबाहुः प्राञ्चं पिण्डं गृह्णाति । अग्निदेवत्योपरिष्टाद्बृहती कण्वदृष्टा । चतुर्थः पादो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः सोपरिष्टाद्बृहती । हे अग्ने, नोऽस्माकमूतये रक्षणाय ऊर्ध्व ऊ सु तिष्ठ ऊर्ध्व एव सुतरामवस्थितो भव । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः । तिष्ठा इत्यत्र 'नश्च धातुस्थोरुषुभ्यः' (पा० ८।४ । २७) इति न इत्यत्र णत्वम् । क इव । देवो न सविता । न इवार्थे । सविता । देव इव । यथा सविता देव ऊर्ध्वः सन्नस्मानवति तद्वत् स त्वमूर्ध्वः सन् वाजस्य सनिता भव अन्नस्य दाता भवेति शेषः । 'षणु दाने' । यद्यस्मात्कारणात् अञ्जिभिर्मन्त्राभिव्यञ्जकैर्वाघद्भिः हव्यवाहकैर्ऋत्विग्भिः सह त्वा विह्वयामहे विविधमाह्वयामः तस्मादूर्ध्व एव तिष्ठेति पूर्वत्रान्वयः । अञ्जन्ति व्यक्तीकुर्वन्तीत्यञ्जिनस्तैः । यद्वा अञ्जिभिः द्रव्याणां व्यञ्जकैः रश्मिभिः सहितं त्वां विह्वयामहे । कीदृशैरञ्जिभिः । वाघद्भिः हविषां वोढृभिः ॥ ४२ ॥

त्रिचत्वारिंशी
स जा॒तो गर्भो॑ असि॒ रोद॑स्योरग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशु॒: परि॒ तमा॑ᳪं᳭स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रद॒द्गाः ।। ४३ ।।
उ० अश्वमभिमन्त्रयते । स जातो गर्भः । त्रिष्टुप् अङ्गीकृत्याश्वं स्तौति । अध्याहारव्यवहितपदप्रायो मन्त्रः । यस्त्वं रोदस्योः द्यावापृथिव्योर्गर्भो जातोऽसि । यश्च त्वं हे अग्ने, चारुः शोभनः विभृतः । 'हृग्रहोर्भश्छन्दसि' इति हकारस्य भकारः । ओषधीषु पुरोडाशादिलक्षणासु दातव्यविषयासु भवसि । यश्च त्वं चित्रो नानारूपः शिशुः शंसनीयः। परितमांसि अक्तून् रात्रीः अतिरोचसे स त्वं मातृभ्यः अधि । ओषधिवनस्पतिभ्यः सकाशात् । कनिक्रदत् अत्यर्थं शब्दं कुवन् गाः प्रयाहि ॥ ४३ ॥
म० 'अवहृत्योपरिनाभि धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातः स्थिरो भव शिवो भवेति' (का० १६ । ३ । ९)। पिण्डं नीचैरवतार्य नाभ्युपरि हस्ताभ्यां धारयन्नश्वगर्दभाजान्स जात इत्यावृत्क्रमेण प्रतिमन्त्रं मन्त्रयते एकैकं पश्यन्नेकैकं मन्त्रं जपतीति सूत्रार्थः । अश्वदेवत्या त्रिष्टुप् त्रितदृष्टा । अश्वमग्नीकृत्य स्तौति । हे अग्ने, स त्वं रोदस्योः द्यावापृथिव्योर्गर्भः सन्निदानीं जातोऽसि । कीदृशस्त्वम् । चारुः शोभनः पूज्यः । ओषधीषु पुरोडाशादिलक्षणासु दातव्यासु विभृतः विहृतः । चित्रः नानावर्णाभिर्ज्वालाभिर्विचित्ररूपः । इदानीमुत्पन्नत्वात् शिशुः शंसनीयो वा । अक्तूनिति लिङ्गव्यत्ययः । अक्तूनि तमांसि रात्र्युपलक्षितानि अन्धकाराणि परि परिहरन् मातृभ्यो अधि ओषधिवनस्पतिभ्यः सकाशात् कनिक्रदत् अत्यन्तं शब्दं कुर्वन् प्रगाः प्रकर्षेण गच्छ । 'इणो गा लुङि' (पा. २ । ४ । ४५) | इति गादेशः अडभावश्छान्दसः 'छन्दसि लुङ्लङ्लिटः ' (पा० ३ । | ४।६) इति सर्वकाले लुड् । प्रेत्युपसर्गो गा इत्यनेन संबध्यते । 'दाधर्तिदर्धर्ति-' (पा० ७ । ४ । ६५) इत्यादिना कनिक्रददिति | यङ्लुगन्तो निपातः ॥ ४३ ॥

चतुश्चत्वारिंशी।
स्थि॒रो भ॑व वी॒ड्व॒ङ्ग आ॒शुर्भ॑व वा॒ज्य॒र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ।। ४४ ।।
उ० रासभमभिमन्त्रयते । स्थिरो भव । उष्णिक् अनुष्टुब्वा स्थिरो भव निश्चलो भव । वीड्वङ्गश्च दृढाङ्गश्च भव । आशुः शीघ्रश्च भव । वाजी वेजनवांश्च भव । हे अर्वन् , पदार्थं प्रति इयर्तीति अर्वा । पृथुः पृथुश्च भव । सुषदः स्वस्थेयश्च भव । यतस्त्वग्नेः पुरीषवाहणः पुरीषं पशव्यं यवसं वहतीति पुरीषवाहणो रासभः ॥ ४४ ॥
म. रासभदेवत्यानुष्टुबुष्णिग्वा । इयर्ति प्रतिपदार्थं गच्छतीत्यर्वा रासभः हे अर्वन् गमनकुशल, स्थिरः चलनरहितः सन् त्वं वीड्वङ्गः दृढकायो भव । वीडुशब्दो दृढार्थः । वीडून्यङ्गानि यस्य सः । आशुः वेगवान्सन् वाजी अन्नहेतुर्भव । पृथुः विस्तीर्णः सन् अग्नेः सुषदः सुखासनः स्वास्थेयो भव । सुखेन सद्यते स्थीयते यस्मिन्स सुषदः । कीदृशस्त्वम् । पुरीषवाहणः पुरीषशब्देन पांशुरूपा मृदुच्यते तां वहतीति पुरीषं पशव्यं यवसं वहतीति वा पुरीषवाहणः । 'कव्यपुरीषपुरीष्येषु ञ्युट्' (पा० ३ । २ । ६५) इति ञ्युट्प्रत्ययः ॥ ४४ ॥

पञ्चचत्वारिंशी।
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः ।
मा द्यावा॑पृथि॒वी अ॒भिशो॑ची॒र्माऽन्तरि॑क्षं॒ मा वन॒स्पती॑न् ।। ४५ ।।
उ० अजमभिमन्त्रयते । शिवो भव । अनुष्टुप् बृहती वा। हे अज, शिवः शान्तो भव । प्रजाभ्यो मानुषीभ्योऽर्थाय त्वम् हे अङ्गिरः । 'अङ्गिरा वा अग्निराग्नेयोऽजः' इति श्रुतिः । मा च त्वं द्यावापृथिवी अभिशोचीः अभिसंतापयेः । मा वान्तरिक्षं मा च वनस्पतीन् ॥ ४५ ॥
म० अजदेवत्या पथ्याबृहती । अङ्गिरोभिर्ऋषिभिः पूर्वं संपादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निः तत्संबोधनं हे अङ्गिर अग्निरूप अज, मानुषीभ्यः मनोः संबन्धिभ्यः प्रजाभ्योऽर्थे त्वं शिवः शान्तो भव । 'अङ्गिरा वा अङ्गिराग्नेयोऽजः' (६ । ४ । ४ । ४) इति श्रुतेः । किंच द्यावापृथिवी मा अभिशोचीः मा संतापय । तथान्तरिक्षं माभिशोचीः । तथा वनस्पतीन्माभिशोचीः ॥ ४५ ॥

षट्चत्वारिंशी।
प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भ॒: पत्वा॑ । भर॑न्न॒ग्निं पु॑री॒ष्यं᳔ मा पा॒द्यायु॑षः पु॒रा ।
वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भ॑ᳪं᳭ समु॒द्रिय॑म् । अग्न॒ आ या॑हि वी॒तये॑ ।। ४६ ।।
उ० एतेषां पशूनामुपरिष्टात्प्रगृह्णाति । प्रैतु वाजी । त्र्यवसाना महापङ्क्तिः । अर्धर्चावश्वदेवत्यौ । प्रकर्षेण एतु आगच्छतु वाजी अश्वः । कनिकदन् अत्यर्थं ह्रेषितशब्दं कुर्वन् अयं च रासभोऽश्वयवसवाहनार्थं प्रकर्षेण एत्वागच्छतु नानदत्। सोपहासमुच्यते । गर्दभरटितेन सर्वा दिशो नादयन् रासभः पत्वा पतनशीलः । 'यदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधाति' इति श्रुतिः । भरन्नग्निं पुरीष्यम् अयं चाश्वो भरन्धारयन् अग्निं पुरीष्यं पशव्यम् मा पादि मा विनश्यतु । आयुषः पुरा । आयुश्शब्देन शक्त्यात्र कर्माभिहितम् । यज्ञसंयोगेन हि अश्वादीनां स्तुतिः । आयुषः पुरा आसमाप्तेः कर्मणः रासभ उच्यते । वृषा सेक्ता । अग्निं वृषणं सेक्तारम् । आहुतिपरिणाममभिप्रेत्योक्तम् । भरन्धारयन् । अपां गर्भम् अपांमध्येऽवस्थानाद्गर्भ उच्यते । समुद्भियम् 'यो ह वै समुद्रा अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमृचाम्' इत्येतदभिप्रायम् । तत्र भवः समुद्रियः। स्वरादाहरति । अग्ने आयाहि एकपदाग्नेयी गायत्री । हे अग्ने, आगच्छ वीतये हविरुपभोगाय ॥ ४६॥
म० 'धारयत्येषामुपरि पिण्डमनुपस्पृशन् प्रेतु वाजी वृषाग्निमित्यश्वखरयोरिति' (का० १६ । ३ । १०)। अश्वादीनामुपरि पिण्डं धारयति तानस्पृशन्प्रैतु वाजीत्यश्वोपरि वृषाग्निमिति खरोपरीति सूत्रार्थः । महापङ्क्तिस्त्र्यवसाना अष्टार्णषट्पादा महापङ्तिः त । आद्यावर्धर्चावश्वदेवत्यौ तृतीयोऽर्धर्चो रासभदेवत्यः तृतीयतुर्यौ पादौ व्यूह्यौ । वाजी अश्वः प्रैतु प्रकर्षेण गच्छतु । किं कुर्वन् । कनिक्रदन् अत्यर्थं हेषितशब्दं कुर्वन् । यङ्लुगन्तम् । रासभश्च प्रैतु यवसवाहनार्थम् । किं कुर्वन् । नानदत् सोपहासमुच्यते । गर्दभरटितेन सर्वा दिशो नादयन् । यङ्लुगन्तम् । कीदृशो रासभः । पत्वा पतनशीलः । 'पत्लृ गतौ' इत्यस्मात् 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति | क्वनिप् । अश्वमन्त्रे रासभोपादानं रासभोपहासार्थम् । तथा च श्रुतिः 'यदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधातीति' (६ । ४ । ४ । ७)। किंच अयमश्वः पुरीष्यं पशव्यमग्निं भरन्धारयन् । आयुषः पुरा कर्मणः पूर्वं । मा पादि मा विनश्यतु । कर्मसमाप्तिपर्यन्तं जीवत्वित्यर्थः । आयुःशब्देन श्रुत्या कर्मोक्तम् । यज्ञसंबन्धेनैवाश्वादीनां स्तुतिः क्रियते । अथ रासभमन्त्रः । वृषा सेक्ता रासभः अग्निं भरन्धारयन्सन् प्रैतु इति शेषः । कीदृशमग्निम् । वृषणं सेक्तारं फलाभिवर्षणसमर्थम् । आहुतिपरिणामेनेति भावः । अपां गर्भम् । जलमध्येऽवस्थानादेवमुच्यते । मेघस्थानां जलानां मध्ये विद्युद्रूपं वा । समुद्रियं समुद्रे वडवाग्निरूपेणोत्पन्नम् । यद्वा समुद्रे अग्निचयने भवः समुद्रियः तम् । 'त्रयो ह वै समुद्रा अभिर्यजुषां महाव्रतᳪं᳭ साम्नां महदुक्थमृचाम्' इति श्रुतेः । 'अग्न आयाहीत्याहृत्य खराच्छागस्यर्तᳪं᳭ सत्यमित्या निधानात्' (का० १६ । ३ । ११)। अग्न इति मन्त्रेण रासभात्पिण्डमाहृत्य ऋतं सत्यमिति मन्त्रेणाजस्योपरि पिण्डं धारयेत् परिवृते निधानपर्यन्तमिति सूत्रार्थः । एकपदा गायत्री अग्निदेवत्या । हे अग्ने, वीतये हविर्भक्षणाय आयाहि आगच्छ ॥ ४६॥

सप्तचत्वारिंशी। .
ऋ॒तᳪं᳭ स॒त्यमृ॒तᳪं᳭ स॒त्यम॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वद्भ॑रामः ।
ओष॑धय॒: प्रति॑ मोदध्वम॒ग्निमे॒तᳪं᳭ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः ।
व्यस्य॒न् विश्वा॒ अनि॑रा॒ अमी॑वा नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिं ज॑हि ।। ४७ ।।
उ० छागस्योपरि धारयन् जपति । ऋतं सत्यम् ऋतमग्निः सत्यमादित्यः । यदि वा आदित्य ऋतम् अग्निः सत्यम् उभयरूपमप्याहरामीति शेषः । अनद्धापुरुषमीक्षते अग्निं पुरीष्यं व्याख्यातम् । उपावहरति । ओषधयः प्रति । द्वाभ्यां त्रिष्टुबनुष्टब्भ्यामोषधिदेवताभ्याम् । द्वितीयोऽर्धर्च आग्नेयः । हे ओषधयः, प्रतिमोदध्वं प्रतिहर्षयत प्रत्युत्थानादिभिः अग्निम् । एतं शिवं शान्तम् आयन्तमभ्यत्र युष्माः युष्मानभ्यागच्छन्तम् अत्रैव स्थितानाम् । एवमर्धर्चेनोषधीरुक्त्वा अथेदानीमग्निमाह। त्वमपि व्यस्यन् विक्षिपन् । विश्वाः सर्वाः। अनिराः। इरेत्यन्ननाम न भवति अन्नं याभिः सतीभिरतिवृष्टिनिदाघाशनिभिरितिगृह्यते विक्षिपन् अमीवा व्याधीन् निषीद निविशमानश्च नो अप दुर्मतिं जहि नोऽस्माकं अपजहि अपनय दुर्मतिं दुर्बुद्धिं नास्ति दत्तं नास्ति हुतमित्येवमादिकाम् ॥४७॥
म० अग्निदेवत्वं यजुः प्राजापत्या गायत्री । ऋतसत्यशब्दाभ्यामादित्याग्नी विवक्षितौ । ऋतमादित्यः सत्यमग्निः तादृगुभयरूपमग्निमध्याहरामीति शेषः । ऋतं सत्यमिति पुनर्वचनमादरार्थम् । 'अनद्धापुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति' (का. १६ । ३ । १३ ।)। देवपितृकार्यविमुखोऽनद्धापुरुषस्तमध्वर्युरीक्षते अग्निषु ज्वलत्स्वाहवनीयान्ते स्थित इति पूर्ववत् पदेन लभ्यत इति सूत्रार्थः । आग्नेयं यजुः सामगायत्री । पशव्यमग्निमङ्गिरसो मुनय इव भरामः हरामः । 'उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्ण परिवृत्ते प्राग्द्वारे पिण्डं निदधात्योषधय इति' (का. १६ । ३ । १४)। उखासंभरणार्थमुद्धृतस्याहवनीयस्योत्तरे पूर्वमेव कृते परिवृते आच्छादितप्रदेशे ओषधय इति मन्त्राभ्यां पिण्डं स्थापयति । कीदृशे परिवृते । उद्धृते कृतोल्लेखने अवोक्षिते सिक्ते प्राग्दिशि द्वारं यस्य तादृशे सिकताव्याप्ते एतादृशे इति सूत्रार्थः । त्रिष्टुबनुष्टभावोषधिदेवत्ये । व्यस्यन्नित्यर्धर्चोऽग्निदैवतः । हे ओषधयः, यूयमेतमग्निं प्रतिमोदध्वमभ्युत्थानादिभिः प्रतिहर्षयत । कीदृशमग्निम् । शिवं शान्तम् । अत्रास्मिन् प्रदेशे स्थिताः युष्माः युष्मानभिमुखीकृत्य आयन्तमागच्छन्तम् । एवमर्धर्चेनोषधीरुक्त्वाथाग्निमाह । हे अग्ने, त्वमत्र निषीदन्निविशमानः सन्नोऽस्माकं दुर्मतिं दुर्बुद्धिं नास्ति दत्तं नास्ति हुतमित्येवमादिकामपजहि अपनय । किं कुर्वन् । विश्वाः सर्वा अनिराः ईतीः अमीवा व्याधींश्च व्यस्यन्निरस्यन् । नास्ति इरा अन्नं याभिस्ता अनिराः । इरेत्यन्ननाम । अतिवृष्ट्याद्याः ॥ ४७ ॥

अष्टचत्वारिंशी।
ओष॑धय॒: प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्विय॑: प्र॒त्नᳪं᳭ स॒धस्थ॒माऽस॑दत् ।। ४८ ।।
उ० ओषधयः । हे ओषधयः, एतमग्निं गृह्णीत आदरवत्यः सत्यः। पुष्पवतीः सुपिप्पलाः । पुष्पवत्यः शोभनफलाश्च भूत्वा । अयं हि वो युष्माकम् गर्भ ऋत्वियः ऋतव्यः प्राप्तकालः प्रत्नं पुराणं शाश्वतिकम् सधस्थं सहस्थानमासीदति ४८
म० हे ओषधयः, एतमग्निं प्रतिगृभ्णीत गृह्णीत स्वीकुरुत । । यूयं कीदृश्यः पुष्पवतीः 'वा छन्दसि' (पा० ६।१।१०६) इति पूर्वसवर्णदीर्घः । पुष्पवत्यः प्रशस्तपुष्पोपेताः । सुपिप्पलाः शोभनं पिप्पलं फलं यासां ताः । किंच ऋत्वियः ऋतव्यः ऋतुः प्राप्तोऽस्य 'छन्दसि घस्' (पा० १ । १०६) इति कालप्राप्तौ घस्प्रत्ययः । ऋतुकालीनः प्राप्तकालः वो युष्माकं गर्भो भूत्वाऽयमग्निः प्रत्नं पुरातनं सधस्थं सहस्थानं गर्भयोग्यस्थानमासदत् आसीदति ॥ ४८॥

एकोनपञ्चाशी।
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हᳪं᳭ सु॒हव॑स्य॒ प्रणी॑तौ ।। ४९ ।।
उ० अथैनमुत्सृजति। विपाजसा। वीत्ययमुपसर्गो बाधस्वेत्यनेन संबध्यते । विबाधस्व । पाजसा । पाज इति बलनाम । बलेन । पृथुना विस्तीर्णेन । शोशुचानो दीप्यमानः । द्विषः द्वेष्यात् रक्षसः । अमीवाः व्याधीन् । एवं प्रत्यक्षं याचित्वा अथेदानीं परोक्षीकृत्याशिषमाशास्ते । सुशर्मणः साधुशरणस्य बृहतो महतः । शर्मणि शरणे । स्याम् भवेयम् । अग्नेः अहं सुहवस्य स्वाह्वानस्य । प्रणीतौ प्रणयने अभ्यनुज्ञायाम् ॥ ४९॥
म० वि पाजसेति प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति' (का० १६ । ३ । १५)। वि पाजसेतीति मन्त्रेणैनं पिण्डं कृष्णाजिनबद्धं विस्रंस्य छागरोमाणि गृहीत्वाश्वादीनैशानीं दिशं प्रत्युत्सृजतीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुबुत्कीलदृष्टा । वीत्युपसर्गो बाधस्वेत्यनेन संबध्यते । हे अग्ने, द्विषः शत्रून् रक्षसः राक्षसान् अमीवाः व्याधींश्च त्वं विबाधस्व विशेषेण निवर्तय । कीदृशस्त्वम् । पृथुना विस्तीर्णेन पाजसा बलेन शोशुचानः अत्यन्तं दीप्यमानः । पाज इति बलनाम । शोचतेर्यङन्ताच्छानच्प्रत्ययः । एवं प्रत्यक्षमुक्त्वा परोक्षमाह । अग्ने प्रणीतौ प्रणयने अभ्यनुज्ञायां परिचर्यायां सत्यामहं शर्मणि शरणे सुखे वा स्यां भवेयम् । सुखं प्राप्नुयामित्यर्थः । कीदृशस्याग्नेः । सुशर्मणः साधुशरणस्य शोभनं शर्म सुखं यस्मात्स सुशर्मा तस्य । बृहतः प्रौढस्य । सुहवस्य सुखेनाह्वातुं शक्यस्य । अस्तेर्लिङि उत्तमैकवचने स्यामिति रूपम् ॥ ४९ ॥

पञ्चाशी
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।। ५० ।।
उ० अप उपसृजति । आपो हि । अब्देवत्यास्तिस्रो गायत्र्यः । आपो हि ष्ठा मयोभुवः । द्वितीये पादे तच्छब्दश्रवणाद्यदोध्याहारः कर्तव्यः । हे आपः, या यूयं मयोभुवः । मय इति सुखनाम । सुखेन भावयित्र्यः स्थ भवथ सर्वप्राणिनाम् । छन्दःपरिपूर्तिकरो हिशब्दः । ता नः अस्मान् ऊर्जे अन्नाय दधातन स्थापयत । यथा वयं सर्वस्य भोग्यस्य भोक्तारो भवेम तथा कुरुतेत्यभिप्रायः। महते च रणाय रमणीयाय । चक्षसे दर्शनाय । अस्मान्दधातनेत्यनुवर्तते । एतदुक्तं भवति । महच्च यद्दर्शनं परब्रह्मलक्षणं रमणीयं तदस्माकं कुरुतेति । अथवा हिशब्दो यस्मादर्थे कृत्वा व्याख्यायते । नहि वेदे मन्त्रमात्रस्याप्यानर्थक्यमिष्यते संभवे सति । आपो हि । हे आपः, हि यस्मान्मयोभुवः।ता नः ऊर्जे । ताः शब्दस्य पञ्चम्यां संततिः । तस्माद्धेतोरस्मान् अन्नाय स्थापयत । महते च रमणीयाय चक्षसे दर्शनीयाय ॥ ५० ॥
म० 'आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे' (का. १६ । ३ । १७) । पलाशत्वक्क्वथितं जलं पिण्डे ऋक्त्रयेण क्षिपेदिति सूत्रार्थः । अब्देवतास्तिस्रो गायत्र्यः सिन्धुद्वीपदृष्टाः । हिशब्दः एवार्थः प्रसिद्ध्यर्थो यस्मादर्थो वा । हे आपः, यूयमेव मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ । मयः सुखं भावयन्ति प्रापयन्ति ता मयोभुवः यस्मात्कारणान्मयोभुवः स्थेति वा स्नानपानादिहेतुत्वेन सुखोत्पादकत्वमपां प्रसिद्धम् तास्तादृश्यो यूयं नोऽस्मानूर्जे रसाय भवदीयरसानुभवार्थं दधातन स्थापयत । 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) इति लोण्मध्यमबहुवचनस्य तनबादेशे दधातनेति रूपम् । यथा वयं सर्वस्य भोग्यस्य रसस्य भोक्तारो भवेम तथास्मान्कुरुतेति भावः । किंच महे महते रणाय रमणीयाय चक्षसे दर्शनाय चास्मान्दधातनेत्यनुवर्तते । महद्रमणीयं दर्शनं ब्रह्मसाक्षात्कारलक्षणं तदस्माकं कुरुत । अस्मान् ब्रह्मसाक्षात्कारयोग्यान्कुरुतेति भावः। ऐहिकपारलौकिकसुखं ददतेत्यृचो भावः। 'मह पूजायाम्' मह्यते पूज्यत इति मट् क्विप्प्रत्ययः तस्मै महे । 'रण शब्दे' रण्यते स्तूयते सर्वैरिति रणम् तस्मै रणाय । चष्टे पश्यति सर्वं येन इति चक्षः चक्षतेरसुन्प्रत्ययः । तस्मै चक्षसे । 'यस्मिन्ज्ञाते सर्वं विज्ञातं स्यात्' इति छान्दोग्यश्रुतेः ॥ ५० ॥

एकपञ्चाशी।
यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ।। ५१ ।।
उ० यो वः यश्च वः युष्माकं शिवतमः शान्ततमः रसः । तस्य भाजयत भागिनः कुरुत । इहैव स्थितान्नः अस्मान् उशतीरिव । 'वश कान्तौ'। कृतसंप्रसारणस्यैतद्रूपम् । कामयमाना इव मातरः। मातृशब्दः संबन्धवचनः । यथा कामयमाना मातरः पुत्रस्य कल्याणं तैस्तैरर्थैर्भाजयेयुः एवं भाजयत ॥५१॥
म० हे आपः, वो युष्माकं यः शिवतमः शान्ततमः सुखैकहेतू रसोऽस्ति इहास्मिन्कर्मणि इह लोके वा स्थितान्नोऽस्मान् तस्य रसस्य भाजयत भागिनः कुरुत । तं रसं प्रापयतेति भावः । कर्मणि षष्ठी । तत्र दृष्टान्तः । उशतीर्मातर इव उशन्ति ता उशत्यः ‘वा छन्दसि' ( पा० ६ । १ । १०६) इति दीर्घः । 'वश कान्तौ' इत्यस्माच्छतृप्रत्ययान्तात् 'उगितश्च' (पा० ४ । १।६) इति ङीप् । उशत्यः कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं बालं पाययन्ति | तद्वत् ॥५१॥

द्विपञ्चाशी।
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।। ५२ ।।
उ० तस्मा अरम् । अलमिति प्राप्ते लकारस्य रेफश्छान्दसः। | हे आपः, तस्य च रसस्य अधस्तनमन्त्रयाचितस्य वो युष्मत्संबन्धिनः अलं पर्याप्तं गमाम गच्छाम वयम् । पर्याप्तं नाम रसविषये वैतृष्ण्यं सदातृष्ण्यं वा । यस्य क्षयाय जिन्वथ । 'क्षयो निवासे' इत्याद्युदात्तः । षष्ठ्यर्थे चतुर्थी । यस्येति सामानाधिकरण्यात् । यस्य आहुतिपरिणामभूतस्य क्षयस्य निवासस्यैकदेशेन जिन्वथ । जिन्वतिः प्रीतिकर्मा । तर्पयथ । पञ्चाहुतिपरिणामक्रमेणेदं ब्रह्मादिस्तम्बपर्यन्तं जगत् । तत्र हे आपः, जनयथ नः अस्मान् भोक्तृत्वेन । आजानदेवत्वमाशास्यते ॥ ५२ ॥
म० अलमिति प्राप्ते लकारस्य रेफश्छान्दसः । हे आपः, वो युष्मत्संबन्धिनस्तस्य पर्याप्तिं वयं गमाम गच्छेम । पर्याप्तिर्नाम रसविषये वैतृष्ण्यं सदातृप्तिर्वा । तस्मै इति चतुर्थी षष्ठ्यर्थे । यस्य क्षयाय जिन्वथ 'क्षयो निवासे' (पा० ६ । १ । २०१) इत्याद्युदात्तत्वात् क्षयशब्देन निवासः । क्षयायेति चतुर्थी षष्ठ्यर्थे । यस्येत्यनेन सामानाधिकरण्यात् । क्षयस्य निवासस्य जगतामाधारभूतस्य यस्याहुतिपरिणामभूतस्य रसस्यैकदेशेन यूयं ब्रह्मादिस्तम्बपर्यन्तं जगत् जिन्वथ तर्पयथ । जिन्वतिः प्रीतिकर्मा । पञ्चाहुतिपरिणामक्रमेणेति भावः । किंच हे आपः, नोऽस्मान् तत्र भोक्तृत्वेन जनयथ उत्पादयत । आशिषि लोट् तद्रसभोक्तृनस्मान् कुरुतेत्याजानदेवत्वमाशास्यते इति भावः । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । यद्वास्या ऋचोऽयमर्थः । यस्य क्षयाय क्षयेण निवासेन यूयं जिन्वथ प्रीता भवथ तस्मै रसाय तद्रसाप्तये वो युष्मानरमत्यर्थं वयं गमाम प्राप्नुमः । किंच हे आपः, यूयं नोऽस्मान् जनयथ प्रजोत्पादनसमर्थान् कुरुथ । गच्छतेर्लुङि उत्तमबहुवचनेऽगमामेति रूपम् । अडभाव आर्षः | 'बहुलं छन्दसि' (पा० २ । ४ । ७३ ) इति शपो लुकि लोटि वा रूपम् ॥ ५२॥

त्रिपञ्चाशी।
मि॒त्रः स॒ᳪं᳭सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह ।
सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सᳪं᳭ सृ॑जामि प्र॒जाभ्य॑: ।। ५३ ।।
उ० अजलोमैः संसृजति मित्रः संसृज्य । मैत्री उपरिष्टाद्बृहती । अध्वर्युराह । मित्रः आदित्यः संसृज्य एकीकृत्य पृथिवीम् द्युलोकान्तरिक्षम् । भूमिवचनः पृथिवीशब्दः । इह तु द्युलोकवचनो गृह्यते । पृथिवीं द्युलोकम् भूमिं च मां ज्योतिषा अजलोमैः सह संसृज्य मह्यं प्रयच्छत्विति शेषः ।। अजस्याग्नेयत्वात् लोमानि ज्योतिःशब्देन भणितुं शक्यन्ते । अहमपि च गृहीत्वा सुजातं कल्याणजातं त्वां जातवेदसं जातप्रज्ञानमग्निमजलोमाख्यं संसृजामि अयक्ष्माय अव्याधितायै । प्रजाभ्यः प्रजानामिति संनतिः ॥ ५३ ॥
म० 'अजलोमभिः सᳪं᳭सृजति मित्रः सᳪं᳭सृज्येति' । (का० १६ । ३ । १८) । अजाद्यानि पूर्वं लोमानि गृहीतानि तैः पिण्डं मिश्रयतीति सूत्रार्थः । मित्रदेवत्योपरिष्टाद्बृहती त्रयोऽष्टार्णाश्चतुर्थो द्वादशार्णः । मित्रः आदित्यो देवः पृथिवीं द्युलोकं भूमिं चेमां मृत्पिण्डरूपां ज्योतिषाजलोमभिः सह संसृज्य एकीकृत्य मह्यमध्वर्यवे प्रयच्छत्विति शेषः । पृथिवीशब्दो द्युलोकान्तरिक्षवाची । इह द्युलोकवाची गृह्यते । अजस्याग्नेयत्वाज्ज्योतिःशब्देनाजलोमान्युच्यन्ते । अहमपि सुजातं शोभनोत्पन्नं जातवेदसं जातप्रज्ञानमजलोमाख्यमग्निं त्वा त्वां संसृजामि पिण्डेन योजयामि । किमर्थं प्रजाभ्यः । चतुर्थी षष्ठ्यर्थे । प्रजानामयक्ष्माय यक्ष्मणो रोगस्याभावोऽयक्ष्मं तस्मै रोगाभावाय ॥ ५३॥

चतुःपञ्चाशी।
रु॒द्राः स॒ᳪं᳭सृज्य॑ पृथि॒वीं बृ॒हज्ज्योति॒: समी॑धिरे । तेषां॑ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ।। ५४ ।।
उ० शर्करायोरसाश्मचूर्णैः संसृजति । रुद्राः संसृज्य । अनुष्टुब्रौद्री । रुद्राः संसृज्य एकीकृत्य शर्करायोरसाश्मचूर्णैः पृथिवीं पार्थिवं पिण्डम् । बृहन्महत् ज्योतिरग्निलक्षणम् । उषायां समीधिरे संदीपितवन्तः। उषास्थमग्निं संवत्सरं धारितवन्तः । तेषामिदानीं फलमाह । तेषां रुद्राणां भानुर्दीप्तेः । अजस्रइत् । 'जसु उपक्षये' इच्छब्द एवार्थे । अनुपक्षीण एव। शुक्रः देवेषु । निर्धारणे सप्तमी । रोचते देदीप्यते ॥ ५४ ॥
म० 'शर्करायोरसाश्मचूर्णैश्च रुद्राः सᳪं᳭सृज्येति' (का० १६ । ३ । १९) । सूक्ष्मसिकतालोहकिट्टपाषाणचूर्णैः पिण्डं मिश्रयतीति सूत्रार्थः । रुद्रदेवत्यानुष्टुप् । ये रुद्राः, पृथिवीं पार्थिवं पिण्डं संसृज्य शर्करायोरसाश्मचूर्णैः संयोज्य बृहज्योतिः प्रौढमग्निं समीधिरे सम्यक् दीपितवन्तः उखास्थमग्निं सम्यक् पालितवन्तः । तेषां फलमाह । तेषां रुद्राणां शुक्रः शुद्धो देदीप्यमानोऽजस्रः अनुपक्षीण एव देवेषु मध्ये भानुः दीप्तिः रोचते प्रकाशते । इत् एवार्थः ॥ ५४ ॥

पञ्चपञ्चाशी।
सᳪं᳭सृ॑ष्टां॒ वसु॑भी रुद्रै॒र्धीरै॑: कर्म॒ण्यां मृद॑म् । हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ।। ५५ ।।
उ० तिसृभिरनुष्टुब्भिः सिनीवाल्यदितिदेवताभिर्मृदं संयौति । संसृष्टां संसेविताम् । वसुभिः रुद्रेश्च धीरैः बुद्धिमद्भिः । धीशब्दो बुद्धिवचनः रो मत्वर्थीयः। कर्मण्याम् कर्मणा या संपद्यते सा कर्मण्या तां कर्मण्याम् । मृदं मृत्तिकाम् । हस्ताभ्यां मृद्वीं कृत्वा सिनीवाली कृणोतु करोतु ॥ ५५ ॥
म० 'सᳪं᳭सृष्टामिति संयौति ऋक्त्रयेण मृत्पिण्डे सम्यक् मिश्रयति' (का० १६ । ३ । २०) द्वे सिनीवालिदेवत्ये तृतीयादितिदेवत्या तिस्रोऽनुष्टुभः । सिनीवाली चन्द्रकलायुक्तामावास्याभिमानिनी देवता मृदं हस्ताभ्यां मृद्वीं कोमलां कृत्वा पुनस्तां मृदं कर्मण्यामुखाकर्मयोग्यां कृणोतु । कर्म संपद्यते यया सा कर्मण्या ताम् । कीदृशीं मृदम् । धीरैः बुद्धिमद्भिर्वसुभिः रुद्रैश्च संसृष्टां सेवितां शर्करादिभिः संयोजितां वा । धीरस्ति येषां ते धीराः । मत्वर्थे रः ॥ ५५ ॥

षट्पञ्चाशी।
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ।। ५६ ।।
उ० या सिनीवाली सुकपर्दा। कपर्दः केशसंयमनप्रकारः। साधु केशसंयमना वेणिर्वा कपर्दः । सुकुरीरा कुरीरो मुकुटः शोभनमुकुटा । स्वौपशा शोभनमुपशेते या सा स्वौपशा विदग्धः शयने करकण्ठकूजितादिभिर्विलासैर्यस्याः सा तुभ्यं हे अदिते, महि महति, उखां दधातु स्थापयतु हस्तयोः ॥५६॥
म० 'अदितिरदीना देवमाता' (निरु० ४ । २३) इति यास्कः । हे अदिते देवमातः, हे महि महति, सा पूर्वमन्त्रोक्ता सिनीवाली तुभ्यं तव हस्तयोः उखामादधातु स्थापयतु । कीदृशी सा । सुकपर्दा कपर्दोऽत्र स्त्रीणामुचितः केशबन्धविशेषः । शोभनः कपर्दो यस्याः सा सुकपर्दा । सुकुरीरा स्त्रीभिः शृङ्गारार्थं शिरसि धार्यमाणं कनकाभरणं कुरीरः । शोभनः कुरीरो यस्याः सा सुकुरीरा सुमुकुटा । स्वौपशा सम्यक् उपशेते शयनं कुरुते यैरवयवविशेषैस्ते सर्वेऽप्युपशाः तेषां समूह औपशः । शोभनः शयनविदग्धो विलासचतुर औपशोऽवयवसमूहो यस्याः सा ॥ ५६ ॥

सप्तपञ्चाशी
उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साऽग्निं बि॑भर्तु॒ गर्भ॒ आ । म॒खस्य॒ शिरो॑ऽसि ।। ५७ ।।
उ० उखां कृणोतु करोतु । शक्त्या सामर्थ्येन । बाहुभ्याम् अदितिः धिया बुद्ध्या च कृता सती । माता पुत्रं यथा उपस्थे उत्सङ्गे । अग्निं बिभर्तु धारयतु । गर्भे आ। आकार आत्मनो योग्यां क्रियामाक्षिपति । आधारय । गर्भशब्द उखाभ्यन्तरवचनः । मृत्पिण्डमादत्ते । मखस्य यज्ञस्य शिरोसि । आहवनीयो यज्ञस्य शिरस्तदुद्धारणादिहापि लक्षणया शिरःशब्दः प्रवर्तते ॥ ५७ ॥
म० अदितिः शक्त्या सामर्थ्येन धिया बुद्ध्या च बाहुभ्यां हस्ताभ्यामुखां कृणोतु करोतु । सा उखा कृता सती गर्भे मध्यभागे आसमन्तात् अग्निं बिभर्तु धारयतु । तत्र दृष्टान्तः । यथा माता जननी उपस्थे उत्सङ्गे पुत्रं बिभर्ति तद्वत् । 'यजमान उखां करोति मृदमादाय मखस्य शिर इति' (का० १६ । ३ । २३) । यजमानपत्न्या तत्पिण्डान्मृदमादाय द्वादशाङ्गुलित्रिस्थानलिखिताषाढसंज्ञकेष्टकायां कृतायां यजमानः पिण्डान्मृदमादाय स्वयमेवोखां करोति । एकपशुपक्षे प्रादेशायामविस्तारोर्ध्वां चतुरस्रां पञ्चपशुपक्षे त्रिभागोनत्रयोविंशत्यङ्गुलायामविस्तारामूर्ध्वां प्रादेशेन वेति सूत्रार्थः । मृत्पिण्डदेवत्यं यजुः यजुर्गायत्रीच्छन्दः । हे मृत्पिण्ड, त्वं यज्ञस्य शिरोऽसि आहवनीयो यज्ञस्य शिरस्थयुद्धकरणादिहापि लक्षणया शिरःशब्दः ॥ ५७ ॥

अष्टपञ्चाशी।
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॑ पृथि॒व्य॒सि धा॒रया॒ मयि॑ प्र॒जाᳪं᳭ रा॒यस्पोषं॑ गौप॒त्यᳪं᳭ सु॒वीर्य॑ᳪं᳭ सजा॒तान्यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽस्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाᳪं᳭ रा॒यस्पोषं॑ गौप॒त्यᳪं᳭ सु॒वीर्य॑ᳪं᳭ सजा॒तान्यज॑मानायादि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वासि द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाᳪं᳭ रा॒यस्पोषं॑ गौप॒त्यᳪं᳭ सु॒वीर्य॑ᳪं᳭ सजा॒तान्यज॑मानाय॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाᳪं᳭ रा॒यस्पोषं॑ गौप॒त्यᳪं᳭ सु॒वीर्य॑ᳪं᳭ सजा॒तान्यज॑मानाय ।। ५८ ।।
उ० तं प्रथयति । वसवस्त्वा वसवस्त्वा कृण्वन्तु हे उखे, गायत्रेण छन्दसाङ्गिरस्वत् यथाङ्गिरसा कृता । यतश्च त्वं कृता सती ध्रुवा स्थिरासि पृथिवी चासि अतस्त्वां ब्रवीमि धारय स्थापय मयि । यजमानायेति चतुर्थ्यन्तं पदमुपरिष्टाच्छ्रूयते तदिह सप्तम्यन्तं कृत्वा योज्यते सामानाधिकरण्यात् । प्रजां धनस्य च पुष्टिं गोपतित्वं च । शोभनं च वीर्यं वीरकर्म । सजातान् समानजातान् भ्रातॄन् धारयेति | सर्वत्राभिसंबध्यते । उत्तरेषु मन्त्रेषु विशेषः। रुद्रास्वा अन्तरिक्षमसि । अदित्यास्त्वा द्यौरसि । विश्वे त्वा देवा वैश्वानराः। | विश्वान्नारयन्ति तारयन्ति वैश्वानराः दिशोऽसीति ॥ ५८ ॥ -
म० 'वसवस्त्वेति प्रथयति' (का० १६ । ३ । २३)। यजमान आत्तां मृदमुखातलाय प्रादेशमात्रविपुलां करोतीति सूत्रार्थः । उखादेवत्या ब्राह्मी अनुष्टुप् । हे उखे, वसवः देवविशेषाः गायत्रेण छन्दसा कृत्वा अङ्गिरस्वत् अङ्गिरस इव त्वा त्वां कृण्वन्तु कुर्वन्तु । यथाङ्गिरोभिर्मुनिभिः कृता तद्वत् । यतस्त्वं कृता सती स्थिरासि पृथिवी चासि अतस्त्वां - वच्मि । यजमानायेति चतुर्थी सप्तम्यर्थे । मयीति सामानाधिकरण्यात् हे उखे, मयि यजमाने प्रजां पुत्रादिकां धारय स्थापय । रायस्पोषं धनस्य पुष्टिं च धारय । गौपत्यं गोपतित्वं धनस्वामित्वं मयि धारय । सुवीर्यं शोभनं वीर्यं वीरकर्म मयि स्थापय । सजातान्समानोदरोत्पन्नान्भ्रातॄन्मयि धारय । 'अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रास्त्वेति' (का० १६ ।३ । २७ ) । प्रथनानन्तरं प्रथिततलस्य प्रान्तान्सर्वानूर्ध्वं नीत्वा प्रथमां पिण्डिकामन्तैः संयोजयतीति सूत्रार्थः । उखादेवत्यम् | आर्ष्यनुष्टुप् । हे उखे, रुद्राः त्रैष्टुभेन छन्दसा त्वां कुर्वन्तु । त्वमन्तरिक्षरूपासीति विशेषः । शेषं पूर्ववत् । 'संलिप्य श्लक्ष्णं कृत्वोत्तरमादित्यास्त्वेति' (का. १६ । ३ । २८)। तामुखां | शिथिलमृदा लिप्त्वा वारिणा मृदुं कृत्वोत्तरं धातुं द्वितीयपिण्डिकां पूर्वोपरि योजयतीति सूत्रार्थः । उखादेवत्यम् । ब्राह्मी अनुष्टुप् । आदित्या देवाः जागतेन छन्दसा त्वां कुर्वन्तु त्वं द्योरूपासीति विशेषः । शेषा व्याख्या प्राची । “विश्वे त्वेति समीकरोति' (का. १६ । ३ । २९) । पूर्वोक्तमानां करोतीति सूत्रार्थः । औखम् ब्राह्मी बृहती । विश्वैर्नरैर्नीयन्ते विश्वानरान्नयन्ति वा विश्वेषां नराणां संबन्धिनो वा विश्वेभ्यो नरेभ्यो हिता वा वैश्वानराः एवंभूता विश्वेदेवाः हे उखे, त्वां कुर्वन्तु । आनुष्टुभेन छन्दसा कृत्वा त्वं च दिशो दिग्रूपासि । शेषं पूर्वतुल्यम् ॥ ५८ ॥

एकोनषष्टी।
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु । कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ ।
पु॒त्रेभ्य॒: प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ।। ५९ ।।
उ० वितृतीय उत्तरेवर्ति सर्वतः करोति । अदित्यै रास्नासि।व्याख्यातम्। बिलं गृह्णाति।अदितिरदीना देवमाता ते तव बिलस्य मध्यं गृभ्णातु निदधातु कृत्वाय । उष्णिगनुष्टुब्वा आदित्याया उक्तगुणा अदितिः सा कृत्वाय क्त्वो यक् छान्दस उपजनः । कृत्वा । महीं महतीम् उखाम्। योनिं स्थानम् । अग्नये अग्न्यर्थम् पुत्रेभ्यः प्रायच्छत् प्रादात् श्रपयान् श्रपयन्तु । इतिकरणः प्रयोजनख्यापनार्थः ॥५९॥
म० 'वितृतीय उत्तरे वर्तिᳪं᳭ सर्वतः करोत्यदित्यै रास्नेति' (का० १६ । ३ । ३०) । उखोर्ध्वमानं त्रेधा विभज्योपरि तृतीयभागे सर्वत्र मृन्मयीं मेखलां करोति तलान्मेखलान्तमपि प्रतिदिशं चतुर्वृत्तीरग्रे स्तनयुक्ताः कुर्यादिति सूत्रार्थः । रास्नादेवत्यम् यजुर्गायत्री । हे रेखे, त्वमदित्यै अदितिरूपाया उखाया रास्ना काञ्चीगुणस्थानीयासि । 'बिलं गृह्णात्यदितिष्ट इति' ( का० १६ । ४ । ३) । उखाया मुखमालभते । उखादेवत्यम् यजुर्बृहती । हे उखे, अदितिः देवमाता ते तव बिलं मध्यं गृभ्णातु गृह्णातु । 'कृत्वायेति निदधाति' (का० १६ । ४ । ४)। एवमुखां निष्पाद्य भूमौ स्थापयतीति सूत्रार्थः । अदितिदेवत्या उष्णिगनुष्टुब् वा । उष्णिक्पक्षे तृतीयपादश्चतुर्दशार्णस्तेन द्य्।धिका अनुष्टुप्पक्षे तृतीयः षडर्णो व्यूह्यः । सा पूर्वोक्ता अदितिः उखां । कृत्वाय क्त्वो यक् । कृत्वा निष्पाद्य पुत्रेभ्यो देवेभ्यः इति वदन्ती प्रायच्छत् । इति किम् । श्रपयान् श्रपयन्तु । 'श्रा पाके' णिजन्तः । हे पुत्राः, इमामुखां भवन्तः श्रपयन्तु पचन्तु । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति अन्तीत्यस्येकारलोपे संयोगान्तलोपे च 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे श्रपयानिति रूपम् । कीदृशीमुखाम् । महीं महतीं विशालां मृण्मयीं मृत्कार्यभूताम् अग्नये अग्न्यर्थमग्नेर्वा योनिं स्थानभूताम् ॥ ५९॥

षष्ठी
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॑ धूपयन्तु त्रैष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदादि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु ।। ६० ।।
उ० सप्तभिरश्वशकृद्भिरुखां धूपयति सप्तभिर्यजुर्भिः प्रतिमन्त्रम् । वसवस्त्वा । ऋज्वर्थानि यजूंषि ॥ ६० ॥
म० 'सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तेरेकैकेन वसवस्त्वेति प्रतिमन्त्रम्' (का० १६ । ४ । ८)। दक्षिणाग्नौ प्रदीप्तैः सप्तभिरश्वलण्डैरुखां प्रतिमन्त्रं धूपयत्यध्वर्युः । धूमायमानमेकैकमश्वलण्डमादायैकेकैन मन्त्रेणोखायां मध्ये बहिश्च भ्रामयेदिति सूत्रार्थः । सप्त यजूंष्युखादेवत्यानि त्रीणि ऋग्गायत्र्यः तुर्यं सामजगती पञ्चमसप्तमे यजुरुष्णिहौ षष्ठं यजुरनुष्टुप् । हे उखे, अष्टौ वसवः गायत्रेण छन्दसा अङ्गिरस इव त्वां धूपयन्तु अश्वशकृज्जन्येन धूपेन संस्कुर्वन्तु । रुद्राः एकादश त्रैष्टुभेन छन्दसा अङ्गिरस इव त्वां धू० । आदित्या जागतेन छन्दसा । वैश्वानराः सर्वहिता विश्वेदेवाः आनुष्टुभेन छन्दसा । इन्द्रस्त्वां धूपयतु वरुणो विष्णुश्च । शेषं पूर्ववत् सुगमम् ॥ ६०॥

एकषष्टी
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्ख॑नत्ववट
दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद्द॑धतूखे
धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद॒भी॒न्धतामुखे॒
वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वच्छ्र॑पयन्तूखे॒
ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे॒
जन॑य॒स्त्वाच्छि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे ।। ६१ ।।
उ० अभ्र्या श्वभ्रं खनति अदितिष्ट्वा अदितिस्त्वां देवी विश्वदेव्यावती । विश्वैर्देवैः सहितपृथिव्याः सहस्थाने अङ्गिरा इव खनतु । हे अवट कूप । उखामवदधातु । | देवानां त्वा । इतउत्तरं पञ्चसु यजुःषु श्रुत्युक्तान्यभिधेयानि व्याख्यायन्ते इति 'ओषधयो वै देवानां पत्न्यः' इति । दधतु स्थापयतु उखे । अग्निना दीपयति । धिषणास्त्वाम् धिषणा वाचः । अभीन्धताम् । 'इन्धी दीप्तौ' श्रपयति । वस्त्रीष्ट्वा 'अहोरात्राणि वै वरूत्रयः' । तानि हि वृण्वन्ति । पचति द्वाभ्याम् । ग्नास्त्वा ग्नाश्छन्दांसि 'छन्दांसि वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति' । जनयस्त्वा । 'नक्षत्राणि वै जनयः' । अच्छिन्नपत्राः अनवच्छिन्नपत्राः ॥ ६१ ॥
म० 'अभ्र्या श्वभ्रं चतुरस्रं खनत्यदितिष्ट्वेति' (का. १६ । ४ । ९)। अषाढोखाविश्वज्योतिषां पाकाय चतुरस्रं गर्तमभ्र्या खनतीति सूत्रार्थः । अवटदेवत्यम् प्राजापत्या त्रिष्टुप् । हे अवट गर्त, अदितिर्देवी पृथिव्याः सधस्थे सहस्थाने उपरिभागे त्वा त्वां खनतु । अङ्गिरस इव यथाङ्गिरोभिस्त्वं खातस्तद्वत् । कीदृश्यदितिः । विश्वदेव्यावती विश्वेषां देवानां समूहो विश्वदेव्यम् तद्विद्यते यस्याः सा विश्वदेव्यवती। मन्त्रे 'सोमाश्व-' ( पा० ६ । ३ । १३१) इत्यादिना दीर्घः । सर्वैर्देवैः सहिता। विश्वेषु देवेषु साधवो विश्वदेव्याः तेऽस्यां सन्तीति वा । 'देवानां त्वेत्युखां न्युब्जाम्' (का० १६ । ४ । ११) इति । अधोमुखामुखामषाढोत्तरतो गर्ते स्थापयतीति सूत्रार्थः । पञ्च यजूंष्युखादेवत्यानि द्वे प्राजापत्ये त्रिष्टुभौ । विश्वदेव्यावतीः विश्वैः देवैः सहिताः देवानां पत्नीः देवीः देवपत्न्यो देव्यो दीप्यमाना ओषधयः पृथिव्याः सधस्थे उपरि अङ्गिरस इव हे उखे, त्वा त्वां दधतु स्थापयन्तु । देवपत्नीशब्देनौषधयः श्रुत्योक्ताः । तथाच श्रुतिः 'ओषधयो वै देवानां पत्न्यः' (६ । ५ । ४ । ४) इति । 'श्रपणेनावच्छाद्य दक्षिणान्यग्निना दीपयति धिषणास्त्वेति' । (का. १६ । ४ । १२) । उखास्थापनानन्तरं विश्वज्योतिषस्तूष्णीं श्वभ्रेऽवधाय श्रपणैः सर्वमाच्छाद्य दक्षिणाग्नेरानीतेन वह्निनोखां दीपयतीति सूत्रार्थः। विश्वदेवयुक्ता धिषणाः वागभिमानिन्यो देव्यः पृथिव्याः उपरि अङ्गिरस इव हे उखे, त्वामभीन्धतां समन्ताद्दीपयन्तु । 'वरूत्रीष्ट्वेतीक्षमाणो जपति' (का० १६ । ४ । १४) । सामर्थ्यादुखोपरिस्थश्रपणे छिद्रं कृत्वा तेनोखां पश्यन् त्रीणि यजूंषि जपतीति सूत्रार्थः । ऋगबृहती । विश्वदेवयुता वरूत्रयो देव्योहोरात्राभिमानिन्यो देवताः पृथिव्या उपरि अङ्गिरस इव हे उखे, त्वां श्रपयन्तु पच्यमानतां संपादयन्तु । 'अहोरात्राणि वै वरूत्रयोऽहोरात्रैर्हीदᳪं᳭ सर्वं वृतम्' ( ६ । ५ । ४ । ६) इति श्रुतेर्वरूत्रिशब्देनाहोरात्राणि । ग्नास्त्वा । साम जगती । 'छन्दाᳪं᳭सि ह वै ग्नाश्छन्दोभिर्हि स्वर्गं लोकं गच्छन्ति' ( ६ । ५। ४ । ७) इति श्रुतेर्ग्नाशब्देन छन्दांसि । विश्वदेवयुता ग्नादेव्यश्छन्दोभिमानिन्यो देवताः पृथिव्या उपरि हे उखे, अङ्गिरस इव त्वां पचन्तु । जनयस्त्वा । ऋक्पङ्क्तिः । 'नक्षत्राणि वै जनयः' (६। ५ । ४ । ८) इति श्रुतेर्जनयो नक्षत्राभिमानिन्यो देवताः हे उखे, त्वां पचन्तु । कीदृश्यो जनयः । अच्छिन्नपत्राः अच्छिन्नं पत्रं पतनं यासां ताः सन्ततयायिन्यः । शिष्टं स्पष्टम् ॥ ६१॥

द्विषष्टी।
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ।। ६२ ।।
उ० आचरति । मित्रस्य चर्षणीधृतः । मैत्री गायत्री । मित्रस्यादित्यस्य चर्षणीधृतः । चर्षणयो मनुष्याः तेषां धारणे अधिकृतस्य अवः देवस्य अवः रक्षणं । सानसि पुरातनं पुराणं द्युम्नं च यशः अन्नं वा । चित्रश्रवस्तमम् अतिशयेन चाकर्णनीयं श्रवणीयं च वयं स्तुम इति वाक्यशेषः । याचेमहीति वा । यद्वा यस्य मित्रस्य चर्षणीधृतः पालने पुराणमस्ति द्युम्नं चित्रश्रवस्तमम् स यजमानस्याभिप्रेतमर्थं साधयतु ॥ ६२॥
म० 'आचरति मित्रस्येति' (का. १६ । ४ । १५)। पाकान्तं श्रपणं क्षिपतीति सूत्रार्थः । मित्रदेवत्या गायत्री विश्वामित्रदृष्टा । मित्रस्यादित्यस्य अवो रक्षणं द्युम्नं यशोऽन्नं वा वयं स्तुम इति शेषः । याजेमहीति वा । कीदृशस्य मित्रस्य । चर्षणीधृतः चर्षणयो मनुष्यास्तान्धरतीति चर्षणिधृत् तस्य । संहितायां दीर्घः । मनुष्याणां धारयितुः । देवस्य दीप्यमानस्य । कीदृशमवः । सानसि सनातनम् । सानसीति पुराणनाम (निघ० ३ । २७ । ४) फलदानशीलं वा 'षणु दाने' इत्यस्य प्रयोगः । कीदृशम् । द्युम्नं चित्रश्रवस्तमं चित्रं विचित्रमनेकैः श्रूयते तचित्रश्रवः 'श्रु श्रवणे' अस्मात्कर्मण्यसुन् । अतिशयेन चित्रश्रव इति चित्रश्रवस्तममत्यन्तं श्रवणीयं यशः प्रार्थयामेति भावः ॥ ६२॥

त्रिषष्टी।
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑ ।
अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ आ पृ॑ण ।। ६३ ।।
उ० उद्वपति । देवस्त्वा । बृहती उख्या । देवः त्वा त्वां भवतीम् उद्वपतु प्रकाशीकरोतु । सुहस्तः स्वङ्गुरिः शोभनाङ्गुलिः । लकारस्य रेफश्छान्दसः। सुबाहुः सुभुजः । उत शक्त्या शक्त्या अपि बुद्ध्यति । उतशब्दः समुच्चयार्थः । उद्वपतीत्यनुवर्तते । त्वं च सवित्रा उद्वप्ता सती अव्यथमाना अचलन्ती । पृथिव्याम् आस्थिता आशा दिशो विदिशश्च आ पृण आपूरय आहुतिरसेन ॥ ६३ ॥
म० 'उद्वपति श्रपणं देवस्त्वेति' ( का० १६ । ४ । १८-१९)। भस्मीभूतं श्रपणमुखायाः पराकरोतीति सूत्रार्थः । सवितृदेवत्या बृहती । हे उखे, सविता देवः शक्त्या स्वसामर्थ्येन उत अपि बुद्ध्या च त्वा त्वामुद्वपतु श्रपणाच्छादनात्प्रकाशीकरोतु । उतशब्दाद् बुद्धिरध्याहार्या । कीदृशः सविता । सुपाणिः शोभनौ पाणी हस्तौ यस्य स सुपाणिः । स्वङ्गुरिः शोभना अङ्गुलयः करस्था यस्य स स्वङ्गुलिः । लकारस्य रेफश्छान्दसः । सुबाहुः शोभनौ बाहू भुजौ यस्य स सुबाहुः । मणिबन्धादुपरिभागो बाहुः अधोभागः पाणिः । 'उखामुत्तानां करोत्यव्यथमानेति' (का० १६ । ४ । १९–२०)। श्रपणमपाकृत्याषाढां बहिर्निष्काश्योखामुत्तानामूर्ध्वमुखीं करोतीति सूत्रार्थः । हे उखे, सवित्रा उदुप्ता सती अव्यथमाना अचलन्ती व्यथामनाप्नुवन्ती पृथिव्यां स्थिता सती त्वमाशाः प्राच्यादिदिशः आग्नेय्यादिविदिशश्च आपृण आपूरय । आहुतिरसेनेति शेषः ॥ ६३ ॥

चतुःषष्टी।
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् ।
मित्रै॒तां त॑ उ॒खां परि॑ ददा॒म्यभि॑त्त्या ए॒षा मा भे॑दि ।। ६४ ।।
उ० उद्यच्छति । उत्थाय बृहती पूर्वोर्ध उख्य उत्तरो मैत्रः। एतस्माद्यजनस्थानादुत्थाय बृहती महती भव । तत उदुत्तिष्ठ प्रवर्तस्व स्वकीये कर्मणि । यतस्त्वं ध्रुवा स्थिरासि स्वभावतः परिगृह्य पात्रे करोति । मित्रैतां त इति । हे मित्र, एतां ते तव उखां परिददामि प्रयच्छामि । किमर्थम् । अभित्त्यै अभेदनाय। एषा च उखा त्वया गृहीता सती मा भेदि मा भिद्यताम् ॥ ६४॥
म० 'उद्यच्छत्युत्थायेति परिगृह्य' (का० १६।४।२१-२२)। हस्ताभ्यामुखामादाय पाकादूर्ध्वं निष्काशयतीति सूत्रार्थः । बृहती पूर्वोऽर्धर्च उखादेवत्यः उत्तरार्धो मित्रदेवत्यः । हे उखे, त्वमुत्थायैतस्मादवटाद्बहिरागत्य बृहती महती भव । तत उत्तिष्ठ स्वकर्मणि प्रवर्तस्व । यतः त्वं ध्रुवा स्थिरासि स्वभावतः । उकारः पादपूरणः । 'पात्रे करोति मित्रैतां त इति' (का. १६ । ४ । २२) । हस्तगृहीतामुखामुत्तरतः पूर्वस्थापिते कस्मिंश्चित्पात्रे स्थापयतीति सूत्रार्थः । ततो विश्वज्योतिषां तूष्णीमुद्वपनम् । हे मित्र सर्वप्राणिहितकारिन् देव, एतामुखां ते तव परिददामि परित्राणाय प्रयच्छामि । किमर्थम् । अभित्त्यै भेदनं भित्तिः न भित्तिरभित्तिस्तस्यै अभेदनाय । एषा चोखा त्वया गृहीता सती मा भेदि मा भिद्यतां विदीर्णा मास्तु ॥ ६४ ॥

पञ्चषष्टी।
वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॒ऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्दसाऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आच्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ।। ६५ ।।
उ० आच्छृणत्ति वसवस्त्वा । निगदव्याख्यातम् ॥ ६५ ॥
म०. 'अजापयसावसिञ्चति वसवस्त्वेति प्रतिमन्त्रमिति' (का. १६ । ४ । २३)। चतुर्मन्त्रैश्चतुर्वारमजादुग्धमुखायामवनयतीति सूत्रार्थः । उखादेवत्यानि चत्वारि आद्या ऋग्गायत्री । हे उखे, वसवः गायत्रेण छन्दसाङ्गिरस इव त्वा त्वामाच्छृन्दन्तु समन्तासिञ्चन्तु । 'उच्छृदिर् दीप्तिदेवनयोः' रुधादिः अत्र सेचनार्थः । रुद्राः । प्राजापत्यानुष्टुप् । रुद्रास्त्वा त्रैष्टुभेन छन्दसा आच्छृन्दन्तु । आदित्याः । ऋग्गायत्री । आदित्याः जगतीच्छन्दसा त्वां छृन्दन्तु । विश्वे । सामजगती। वैश्वानराः सर्वहिता विश्वेदेवा अनुष्टुप्छन्दसा त्वां छृन्दन्तु शेषं स्पष्टम् ॥ ६५ ॥

षट्षष्टी
आकू॑तिम॒ग्निं प्र॒युज॒ᳪं᳭ स्वाहा॑ मनो॑ मे॒धाम॒ग्निं प्र॒युज॒ᳪं᳭ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युज॒ᳪं᳭ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युज॒ᳪं᳭ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॑ ऽग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ।। ६६ ।।
उ० औद्ग्रभणानि जुहोति । आकूतिमग्निम् । आकवनमाकूतिः । बलं वा आत्मनो धर्मो मनसः प्रेरणहेतुः । स एवाग्निः । प्रयुङ्क्ते कर्मणीति प्रयुक् । स्वाहा सुहुतं करोमीति व्याख्यातम् । 'नमःस्वस्तिस्वाहास्वधा-'इत्यादिना उपपदविभक्तिश्चतुर्थी । आकूत्यै अग्नये प्रयुजे स्वाहा । एवमुपरितना अपि मन्त्रा व्याख्येयाः । मनो मेधाम् । मनो मनसः प्रवृत्तिर्मेधायाश्च । चित्तं विज्ञातम् । ततश्चित्तस्य चिन्तनस्य संस्कारस्य वा विज्ञातस्य प्रवृत्तिः । वाचो विधृतिः । ततो वाचो विधारयिताग्निः प्रकाशको भवति । प्रजापतये मनवे मन्वन्तरकारिणे अग्नये वैश्वानराय विश्वानरपुत्राय ॥ ६६ ॥
म०. 'प्राकृतान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमिति प्रतिमन्त्रम्' (का० १६ । ४ । ३०) । एवमुखासंभरणं समाप्यान्या अपीष्टकाः कृत्वा फाल्गुनामावास्यायां दीक्षां कृत्वौद्ग्रभणहोमकाले प्राकृतानि सोमयागे कर्तव्यानि 'आकूत्यै प्रयुजेऽग्नये स्वाहा' ( अध्या० ४ । क० ७) इत्यादीनि पञ्चौद्ग्रभणानि हुत्वाग्निचयनसंबन्धीनि सप्तौद्ग्रभणानि प्रतिमन्त्रं जुहोतीति सूत्रार्थः । सप्तौद्ग्रभणसंज्ञानि लिङ्गोक्तदेवत्यानि । आकूत्यै यजुः पङ्क्तिः । आकूतिरस्मदीयः संकल्पोऽग्निचयनानुष्ठानविषयः तां प्रति प्रयुङ्क्ते प्रेरयतीति प्रयुक् तं संकल्पप्रेरकमग्निमुद्दिश्य स्वाहा सुहुतमस्तु । आकूतिरेवाग्निरिति सामानाधिकरण्यं वा । मनः । यजुस्त्रिष्टुप् । अनुष्ठेयस्मरणसाधनं मनः श्रुतयोर्मन्त्रतन्त्रयोर्धारणशक्तिर्मेधा तदुभयं प्रति प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहा । चित्तम् । यजुर्जगती । अविज्ञातस्यानुष्ठानस्य ज्ञानसाधनं चित्तं तेन चित्तेनावगतमनुष्ठानं विज्ञातम् तदुभयं प्रति प्रेरकमग्निमुद्दिश्य सुहुतमस्तु । वाचः । यजुर्जगती । वाचो मन्त्रपाठरूपाया विधृतिं विधारणं प्रति प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहा सुहुतमिदमस्तु । प्रजापतये । यजुःपङ्क्तिः । मनवे मन्वन्तरकारिणे प्रजापतये प्रजानां पालकाय स्वाहा । विश्वेषां नराणामनुग्राहकाय विश्वानरपुत्राय वाग्नये स्वाहा सुहुतमस्तु ६६

सप्तषष्टी ।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। ६७ ।।
उ०. विश्वो देवस्येति व्याख्यातम् ॥ ६७ ॥
म० ऋष्याद्युक्तं व्याख्याता च ( अध्या० ४ । क० ८)। विश्वो मर्तो सर्वो मनुष्यो नेतुः फलप्रापकस्य देवस्य दानादिगुणयुक्तस्य सवितुः सख्यं सखिभावं वुरीत वृणुते प्रार्थयते । विश्वः सर्वो जनः राये धनाय इषुध्यति देवं प्रार्थयते । यात्राकर्मसु पठितः । किंच पुष्यसे पोष्टुं पोषणाय द्युम्नं यशोऽन्नं वा वृणीत सर्वो जनः प्रार्थयते । स्वाहा तस्मै प्रेरकाय सुहुतमस्तु ॥ ६७ ॥

अष्टषष्टी
मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु । अ॒ग्निश्चे॒दं क॑रिष्यथः ।। ६८ ।।
उ० उखामाहवनीयेऽधिश्रयति । मा सु भित्थाः इति गायत्री त्रिष्टुब्भ्यामुखादेवत्याभ्याम् । अग्निश्चेदमिति पाद आग्नेयश्च । हे उखे, मा त्वं भित्थाः । 'भिदिर विदारणे' । भिद्यस्व । सुकारोऽनर्थकः । मा च रिषः । रिषतिर्हिंसाकर्मा । मा विनश्यस्व । हे अम्ब, अम्बेति योषाया आमन्त्रणम् । धृष्णु धृष्टं प्रागल्भ्यं वीरयस्व वीरकर्म कुरुष्व अग्निधारणलक्षणम् । किंच । इतउत्तरम् अग्निश्च त्वं च इदं कर्म आसमाप्तेः करिष्यथः पचनम् ॥ ६८ ॥
म० 'दण्डोच्छ्रयणान्तं कृत्वाध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णामन्तरेशणां मा सु भित्था इति तिष्ठन्नुदङ् प्राङ्' (का० १६ । ४ । ३१)। औद्ग्रभणहोमानन्तरं दीक्षणीयाशेषं समाप्य कृष्णाजिनदीक्षादि दण्डोच्छ्रयणान्तं प्राकृतं कर्म कृत्वाध्वर्युर्यजमानो वेशानाभिमुखः प्राग्वा तिष्ठन्नृग्द्वयेन समिद्धे आहवनीये उखामारोपयति । कीदृशीमुखाम् । मुञ्जतृणनिर्मितं पक्षिनीडं मुञ्जकुलायः शणनिर्मितं तच्छणकुलायस्ताभ्यां मध्ये छादितामादौ शणकुलायेन ततोऽन्येनेति सूत्रार्थः । उखादेवत्ये द्वे गायत्रीत्रिष्टुभौ । प्रथमायास्तृतीयपादोऽग्निदैवतः । हे अम्ब मातः उखे, त्वं सुतरां मा भित्थाः भिन्ना विदीर्णा मा भव । इदमभिन्नत्वं सुष्ठु विधेयम् । तथा मा सुतरां रिषः । रिषतिर्हिंसाकर्मा । मा हिंसिता भव मा विनश्यस्व । इदमस्फुटनं सुष्ठु विधेयम् । सर्वात्मना द्वैधीभावो भेदः, लेशस्य पृथग्भावः स्फुटनं तदुभयं तव मा भूदित्यर्थः । किंच हे उखे, धृष्णु प्रगल्भं यथा सुतरां वीरयस्व अग्निधारणलक्षणं वीरकर्म कुरु । किंच अग्निश्चकारात्त्वं चेदमस्मदीयं कर्म आसमाप्तेः करिष्यथः ॥ ६८ ॥

एकोनसप्ततितमी।
दृᳪं᳭ह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
जुष्टं॑ दे॒वेभ्य॑ इ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ।। ६९ ।।
उ० दृंहस्व देवि । हे उखे, दृंहस्व दृढीकुरु आत्मानम् । हे देवि पृथिवि । कार्ये कारणोपचारो वर्णनार्थः । स्वस्तये अविनाशाय । कस्मात्त्वमिदमुच्यसे । यत आसुरीमाया । असुः प्राणः । रेफ उपजनः । प्राणसंबन्धिनी माया प्रज्ञा । स्वधया अन्नेन निमित्तभूतेन कृतासि । किंच । जुष्टं प्रियं देवेभ्यो हुतम् इदं हव्यं हविः अस्तु । त्वत्प्रसादात् या उख्येग्नावाहुतयो हूयन्ते ता उच्यन्ते । त्वमपि अरिष्टा अनवखण्डिता उदिहि उद्गच्छ यज्ञे अस्मिन्वर्तमाने ॥ ६९ ॥
म० कार्ये कारणोपचारो वर्णनार्थः । हे पृथिवि देवि, मृत्कार्यत्वात्पृथिवीत्वं मन्त्रैर्निष्पादितत्वाद्देवतात्वम् । तथाविधे हे उखे, स्वस्तये यजमानस्य क्षेमाय दृंहस्व दृढा भव । कस्मात्त्वमिदमुच्यसे स्वधयान्नेन निमित्तेन त्वमासुरी माया प्राणसंबन्धिनी प्रज्ञा कृतासि । असूनां प्राणानामियमासुरी । यद्वा असुरसंबन्धिनी माया अचिन्त्यरचनारूपं चित्रं वस्तु भूत्वा यद्वत्प्रतिभाति तद्वत् त्वमपि स्तनरचनायुक्ता निष्पन्नासीत्यर्थः । किंच हे उखे, इदं हव्यमुख्येऽग्नौ होष्यमाणं देवेभ्यो जुष्टं प्रियमस्तु । त्वत्प्रसादाद्देवेभ्यो रोचतामित्यर्थः । त्वमपि अरिष्टा अनवखण्डिता सती अस्मिन्यज्ञे वर्तमाने उदिहि उद्गच्छ उद्गता भव ॥ ६९॥

सप्ततितमी।
द्र्व॑न्न: स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ।। ७० ।।
उ० उख्येऽग्नौ त्रयोदश समिधः प्रादेशमात्रा आदधाति त्रयोदशभिराग्नेयीभिर्ऋग्भिः । द्वे गायत्र्यौ । द्र्वन्नः सर्पिरासुतिः । दुर्वृक्षोऽन्नमदनीयं यस्य स द्र्वनः । द्रुशब्दो द्रुमपर्यायः । सर्पिरासुतिः सर्पिर्घृतमासवस्थानीयं यस्य स सर्पिरासुतिः। प्रत्नः पुराणः। होता देवानामाह्वाता । वरेण्यो | वरणीयः । सहसस्पुत्रः बलस्य पुत्रः । यतो मथ्यमानो जायते तस्मादेवमुच्यते । अद्भुतः अनन्यसमः । य इत्थंभूतोऽग्निः स कार्मुकिं समिधं भक्षयत्विति शेषः । नह्यत्राख्यातं विद्यते नचाख्यातेन विना वाक्यपरिसमाप्तिः ॥ ७० ॥
म० 'अग्नावारूढे त्रयोदशास्यां प्रादेशमात्राः समिध आदधाति घृतक्लिन्नां कार्मुकीं द्र्वन्न इति (का० १६।४।३३-३५)। अभितापादुखायां वह्नौ जाते प्रादेशमितास्त्रयोदशसंख्याकाः समिधो जुहोति ताः क्रमेणाह । घृतक्लिन्नां क्रमुकसमिधमादौ क्रमुको धमनः इति सूत्रार्थः । अग्निदेवत्या गायत्री सोमाहुतिदृष्टा। ईदृशोऽग्निः। कार्मुकीं समिधं भक्षयत्विति शेषः । कीदृशः। द्र्वन्नः 'पलाशीद्रुद्रुमागमाः' इति कोशोक्तेर्द्रवो वृक्षा एवान्नमदनीयं यस्य स द्र्वन्नः, सर्पिरासुतिः सर्पिर्घृतमासुतिरासवस्थानीयं मादकं यस्य सः । यद्वा सर्पिराहारत्वेन सूयते प्रक्षिप्यते यस्मिन्सर्पिरासुतिः । प्रत्नः पुरातनः । होता देवानामाह्वाता। वरेण्यः वरणीयः । सहसो बलस्य पुत्रः मन्थनहेतुना बलेनोत्पद्यमानत्वात् । अद्भुतः आश्चर्यरूपः अनन्यसदृश इत्यर्थः ॥ ७० ॥

एकसप्ततितमी
पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ २अ॒भ्यात॑र । यत्रा॒हम॑स्मि॒ ताँ २अ॑व ।। ७१ ।।
उ० शतम् ५०० । वैकङ्कतीमादधाति । परस्या अधि । संवत इति संग्रामनामसु पठितम् । संपूर्वस्य वनतेर्गत्यर्थस्य | संगच्छन्ते ह्येव योधाः परस्याः संबन्धिन्याः संवतः अघि सकाशात् । अवरान् अस्मदीयान् । अभ्यातर अभ्यागच्छ । ततो यत्र जनपदे अहमस्मि तान् अव पालय तर्पय वा ७१
म० 'वैकङ्कतीं परस्या इति' (का० १६ । ४ । ३६)। | विकङ्कततरुसमिधं जुहोतीति सूत्रार्थः । आग्नेयी गायत्री विरूपदृष्टा । इत अध्यायान्तमाग्नेय्यः । संवत् इति संग्रामनामसु पठितम् । संपूर्वस्य वनतेर्गत्यर्थस्य क्विप् । संवन्वते संगच्छन्ते योधा यत्र सा संवत् । परस्याः शत्रुसंबन्धिन्याः संवतः संग्रामात् अवरानस्मदीयान् जनानभ्यातर अभिमुखमागच्छ दुःखात्तारयेत्यर्थः । किंच यत्र जनपदे अहमस्मि भवामि तानव पालय तर्पय वा ॥ ७१ ॥

द्विसप्ततितमी।
प॒र॒मस्या॑: परा॒वतो॑ रो॒हिद॑श्व इ॒हाग॑हि । पु॒री॒ष्य॒: पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृध॑: ।। ७२ ।।
उ० औदुम्बरीमादधाति । परमस्याः । तिस्रोऽनुष्टुभः । परावत इति दूरनामसु पठितम् । परमस्याः परावतः । परं दूरम् तस्मात् । हे रोहिदश्व, रोहितोग्नेः । हरित आदित्यस्य' इति निघण्टुः । हे अग्नेरश्व, इह आगहि आगच्छ । यतः त्वं पुरीष्यः पशव्योऽसि पुरुप्रियश्च बहुजनप्रियश्च । औदुम्बरे बहून्येवाशनानि 'तयोत (?) दूर्जा सर्वान्वनस्पतीन् प्रति पच्यते' इति श्रुतिः । आगत्य च हे अग्ने, त्वं तर विनाशय मृधः संग्रामान् ॥ ७२ ॥
म० 'औदुम्बरीं परमस्या इति' (का० १६ । ४ । ३७)। उदुम्बरतरुसमिधं तृतीयामादधातीति सूत्रार्थः । अनुष्टुब्वारुणीदृष्टा । हे अग्ने, परमस्याः परावतोऽत्यन्तदूरदेशादिहास्मिन्कर्मणि त्वमागहि आगच्छ । गच्छतेः शपि लुप्ते अनुदात्तोपदेशे मलोपे आगहीति रूपम् । परावत इति दूरनामसु पठितम् । परमाशब्दस्य सर्वनामत्वमार्षम् । परमा उत्कृष्टातिशयिता या परावत् । अतिदूरमित्यर्थः । आगत्य च मृधः संग्रामान् तर अतिलङ्घय । शत्रून्विनाशयेत्यर्थः । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः । कीदृशस्त्वम् । रोहिदश्वः ‘रोहितोग्नेऽर्हरित आदित्यस्य' इति निघण्टूक्तेः रोहितोऽग्नेरश्वाः रोहितः तत्संज्ञा अश्वा यस्य स रोहिदश्वः । पुरीष्यः पशव्यः पुरुप्रियः पुरूणां बहूनां प्रियो वल्लभः ॥ ७२ ॥

त्रिसप्ततितमी।
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ।। ७३ ।।
उ० अपरशुवृक्तामादधाति । यदग्ने । यच्छब्दो दध्मसीत्यनेन संबध्यते । यदा दध्मसि यदा दध्मः । हे अग्ने, तव दारूणि कानिचित् । चिच्छब्दोऽनवक्लृप्तौ। यानि कानिचिदेवेत्यभिप्रायः । सर्वं तदस्तु ते तव घृतं । तज्जुषस्व सेवस्व । हे यविष्ठ्य युवतम , स्वार्थे यप्रत्ययः ॥ ७३ ॥
म० 'अपरशुवृक्णां यदग्न इति' (का० १६ । ४ । ३८) कुठारं विना छिन्नां वातादिना भग्नां यज्ञियतरुसमिधं चतुर्थीमादधातीति सूत्रार्थः । द्वे अनुष्टुभौ जमदग्निदृष्टे, अतिशयेन युवा यविष्ठः यविष्ठ एव यविष्ठ्यः । स्वार्थे यत्प्रत्ययः । हे यविष्ठ्य हे युवतम हे अग्ने, कानि कानिचित् यानि कानि दारूणि काष्ठानि ते तव । सप्तम्यर्थे षष्ठी । त्वयि यत् आदध्मसि आदध्मः आरोपयामः । इदन्तो मसि । तत्सर्वं काष्ठजातं ते त्वदर्थं घृतं घृतवत्प्रियमस्तु । तद्दारुजातं त्वं जुषस्व सेवस्व ॥ ७३॥

चतुःसप्ततितमी ।
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॒षस्व॑ यविष्ठ्य ।। ७४ ।।
उ० अधःशयामादधाति । यदत्ति यद्भक्षयति काष्ठम् । उपजिह्विका उपदीपिका । यच्च वम्रः वल्मीकः अतीत्यनुवर्तते सर्वं तदिति व्याख्यातम् ॥ ७४ ॥
म० 'अधःशयां यदतीति' (का० १६ । ४ । ३९) । अधो नीचे देशे शेते तां भूलग्नां समिधं पञ्चमीमादधाति । उपजिह्विका उपदीपिका पिपीलिकासदृशः क्षुद्रजीवः यद्दारु अत्ति भक्षयति अधःशयत्वादेव । वम्रो वल्मीकश्च यद्दारु अति सर्पति अतिव्याप्नोति अतीत्यनुवर्तते तत्सर्वं ते घृतमस्तु इति पूर्ववत् ॥ ७४ ॥

पञ्चसप्ततितमी ।
अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ।। ७५ ।।
उ० पालाश्य उखा भवन्ति, अहरहः । त्रिष्टुभौ अस्मिन्मन्त्रे द्वितीयचतुर्थपादयोर्विरोधः । अश्वायेव तिष्ठते घासमस्मै । अत्र तिष्ठते अस्मै द्वे पदे परोक्षमग्निं ब्रूतः । तथाग्ने मा ते प्रति वेशा रिषामेति अग्ने ते इति प्रत्यक्षमग्निं ब्रूतः। नच वाक्यभेदेनार्थः संभवति । अतो द्वयोः पादयोर्लाक्षणिकया वृत्त्या व्याख्यायते । अहरहः सततम् अप्रयावमप्रमत्तं भरन्तः आहरन्तः अशनानि । कथमिव । तदुपमेयो दर्शयति अश्वायेति । अश्वस्येव स्थापयन्तो वयं घासं यवसम् अस्मै तव । किंच । रायस्पोषेण दक्षिणालक्षणेन धनस्य पोषेण । समदन्तः उत्साहयन्तः इषा अन्नेन समदन्तः त्वां हे अग्ने, मा रिषाम मा विनश्येम । ते तव प्रतिवेशाः प्रातिवेशिकाः । त्वदाश्रया इत्यर्थः । अध्याहारेण वा व्याख्यायते । अहरहः अप्रमत्ता आहरन्तोऽशनानि । पञ्च अश्वा येऽवदत्तं घासं भक्षितम् अदितं च अवतिष्ठते भस्म अस्मै अग्नये तदुद्वपन्तः । भस्मोद्वपनमपि पठितम् अत एवमपि व्याख्यायते । रायस्पोषेण समिषा मदन्त इत्यादि समानम् ॥ ७५ ॥
म० 'पालाशीः प्रत्यृचमहरहरिति' (का. १६ । ४ । ४० ) । अष्टर्ग्भिः प्रत्यृचमष्टौ पालाशीः प्रादेशमिताः समिध उख्येऽग्नावादधातीति सूत्रार्थः । द्वे त्रिष्टुभौ नाभानेदिष्ठदृष्टे । हे अग्ने, तव प्रतिवेशाः प्रातिवेशिकाः प्रत्यासन्नाः त्वदाश्रयाः सन्तो वयं मा रिषाम मा हिंसनं प्राप्नुमः मा विनश्येमेत्यर्थः । किं कुर्वन्तः । अहरहः प्रत्यहं संततमप्रयावमप्रमत्तं यथा तथा अस्मै अग्नये घासं समिद्रूपं भक्ष्यं भरन्तः संपादयन्तः प्रयवणं प्रयावः 'यु मिश्रणे' घञ्प्रत्ययः । नास्ति प्रयावः प्रमादो यस्यां क्रियायाम् । तत्र दृष्टान्तः । अश्वायेव तिष्ठते वाजिशालायामवस्थितायाश्वाय यथा प्रत्यहमप्रमादेन घासं यच्छन्ति तद्वत् । पुनः किं कुर्वतः । रायः पोषेण धनस्य पुष्ट्या दक्षिणालक्षणेन इषा अन्नेन च संमदन्तः हर्ष कुर्वन्तः । त्वामुत्साहयन्त इत्यर्थः ॥ ७५ ॥

षट्सप्ततितमी।
नाभा॑ पृथि॒व्याः स॑मिधा॒ने अग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।
इ॒र॒म्म॒दं बृ॒हदु॑क्थ्यं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ।। ७६ ।।
उ० नाभापृथिव्या इति । नाभौ पृथिव्याः । एषा ह नाभिः पृथिव्यै यत्रैतत्समिध्यन्ते । समिधाने संदीप्यमाने आहवनीयाख्ये अग्नौ । रायस्पोषाय धनस्य पोषाय । बृहते महते । हवामहे आह्वयामः । आग्नेयी अधिष्ठात्री देवता तदभिप्रायमेतत् । कथंभूतमग्निमित्यत आह । इरंमदम् इरयान्नेन माद्यति तृप्यति । बृहदुक्थं महच्छस्त्रम् । यजत्रं यजनीयम् जेतारं पृतनासु संग्रामेषु । सासहिं सोढारम् अभिभवितारम् । समिधाने अग्नाविति आहवनीयविषयोऽग्निशब्दः । जेतारमग्निमधिष्ठात्रग्निविषयः ॥ ७६ ॥
म० 'एषा ह नाभिः पृथिव्यै यत्रैष एतत्समिध्यते' (६। ६।३। ९) इति श्रुतेः । पृथिव्या नाभा नाभौ । विभक्तेराकारः । पृथिवीरूपाया उखाया मध्ये समिधाने दीप्यमाने अग्नौ आहवनीयाख्ये अग्निं तदभिमानिनं देवं वयं हवामहे आह्वयामः । किमर्थम् । बृहते रायः पोषाय प्रौढाय धनपोषणाय । कीदृशमग्निम् । इरंमदम् इरया अन्नेन माद्यति तृप्यति तुष्यतीति इरंमदस्तम् 'उग्रम्पश्य-' (पा. ३ । ३ । ३७) इत्यादिना खशि निपातः। बृहदुक्थं बृहन्ति महान्ति उक्थानि शस्त्राणि यस्य तम् । यजत्रं यजनीयम् । पृतनासु संग्रामेषु जेतारं जयशीलम् । सासहिं सहतेऽभिभवतीति सासहिस्तं सोढारमस्मच्छत्रूणामभिभवितारम् । अग्नावित्याहवनीयविषयोऽग्निशब्दः जेतारमग्निमित्यधिष्ठात्रग्निविषयः ॥ ७६ ॥

सप्तसप्ततितमी।
याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त ।
ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ अ॒ग्नेऽपि॑दधाम्या॒स्ये॑ ।। ७७ ।।
उ० याः सेनाः अनुष्टुभः प्रागन्नपतीयायाः । सा तूपरिष्टाद्बृहती । याः सेनाः अभित्वरीः । 'इण् गतौ' इत्यस्माद्धातोः 'इण्नशजिसर्तिभ्यः' इति क्वरप्प्रत्ययः । 'ह्रस्वस्य पिति कृति' इति तुगागमे कृते 'टिड्ढाणञ्' इति ङीपि कृते इणः इत्वरी इति सिद्धं भवति । अभियायिन्यः । आव्याधिनीः आविध्यन्ति याः उगणा उत । उतशब्दोऽप्यर्थे । अपिच । उद्गूर्णगणाः । पृषोदरादिपाठान्मध्यमपदलोपः। ये च स्तेनाश्चौरा ये च तस्कराः 'तस्करस्तत्करोति यत्पापकं' इति निरुक्ताः । तान्सर्वान् ते तव हे अग्ने, अपिदधामि प्रक्षिपामि आस्ये मुखे भक्षणाय ॥ ७७ ॥
म० षडनुष्टुभः । याः काश्चित्परकीयाः सेनाः अभीत्वरीरभीत्वर्यः अभियायिन्यः अस्मदाभिमुख्येनागमनशीलाः अभियन्ति ता अभित्वर्यः । 'इण्नशजिसर्तिभ्यः क्वरप्' (पा० ३। २।१६३ ) इति क्वरप् 'ह्रस्वस्य पिति-' (पा०६।१।७१) इति तुक् 'टिड्ढाणञ्द्वयसज्-' (पा० ४ । १।१५) इत्यादिना ङीप् । उतशब्दोऽप्यर्थे । उतापि च याः सेनाः आव्याधिनीः आ समन्ताद्विध्यन्ति ताः सर्वतोऽस्मांस्ताडयन्त्यः। उगणाः उद्गूर्णगणाः । पृषोदरादिपाठान्मध्यमपदलोपः । उद्यतायुधगणोपेता बहुस्तोमा इत्यर्थः । ये च स्तेनाः गुप्तचराः ये च तस्कराः प्रकटचोराः 'तस्करस्तत्करोति यत्पापकम्' (नि० ३ । १४) इति नैरुक्ताः । हे अग्ने, तान् पूर्वोक्तान्सेनादीन् ते तव आस्ये मुखे अपिदधामि प्रक्षिपामि भक्षणाय । दुष्टान्सर्वान्भक्षयेत्यर्थः ॥ ७७ ॥

अष्टसप्ततितमी।
दᳪं᳭ष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ२ उ॒त ।
हनु॑भ्याᳪं᳭ स्ते॒नान् भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान् ।। ७८ ।।
उ० दंष्ट्राभ्यां दशनशीलाभ्यां दृढाभ्याम् राक्षसिके इति ये उच्येते ताभ्याम् मलिम्लून् मलिम्लुचः उकाः (?) गूढाः स्तेनतया म्लोचन्ति अदृश्या भवन्ति जने कक्षे च ये जम्भ्यैस्तस्करान् जम्भावृत्तिसमाश्रिता जम्भ्याः ताभिः तस्करान् । उत अपि हनुभ्यां च हननशीलाभ्यां स्तेनान् हे भगवः हेभगवन् महदैश्वर्ययुक्त । तान् त्वं खादा यथा सुखादिता भवन्ति ॥ ७८॥
म० गुप्ताः प्रकटाश्चेति द्विविधाश्चोराः । प्रकटा अपि पुनर्द्विविधाः । अरण्ये मार्गे च प्रहृत्य प्रत्यहमेव पलायमानाः प्रकटाः । ततोऽप्यतिप्रकटा निर्भया ग्रामेष्वेवागत्य वन्दीकाराः ते अत्र मलिम्लुच उच्यन्ते । मलं पापाधिक्यमेषामस्तीति 'मलिनाः तथाविधा भूत्वा म्लोचन्ति जने वने वा अदृश्या भवन्तीति मलिम्लुचः । दन्तपङ्क्तिमध्ये याभ्यां तीक्ष्णदन्ताभ्य क्रमुकादिकं भक्ष्यते ते दंष्ट्रे राक्षसीसंज्ञे । ततः पुरोवर्तिनो बहिर्दृश्यमाना दन्ता जम्भ्याः जम्भावृत्तिमाश्रिता जम्भ्याः । दन्तलीने तु हनू । दंष्ट्राभ्यां मलिम्लून्पीडयित्वा जम्भ्यैस्तस्करानपि पीडयित्वा हनुभ्यां स्तेनान् पीडयित्वा हे भगवः भगवन्महदैश्वर्ययुक्त पूजनीय, तान्सर्वान्पूर्वोक्तान्सुखादितान् सुष्ठु खादितान्भक्षितान्पुनर्जीवनरहिता यथा भवन्ति तथा खाद भक्षय । सुखादितानपेतान्कृत्वेति वा ॥ ७८ ॥

एकोनाशीतितमी।
ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने॑ । ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः ।। ७९ ।।
<poem>उ० जनेषु मलिम्लुचः जनेषु स्तेनासः 'आज्जसेरसुक्' तस्कराः । वने वनाश्रिताः येच कक्षेषु नदीपर्वतकक्षेषु अघायवः । 'छन्दसि परेच्छायामिति वक्तव्यम्' इत्यघशब्दात्क्यच् 'क्याच्छन्दसि' इति उप्रत्ययः। अघं परस्मै इच्छन्तीत्यघायवः तान् तव दधामि स्थापयामि जम्भयोः भक्षणाय ॥ ७९ ॥
म० जनेषु ग्रामवर्तिषु ये मलिम्लुचः पूर्वोक्ता वन्दीकाराः ये च वने स्तेनासः स्तेनाः ‘आज्जसेरसुक्' (पा. ७ । १।५०) इत्यसुक् । गुप्तचोराः तस्कराः प्रकटचोराः । ये च कक्षेषु नदीपर्वतगहनेषु अघायवः परेषां पापाभिलाषुकाः हे अग्ने, तान् चतुर्विधान् ते तव जम्भयोः दंष्ट्रयोर्दधामि स्थापयामि भक्षणायेत्यर्थः । अघं परस्येच्छन्ति ते अघायवः 'छन्दसि परेच्छायामिति वक्तव्यम्' इति अघशब्दात्क्यच् । 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इति उप्रत्ययः ॥ ७९ ॥

अशीतितमी।
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जन॑: । निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ।। ८० ।।
(भस्मसा – मस्मसा पाठभेदः)
उ० यो अस्मभ्यम् यो मनुष्यः अस्मभ्यम् अस्मदर्थम् अरातीयात् अरातिरिवाचरेत् । अरातिः शत्रुः। यश्च न अस्मान् द्वेषते द्वेष्टि जनः । निन्दाच्च निन्दयति योऽस्मान् दिप्साच्च । दभ्नोतेः सन्यभ्यासलोपः । दभितुमिच्छति यः । तान् तव दधामि । सर्वमेतच्छत्रुजातं मस्मसा कुरु । मस्मसेति शब्दोऽनुकरणे डाजन्तः । यथा भक्षमाणा मस्मसा शब्दं कुर्वन्ति तथा कुर्वित्यर्थः ॥ ८॥
म० पूर्व चोरभेदा दर्शिताः इदानीं शत्रुभेदा उच्यन्ते । ते चतुर्विधाः अरातयो द्वेषिणो निन्दका जिघांसवश्चेति । तत्र दातव्यत्वेन प्राप्तं धनं यो न ददाति सोऽरातिः । कार्यविघातं यः करोति स द्वेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः । हन्तुकामश्चतुर्थः । तान् अग्नये समर्पयति । यो नरः अस्मभ्यमस्मदर्थे अरातीयात् अरातिरिवाचरति अरातीयति अरातित्वमिच्छति । आचारे इच्छायां वा क्यच्प्रत्ययः । यश्च जनो नोऽस्मान्द्वेषते कार्यनाशेनाप्रीतिमुत्पादयति 'द्विष अप्रीतौ' 'बहुलं छन्दसि' (पा० २।४ । ७३) इति शपो लुगभावः । योऽप्यन्योऽस्मान्निन्दात् निन्दति वाचा दुःखं ददाति । यश्चापरोऽस्मान् धिप्सात् धिप्सति । दम्भितुमिच्छति जिघांसति । दम्भेः सनन्तस्य 'दम्भ इच्च' (पा० ७ । ४ । ५६ ) इत्यभ्यासलोप इकारश्च । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इतीकारलोपः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इत्याडागमोऽरातीयादित्यादिषु त्रिष्वपि । हे अग्ने, तं सर्वं जनं चतुर्विधं मस्मसा कुरु चूर्णीकुरु चर्वित्वा भक्षयेत्यर्थः । मस्मसाशब्दो डाजन्तो निपातः चर्वणजन्यशब्दानुकरणवाची ॥ ८०॥

एकाशीतितमी।
सᳪं᳭शि॑तं मे॒ ब्रह्म॒ सᳪं᳭शि॑तं वी॒र्यं बल॑म् । सᳪं᳭शि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ।। ८१ ।।
उ० पुरोहितस्यादधाति । संशितं मे ब्रह्म । 'शो तनूकरणे' उपसर्गव्यत्ययः । निशितं तीक्ष्णीकृतं मे मम ब्रह्म । निशितं च वीर्य वीरकर्म बलम् । निशितं च क्षत्रं जिष्णु जयनशीलम् । यस्य अहम् अस्मि भवामि पुरोहितः ॥ ८१ ॥
म० 'उपोत्तमां क्षत्रियस्येच्छन्नुत्तमां पुरोहितस्य' (का. १६ । ४१।४-४२) । क्षत्रिययजमानस्य द्वादशीं संशितमित्येतामिच्छया दधाति पुरोहितयजमानस्यान्त्यामुदेषामित्येतामिच्छया दधाति एकादश नित्याः सर्वासामृचामन्ते स्वाहाकारश्चेति सूत्रार्थः । मे मदीयं ब्रह्म ब्राह्मण्यं संशितं सम्यक् तीक्ष्णीकृतम् शास्त्रीयमार्गवर्ति कृतमित्यर्थः । 'शो तनूकरणे' क्तान्तः । वीर्यमिन्द्रियशक्तिः, बलं शरीरशक्तिः, तदुभयं संशितं स्वकार्यक्षमं कृतम् । तथा यस्य क्षत्रस्याहं पुरोहितोस्मि भवामि तन्मदीयं क्षत्रं क्षत्रजातं जिष्णु जयनशीलं यथा भवति तथा संशितं तीव्रं कृतम् ॥ ८१ ॥

द्व्यशीतितमी।
उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वाँ२ अ॒हम् ।। ८२ ।।
उ० उदेषाम् क्षत्रियस्य उदतिरम् उद्धरितवान् अस्मि । एषां योद्धॄणां बाहू उद्वर्चः उद्धरितवान्वर्चः । अथो अपिच बलम् । क्षिणोमि च विनाशयामि ब्रह्मणा पुरोहितसंज्ञेन अमित्रान् । उन्नयामि उद्गमयामि च स्वान् पुत्रपौत्रान् अहम् ॥ ८२॥
म० एषां स्वकीयानां राजब्राह्मणादीनां मध्ये एकैकस्य बाहू भुजौ उदतिरमुत्कर्षेण वर्धितवानस्मि । तिरतिर्वृद्ध्यर्थः । लौकिकोक्तिरियम् । लोके हि योऽन्यस्मादुत्कृष्टो भवति जना एवं वदन्ति अयं स्वहस्तमुपरि कृतवानिति । वर्चः कान्तिः तामप्युदतिरम् । अथो अपि च बलं शरीरशक्तिमुदतिरम् । ब्रह्मणा मन्त्रसामर्थ्येन अमित्रान्शत्रून् क्षिणोमि क्षीणान्करोमि । स्वान्स्वकीयान्पुरुषान्पुत्रपौत्रादीनहमुन्नयामि उत्कर्षं प्रापयामि । एवं त्रयोदश समिन्मन्त्रा उक्ताः ॥ ८२ ॥

त्र्यशीतितमी
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिण॑: । प्र-प्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।। ८३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां एकादशोऽध्यायः।।११।।
उ० समिधमादधाति अन्नपते अग्ने, अन्नस्य स्वमंशं नः अस्मभ्यं देहि । अनमीवस्य अमीवा व्याधिः तद्रहितस्य । शुष्मिणः । शुष्ममिति बलनाम । बलवतः। किंच । प्रप्रदातारं तारिषः अतिशयार्थं उपसर्गाभ्यासः । महता प्रकर्षेणान्नस्य दातारं प्रदातारं प्रतारिषः प्रवर्धय । किंच । ऊर्जमन्नं नः अस्मभ्यं धेहि देहि । द्विपदे चतुष्पदे द्विपाद्भ्यश्चतुष्पाद्भ्यश्च ॥ ८३॥
इति उवटकृतौ मन्त्रभाष्य एकादशोऽध्यायः ॥ ११ ॥
म०. 'न्यज्य समिधं व्रते प्रत्ते प्रत्तेऽन्नपत इत्याधानम्' (का० १६ । ६।८) । अध्वर्युणा व्रतपयसि दत्ते तत्र समिधमभ्यज्य दीक्षित उख्येऽग्नावादध्यात् । प्रत्ते इति वीप्सा प्रतिव्रतं समिदाधानप्राप्त्यर्था इति सूत्रार्थः। आग्नेयी उपरिष्टाद्बृहती अष्टार्णत्रिपादा चतुर्थो द्वादशार्णः । हे अन्नपते अन्नस्य पालक अग्ने, नोऽस्मभ्यमन्नस्य देहि । कर्मणि षष्ठी । अन्नं प्रयच्छ । यद्वान्नस्य स्वमंशं देहि । कीदृशस्यान्नस्य । अनमीवस्य नास्ति अमीवा व्याधिर्येन तदनमीवं तस्य । शुष्मिणः शुष्ममिति बलनाम । शुष्मं बलं विद्यते यस्मात्तत् शुष्मि तस्य । रोगनाशकं बलहेत्वन्नं प्रयच्छेत्यर्थः । किंच दातारं प्रतारिषः अन्नस्य दातारं प्रकर्षेण वर्धय । 'प्रसमुपोदः पादपूरणे' (पा०८।१। ६) इति पादपूर्त्यै प्रोपसर्गस्य द्वित्वम् । अतिशयार्थं वोपसर्गाभ्यासः 'अभ्यासे भूयांसमर्थं मन्यन्ते' (नि. १० । ४२) इति यास्कोक्तेः 'तॄ प्लवनतरणयोः' लेटो मध्यमैकवचनं 'सिब्बहुलं लेटि' (पा.३ । १।३४ ) इति सिप्प्रत्ययः । 'आर्धधातुकस्य' (पा० ७ । २ । ३५) इतीट् छन्दसि धातोर्वृद्धिः ‘लेटोऽडाटौ' (पा० ३ । ४ । ९४) इति अडागमः 'इतश्च लोपः' (पा० ३ । ४ । ९७) इति लेट इकारलोपे रुत्वविसर्गौ । तारिष इति रूपम् । किंच नोऽस्माकं द्विपदे मनुष्ये पुत्रादौ चतुष्पदे गवादौ च ऊर्जमन्नं धेहि धारय । यद्वा द्वौ पादौ यस्य स द्विपात्तस्मै द्विपदे । चत्वारः पादा यस्य स चतुष्पात् तस्मै ‘पादः पत्' (पा० ६ । ४ । १३०) 'पादस्य लोपोऽहस्त्यादिभ्यः' (पा० ५। ४ । १३८) इति अन्तलोपे पदादेशः । द्विपदे मनुष्याय चतुष्पदे गवादये अन्नं धेहि देहि जातावेकवचनम् । सर्वेभ्यो नरपशुभ्योऽन्नं देहीत्यर्थः ॥ ८३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । उखादिसमिदाध्यन्तोऽध्याय एकादशोऽगमत् ॥ ११ ॥




[सम्पाद्यताम्]

टिप्पणी