शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ४/ब्राह्मणम् ४

विकिस्रोतः तः

६.४.४

हस्त एष भवत्यथ पशूनभिमन्त्रयते । एतद्वा एषु देवाः सम्भरिष्यन्तः पुरस्ताद्वीर्यमदधुस्तथैवैष्वयमेतत्सम्भरिष्यन्पुरस्ताद्वीर्यं दधाति - ६.४.४.१

सोऽश्वमभिमन्त्रयते । [१]स जातो गर्भोऽअसि रोदस्योरितीमे वै द्यावापृथिवी रोदसी तयोरेष जातो गर्भोऽग्ने चारुर्विभृत ओषधीष्विति सर्वासु ह्येष चारुर्विभृत ओषधिषु चित्रः शिशुः परि तमांस्यक्तूनिति चित्रो वा एष शिशुः परेण तमांस्यक्तूनति रोचते प्र मातृभ्यो अधि कनिक्रदद्गा इत्योषधयो वा एतस्य मातरस्ताभ्य एष कनिक्रदत्प्रैति तदश्वे वीर्यं दधाति - ६.४.४.२

अथ रासभम् । स्थिरो भव वीड्वङ्ग आशुर्भव वाज्यर्वन्निति स्थिरश्च भव वीड्वङ्गश्चाशुश्च भव वाजी चार्वन्नित्येतत्पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहण इति पृथुर्भव सुशीमस्त्वमग्नेः पशव्यवाहन इत्येतत्तद्रासभे वीर्यं दधाति - ६.४.४.३

अथाजम् । शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिर इत्यङ्गिरा वा अग्निराग्नेयोऽजः शमयत्येवैनमेतदहिंसायै मा द्यावापृथिवी अभिशोचीर्मान्तरिक्षं मा वनस्पतीनित्येतत्सर्वं मा हिंसीरित्येतत्तदजे वीर्यं दधाति - ६.४.४.४

त्रिभिरभिमन्त्रयते । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैष्वेतद्वीर्यं दधाति - ६.४.४.५

अथैनमेतेषां पशूनामुपरिष्टात्प्रगृह्णाति । तदेनमेतैः पशुभिः सम्भरति नोपस्पृशति वज्रो वै पशवो रेत इदं नेदिदं रेतो वज्रेण हिनसानीत्यथो अग्निरयं पशव इमे नेदयमग्निरिमान्पशून्हिनसदिति - ६.४.४.६

तमश्वस्योपरिष्टात्प्रगृह्णाति । प्रैतु वाजी कनिक्रददिति प्रैतु वाजी कनिक्रद्यमान इत्येतन्नानदद्रासभः पत्वेति तदश्वस्य यजुषि रासभं निराह तद्रासभे शुचं दधाति भरन्नग्निं पुरीष्यं मा पाद्यायुषः पुरेति भरन्नग्निं पशव्यं मो अस्मात्कर्मणः पुरा पादीत्येतत्तदेनमश्वेन सम्भरति - ६.४.४.७

अथ रासभस्य । वृषाग्निं वृषणं भरन्निति वृषा वा अग्निर्वृषा रासभः स वृषा वृषाणं भरत्यपां गर्भं समुद्रियमित्यपां ह्येष गर्भः समुद्रियस्तदेनं रासभेन सम्भरति - ६.४.४.८

अथापादत्ते । अग्न आयाहि वीतय इत्यवितव इत्येतत्तदेनं ब्रह्मणा यजुषैतस्माच्छौद्राद्वर्णादपादत्ते - ६.४.४.९

अथाजस्य । ऋतं सत्यमृतं सत्यमित्ययं वा अग्निर्ऋतमसावादित्यः सत्यं यदि वाऽसावृतमयं सत्यमुभयम्वेतदयमग्निस्तस्मादाहऽर्तं सत्यमृतं सत्यमिति तदेनमजेन सम्भरति - ६.४.४.१०

त्रिभिः सम्भरति । त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्सम्भरति त्रिभिः पुरस्तादभिमन्त्रयते तत्षट् तस्योक्तो बन्धुः - ६.४.४.११

अथैतान्पशूनावर्तयन्ति । तेषामजः प्रथम एत्यथ रासभोऽथाश्वोऽथेतो यतामश्वः प्रथम एत्यथ रासभोऽथाजः क्षत्रं वा अन्वश्वो वैश्यं च शूद्रं चानु रासभो ब्राह्मणमजः - ६.४.४.१२

तद्यदितो यताम् । अश्वः प्रथम एति तस्मात्क्षत्रियं प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्त्यथ यदमुत आयतामजः प्रथम एति तस्माद्ब्राह्मणं प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्त्यथ यन्नैवेतो यतां नामुतो रासभः प्रथम एति तस्मान्न कदा चन ब्राह्मणश्च क्षत्रियश्च वैश्यं च शूद्रं च पश्चादन्वितस्तस्मादेवं यन्त्यपापवस्यसायाथो ब्रह्मणा चैवैतत्क्षत्रेण चैतौ वर्णावभितः परिगृह्णीतेऽनपक्रमिणौ कुरुते- ६.४.४.१३

अथानद्धापुरुषमीक्षते । अग्निं पुरीष्यमङ्गिरस्वद्भराम इत्यग्निं पशव्यमग्निवद्भराम इत्येतत्तदेनमनद्धापुरुषेण सम्भरति - ६.४.४.१४

तमजस्योपरिष्टात्प्रगृह्णन्नैति । आग्नेयो वा अजः स्वेनैवैनमेतदात्मना स्वया देवतया सम्भरत्यथो ब्रह्म वा अजो ब्रह्मणैवैनमेतत्सम्भरति - ६.४.४.१५

अथैनमुपावहरति । ओषधयः प्रतिमोदध्वमग्निमेतं शिवमायन्तमभ्यत्र युष्मा इत्येतद्धैतस्मादायत ओषधयो बिभ्यति यद्वै नोऽयं न हिंस्यादिति ताभ्य एवैनमेतच्छमयति प्रत्येनं मोदध्वं शिवो वोऽभ्यैति न वो हिंसिष्यतीति व्यस्यन्विश्वा अनिरा अमीवा निषीदन्नो अप दुर्मतिं जहीति व्यस्यन्विश्वा अनिराश्चामीवाश्च निषीदन्नोऽप सर्वं पाप्मानं जहीत्येतत् - ६.४.४.१६

ओषधयः प्रतिगृभ्णीत । पुष्पवतीः सुपिप्पला इत्येतद्धैतासां समृद्धं रूपं यत्पुष्पवत्यः सुपिप्पलाः समृद्धा एनं प्रतिगृह्णीतेत्येतदयं वो गर्भ ऋत्वियः प्रत्नं सधस्थमासददित्ययं वो गर्भ ऋतव्यः सनातनं सधस्थमासददित्येतत् - ६.४.४.१७

द्वाभ्यामुपावहरति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदुपावहरति तं दक्षिणत उदञ्चमुपावहरति तस्योक्तो बन्धुरुद्धतमवोक्षितं भवति यत्रैनमुपावहरत्युद्धते वा अवोक्षितेऽग्निमादधति सिकता उपकीर्णा भवन्ति तासामुपरि बन्धुः - ६.४.४.१८

परिश्रितं भवति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति तस्मा एतां पुरं पर्यश्रयंस्तथैवास्मा अयमेतां पुरं परिश्रयत्यथो योनिर्वा इयं रेत इदं तिर इव वै योनौ रेतः सिच्यते योनिरूपमेतत्क्रियते तस्मादपि स्वया जायया तिर इवैव चिचरिषति - ६.४.४.१९

अथैनं विष्यति । तद्यदेवास्यात्रोपनद्धस्य संशुच्यति तामेवास्मादेतच्छुचं बहिर्धा दधात्यथो एतस्या एवैनमेतद्योनेः प्रजनयति - ६.४.४.२०

वि पाजसा पृथुना शोशुचान इति । वि पाजसा पृथुना दीप्यमान इत्येतद्बाधस्व द्विषो रक्षसो अमीवा इति बाधस्व सर्वान्पाप्मन इत्येतत्सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतावित्याशिषमाशास्ते - ६.४.४.२१

अथाजलोमान्याच्छिद्य । उदीचः प्राचः पशून्प्रसृजत्येषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राच्येतस्यां तद्दिशि पशून्दधाति तस्मादुभये देवमनुष्याः पशूनुपजीवन्ति - ६.४.४.२२

  1. वासं ११.४३