शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ४/ब्राह्मणम् २

विकिस्रोतः तः
Jump to navigation Jump to search

६.४.२

अथ मृत्पिण्डमभिमृशति । पुरीष्योऽसीति पशव्योऽसीत्येतद्विश्वंभरा इत्येष हीदं सर्वं बिभर्त्यथर्वा त्वा प्रथमो निरमन्थदग्न इति प्राणो वा अथर्वा प्राणो वा एतमग्रे निरमन्थत्तद्योऽसावग्रेऽग्निरसृज्यत सोऽसीति तदाह तमेवैनमेतत्करोति - ६.४.२.[१]

अथैनं परिगृह्णाति । अभ्र्या च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतस्त्वामग्ने पुष्करादध्यथर्वा निरमन्थतेत्यापो वै पुष्करं प्राणोऽथर्वा प्राणो वा एतमग्रेऽद्भ्यो निरमन्थन्मूर्ध्नो विश्वस्य वाघत इत्यस्य सर्वस्य मूर्ध्न इत्येतत् - ६.४.२.[२]

तमु त्वा दध्यङ्ङृषिः । पुत्र ईधे अथर्वण इति वाग्वै दध्यङ्ङाथर्वणः स एनं तत ऐन्द्ध वृत्रहणं पुरंदरमिति पाप्मा वै वृत्रः पाप्महनं पुरंदरमित्येतत् - ६.४.२.[३]

तमु त्वा पाथ्यो वृषा । समीधे दस्युहन्तममिति मनो वै पाथ्यो वृषा स एनं तत ऐन्द्ध धनंजयं रणेरण इति यथैव यजुस्तथा बन्धुः - ६.४.२.[४]

गायत्रीभिः । प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति तिसृभिस्त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति तासां नवपदानि नव वै प्राणाः सप्त शीर्षन्नवाञ्चो द्वौ तानेवास्मिन्नेतद्दधाति - ६.४.२.[५]

अथैते त्रिष्टुभा उत्तरे भवतः । आत्मा वै त्रिष्टुबात्मानमेवास्यैताभ्यां संस्करोति सीद होत स्व उ लोके चिकित्वानित्यग्निर्वै होता तस्यैष स्वो लोको यत्कृष्णाजिनं चिकित्वानिति विद्वानित्येतत्सादया यज्ञं सुकृतस्य योनाविति कृष्णाजिनं वै सुकृतस्य योनिर्देवावीर्देवान्हविषा यजासीति देवः सन्देवानवन्हविषा यजासीत्येतदग्ने बृहद्यजमाने वयो धा इति यजमानायाशिषमाशास्ते - ६.४.२.[६]

नि होता होतृषदने विदान इति । अग्निर्वै होता कृष्णाजिनं होतृषदनं विदान इति
विद्वानित्येतत्त्वेषो दीदिवां असदत्सुदक्ष इति त्वेषो दीप्यमानोऽसदत्सुदक्ष इत्येतददब्धव्रतप्रमतिर्वसिष्ठ इत्यदब्धव्रतप्रमतिर्ह्येष वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निरिति सर्वं वै सहस्रं सर्वम्भरः शुचिजिह्वोऽग्निरित्येतद्द्वाभ्यामाग्नेयीभ्यां त्रिष्टुब्भ्यां तस्योक्तो बन्धुः - ६.४.२.[७]

अथैषा बृहत्युत्तमा भवति । बृहतीं वा एष संचितोऽभिसम्पद्यते यादृग्वैयोनौ रेतः सिच्यते तादृग्जायते तद्यदेतामत्र बृहतीं करोति तस्मादेष संचितो बृहतीमभिसम्पद्यते - ६.४.२.[८]

संसीदस्व महां असीति । इदमेवैतद्रेतः सिक्तं संसादयति तस्माद्योनौ रेतः सिक्तं संसीदति शोचस्व देववीतम इति दीप्यस्व देववीतम इत्येतद्वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतमिति यदा वा एष समिध्यतेऽथैष धूममरुषं विसृजते दर्शतमिति ददृश इव ह्येषः - ६.४.२.[९]

ताः षट्सम्पद्यन्ते । षदृतवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति यद्वेव संवत्सरमभिसम्पद्यते तद्बृहतीमभिसम्पद्यते बृहती हि संवत्सरो द्वादश पौर्णमास्यो द्वादशाष्टका द्वादशामावास्यास्तत्षट्त्रिंशत्षट्त्रिंशदक्षरा बृहती तं दक्षिणत उदञ्चमाहरति दक्षिणतो वा उदग्योनौ रेतः सिच्यत एषो अस्यैतर्हि योनिरविच्छेदमाहरति रेतसोऽविच्छेदाय - ६.४.२.[१०]