शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ४/ब्राह्मणम् १

विकिस्रोतः तः

६.४.१

अथैनमतः खनत्येव । एतद्वा एनं देवा अनुविद्याखनंस्तथैवैनमयमेतदनुविद्य खनति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वत्खनामीति सवितृप्रसूत एवैनमेतदेताभिर्देवताभिः पृथिव्या उपस्थादग्निं पशव्यमग्निवत्खनति - ६.४.१.१

ज्योतिष्मन्तं त्वाग्ने सुप्रतीकमिति । ज्योतिष्मान्वा अयमग्निः सुप्रतीकोऽजस्रेणभानुना दीद्यतमित्यजस्रेणार्चिषा दीप्यमानमित्येतच्छिवं प्रजाभ्योऽहिंसन्तं पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वत्खनाम इति शिवं प्रजाभ्योऽहिंसन्तं पृथिव्या उपस्थादग्निं पशव्यमग्निवत्खनाम इत्येतत् - ६.४.१.२

द्वाभ्यां खनति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्खनत्यथो द्वयं ह्येवैतद्रूपं मृच्चापश्च - ६.४.१.३

स वै खनामि खनाम इति खनति । खनामीति वा एतं प्रजापतिरखनत्खनाम इति देवास्तस्मात्खनामि खनाम इति - ६.४.१.४

स वा अभ्र्या खनन् । वाचा खनामि खनाम इत्याह वाग्वा अभ्रिरारम्भायैवेयं वैणवी क्रियते वाचा वा एतमभ्र्या देवा अखनंस्तथैवैनमयमेतद्वाचैवाभ्र्या खनति - ६.४.१.५

अथैनं कृष्णाजिने सम्भरति । यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतत्सम्भरति लोमतश्छन्दांसि वै लोमानि छन्दःस्वेवैनमेतत्सम्भरति तत्तूष्णीमुपस्तृणाति यज्ञो वै कृष्णाजिनं प्रजापतिर्वै यज्ञोऽनिरुक्तो वै प्रजापतिरुत्तरतस्तस्योपरिबन्धुः प्राचीनग्रीवे तद्धि देवत्रा - ६.४.१.६

अथैनं पुष्करपर्णे सम्भरति । योनिर्वै पुष्करपर्णं योनौ तद्रेतः सिञ्चति यद्वै योनौ रेतः सिच्यते तत्प्रजनिष्णु भवति तन्मन्त्रेणोपस्तृणाति वाग्वै मन्त्रो वाक्पुष्करपर्णम् - ६.४.१.७

अपां पृष्ठमसि योनिरग्नेरिति । अपां ह्येतत्पृष्ठं योनिर्ह्येतदग्नेः समुद्रमभितः पिन्वमानमिति समुद्रो ह्येतदभितः पिन्वते वर्धमानो महां आ च पुष्कर इति वर्धमानो महीयस्व पुष्कर इत्येतद्दिवो मात्रया वरिम्णा प्रथस्वेत्यनुविमार्ष्ट्यसौ वा आदित्य एषोऽग्निर्नो हैतमन्यो दिवो वरिमा यन्तुमर्हति द्यौर्भूत्वनं यच्छेत्येवैतदाह - ६.४.१.८

तदुत्तरं कृष्णाजिनादुपस्तृणाति । यज्ञो वै कृष्णाजिनमियं वै कृष्णाजिनमियमु वै यज्ञोऽस्यां हि यज्ञस्तायते द्यौष्पुष्करपर्णमापो वै द्यौरापः पुष्करपर्णमुत्तरो वा असावस्यै - ६.४.१.९

अथैने अभिमृशति । संज्ञामेवाभ्यामेतत्करोति शर्म च स्थो वर्म च स्थ इति शर्म च ह्यस्यैते वर्म चाच्छिद्रे बहुले उभे इत्यच्छिद्रे ह्येते बहुले उभे व्यचस्वती संवसाथामित्यवकाशवती संवसाथामित्येतद्भृतमग्निं पुरीष्यमिति बिभृतमग्निं पशव्यमित्येतत् - ६.४.१.१०

संवसाथां स्वर्विदा । समीची उरसाऽऽत्मनेति संवसाथामेनं स्वर्विदा समीचीऽउरसा चात्मना चेत्येतदग्निमन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रमिदित्यसौ वा आदित्य एषोऽग्निः स एष ज्योतिष्मानजस्रस्तमेते अन्तरा बिभृतस्तस्मादाह ज्योतिष्मन्तमजस्रमिदिति - ६.४.१.११

द्वाभ्यामभिमृशति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवाभ्यामेतत्संज्ञां करोत्यथो द्वयं ह्येवैतद्रूपं कृष्णाजिनं च पुष्करपर्णं च - ६.४.१.१२