शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ४

विकिस्रोतः तः

ब्राह्मणम् १

१ विहितं खननविधिं प्रशंस्य तत्र मन्त्रद्वयं विनियुज्य तद्व्याख्यानं, खननमन्त्रगतद्वित्वसंख्याया यजमानाग्न्यात्मना प्रशंसनं, खननसाधनभूताया अभ्रेर्वाग्रूपत्वाभिधानं, सार्थवादमुत्तरप्रदेशे प्राग्ग्रीवमुत्तरलोम कृष्णाजिनं तूष्णीमास्तीर्य तस्मिन्कृष्णाजिने समन्त्रकं पुष्करपर्णमास्तीर्य तस्मिन्पुष्करपर्णे मृत्पिण्डस्य सम्भरणं प्रदर्श्य पुष्करपर्णास्तरणमन्त्रार्थं च प्रदर्श्य तस्यान्तिमपादेन पुष्करपर्णस्य विमार्जनविधानम्, एतयोः कृष्णाजिनपुष्करपर्णयोर्द्वाभ्यां मन्त्राभ्यां युगपदभिमर्शनविधानं तन्मंत्रव्याख्यानं च, अभिमर्शनमन्त्रगतद्वित्वसंख्याया यजमानाग्निरूपेण प्रशंसनं चेत्यादि.


ब्राह्मणम् २

२ मन्त्रमन्त्रार्थसहितं मृत्पिण्डस्याभिमर्शनविधानं, साभ्रिणा दक्षिणहस्तेन केवले नोत्तरहस्तेन चास्य मृत्पिण्डस्य " त्वामग्ने पुष्करा०" इत्यादिभिः षण्मन्त्रैः परिग्रहणविधानं, परिग्रहणमन्त्राणां व्याख्यानं तत्प्रसङ्गेन मन्त्रगतगायत्रीत्रिष्टुब्बृहतीछन्दसां प्रशंसनं च, परिग्रहणे विनियुक्तानां मन्त्राणां संख्यायाः सम्भूय संवत्सराग्न्यात्मना प्रशंसनं, मृत्पिण्डस्य दक्षिणप्रदेशादुदङ्मुखमाहरणस्य सार्थवादविधानं चेत्यादि.


ब्राह्मणम् ३

३ श्वभ्रेऽपामुपनिनयस्य मन्त्रमन्त्रार्थसहितं सार्थवादं विधानं, मन्त्रमन्त्रार्थयुतं श्वभ्रस्य वायुना सार्थवादं सन्धानकरणविधानं, वषट्करणेनाहुतिः कार्येति कृत्वा प्रशंसनम्, अनामिकयाऽङ्गुल्या प्रागादिदिग्भिः प्रदक्षिणं श्वभ्रस्य सार्थवादं सन्धानकरणविधानम् , आस्तीर्णयोः कृष्णाजिन पुष्करपर्णयोः समन्त्रकमन्तयोरुद्ग्रहणविधानं कृष्णाजिनपुष्करपर्णयोरन्तयोरुद्गृहीतत्वात्त्रिवृता त्क्रेण परिवेष्टनरूपस्य बन्धनस्य मन्त्रतत्तापर्यसहितं विधानं, मृत्पिण्डमादायोत्थानस्य मन्त्रतद्व्याख्यानसहितं विधानम् , ऊर्ध्वबाहोरध्वर्योर्मृत्पिण्डस्य प्राङ्मुखं समन्त्रकं प्रग्रहणविधानं, स्तावकब्राह्मणातिदेशसहितं सावधिं मृत्पिण्डस्याधोनयनविधानं चेत्यादि.


ब्राह्मणम् ४

४ मृत्पिण्डसाहित्येन पश्वभिमन्त्रणविधानं, तत्राश्वरासभाजानामभिमन्त्रणे क्रमेण मन्त्रत्रयं विनियुज्य तदर्थविवरणं, पश्वभिमन्त्रणमन्त्रगतसंख्यायाः प्रशंसनं च, अनुपस्पर्शनपूर्वकमश्वादिपशूनामुपरि मृत्पिण्डस्य धारणविधानं, तत्राश्वरासभाजानामुपरिपिण्डधारणे क्रमेण मन्त्रत्रयं विनियुज्य तदर्थविवरणं, प्रसङ्गान्मध्ये समन्त्रकं मृदाहरणविधानं च, अभिमन्त्रणमन्त्राणां धारणमन्त्राणां च संख्यायाः सम्भूय प्रशंसनं, सकारणक्रमविशिष्टं पशूनामावर्तनस्य विधानं, समन्त्रकमनद्धापुरुषस्येक्षणविधानं, सार्थवादमजस्योपरि मृत्पिण्डं धारयत एवाध्वर्योरागमनविधानम् , अजसकाशान्मृत्पिण्डस्योपावहरणं विधाय तत्र मन्त्रद्वयं विनियुज्य तदर्थविवरणं मन्त्रगतसंख्यायाः प्रशंसनं च, स्तावकब्राह्मणातिदेशसहितं मृत्पिण्डं दक्षिणत उदञ्चमुपावहृत्योद्धृतावोक्षिते सिकतोपकीर्णे परिश्रिते देशे निदध्यादिति विधानं परिश्रितस्य प्रयोजनाभिधानं च, मृत्पिण्डस्य विमोचनं विधाय तत्र मन्त्रं च विनियुज्य तदर्थविवरणम् , अजलोमान्यादाय प्रागुदङ्मुखान्पशूनुत्सृजेदिति दिक्प्रशंसनसहितं विधानं चेत्यादि.