शतपथब्राह्मणम्/काण्डम् ६/अध्यायः ४/ब्राह्मणम् ३

विकिस्रोतः तः

६.४.३

अथ तत्राप उपनिनयति । यद्वा अस्यै क्षतं यद्विलिष्टमद्भिर्वै तत्संधीयतेऽद्भिरेवास्या एतत्क्षतं विलिष्टं संतनोति संदधाति - ६.४.३.१

अपो देवीरुपसृज । मधुमतीरयक्ष्माय प्रजाभ्य इति रसो वै मधु रसवतीरयक्ष्मत्वाय प्रजाभ्य इत्येतत्तासामास्थानादुज्जिहतामोषधयः सुपिप्पला इत्यपां वा आस्थानादुज्जिहत ओषधयः सुपिप्पलाः - ६.४.३.२

अथैनां वायुना संदधाति । यद्वा अस्यै क्षतं यद्विलिष्टं वायुना वै तत्संधीयते वायुनैवास्या एतत्क्षतं विलिष्टं संतनोति संदधाति - ६.४.३.३

सं ते वायुर्मातरिश्वा दधात्विति । अयं वै वायुर्मातरिश्वा योऽयं पवत उत्तानाया हृदयं यद्विकस्तमित्युत्तानाया ह्यस्या एतद्धृदयं विकस्तं यो देवानां चरसि प्राणथेनेत्येष हि सर्वेषां देवानां चरति प्राणथेन कस्मै देव वषडस्तु तुभ्यमिति प्रजापतिर्वै कस्तस्मा एवैतदिमां वषट्करोति नो हैतावत्यन्याऽऽहुतिरस्ति यथैषा - ६.४.३.४

अथैनां दिग्भिः संदधाति । यद्वा अस्यै क्षतं यद्विलिष्टं दिग्भिर्वै तत्संधीयते दिग्भिरेवास्या एतत्क्षतं विलिष्टं संतनोति संदधाति स इमां चेमां च दिशौ संदधाति तस्मादेते दिशौ संहिते अथेमां चेमां च तस्माद्वेवैते संहिते इत्यग्रेऽथेति अथेत्यथेति तद्दक्षिणावृत्तद्धि देवत्राऽनयाऽनया वै भेषजं क्रियतेऽनयैवैनामेतद्भिषज्यति - ६.४.३.५

अथ कृष्णाजिनं च पुष्करपर्णं च समुद्गृह्णाति । योनिर्वै पुष्करपर्णं योन्या तद्रेतः सिक्तं समुद्गृह्णाति तस्माद्योन्या रेतः सिक्तं समुद्गृह्यते सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्वरिति सुजातो ह्येष ज्योतिषा सह शर्म चैतद्वरूथं च स्वश्चासीदति - ६.४.३.६

अथैनमुपनह्यति । योनौ तद्रेतो युनक्ति तस्माद्योनौ रेतो युक्तं न निष्पद्यते योक्त्रेण योक्त्रेण हि योग्यं युञ्जन्ति मौञ्जेन त्रिवृता तस्योक्तो बन्धुः - ६.४.३.७

तत्पर्यस्यति । वासो अग्ने विश्वरूपं संव्ययस्व विभावसविति वरुण्या वै यज्ञे रज्जुरवरुण्यमेवैनदेतत्कृत्वा यथा वासः परिधापयेदेवं परिधापयति - ६.४.३.८

अथैनमादायोत्तिष्ठति । असौ वा आदित्य एषोऽग्निरमुं तदादित्यमुत्थापयत्युदु तिष्ठ स्वध्वरेत्यध्वरो वै यज्ञ उदु तिष्ठ सुयज्ञियेत्येतदवा नो देव्या धियेति या ते दैवी धीस्तया नोऽवेत्येतद्दृशे च भासा बृहता सुशुक्वनिरिति दर्शनाय च भासा बृहता सुशुक्वनिरित्येतदाऽग्ने याहि सुशस्तिभिरिति ये वोढारस्ते सुशस्तय आऽग्ने याहि वोढृभिरित्येतत् - ६.४.३.९

अथैनमित ऊर्ध्वं प्राञ्चं प्रगृह्णाति । असौ वा आदित्य एषोऽग्निरमुं तदादित्यमित ऊर्ध्वं प्राञ्चं दधाति तस्मादसावादित्य इत ऊर्ध्वः प्राङ्धीयत ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितेति यथैव यजुस्तथा बन्धुरूर्ध्वो वाजस्य सनितेत्यूर्ध्वो वा एष तिष्ठन्वाजमन्नं सनोति यदञ्जिभिर्वाघद्भिर्विह्वयामह इति रश्मयो वा एतस्याञ्जयो वाघतस्तानेतदाह परोबाहु प्रगृह्णाति परोबाहु ह्येष इतोऽथैनमुपावहरति तमुपावहृत्योपरिनाभि धारयति तस्योपरि बन्धुः - ६.४.३.१०