शुक्लयजुर्वेदः/अध्यायः १२
← अध्यायः ११ | शुक्लयजुर्वेदः अध्यायः १२ [[लेखकः :|]] |
अध्यायः १३ → |
अध्यायः 12
अग्निचयने उखाधारणादि मन्त्राः
12.1
दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥
12.2
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची ।
द्यावाक्षामा रुक्मो ऽ अन्तर् वि भाति देवा ऽ अग्निं धारयन् द्रविणोदाः ॥
12.3
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे ।
वि नाकम् अख्यत् सविता वरेण्योऽनु प्रयाणम् उषसो वि राजति ॥
12.4
सुपर्णोऽसि गरुत्माꣳस् त्रिवृत् ते शिरो गायत्रं चक्षुर् बृहद्रथन्तरे पक्षौ ।
स्तोम ऽ आत्मा छन्दाꣳस्य् अङ्गानि यजूꣳषि नाम ।
साम ते तनूर् वामदेव्यं यज्ञायज्ञियं पुच्छं धिष्ण्याः शफाः ।
सुपर्णो ऽसि गरुत्मान् दिवं गच्छ स्वः पत ॥
12.5
विष्णोः क्रमोऽसि सपत्नहा गायत्रं छन्द ऽ आ रोह पृथिवीम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽस्य् अभिमातिहा त्रैष्टुभं छन्द ऽ आ रोहान्तरिक्षम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽस्य् अरातीयतो हन्ता जागतं छन्द ऽ आ रोह दिवम् अनु वि क्रमस्व ।
विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द ऽ आ रोह दिशोऽनु वि क्रमस्व ॥
12.6
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धोऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
12.7
अग्नेऽभ्यावर्तिन्न् अभि मा नि वर्तस्वायुषा वर्चसा प्रजया धनेन ।
सन्या मेधया रय्या पोषेण ॥
12.8
अग्ने ऽ अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त ऽ उपावृतः ।
अधा पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि ॥
12.9
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न ऽ इषायुषा ।
पुनर् नः पाह्य् अꣳहसः ॥
12.10
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥
12.11
आ त्वाहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः ।
विशस् त्वा सर्वा वाञ्छन्तु मा त्वद् राष्ट्रम् अधि भ्रशत् ॥
12.12
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमꣳ श्रथाय ।
अथा वयम् आदित्य व्रते तवानागसो ऽ अदितये स्याम ॥
12.13
अग्रे बृहन्न् उषसामूर्ध्वो ऽ अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।
अग्निर् भानुना रुशता स्वङ्ग ऽ आ जातो विश्वा सद्मान्य् अप्राः ॥
12.14
हꣳसः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऽ ऋतजा अद्रिजा ऽ ऋतम् बृहत् ॥
12.15
सीद त्वं मातुर् अस्या ऽ उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् ।
मैनां तपसा मार्चिषाऽभिशोचीर् अन्तर् अस्याꣳ शुक्रज्योतिर् वि भाहि ॥
12.16
अन्तर् अग्ने रुचा त्वम् उखायाः सदने स्वे ।
तस्यास् त्वꣳ हरसा तपन् जातवेदः शिवो भव ॥
12.17
शिवो भूत्वा मह्यम् अग्नेऽ अथो सीद शिवस् त्वम् ।
शिवः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥
12.18
दिवस् परि प्रथमं जज्ञे ऽ अग्निर् अस्माद् द्वितीयं परि जातवेदाः ।
तृतीयम् अप्सु नृमणा ऽ अजस्रम् इन्धान ऽ एनं जरते स्वाधीः ॥
12.19
विद्मा ते ऽ अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत ऽ आजगन्थ ॥
12.20
समुद्रे त्वा नृमणा ऽ अप्स्व् अन्तर् नृचक्षा ऽ ईधे दिवो अग्न ऽ ऊधन् ।
तृतीये त्वा रजसि तस्थिवाꣳसम् अपाम् उपस्थे महिषा ऽ अवर्धन् ॥
12.21
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
12.22
श्रीणाम् उदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो ऽ अप्सु राजा वि भात्य् अग्र ऽ उषसाम् इधानः ॥
12.23
विश्वस्य केतुर् भुवनस्य गर्भऽ आ रोदसी ऽ अपृणाज् जायमानः ।
वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥
12.24
उशिक् पावको अरतिः सुमेधा मर्त्येष्व् अग्निर् अमृतो नि धायि ।
इयर्ति धूमम् अरुषं भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षन् ॥
12.25
दृशानो रुक्म ऽ उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः ।
अग्निर् अमृतो ऽ अभवद् वयोभिर् यद् एनं द्यौर् जनयत् सुरेताः ॥
12.26
यस् ते अद्य कृणवद् भद्रशोचेऽपूपं देव घृतवन्तम् अग्ने ।
प्र तं नय प्रतरं वस्यो ऽ अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥
12.27
आ तं भज सौश्रवसेष्व् अग्न ऽ उक्थ ऽ उक्थ ऽ आ भज शस्यमाने ।
प्रियः सूर्ये प्रियो ऽ अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥
12.28
त्वाम् अग्ने यजमाना ऽ अनु द्यून् विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥
12.29
अस्ताव्य् अग्निर् नराꣳ सुशेवो वैश्वानर ऽ ऋषिभिः सोमगोपाः ।
अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिम् अस्मे सुवीरम् ॥
12.30
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् ।
आस्मिन् हव्या जुहोतन ॥
12.31
उद् उ त्वा विश्वे देवा ऽ अग्ने भरन्तु चित्तिभिः ।
स नो भव शिवस् त्वꣳ सुप्रतीको विभावसुः ॥
12.32
प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिष् ट्वम् ।
बृहद्भिर् भानुभिर् भासन् मा हिꣳसीस् तन्वा प्रजाः ॥
12.33
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीम् इद्धो ऽ अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
12.34
प्र-प्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः ।
अभि यः पूरुं पृतनासु तस्थउ दीदाय दैव्यो ऽ अतिथिः शिवो नः ॥
12.35
आपो देवीः प्रति गृभ्णीत भस्मैतत् स्योने कृणुध्वꣳ सुरभा ऽ उ लोके ।
तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रं बिभृताप्स्व् एनत् ॥
12.36
अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे ।
गर्भै सन् जायसे पुनः ॥
12.37
गर्भोऽअस्य् ओषधीनां गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्याग्ने गर्भोऽअपाम् असि ॥
12.38
प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने ।
सꣳसृज्य मातृभिष् ट्वं ज्योतिष्मान् पुनर् आसदः ॥
12.39
पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने ।
शेषे मातुर् यथोपस्थे ऽन्तर् अस्याꣳ शिवतमः ॥
12.40
पुनर् ऊर्जा निवर्तस्व पुनर् अग्न ऽ इषायुषा ।
पुनर् नः पाह्य् अꣳहसः ॥
12.41
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस् परि ॥
12.42
बोधा मे ऽ अस्य वचसो यविष्ठ मꣳहिष्ठस्य प्रभृतस्य स्वधावः ।
पीयति त्वो ऽ अनु त्वो गृणाति वन्दारुष् टे तन्वं वन्दे ऽ अग्ने ॥
12.43
स बोधि सूरिर् मघवा वसुपते वसुदावन् ।
युयोध्य् अस्मद् द्वेषाꣳसि ।
विश्वकर्मणे स्वाहा ॥
12.44
पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धतां पुनर् ब्रह्माणो वसुनीथ यज्ञैः ।
घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥
12.45
अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः ।
अदाद् यमो ऽवसानं पृथिव्या ऽ अक्रन्न् इमं पितरो लोकम् अस्मै ॥
12.46
संज्ञानम् असि ।
कामधरणम् ।
मयि ते कामधरणं भूयात् ।
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ।
चित स्थ परिचित ऽ ऊर्ध्वचितः श्रयध्वम् ॥
12.47
अयꣳ सो ऽ अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजम् अत्यं न सप्तिꣳ ससवान्त् सन्त् स्तूयसे जातवेदः ॥
12.48
अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीष्व् अप्स्व् आ यजत्र ।
येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
12.49
अग्ने दिवोऽ अर्णम् अच्छा जिगास्य् अच्छा देवाꣳ ऽ ऊचिषे धिष्ण्या ये ।
या रोचने परस्तात् सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त ऽ आपः ॥
12.50
पुरीष्यासो ऽ अग्नयः प्रावणेभिः सजोषसः ।
जुषन्तां यज्ञम् अद्रुहोऽनमीवा ऽइषो महीः ॥
12.51
इडाम् अग्ने पुरुदꣳसꣳ सनिं गोः शश्वत्तमꣳ हवमानाय साध ।
स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
12.52
अयं ते योनिर् ऋत्वियो यतो जातो ऽ अरोचथाः ।
तं जानन्न् अग्न ऽ आ रोहाथा नो वर्धया रयिम् ॥
12.53
चिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
12.54
लोकं पृण छिद्रं पृणाथो सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
12.55
ता अस्य सूददोहसः सोमꣳ श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
12.56
इन्द्रं विश्वा ऽ अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥
12.57
समितꣳ सं कल्पेथाꣳ सम्प्रियौ रोचिष्णू सुमनस्यमानौ ।
इषमूर्जम् अभि संवसानौ ॥
12.58
सं वां मनाꣳसि सं व्रता सम् उ चित्तान्य् आकरम् ।
अग्ने पुरीष्याधिपा भव त्वं न ऽ इषमूर्जं यजमानाय धेहि ॥
12.59
अग्ने त्वं पुरीष्यो रयिमान् पुष्टिमाꣳ२ ऽ असि ।
शिवाः कृत्वा दिशः सर्वाः स्वं योनिम् इहासदः ॥
12.60
भवतं नः समनसौ सचेतसाव् अरेपसौ ।
मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
12.61
मातेव पुत्रं पृथिवी पुरीष्यम् अग्निꣳ स्वे योनाव् अभार् उखा ।
तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥
12.62
असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्याम् अन्व् इहि तस्करस्य ।
अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥
12.63
नमः सु ते निर्ऋते तिग्मतेजो ऽयस्मयं वि चृता बन्धम् एतम् ।
यमेन त्वं यम्या संविदानोत्तमे नाके ऽ अधि रोहयैनम् ॥
12.64
यस्यास् ते घोर ऽ आसन् जुहोम्य् एषां बन्धानाम् अवसर्जनाय ।
यां त्वा जनो भूमिर् इति प्रमन्दते निर्ऋतिं त्वाहं परि वेद विश्वतः ॥
12.65
यं ते देवी निर्ऋतिर् आबबन्ध पाशं ग्रीवास्व् अविचृत्यम् ।
तं ते वि ष्याम्य् आयुषो न मध्याद् अथैतं पितुम् अद्धि प्रसूतः ।
नमो भूत्यै येदं चकार ॥
12.66
निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे शचीभिः ।
देव ऽ इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥
12.67
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
धीरा देवेषु सुम्नया ॥
12.68
युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।
गिरा च श्रुष्टिः सभरा असन् नो नेदीयऽ इत् सृण्यः पक्वम् एयात् ॥
12.69
शुनꣳ सु फाला वि कृषन्तु भूमिꣳ शुनं कीनाशा ऽ अभि यन्तु वाहैः ।
शुनासीरा हविषा तोशमाना सुपिप्पला ऽ ओषधीः कर्तनास्मे ॥
12.70
घृतेन सीता मधुना सम् अज्यतां विश्वैर् देवैर् अनुमता मरुद्भिः ।
ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाभ्या ववृत्स्व ॥
12.71
लाङ्गलं पवीरवत् सुशेवꣳ सोमपित्सरु ।
तद् उद् वपति गाम् अविं प्रफर्व्यं च पीवरीं प्रस्थावद् रथवाहनम् ॥
12.72
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च ।
इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ऽ ओषधीभ्यः ॥
12.73
वि मुच्यध्वम् अघ्न्या देवयाना ऽ अगन्म तमसस् पारम् अस्य ज्योतिर् आपाम ॥
12.74
सजूर् अब्दो ऽ अयवोभिः सजूर् उषा ऽ अरुणीभिः सजोषसाव् अश्विना दꣳसोभिः सजूः सूर ऽ एतशेन सजूर् वैश्वानर ऽ इडया घृतेन स्वाहा ॥
12.75
या ओषधीः पूर्वा जाता देवेभ्यस् त्रियुगं पुरा ।
मनै नु बभ्रूणाम् अहꣳ शतं धामानि सप्त च ॥
12.76
शतं वो ऽ अम्ब धामानि सहस्रम् उत वो रुहः ।
अधा शतक्रत्वो यूयम् इमं मे ऽ अगदं कृत ॥
12.77
ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा ऽ इव सजित्वरीर् वीरुधः पारयिष्ण्वः ॥
12.78
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे ।
सनेयम् अश्वं गां वास ऽ आत्मानं तव पूरुष ॥
12.79
अश्वत्थे वो निषदनं पर्णे वो वसतिष् कृता ।
गोभाज ऽ इत् किलासथ यत् सनवथ पूरुषम् ॥
12.80
यत्रौषधीः समग्मत राजानः समिताव् इव ।
विप्रः स ऽ उच्यते भिषग् रक्षोहामीवचातनः ॥
12.81
अश्वावतीꣳ सोमावतीमूर्जयन्तीम् उदोजसम् ।
आवित्सि सर्वा ऽ ओषधीर् अस्मा अरिष्टतातये ॥
12.82
उच् छुष्मा ऽ ओषधीनां गावो गोष्ठाद् इवेरते ।
धनꣳ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
12. 83
इष्कृतिर् नाम वो माताथो यूयꣳ स्थ निष्कृतीः ।
सीराः पतत्रिणी स्थन यद् आमयति निष्कृथ ॥
12.84
अति विश्वाः परिष्ठा स्तेन इव ऽ व्रजम् अक्रमुः ।
ओषधीः प्राचुच्यवुर् यत् किं च तन्वो रपः ॥
12.85
यद् इमा वाजयन्न् अहम् ओषधीर् हस्त ऽ आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
12.86
यस्यौषधीः प्रसर्पथाङ्गम्-अङ्गं परुष्-परुः ।
ततो यक्ष्मं वि बाधध्व ऽ उग्रो मध्यमशीर् इव ॥
12.87
साकं यक्ष्म प्रपत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
12.88
अन्या वो ऽ अन्याम् अवत्व् अन्यान्यस्या ऽ उपावत ।
ताः सर्वाः संविदाना ऽ इदं मे प्रावता वचः ॥
12.89
याः फलिनीर् या ऽ अफला ऽ अपुष्पा याश् च पुष्पिणीः ।
बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अꣳहसः ॥
12.90
मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत ।
अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्विषात् ॥
12.91
अवपतन्तीर् अवदन् दिव ऽ ओषधयस् परि ।
यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
12.92
या ऽ ओषधीः सोमराज्ञीर् बह्वीः शतविचक्षणाः ।
तासाम् असि त्वम् उत्तमारं कामाय शꣳ हृदे ॥
12.93
या ऽ ओषधीः सोमराज्ञीर् विष्ठिताः पृथिवीम् अनु ।
बृहस्पतिप्रसूता ऽ अस्यै सं दत्त वीर्यम् ॥
12.94
याश् चेदम् उपशृण्वन्ति याश् च दूरं परागताः ।
सर्वाः संगत्य वीरुधो ऽस्यै सं दत्त वीर्यम् ॥
12.95
मा वो रिषत् खनिता यस्मै चाहं खनामि वः ।
द्विपाच् चतुष्पाद् अस्माकꣳ सर्वम् अस्त्व् अनातुरम् ॥
12.96
ओषधयः सम् अवदन्त सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस् तꣳ राजन् पारयामसि ॥
12.97
नाशयित्री बलासस्यार्शस ऽउपचिताम् असि ।
अथो शतस्य यक्ष्माणां पाकारोर् असि नाशनी ॥
12.98
त्वां गन्धर्वा ऽअखनꣳस् त्वाम् इन्द्रस् त्वां बृहस्पतिः ।
त्वाम् ओषधे सोमो राजा विद्वान् यक्ष्माद् अमुच्यत ॥
12.99
सहस्व मे ऽ अरातीः सहस्व पृतनायतः ।
सहस्व सर्वं पाप्मानꣳ सहमानास्य् ओषधे ॥
12.100
दीर्घायुस्त ऽ ओषधे खनिता यस्मै च त्वा खनाम्य् अहम् ।
अथो त्वं दीर्घायुर् भूत्वा शतवल्शा वि रोहतात् ॥
12.101
त्वम् उत्तमास्य् ओषधे तव वृक्षा ऽ उपस्तयः ।
उपस्तिर् अस्तु सो स्माकं योऽअस्माꣳ२ऽ अभिदासति ॥
12.102
मा मा हिꣳसीज् जनिता यः पृथिव्या यो वा दिवꣳ सत्यधर्मा व्यानट् ।
यश् चापश् चन्द्राः प्रथमो जजान कस्मै देवाय हविषा विधेम ॥
12.103
अभ्या वर्तस्व पृथिवि यज्ञेन पयसा सह ।
वपां ते अग्निर् ऽ इषितो ऽ अरोहत् ॥
12.104
अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यच् च यज्ञियम् ।
तद् देवेभ्यो भरामसि ॥
12.105
इषमूर्जम् अहम् इत ऽ आदम् ऋतस्य योनिं महिषस्य धाराम् ।
आ मा गोषु विशत्वा तनूषु जहामि सेदिम् अनिराम् अमीवाम् ॥
12.106
अग्ने तव श्रवो वयो महि भ्राजन्ते ऽ अर्चयो विभावसो ।
बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
12.107
पावकवर्चाः शुक्रवर्चा ऽ अनूनवर्चा ऽ उद् इयर्षि भानुना ।
पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी ऽ उभे ॥
12.108
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।
त्वे ऽ इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥
12.109
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो ऽ अमर्त्य ।
स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥
12.110
इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तꣳ राधसो महः ।
रातिं वामस्य सुभगां महीम् इषं दधासि सानसिꣳ रयिम् ॥
12.111
ऋतावानं महिषं विश्वदर्शतम् अग्निꣳ सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णꣳ सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥
12.112
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे ॥
12.113
सं ते पयाꣳसि सम् उ यन्तु वाजाः सं वृष्ण्यान्य् अभिमातिषाहः ।
आप्यायमानो ऽ अमृताय सोम दिवि श्रवाꣳस्य् उत्तमानि धिष्व ॥
12.114
आ प्यायस्व मदिन्तम सोम विश्वेभिर् अꣳशुभिः ।
भवा नः सुश्रवस्तमः सखा वृधे ॥
12.115
आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् ।
अग्ने त्वां कामया गिरा ॥
12.116
तुभ्यं ता ऽ अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
अग्ने कामाय येमिरे ॥
12.117
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।
सम्राड् एको वि राजति ॥
भाष्यम्(उवट-महीधर)
द्वादशोऽध्यायः।
तत्र प्रथमा ।
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद् दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत्सु॒रेता॑: ।। १ ।।
उ० यजमानः कण्ठे रुक्मं प्रतिमुञ्चति । दृशानो रुक्मः त्रिष्टुप् । आदित्याध्यासेन रुक्मस्तुतिः । यो दृशानः दृश्यमानः प्रत्यक्षत उपलभ्यमानः । रुक्मः रोचनः । उर्व्या महत्या दीप्त्या व्यद्योत् विद्योतते यस्य च दुर्मर्षमायुः दुर्मर्षमनवखण्डितम् आयुर्जीवनम् । श्रिये रुचानः यश्च जनेभ्यः श्रियं दातुं रोचते सोऽयमग्निः अमृतः अमरणधर्मा चाभवत् । वयोभिरन्नैः पशुपुरोडाशप्रभृतिभिः यदेनं द्यौरजनयत् । यच्च एनमग्निं द्यौः अजनयत् जनितवती । सुरेताः शोभनरेताः । रेतः पुत्रः। 'सुरेता ह्येषा यस्यायमग्निः' इति द्वितीयममृतत्वकारणमः ॥ १॥
म० एकादशाध्याये उखासंभरणादिमन्त्रा उक्ताः द्वादशेऽध्याये उखाधारणादिमन्त्रा उच्यन्ते । तत्र 'यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविᳪं᳭शतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म इति' (१६ । ५। १)। समिदाधानान्ते ऐशान्यां तिष्ठन्यजमानो ग्रीवायां रुक्मं स्वर्णनिर्मितं फलकाकारमाभरणविशेषं बध्नाति । कीदृशम् । वर्तुलम् एकविंशतिः पिण्डा यत्र । शणकदलतुल्याः स्वरूपाद्बहिर्भूता उन्नतबिन्दवः पिण्डा उच्यन्ते । कृष्णाजिनखण्डे श्वेतकृष्णरोमस्थाने स्यूतम् त्रिगुणशणसूत्रे प्रोतं नामेरूर्ध्वं वर्तमानं पिण्डा बहिर्भवन्ति तथा धार्यमिति सूत्रार्थः । रुक्मदेवत्या त्रिष्टुप् वत्सप्रीदृष्टा । आदित्याध्यासेन रुक्मः स्तूयते । रुक्म आभरणविशेषः उर्व्या महत्या दीप्त्या व्यद्यौत् विद्योतते । 'द्युत द्योतने' व्यत्ययेन शपि लुप्ते वृद्धौ लङि रूपम् । कीदृशो रुक्मः । दृशानो दृश्यमानः । शानचि शपो लुक् । प्रत्यक्षमुपलभ्यमानः। श्रिये जनेभ्यः श्रियं दातुम् । दुर्मर्षं दुर्मर्षमनवखण्डितं केनाप्यतिरस्कार्यं वा आयुः जीवनं रुचानः रोचत इति रुचानो वाञ्छन् । रोचतेः शानचि 'बहुलं छन्दसि' (पा० २। ४ । ७३) इति शपो लुक् सोऽयमग्निर्वयोभिरन्नैः पशुपुरोडाशप्रभृतिभिरमृतोऽमरणधर्मा अभवत् । यद्यस्मात्कारणात् द्यौर्द्युलोकवासी देवगण एनमग्निमजनयत् जनितवती । कीदृशी द्यौः । सुरेताः शोभनं रेतोऽग्निरूपं यस्याः सा तस्मादमृतत्वं युक्तम् ॥ १॥
द्वितीया।
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ᳪं᳭ समी॒ची ।
द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ।। २ ।।
उ० द्वाभ्यां परिगृह्णाति । नक्तोषासा । आग्नेयी त्रिष्टुप् नक्ता रात्रिः उषाशब्देनाहरुच्यते रात्र्यहनी । समनसा एकमनस्के। विरूपे नानारूपे । कृष्णा रात्रिः शुक्लमहः । धापयेते पाययेते सायंप्रातरग्निहोत्रादिभिः कर्मभिः।शिशुं बालमिव मातापितरौ एकं अग्निलक्षणम् । समीची सम्यगञ्चिते संश्लिष्टे वा । ये इत्थंभूते ताभ्यां गृह्णामीति शेषः । हरन् जपति द्यावाक्षामा । द्यावापृथिव्यौ यो रुक्मः रोचनः अन्तर्विभाति अन्तरादीप्यते तं हरामीति शेषः । निदधाति । देवा अग्निं धारयन्द्रविणोदाः यमग्निं देवा द्रविणोदाः धनदातारो धारितवन्तः तमहं धारयामीति शेषः ॥ २ ॥
म० 'परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति' (का० १६ । ५। ३) । वर्तुलाभ्यामुखाधारणसाधनरूपाभ्यामिण्ड्वाभ्यामुखां गृह्णातीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् कुत्सदृष्टा । अर्धमुखाग्रहणे विनियुक्तम् । नक्तोषासा नक्तं च उषाश्च नक्तोषसौ । विभक्तेराकारः संहितायां दीर्घः । नक्तं रात्रिः उषा अहः । नक्तोषसौ रात्रिदिवसौ एकमग्निं धापयेते पाययेते सायंप्रातरग्निहोत्रादिकर्मभिः तर्पयेते इत्यर्थः । तत्र लुप्तोपमानम् । शिशुं बालं मातापितराविव । 'धेट् पाने' 'हेतुमति च' (पा० ३। १ । २६) इति णिच् 'आदेच उपदेशेऽशिति' (पा० ६ । १ । ४५) इति आकारे 'अर्तिह्री' (पा० ७।३ । ३६ ) इत्यादिना पुक् । कीदृश्यौ नक्तोषसौ। समनसा समनसौ समानं मनो ययोस्ते एकमनस्के परमैकमत्ययुक्ते इत्यर्थः । विरूपे विलक्षणं रूपं ययोस्ते विरूपे । कृष्णा रात्रिः शुक्लमहः । समीची सम्यगञ्चतस्ते समीच्यः सम्यगञ्चने समन्विते संश्लिष्टे वा । पूर्वसवर्णो विभक्तेः । ये इत्थंभूते रात्र्यहनी ताभ्यामिण्ड्वारूपाभ्यामुखां गृह्णामीति शेषः । 'हरति द्यावाक्षामेति' (का० १६ । ५ । ४) । आहवनीयोपरिस्थामुखामेवमिण्ड्वाभ्यामादाय द्यावेति पादेनासन्दीं प्रति तां हरतीति सूत्रार्थः । द्यावाक्षामा द्यौश्च क्षामा पृथिवी च द्यावाक्षामा । दिवो द्यावादेशः विभक्तेर्लोपः । द्यावापृथिव्योरन्तर्मध्ये अन्तरिक्षे च यो रुक्मः रोचमानोऽग्निर्विभाति प्रकाशते तं हरामीति शेषः । 'आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चतुरस्राङ्ग्यां शिक्यवत्यामादधाति देवा अग्निमिति' (का० १६।५।५)। आहवनीयात्पूर्वदिशि भूमौ स्थापितायामासन्द्यामुखां निदधाति देवा इति पादेन । उद्गात्रासन्दीवदिति प्रादेशमात्रपाद्यामौदुम्बर्यामरत्निमात्राङ्ग्यां मुञ्जरज्ज्वा व्युतायामिति लभ्यते । तथा चतुरस्राङ्ग्यां चतुरस्राणि चतुष्कोणानि अङ्गानीषोपलपादरूपाणि यस्यास्तस्यां सशिक्यायां चेति सूत्रार्थः । देवाः दीव्यन्ति व्यवहरन्तीति देवाः प्राणा यजमानस्य एतमग्निं धारयन् अधारयन् । अडभाव आर्षः । कीदृशा देवाः । द्रविणोदाः यागद्वारेण द्रविणं धनरूपं फलं ददति प्रयच्छन्ति ते । तमहं धारयामीति शेषः । 'अग्निं धारयन् द्रविणोदा इत्याह प्राणा वे देवा द्रविणोदाः' इति तैत्तिरीयश्रुतेर्देवशब्देन प्राणा उच्यन्ते ॥ २॥
तृतीया ।
विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे ।
वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ।। ३ ।।
उ० शिक्यपाशं प्रतिमुञ्चति । विश्वा रूपाणि जगती सावित्री। यः विश्वानि सर्वाणि रूपाणि प्रतिमुञ्चते प्रतिबध्नाति । द्रव्येष्वपहत्य शार्वरं तमः प्रकाशयतीत्यर्थः । कविः क्रान्तदर्शनः । यश्च प्रासावीत्प्रसौति । भद्रं भन्दनीयम् । द्विपदे चतुष्पदे द्विपाद्भ्यश्चतुष्पाद्भ्यश्च । विनाकमख्यत्सविता वरेण्यः। यश्च व्यख्यत् विख्यापयति प्रकाशयति । नाकं द्युलोकम् । सविता सर्वस्य प्रसविता । वरेण्यः वरणीयः। अनु प्रयाणमुषसो विराजति । स सविता उषसः प्रयाणं प्रगमनम् अनु पश्चात् विराजति दीप्यते। 'उषाः सवितुः पुरोगामिनी' इति सवितुः स्तुतिः । य इत्थंभूतः सविता स शिक्यं प्रतिमुञ्चत्वित्यर्थः ॥३॥
म. 'शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणीति' (का० १६ । ५। ६)। उत् ऊर्ध्वं यम्यते नियम्यते यैस्ते उद्यामा रज्जवः षडुद्यामा रज्जव ऊर्ध्वाकर्षणहेतवो यस्येदृशमासन्दीस्थं शिक्यपाशं यजमानः कण्ठे बध्नातीति सूत्रार्थः । सवितृदेवत्या जगती श्यावाश्वदृष्टा । कविः विद्वान् कान्तदर्शनः । वरेण्यः श्रेष्ठः सविता सर्वस्य प्रसविता सूर्यः विश्वा विश्वानि सर्वाणि रूपाणि प्रतिमुञ्चते द्रव्येषु प्रतिबध्नाति | रात्रितमोऽपहत्य रूपाणि प्रकाशयतीत्यर्थः । यश्च द्विपदे चतुष्पदे द्विपाद्भ्यश्चतुष्पाद्भ्यो मनुष्यपश्वादिभ्यो भद्रं कल्याणं स्वस्वव्यवहारप्रकाशनरूपं श्रेयः प्रासावीत् प्रसौति प्रेरयति । | यश्च नाकं स्वर्गं व्यख्यत् विख्याति प्रकाशयति । 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १ । ५२) इति च्लेरङ् । यश्च उषसः उषःकालस्य प्रयाणं गमनमनु पश्चात् उषःकाले व्यतीते सति विराजति विशेषेण दीप्यते । 'उषाः सवितुः पुरोगामिनी' इति सवितुः स्तुतिः । ईदृशः सविता शिक्यं प्रतिमुच्चत्विति शेषः ॥ ३॥
चतुर्थी ।
सु॒प॒र्णो॒ऽसि ग॒रुत्माँ॑स्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे पक्षौ ।
स्तोम॑ आ॒त्मा छन्दा॒ᳪं᳭स्यङ्गा॑नि॒ यजूँ॑ᳪं᳭षि॒ नाम॑ । साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्या॑: श॒फाः ।
सु॒प॒र्णो॒ऽसि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ स्व॑: पत ।। ४ ।।
उ० विकृत्याऽभिमन्त्रयते। विकृतिश्चतुरवसाना गारुत्मती | विषघ्नी । सुपर्णोऽसि सुपतनस्त्वमसि । गरुत्मान् गणवान् अशनवान् । त्रिवृत्स्तोमः ते तव शिरः । गायत्रं चक्षुः । बृहद्रथन्तरे सामनी पक्षौ । पञ्चविंशः स्तोमः आत्मा । छन्दांस्येकविंशतिरङ्गानि यजूंषि नाम । साम ते तनूः । वामदेव्यं यज्ञायज्ञियं पुच्छम् । धिष्ण्याः अग्नयः शफाः खुराः । यतश्च त्वं सुपर्णोऽसि गुरुत्मान् अतो ब्रवीमि त्वाम् । दिवं गच्छ स्वः स्वर्लोकं पत ॥ ४॥
म० 'सशिक्यं प्राञ्चं प्रगृह्णाति सुपर्णोऽसीति पिण्डवत्' (का. १६ । ५।७)। शिक्यसहितमुख्याग्निं प्राच्यामूर्ध्वं धारयति पिण्डवदित्यूर्ध्वबाहुः । अनेनोख्याग्नेरभिमन्त्रणमप्युक्तं कैश्चिदिति सूत्रार्थः । गरुत्मद्देवत्या विषहन्त्री चतुरवसाना कृतिः । हे अग्ने, त्वं सुपर्णः शोभनं पर्णं पतनं यस्य स पक्षिरूपोऽसि पक्ष्याकारेण चितत्वात् । तत्र दृष्टान्तः । गरुत्मान् गरुडो यथा पक्षिराजस्तद्वत् । तस्यावयवाः कथ्यन्ते । त्रिवृत् ते तव शिरः त्रिवृत्स्तोमस्तव शिरःस्थानीयः । गायत्रं चक्षुः यद्गायत्राख्यं साम तत्तव चक्षुः नेत्रस्थानीयम् । बृहद्रथन्तरे पक्षौ बृहद्रथन्तराख्ये सामनी तव पक्षस्थानीये । स्तोम आत्मा पञ्चदशस्तोमस्तवात्मा अन्तःकरणस्थानीयः । छन्दांसि अङ्गानि गायत्र्यादीनि एकविंशतिच्छन्दांसि तव हृदयाद्यङ्गस्थानीयानि । यजूंषि नाम इषे त्वेत्यादीनि यजूंषि तव नामस्थानीयानि । वामदेव्यं साम ते तव तनूः शरीरस्थानीयम् । यज्ञायज्ञियाख्यं साम तव पुच्छं पुच्छस्थानीयम् । धिष्ण्याः शफाः होत्रादिधिष्ण्यस्थिता अग्नयस्तव शफाः खुरस्थानीयाः । हे अग्ने, एवंभूतस्त्वं यतो गरुत्मान् गरुड इव सुपर्णः पक्षिरूपोऽसि अतो दिवमाकाशं प्रति गच्छ । तत्रापि स्वः पत स्वः स्वर्गलोकं प्राप्नुहि ॥ ४ ॥
पञ्चमी।
विष्णो॒: क्रमो॑ऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒
विष्णो॒: क्रमो॑ऽस्यभिमाति॒हा त्रै॑ष्टुभं॒ छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व
विष्णो॒: क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व
विष्णो॒: क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभं॒ छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व ।। ५ ।।
उ०. विष्णुक्रमान्क्रमते । विष्णोः क्रमोऽसि । विष्णोः यज्ञस्याग्नेः यतः क्रमोऽसि सपनहा च शत्रुघातकश्च अतः गायत्रं छन्द आरोह पृथिवीमनु विक्रमस्व । अभिमातिहा अभिमातिरपि केनचिद्गुणविशेषेण शत्रुरेवोच्यते । ऋज्वन्यत् । अरातीयतो हन्ता अरातिरिवाचरति अरातीयति अरातिः शत्रुः तस्य अरातीयतः शत्रूयतो हन्ता । अधस्तनेन व्याख्यातम् ५
म० "विष्णुक्रमान्क्रमते विष्णोरिति प्रतिमन्त्रमग्न्युद्ग्रहणं च तस्मिंस्तस्मिन्' (का० १६ । ५। ११)। विष्णुक्रमसंज्ञान्पादन्यासान्करोति तस्मिंस्तस्मिन्क्रमणे उख्यस्याग्नेरूर्ध्वं ग्रहणं कार्यमिति सूत्रार्थः । चत्वारि यजूंष्युख्याग्निदेवत्यानि ऋग्बृहतीच्छन्दस्कानि त्रीणि । चतुर्थं प्राजापत्या बृहती । विष्णुशब्देनाग्निरुच्यते । ‘स यः स विष्णुर्यज्ञः स यः स यज्ञोऽयमेव स योऽयमग्निरुखायाम्' (६ । ७।२। ११) इति श्रुतेः । हे प्रथमपादविन्यास, त्वं विष्णोः यज्ञस्याग्नेः क्रमोऽसि । सपत्नहा सपत्नाञ्शत्रून्हन्तीति शत्रुघातकश्च । अतो गायत्रं छन्दः आरोह अनुग्राहकत्वेन स्वीकुरु । ततः पृथिवीमनु विक्रमस्व भूदेवतारूपमिमं प्रदेशं विशेषेण प्राप्नुहि । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् । हे द्वितीय पादन्यास, त्वं विष्णोः क्रमोऽसि अभिमातिहा अभिमातिर्घातकः पाप्मा वा तं हन्तीति । त्रैष्टुभं छन्दः । स्वीकुरु अन्तरिक्षप्रदेशं व्याप्नुहि । हे तृतीय पादन्यास, विष्णोः क्रमोऽसि अरातीयतो हन्ता रातिर्दानं न रातिररातिर्दानाभावस्तमात्मन इच्छतीत्यरातीयन् तस्य हन्ता विनाशकः । जागतं छन्दः । आरोह दिवं द्युलोकमनु विक्रमस्व द्युलोकं व्याप्नुहि । हे चतुर्थ पादन्यास, त्वं विष्णोः क्रमोऽसि शत्रूयतो हन्ता शत्रुत्वं हन्तृत्वमिच्छति शत्रूयति शत्रूयतीति शत्रूयन् । क्यजन्ताच्छतृप्रत्यय उभयत्र । तस्य हन्ता आनुष्टुभं छन्द आरोह । अत्र चतुर्ष्वपि पादन्यासेषु यजमान आत्मानं विष्णुत्वेन भावयेत् चतुर्णां प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत् । 'दिशो वीक्षते दिशोऽनु विक्रमस्वेति' (का. १६ । ५। १३) । सर्वा दिशः पश्यतीत्यर्थः । यजुरुष्णिक् । हे अग्ने, त्वं दिशोऽनु विक्रमस्व प्राच्यादिदिशो व्याप्नुहि ॥५॥
षष्ठी।
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौ॒: क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।। ६ ।।
उ० उर्ध्वबाहुः प्रदक्षिणं गृह्णात्यग्निम् । अक्रन्ददग्निः त्रिष्टुप् । अस्यामृच्यग्निपर्जन्यौ कथ्येते । अक्रन्दत् क्रन्दते विस्फूर्जति अग्निः । स्तनयन्निव द्यौः । द्यौःशब्देनात्र पर्जन्य उक्तः। यथा स्तनयन्पर्जन्यः शब्दं करोति एवमग्निः पर्जन्यवत् शब्दं करोति। अथान्यान्यपि पार्जन्यानि रूपाण्यग्नेः प्रदर्श्यन्ते। क्षामा रेरिहद्वीरुधः समञ्जन् । क्षामाशब्देन पृथिव्युच्यते । द्वितीयार्थे च प्रथमा । 'लिह आस्वादने' यथा पर्जन्य उदकभावमुपगच्छन्नत्यर्थं पृथिवीं लेढि आस्वादयति वीरुधः समञ्जन् व्याप्नुवन् एवमयमग्निः पृथिवीमत्यर्थमास्वादयति स्वकीयज्वालासमूहेनौषधीः समञ्जन्व्याप्नुवन् । अन्यदप्युच्यते। सद्यो जज्ञानो वि हीमिद्धो अख्यत् । यथा पर्जन्यः सद्य एवाभ्ररूपेण जायमानो व्यख्यत् । विरुपसर्गः ख्यातिना संबध्यते। तेन विख्यापयति हि ईं इद्धो धाराशतसहस्त्रैः । हि ईं इमौ निपातौ पादपूरणौ । एवमयमग्निः सद्य एव जायमानः इद्धः सन् इदं सर्वं विख्यापयति । अन्यच्च । आरोदसी भानुना भात्यन्तः । यथा पर्जन्य आभाति भानुना विद्युद्रूपेण । रोदसी द्यावापृथिव्योरन्तर्व्यवस्थितः । एवमयमग्निराभाति भानुना दीप्त्या द्यावापृथिव्योरन्तर्व्यवस्थितः । एवमग्निः पर्जन्यवत्स्तूयते ऋषिणा ॥६॥
म०. 'पिण्डवत् प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्निरिति' (का. | १६ । ५। १४) । ऊर्ध्वबाहुः प्रागूर्ध्वमग्निं गृह्णातीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् वत्सप्रीदृष्टा । अग्निरक्रन्दत् 'छन्दसि लुङलङ्लिटः' (पा० ३।४ । ६) क्रन्दति विस्फूर्जति । कीदृशः । द्यौरिव स्तनयन् । द्यौशब्देनात्र पर्जन्य उक्तः । द्यौर्मेघ इव स्तनयन् गर्जन् शब्दं कुर्वाणः 'स्तन गदी देवशब्दे' चुरादिरदन्तः । मेघसाधर्म्यमाह । क्षामा रेरिहत् ‘सुपां सुलुक्' (पा. ७।१।३९) इति विभक्तिलोपः । क्षामेति पृथिवीनामसु पठितम् । क्षामां पृथिवीं रेरिहत् 'लिह आस्वादने' यड्लुगन्ताच्छतृप्रत्ययः रेफश्छान्दसः । अत्यन्तं लेढीति लेलिहत् 'नाभ्यस्ताच्छतुः' (पा० ७ । १ । ७८) इति नुमभावः । भूमिमति आस्वादयन्व्याप्नुवन् यथा मेघो जलभावं गच्छन्नत्यर्थं भूमिं लेढि । वीरुधः समञ्जन् स्वकीयज्वालासमूहेन ओषधीर्व्याप्नुवन् । अन्यदप्युच्यते । हि यस्मात् जज्ञानः उत्पद्यमानः सन् सद्यः तदानीमेव इद्धः दीप्तश्च सन् व्यख्यत् विख्याति । अन्तर्भूतणिजन्तो ज्ञेयः । श्रुत्या तथा व्याख्यातत्वात् । विख्यापयति इदं सर्वं विविधं प्रकाशयति । अन्यच्च योऽग्निः रोदसी द्यावापृथिव्योः अन्तर्मध्ये भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते । यथा पर्जन्यो भानुना विद्युद्रूपेण द्यावापृथिव्योरन्तर्भाति एवमग्निः पर्जन्यवत् स्तूयते । ईम् निपातः पादपूरणे ॥ ६ ॥
सप्तमी।
अग्ने॑ऽभ्यावर्त्तिन्न॒भि मा॒ निव॑र्त॒स्वायु॑षा॒ वर्च॑सा प्र॒जया॒ धने॑न । स॒न्या मे॒धया॑ र॒य्या पोषे॑ण ॥ ७ ॥
उ० अवहरति अग्ने अभ्यावर्तिन्निति । इतःप्रभृति पञ्चाग्नेय्यः । अग्ने अभ्यावर्तिन् ऊर्ध्वबृहती। हे अग्ने अभ्यावर्तनशील, अभिनिवर्तस्व मांप्रति । आयुषा । वर्चसा । अन्नेन । प्रजया । धनेन । सन्या लाभेन । मेधया । रय्या सुवर्णोत्कर्षेण । पोषेण धनपुष्ट्या ॥ ७॥
म०. 'अवहरत्यग्नेऽभ्यावर्तिन्निति' (१६ । ५ । १५) । ऋक्चतुष्टयेन चतुर्वारमुख्याग्निमात्मसमीपमानयतीति सूत्रार्थः। अग्निदेवत्योर्ध्वबृहती द्वादशार्णत्रिपादा । अभि आभिमुख्येनावर्तितुं शीलमस्यास्तीत्यभ्यावर्ती तत्संबोधनम् अस्मदभिमुखागमनशील । आयुरादिभिः सह मा मामभि मांप्रति निवर्तस्व शीघ्रमागच्छ । आयुषा जीवनेन । वर्चसा ब्रह्मवर्चसेन । प्रजया पुत्रादिकया । धनेन वसुना । सन्या इष्टलाभेन । मेधया धारणावत्या बुद्ध्या । रय्या सुवर्णालंकारैः । पोषेण आयुरादीनां पुष्ट्या ॥ ७ ॥
अष्टमी।
अग्ने॑ अङ्गिरः श॒तं ते॑ सन्त्वा॒वृत॑: स॒हस्रं॑ त उपा॒वृत॑: ।
अधा॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि ।। ८ ।।
उ० अग्ने अगिरः । महाबृहती । हे अग्ने, अङ्गिरः अङ्गानां रसभूत, शतं तव सन्तु आवृतः आवर्तनानि । शतशब्दोऽसंख्यातविषयः । सहस्रं बहूनि च उपावर्तनानि सन्तु । अथ अध समानार्थौ । अथैवं भूयोभूयः करणेनावर्तमानः। पोषस्य पोषेण अनवच्छिन्नधनागमेन सह पुनः नोऽस्माकं नष्टम् न आकृधि आगमय । रयिं धनं पुनरागमय । करोतिर्गतिकर्मा ॥ ८॥
म० आग्नेयी महाबृहती एकः पादो द्वादशार्णश्चत्वारोऽष्टार्णाः । हे अङ्गिरः अङ्गिनां रसभूत अङ्गसौष्ठवयुक्त हे अग्ने, ते तव शतमावृतः सन्तु शतसंख्याका आवृत्तिशक्तयः सन्तु । तथा ते तव सहस्रमुपावृतः सन्तु सहस्रसंख्याका उपावृत्तिशक्तयः सन्तु स्वस्यैवावर्तनमावृत् । त्वत्समीपवर्तिनां पुरुषाणां द्रव्यविशेषाणां चावर्तनमुपावृत्तिः । अस्मासु स्नेहातिशयेन त्वमपि पुनःपुनरावर्तस्व । त्वदीयाः पुरुषास्त्वदीयानि च द्रव्याणि पुनःपुनरावर्तन्तामित्यर्थः । अधेत्यव्ययमथार्थम् । 'निपातस्य च' (पा० ६ । ३ । १३६) इति संहितायां दीर्घः । अथापि शतसहस्रसंख्यानामावृत्त्युपावृत्तिशक्तीनां यः पोषः समृद्धिस्तस्यापि पोषस्यान्यः पोषोऽयुतलक्षादिसंख्याकाभिवृद्धिस्तादृशेन पोषेण नोऽस्मदीयं नष्टं धनं पुनर्भूयोऽपि आकृधि आवृत्तं कुरु आगमय । पुनः भूयोऽपि नोऽस्मदीयं पूर्वमसंपादितं धनमाकृधि सर्वतः संपादितं कुरु । करोतिर्गतिकर्मा 'श्रुशृणुप्रकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) हेर्धिः व्यत्यये न शपो लुक् ॥ ८॥
नवमी।
पुन॑रू॒र्जा निव॑र्त्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पा॒ह्यᳪं᳭ह॑सः ॥ ९ ॥
उ० पुनरूर्जा गायत्र्यौ । पुनःपुनरभ्यासोऽनवच्छेदार्थः । पुनरपि उर्जा दध्याद्युपसेचनेन निवर्तस्व । पुनश्च हे अग्ने, इषा अन्नेन सह आयुषा च सह । किंच पुनरेव नोऽस्मान् पाहि अंहसः पापात्सकाशात् यथा पूर्वं रक्षिताः ॥ ९॥
म०. आग्नेय्यौ द्वे गायत्र्यौ । हे अग्ने, त्वमूर्जां क्षीरादिरसेन सह निवर्तस्व पुनरत्रागच्छ । इषा अन्नेन आयुषा जीवेन च सह पुनरागच्छ । आगतस्त्वं नोऽस्मान्पुनः कृतादंहसः पापात्पाहि रक्ष ॥ ९॥
दशमी।
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ॥ १० ॥
उ० सह रय्या सह धनेन निवर्तस्व । किंच । हे अग्ने, पिन्वस्व । पिन्वतिः सेचनार्थः । तां च रयिं सिञ्च । वसोर्धारया अनवच्छिन्नधनदानेन निवर्तस्व । पुनःपुनराप्यायस्वेत्यभिप्रायः । कथंभूतया रय्या । विश्वप्स्न्या विश्वतस्परि । 'प्सा भक्षणे' सर्वजनोपभोग्यया । विश्वतस्परि सर्वतोऽधिगतैरर्थैः पूर्यमाणया रय्या ॥ १० ॥
म० हे अग्ने, रय्या धनेन सह निवर्तस्व । किंच धारया जलधारया वृष्टिरूपया विश्वतः परि सर्वेषां तृणधान्यलतापादपानामुपरि पिन्वस्व सिञ्च । पिन्वतिः सेचनार्थः । कीदृश्या धारया । विश्वप्स्न्या 'प्सा भक्षणे' विश्वैः प्सायते भक्ष्यते पीयत इति विश्वप्स्नी तया । यद्वा विश्वप्स्न्या सर्वजनोपभोग्यया धारया धनधारया सर्वतः परि सर्वतोऽधिगतैरर्थैः पूर्यमाणया पिन्वस्व सिञ्च । अनवच्छिन्नधनदानेन पुनःपुनराप्यायस्वेत्यर्थः ॥ १०॥
एकादशी।
आ त्वा॑ऽहार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑भ्रशत् ।। ११ ।।
उ० उपरितनानि धारयन्नभिमन्त्रयते । आ त्वाहार्षम् । अनुष्टुब् आहार्षं त्वां यतः द्युलोकात् । 'हृञ् हरणे' । हृतवान् । त्वं च अन्तरभूः अन्तः नाभ्या उपरि शरीरमध्ये अभूः । अतो ब्रवीमि । ध्रुवः स्थिरः तिष्ठ । अविचाचलिः अविचलनशीलः । किंच विशः त्वां सर्वाः वाञ्छन्तु अन्नं तवोपतिष्ठतु सर्वम् । 'अन्नं वै विड्' इति श्रुतिः। मा त्वत् त्वत्तो राष्ट्रं जनपदसमूहः अधिभ्रशत् अधिभ्रश्यतु ॥ ११ ॥
म० 'उपरिनाभि धारयन्ना त्वाहार्षमित्यभिमन्त्रयते' (का० १६ । ५। १६)। नाभेरुपर्युख्याग्निं धारयंस्तमभिमन्त्रयत इति सूत्रार्थः । आग्नेय्यनुष्टुब् ध्रुवदृष्टा । हे अग्ने, अहं त्वामाहार्षमाहृतवानस्मि । आङ्पूर्वस्य हरतेर्लङि उत्तमैकवचनम् । त्वं च अन्तरभूतः उखामध्येऽवस्थितोऽसि । अविचाचलिरत्यन्तं चलनरहितो ध्रुवः स्थिरः सन् तिष्ठ । विचलतीति विचाचलिः यङन्तादिन् । किंच सर्वा विशः प्रजाः त्वा त्वां वाञ्छन्तु । यद्वा सर्वा विशः सर्वाण्यन्नानि त्वां वाञ्छन्तु अन्नानि तवोपतिष्ठन्तु । 'अन्नं वै विशः' (१६ । ७ । ३ । ७) इति श्रुतेः। इदं राष्ट्रं त्वत् त्वत्तः सकाशान्मा अधि भ्रशत् अयं जनपदस्व्ूत्तो माप्रभ्रश्यतु शून्यो मा भूत् । अस्मिन् राज्ये स्थित्वा सर्वाः प्रजाः पाहीत्यर्थः । यद्वा श्रीर्वै राष्ट्रम् ‘मा त्वद्राष्ट्रमधिभ्रशत्' (६।७।३।७) इति श्रुतेः। श्रीः त्वत्तो मा भ्रश्यतु 'भ्रंशु अधःपतने' पुषादित्वाच्च्लेरङ् 'न माङ्योगे' (पा० ६ । ४ । ७४) इति अडभावः ॥ ११॥
द्वादशी।
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मᳪं᳭ श्र॑थाय ।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।। १२ ।।
उ० पाशान्विमुञ्चति । उदुत्तमम् वारुणी त्रिष्टुप् । उदित्ययमुपसर्गः श्रथायेत्यनेन संबध्यते । हे वरुण, उत्तमं पाशम् उच्छ्रथय । 'श्रथ शैथिल्ये' । श्लथीकृत्योर्ध्वं नय । अस्मत् अस्मत्तः अवाधमम् अधमं च पाशम् अवाचीनं श्लथय । विमध्यमं स्थानस्थितमेव विश्लथय मध्यमम् । अथैवं कृते सति वयं हे आदित्य अदितेः पुत्र, व्रते तव कर्मणि वर्तमानाः अनागसः अनपराधाः अदितये अदीनतायै स्याम भवेम ॥ १२ ॥
म० 'पाश उन्मुच्योदुत्तममिति' (का० १६ । ५। १७)। रुक्मपाशशिक्यपाशौ गलादूर्ध्वमार्गेण निष्कासयतीति सूत्रार्थः। वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । उदित्युपसर्गोऽव वि एतावपि श्रथयेत्यनेन संबध्यते । हे वरुण, उत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमस्मत् अस्मत्तः सकाशात् उत् श्रथय उत्कृष्य विनाशय । अधममधमाङ्गे पादप्रदेशे स्थापितं त्वत्पाशमवश्रथय अवकृष्यास्मत्तो विनाशय । मध्यमं मध्यमप्रदेशे स्थितं पाशं विश्रथय विच्छेदय । 'श्रथ बध्ने' मित्वाण्णिचि ह्रस्वः लोटि मध्यमैकवचने रूपम् । श्रथायेति संहितायां दीर्घश्छान्दसः । यद्वा श्रथ क्र्यादिः लोटि मध्यमैकवचने 'छन्दसि शायजपि' (पा० ३ । १।८४) इति श्नाप्रत्ययस्य शायजादेशे श्रथायेति रूपम् । अथ पाशत्रयविनाशानन्तरं हे आदित्य अदितिपुत्र, वरुण अनागसः अनपराधा निष्पापास्तव व्रते कर्मणि वर्तमानाः सन्तो वयमदितये अदीनतायै स्याम अखण्डितत्वाय योग्या भवेम । अथा इत्यत्र 'निपातस्य च' (पा० ६ । ३ । १३६) इति दीर्घः ॥ १२ ॥
त्रयोदशी।
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षाऽऽगा॑त् ।
अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ।। १३ ।।
उ० प्रदक्षिणान् गृह्णाति । अग्रे बृहन् । त्रिष्टुप् । आदित्यात्मनोऽग्नेः स्तुतिः । यः अग्रे उषसां बृहन महान् प्रभावतः ऊर्ध्वः अस्थात् स्थितः । यश्च निर्जगन्वान् तमसः निर्गतो रानिलक्षणात्तमसः अहर्लक्षणेन ज्योतिषा सह आगात् आगतः सोऽग्निः । भानुना रुशता रोचिष्णुना । स्वङ्गः शोभनाङ्गः । आ जातो विश्वा सद्मान्यप्राः । 'प्रा पूरणे' । आ अप्राः आपूरिवान् जातः संजातरश्मिः विश्वा सद्मानि । 'इमे वै लोका विश्वासद्मानि' इति श्रुतिः । सर्वाणि सदनानि प्रत्यक्षवृत्तिता ॥ १३॥
म० 'पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे बृहन्निति' (का०१६ । ५।१७) । पूर्वमन्त्रेण पाशावुन्मुच्योर्ध्वबाहुराग्नेयीं दिशं प्रत्यख्याग्निमूर्ध्वं धारयतीति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् त्रितदृष्टा । आदित्यात्मनाग्नेः स्तुतिः क्रियते । बृहन् प्रभावान्महानयमग्निरुषसामग्रे प्रातःकालानां मुखे ऊर्ध्वो अस्थात् ऊर्ध्वः स्थितः । यद्वाग्निहोत्रादौ बोध्यमान उत्तिष्ठति । ऊर्ध्वो अस्थादित्यत्र 'प्रकृत्यान्तःपादमव्यपरे' (पा. ६।१।११५) इति 'एङः पदान्तादति' (६।१।१०९) इति सूत्रप्राप्तसन्ध्यभावः । यश्च तमसो रात्रिलक्षणान्निर्जगन्वान्निर्गतः सन् ज्योतिषाऽहर्लक्षणेन सह आ अगात् इहागतः सोऽग्निर्जात उत्पन्नमात्र एव विश्वा विश्वानि सर्वाणि सद्मानि स्थानानि सर्वान् लोकान् आ अप्राः स्वतेजसा सर्वत्र पूरितवान् 'प्रा पूरणे' लङ् पुरुषव्यत्ययः । 'इमे वै लोका विश्वा सद्मानि' (६।७।३ । १७) इति श्रुतिः । कीदृशः । रुशता 'रुश हिंसायाम्' रुशतीति रुशन् तेन रुशता तमो हिंसता भानुना रश्मिना स्वङ्गः शोभनान्यङ्गानि यस्य शोभनशरीरः ॥ १३ ॥
चतुर्दशी।
ह॒ᳪं᳭सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद् व्योम॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।। १४ ।।
उ० अवहरति हᳪं᳭सः शुचिषदिति । जगती यजुरन्ता बृहदिति यजुः । जगत्या 'जगती हेमाल्लोकान्' इति श्रुतिः । तथा बृहदिति निदधातीति राजसूये अतिच्छन्दसमित्युक्तम् । व्याख्यातो मन्त्रार्थः ॥ १४ ॥
म० 'अवहरति हᳪं᳭सः शुचिषदिति' ( का० १६ । ५। १८)। उख्याग्निमवतारयति । जगती अग्निप्रोक्षणे इयमुक्ता यजुरन्ता । राजसूयप्रकरणे इयमतिजगत्युक्ता इह तु जगती अन्ते बृहदिति यजुः । तद्विनियोगमाह 'आसन्द्यां करोति बृहदिति' ( का० १६ । ५। १९)। बृहदिति यजुषा उख्याग्निमासन्द्यां स्थापयतीति सूत्रार्थः । हंस इति मन्त्रस्तु व्याख्यातः (अ० १०। क० २४) ॥ १४ ॥
पञ्चदशी।
सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
मै॑नां॒ तप॑सा॒ मार्चिषा॒ऽभि शो॑चीर॒न्तर॑स्याᳪं᳭ शु॒क्रज्यो॑ति॒र्वि भा॑हि ।। १५ ।।
उ० उपतिष्ठते सीद त्वमिति तिसृभिराग्नेयीभिः । एका त्रिष्टुप् द्वे अनुष्टुभौ । सीद त्वम् अवस्थानं कुरु त्वम् । अस्या उखाया मातुः उपस्थे उत्सङ्गे । विश्वानि सर्वाणि हे अग्ने, वयुनानि प्रज्ञानानि विद्वान् प्रजानन् पदार्थसातत्यवेदीसन् । किंच उखायामवस्थानं कुर्वन् । मैनां तपसा मार्चिषाभिशोचीः मा अभिशोचीः मा अभितापयेः एनामुखां तपसा तापेन मा चार्चिषा ज्वालया। किंच । अन्तः अस्यां मध्ये अस्यामुखायामवस्थितं शुक्रज्योतिः शुक्लकर्मसाधनं ज्योतिः विभाहि विविधं दीप्यस्व ॥ १५॥
म० 'उपतिष्ठते सीद त्वमिति' (का० १६ । ५। २०)। आसन्दीनिधानानन्तरमुख्याग्निमुपतिष्ठते ऋचां त्रयेणेति सूत्रार्थः । अग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं मातुः मातृसमाया अस्या उखाया उपस्थे उत्सङ्गे सीद उपविश । कीदृशस्त्वम् । विश्वानि वयुनानि सर्वाज्ञानोपायान् विद्वाञ्जानन् । सर्वपदार्थतत्त्ववेदी सन्नित्यर्थः । किंच एनामुखां तपसा संतापेन माभिशोचीः मा संतापय । अर्चिषा ज्वालया च माभिशोचीर्मा दीपय । तपः कार्यमर्चिः कारणं । कार्येण भूयांस्तापो भवति कारणेन त्वीषत् तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तर्मध्ये शुक्रज्योतिः निर्मलप्रकाशः सन् विभाहि विशेषण दीप्यस्व ॥ १५॥
षोडशी।
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायाः॒ सद॑ने॒ स्वे । तस्या॒स्त्वᳪं᳭ हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ।। १६ ।।
उ० अन्तरग्ने । व्यवहितपदसंबन्धप्रायोऽयं मन्त्रः । | हे अग्ने, यस्या उखायास्त्वमन्तर्मध्यतः रुचा दीप्त्या सहितः सदने स्वे स्वकीये स्थाने वर्तसे । तस्या एव उखायाः त्वं हरसा ज्योतिषा तपन् । 'तप संतापे' । अग्ने, जातवेदः जातं जातं वेत्तीति जातवेदास्तत्संबोधने हे जातवेदः जातप्रज्ञान, शिवो भव शान्तो भव ॥ १६ ॥
म० अग्निदेवत्ये द्वे अनुष्टुभौ । हे अग्ने, त्वमुखाया अन्तः मध्ये स्वे सदने स्वकीये स्थाने रुचा दीप्त्या युक्तः सन् | सीदेति शेषः । किंच जातं जातं विन्दतीति जातवेदाः तस्य संबोधनम् । हे जातवेदः सर्वज्ञ, जातं वेदो ज्ञानं यस्येति वा जातविज्ञानः तस्या उखायाः शिवः कल्याणकारी शान्तो भव । किं कुर्वन् । हरसा ज्योतिषा तपन्प्रतपन्सन् ॥ १६ ॥
सप्तदशी।
शि॒वो भू॒त्वा मह्य॑मग्ने॒ अथो॑ सीद शि॒वस्त्वम् ।
शि॒वा: कृ॒त्वा दिश॒: सर्वा॒: स्वं योनि॑मि॒हास॑दः ।। १७ ।।
उ० शिवो भूत्वा शान्तो भूत्वा मह्यं हे अग्ने, अथो अपि च । सीद उपविश उखायाम् । शिवस्त्वं शिवाः कृत्वा दिशः सर्वाः स्वं योनिं स्थानम् इहासदः इह आ असदः आसीद ॥ १७॥
म० हे अग्ने, मह्यं मदर्थं शिवः शान्तो भूत्वा अथो अनन्तरं शिवः सीद सर्वात्मना शान्तः सन्नुपविश । सर्वा दिशः शिवाः शान्ताः कृत्वा इहास्यामुखायां स्वं योनिं स्वकीयं स्थानमासदः आसीद आगत्योपविश । 'छन्दसि लुड्लङ्लिटः' (पा० ३ । ४ । ६) इति लोडर्थे लुङ् ॥ १७ ॥
अष्टादशी।
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः ।
तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ।। १८ ।।
उ०. वात्सप्रेणोपतिष्ठते । दिवस्परि । द्वादशाग्नेय्यः त्रिष्टुभः । दिवस्परि दिवः सकाशात् प्रथमं यज्ञे जातः अग्निः । 'प्राणो वै दिवः प्राणादु वा एष प्रथममजायत' इति श्रुतिः। तं जातमभिप्राणिति 'प्राणो वा अग्निर्जातमेवैनमेतत्सन्तं जनयति' इत्येतदभिप्रायम्। अस्मद्द्वितीयं परि जातवेदाः अस्मत् अस्मत्तः पुरुषविधात् द्वितीयं जातवेदः 'जातः यदेनमदो द्वितीयं पुरुषविधोऽजनयत्' इति श्रुतिः । स्वमुखाच्च योनेर्हस्ताभ्यां वाग्निमसृजतेत्ययं पुरुषविधिः । तृतीयमप्सु । तृतीयं तम् अप्सु व्यवस्थितं जनयति । 'यदेनमदस्तृतीयमद्भ्योऽधिजनयत्' इति श्रुतिः । अथ यो गर्भोऽन्तरासीत्सोग्निरसृज्यतेत्येतच्छ्रुत्यभिप्रायम् । नृमणा अजस्रम् । नृषु मनो यस्येति नृमणाः प्रजापतिः अजस्रमनुपक्षीणम् । 'प्रजापतिर्वै नृमणा अग्निरजस्रः' इति श्रुतिः । तृतीयमप्स्वन्तर्व्यवस्थितं जनयति नृमणा अजस्रमग्निमिति वाक्यार्थः । य एवं बहुजन्माग्निः तं इन्धानः आदीपयन् यजमानः एनमग्निं जरते जनयतीति धातोरर्थान्तरे वृत्तिः । स्वाधीः शोभना आहिता धीर्बुद्धिर्यस्य स स्वाधीः ॥ १८ ॥
म०. 'वात्सप्रेण च दिवस्परीत्येकादशभिरनुवाकेनैके' (का० १६ । ५ । ३१-३२)। दिवस्परीत्येकादशर्चेन वात्सप्रेणोख्यमग्निमुपतिष्ठते । एके आचार्या अनुवाकेन द्वादशर्चेन वदन्तीति सूत्रार्थः । अग्निदेवत्या द्वादश त्रिष्टुभो भलन्दनपुत्रवत्सप्रीदृष्टाः । अग्निः प्रथमं दिवः परि दिवः सकाशात् जज्ञे जातः 'प्राणो वै दिवः प्राणादु वा एष प्रथममजायत' (६ । ७ । ४ । ३) इति श्रुतिः । जातवेदाः अग्निः द्वितीयं द्वितीयवारमस्मत्परि अस्मत्तः सकाशात् ब्रह्मणो जज्ञे जातः । 'यदेनमदो द्वितीयं पुरुषविधोऽजनयत्' (६ । ७ । ४ । ३) इति श्रुतेः 'स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत' इति च श्रुतेः स पुरुषविध इत्यर्थः । नृषु मनो यस्य स नृमणाः 'पूर्वपदाच्च' (पा० ८।१।३) इति णत्वम् । नृमणाः प्रजापतिः अजस्रमनुपक्षीणमग्निमप्सु जलेष्वन्तर्व्यवस्थितं तृतीयं तृतीयवारमजनयन् यदेनमदस्तृतीयमद्भ्योऽजनयत् । अथ यो गर्भोऽन्तरासीत्सोऽग्निरसृज्यत । 'प्रजापतिर्वै नृमणा अजस्रोऽग्निः' (६ । ७ । ४ । ३) इत्यादिश्रुतयः । एवं बहुजन्माग्निः स्वाधीः शोभना आहिता धीर्बुद्धिर्यस्य स यजमान एनं बहुजन्मानमग्निमिन्धानो दीपयन् जरते जनयति । धातोरर्थान्तरे वृत्तिः । यद्वायमर्थः । अग्निः प्रथमं दिवःपरि द्युलोकस्योपरि जज्ञे सूर्यरूपेणोत्पन्नः । अस्मत्परि अस्मदीयमनुष्यलोकस्योपरि जातवेदाः द्वितीयं जज्ञे प्रसिद्धवह्निरूपेण द्वितीयं जन्म प्राप्तवान् । अप्सु समुद्रे तृतीयं जज्ञे वडवानलरूपेण तृतीयवारमुत्पन्नः । अजस्रं त्रिष्वपि जन्मसु नृमणा नृषु मनो यस्य यजमानेष्वनुग्रहबुद्धियुक्तः एनमीदृशमग्निमिन्धानः पुरोडाशादिना दीपयन्स्वाधीः स्वायत्तचित्तो यजमानो जरते जीर्यते जरापर्यन्तं परिचरतीत्यर्थः॥१८॥
एकोनविंशी।
वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा ।
वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ।। १९ ।।
उ० विद्मा ते। विद्म जानीमः विद्मा 'द्व्यचोऽतस्तिङः' इति - दीर्घत्वम् । ते तव हे अग्ने, त्रेधा त्रयाणि त्रिधा प्रविभक्तानि त्रीणि रूपाणि अग्निवायुसूर्याख्यानि । विद्मा ते धाम । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति च' । जन्मान्यत्राभिप्रेतानि । धामानि जन्मानि आहवनीयगार्हपत्यदक्षिणाग्न्यतिप्रणीतधिष्ण्यप्रभृतीनि । विभृता विहृता पुरुत्रा बहुरूपाणि । विजानीमश्च तव नाम परममुत्कृष्टम् । गुहायामिव यद्व्यवस्थितम् । यविष्ठ्य इति वा । अस्य तन्नाम विद्मा तमुत्सं विजानीमश्च तमुत्सन्दनमब्रूपं प्रथममवस्थानं यतस्त्वम् आजगन्थ आगतवानसि हे अग्ने ॥ १९॥
म०. हे अग्ने, यानि पूर्वस्मिन्मन्त्रे दिवस्परीत्यादिना त्रेधा स्वरूपाण्युक्तानि आदित्याग्निवडवानलरूपाणि तानि त्रयाणि त्रिसंख्याकानि ते तव संबन्धीनि रूपाणि वयं विद्म जानीमः । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । 'विदो लटो वा' (पा. ३ । ४ । ८३) इति मसो मादेशः । यद्वा त्रेधा विभक्तानि त्रयाणि त्रीणि ते तव रूपाणि अग्निवायुसूर्याख्यानि वयं विद्म । किंच ते तव संबन्धीनि पुरुत्रा बहुषु प्रदेशेषु गार्हपत्याहवनीयान्वाहार्यपचनाग्निध्रीयरूपेषु विभृता विहृतानि धाम धामानि स्थानानि अपि वयं विद्म । विभृतेति विभक्तेराकारः । धामेत्यत्र विभक्तिलोपः। किंच ते तव परममुत्कृष्टं गुहा । सप्तमीलोपः । गुहायां यद्व्यवस्थितं गोप्यं यविष्ठ इत्यादिमन्त्रप्रसिद्धं नाम यदस्ति तदपि विद्म । किंच यत उत्सात् अब्रूपात् स्थानात्त्वमाजगन्थ वैद्युतरूपेणागतोऽसि तमुत्समुत्स्यन्दनं जलरूपं स्थानं वयं विद्म । गमेर्लिट् ॥ १९ ॥
विंशी।
स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्वन्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् ।
तृ॒तीये॑ त्वा॒ रज॑सि तस्थि॒वाᳪं᳭स॑म॒पामु॒पस्थे॑ महि॒षा अ॑वर्धन् ।। २० ।।
उ० समुद्रे त्वा । हे अग्ने, समुद्रे त्वा त्वां पूर्वं वर्तमानं नृमणाः प्रजापतिः ईधे दीपयांचकार । सोऽपोऽसृजत' इत्यु
पक्रम्य 'तस्मादग्निर्ह वै तमग्निरित्याचक्षते' इत्येतदभिप्रायम्। अप्स्वन्तर्नृचक्षा ईधे अप्स्वन्तर्वर्तमानं नृचक्षा प्रजापतिरेव ईधे आदीपितवान् । 'तमद्भ्य उपोदासृप्तं पुष्करपर्णे विवेद' इत्यादिश्रुतिरुद्घाटिता । दिवो अग्न ऊधन् द्युलोकस्य ऊधसि महोदके प्रदेशे आदित्यात्मना नृचक्षा एव ईधे । तृतीये त्वा रजसि च त्वां द्युलोके आदित्यात्मना स्थितवन्तम् अपां उपस्थे उत्सङ्गे नाव्यानामपां मध्ये व्यवस्थितम् महिषाः महान्तः प्राणाः अवर्धन् वर्धयांचक्रुः । 'प्राणो वै महिषाः' इत्यादिश्रुतिः ॥ २० ॥
म०. हे अग्ने, नृषु मनो यस्यासौ नृमणाः प्रजापतिः समुद्रे वडवानलरूपेण तस्थिवांसं वर्तमानं त्वा त्वामीधे दीपयांचकार। 'इन्धिभवतिभ्यां च' (पा० १।२।६) इति कित्त्वान्नलोपः । नृचक्षाः नृषु पठत्सु पुरुषेषु चष्टे मन्त्रान् विस्पष्टं वक्तीति नृचक्षाः प्रजापतिः अप्सु वृष्टिरूपासु अन्तर्मध्ये विद्युद्रूपेण स्थितं त्वामीधे दीपितवान् । तथा दिवः द्युलोकस्य ऊधन् ऊधस्थानीये तृतीये समुद्रवृष्ट्यपेक्षया तृतीयस्थाने रजसि रञ्जनात्मके तेजोमण्डले आदित्यात्मना तस्थिवांसं त्वां नृचक्षा एव ईधे । किंच महिषाः महान्तः प्राणा अपामुपस्थे उत्सङ्गे नाव्यानामपां मध्ये स्थितं त्वामवर्धन् 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इति शप् आर्धधातुकत्वाण्णिलोपः । 'प्राणा वै महिषाः' ( ६ । ७ । ४ । ५) इति श्रुतिः ॥२०॥
एकविंशी।
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव॒ द्यौ: क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दारोद॑सी भा॒नुना॑ भात्य॒न्तः ।। २१ ।।
उ० अक्रन्ददग्निरिति व्याख्यातम् ॥ २१॥
म० अक्रन्ददिति व्याख्याता ( क० ६)॥२१॥
द्वाविंशी।
श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑ण॒: सोम॑गोपाः ।
वसु॑: सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ।। २२ ।।
उ० श्रीणामुदारः। श्रीणां लक्ष्मीणामुदारोऽत्यर्थं दाता। धरुणो रयीणां च धनानाम् । मनीषाणां प्रार्पणः कश्चिद्धनवानपि भवति नतु दाता । अयं तु मनसा एषितानां कामानां प्रापयिता । सोमगोपाः धिष्णा अग्नयः सोमं गोपयन्ति तदभिप्रायमेतत् । सोमिनो वा गोपायति । वसुः वासयिता । यद्वा वसुः धनं एवाग्निः । यथा यानि धनान्युपकारं कुर्वन्ति शयनासनगवादीनि एवमयमप्युपकरोति भूतानां तापपाकप्रकाशैः अतो वसुः सूनुः सहसः पुत्रो बलस्य । मथ्यमानो जायते तस्मादेवमुच्यते । अप्सु राजा अप्स्ववस्थितो वरुणात्मना राजा । तथा चोक्तम् । 'त्वमग्ने वरुणो जायसे यत्' इति । विभात्यग्र उषसाम् । आदित्यात्मना इधानः 'इन्धी दीप्तौ' दीप्यमानः । यद्वा उषःकालेऽग्नीनां प्रादुष्करणं क्रियते तदभिप्रायमेतत् ॥२२॥
म० एवंविधोऽग्निर्विभाति विशेषेण भासते । कीदृशः। श्रीणां गवाश्वादिसंपदामुदारः अत्यर्थ दाता । 'उदारो दातृमहतोः' इति कोशः । रयीणां धनानां धरुणो धारयिता । मनीषाणां मनसा इषितानामभिलषितानां प्रार्पणः प्रकर्षेणार्पयिता। सोमगोपाः सोमं गोपायतीति यजमानकर्तृकसोमयागस्य रक्षिता । वसुः सर्वस्य निवासहेतुः। वासयतीति वसुः । यद्वा वसुः धनरूपः यथान्यानि शयनासनरथादिधनान्युपकुर्वन्ति तथायमपि तापपाकप्रकाशैर्जनानामुपकर्ता अतो वसुः । सहसः सूनुः बलस्य मन्थनवेगरूपस्य पुत्रः । यतो मथ्यमानो जायतेऽत एवमुच्यते । अप्सु राजा जलेऽवस्थितो वरुणात्मना राजा । यद्वा अप्सु वृष्टिरूपासु राजा विद्युद्रूपेण दीप्यमानः । उषसामग्रे प्रातःकाले इधानः आदित्यात्मना दीप्यमानः । उषःकालेऽग्निहोत्रहोमायाग्नयः प्रादुष्क्रियन्ते तदभिप्रायेणोच्यते प्रातर्दीप्यमान इति ॥ २२ ॥
त्रयोविंशी।
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ।
वी॒डुं चि॒दद्रि॑मभिनत् परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ।। २३ ।।
उ० विश्वस्य केतुः । चतुर्थः पादोऽत्र प्रथमं व्याख्यायते यच्छब्दयोगात् । जना यदग्निमयजन्त पञ्च । यदित्यविभक्तिको निर्देशः । यमग्निं पञ्चजनाः । चत्वारो वर्णा निषादपञ्चमाः पञ्चजना उच्यन्ते । अयजन्त इष्टवन्तः स विश्वस्य केतुः सर्वस्य प्राणिजातस्य केतुः प्रजानन् अग्न्यात्मना । भुवनस्य गर्भः भूतजातस्य वाय्वात्मना गर्भः। स हि प्राणभावेन भूतानामन्तः संचरति । आरोदसी अपृणात् जायमानः । स एव आपूरयति द्यावापृथिव्यौ जायमान आदित्यात्मना । स एव मध्यस्थानमारुह्य इन्द्रात्मना वीडुंचित् । दृढमप्यद्रिमदारयितव्यं मेघं वा अभिनत् विदारयति । परायन् परा परतो गच्छन् ॥ २३ ॥
म० सोऽग्निर्जायमानः उत्पद्यमानः सूर्यात्मना प्रकटीभवन् रोदसी द्यावापृथिव्यौ आ अपृणात् सर्वतस्तेजसा पूरयति । कीदृशः । विश्वस्य केतुः प्राणिजातस्य विज्ञानभूतोऽग्न्यात्मना । भुवनस्य गर्भः भूतजातस्य गर्भवदन्तरवस्थितो वाय्वात्मना । स हि प्राणभावेन भूतानामन्तः संचरति । किंच यः परायन् इन्दुरूपेण परा परतो गच्छन् वीडुं चित् । विडुशब्दो दृढार्थः चिदप्यर्थः । दृढमपि अद्रिमदारयितव्यं मेघमभिनत् भिनत्ति विदारयति । यत् विभक्तिलोपः । यमग्निं पञ्च जना अयजन्त यजन्ते विप्राद्याश्चत्वारो निषादश्चेति पञ्च । यद्वा चत्वारो महर्त्विजो यजमानश्च ॥ २३ ॥
चतुर्विंशी।
उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्त्ये॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।
इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ।। २४ ।।
उ० उशिक्पावकः । 'वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । उशिक् कान्तः मेधावी वा । पावकः पावयिता । अरतिः अलंमतिः पर्याप्तमतिः। सुमेधाः कल्याणप्रज्ञः साधुयज्ञो वा । मर्तेषु मरणधर्मेषु मनुष्येषु । अग्निः कथंभूतः। अमृतः अमरणधर्मा । निधायि निहितः देवैः त्वं नो अस्य लोकस्याध्यक्ष एधीति । स इयर्ति उदियर्ति उद्गमयति धूमम् अरुषम् अरोचनम् । भरिभ्रत् धारयन्निदं जगत् । 'इतो वा अयमूर्ध्वᳪं᳭रेतः सिञ्चति धूमᳪं᳭सामुत्र वृष्टिर्भवति' इत्येतच्छ्रुत्यभिप्रायोऽयं मन्त्रः । शुक्रेण शोचिषा । द्यां द्युलोकम् इनक्षन् व्याप्नुवन् । नक्षत्रग्रहचन्द्रतारकसंबधिना तेजसा धूममियर्तीति संबध्यते । 'इतः प्रदानाद्धि देवा उपजीवन्ति' इत्येतच्छुत्यभिप्रायोऽयं मन्त्रः ॥ २४ ॥
म०. योऽग्निर्मर्त्येषु मरणधर्मेषु मनुष्येषु निधायि निहितः देवैरिति शेषः । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । स अरुषमरोषं चक्षुराद्युपद्रवरहितमरोचनं वा धूममुदियर्ति उद्गमयति । 'व्यवहिताश्च' (पा० १।४। ८२) उपसर्गक्रिययोर्व्यवधानम् 'इतो वा अयमूर्ध्वᳪं᳭ रेतः सिञ्चति धूमᳪं᳭ सामुत्र वृष्टिर्भवति' इति श्रुतेः । कीदृशोऽग्निः । उशिक् उश्यते काम्यते लोकैरित्युशिक् कान्तः । वशेरौणादिक इक् प्रत्ययः । पावकः पावयिता पुनातीति । अरतिः अलंमतिः पर्याप्तमतिः । यद्वा दुष्टेष्वरतिः प्रीतिरहितः । सुमेधाः शोभना सेवकाभिप्रायधारणसमर्था मेधा बुद्धिर्यस्य, शोभनो मेधो यज्ञो यस्येति वा । अमृतोऽमरणधर्मा । भरिभ्रत् बिभ्रत् जगद्धारयन् 'दाधर्ति-' (पा. ७ । ४ । ६५) इत्यादिना निपातः । शुक्रेण शोचिषा निर्मलेन तेजसा प्रभारूपेण द्यामाकाशमिनक्षन्व्याप्नुवन् । नक्षत्रग्रहतारासंबन्धितेजसा द्युलोकं व्याप्नुवन्नित्यर्थः । 'इतः प्रदानाद्धि देवा उपजीवन्ति' इति श्रुतेः ॥ २४ ॥
पञ्चविंशी। -
दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः ।
अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं द्यौरज॑नय॑त्सु॒रेता॑: ।। २५ ।।
उ० दृशानो रुक्म इति व्याख्यातम् ॥ २५ ॥
म० दृशानो व्याख्याता ( क०. १)॥ २५ ॥
षड्विंशी।
यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने ।
प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ।। २६ ।।
उ० यस्ते अद्य । यस्तव अद्य प्रतिपदि । कृणवत् करोति । हे भद्रशोचे भन्दनीयदीप्ते, अपूपं पुरोडाशम् । हे देव, घृतवन्तम् । हे अग्ने 'स आज्यस्योपस्तीर्य द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्यावघारयति' इत्येतच्छ्रुत्यभिप्रायम् । प्र तं नय। नयसीति प्राप्ते छान्दसो लोट् । प्रणयसि तं यजमानम् । | प्रतरम् अतितराम् वस्यो अच्छ । 'अच्छाभेराप्तुमिति शाकपूणिः' । वसीयः स्थानमच्छा वस्तृतमस्थानमभि । 'वस निवासे' तृन् 'तुश्छन्दसि' इति ईयसुन् 'तुरिष्ठेमेयस्सु' इति तृचो लोपे वसीय इति सिध्यति । 'स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः' इति श्रुत्युक्तं तं प्राप्नुयात् अयं वसीयान् लोकः । अभिनयसि च सुम्नं देवभक्तं देवसेवितम् । हे यविष्ठ युवतम, अथवा मिश्रयितृतम ॥ २६ ॥
म० भद्रा कल्याणकारिणी शोचिर्दीप्तिर्यस्य तत्संबोधने हे भद्रशोचे, हे देव अग्ने, अद्य प्रतिपदि यः पुमान् ते तव अपूपं पुरोडाशं घृतवन्तं घृतयुक्तमुपस्तरणाभिधारणोपेतं कृणवत् कृणोति करोति । 'कृञ् करणे' स्वादिः 'इतश्च लोपः परस्मैपदेषु' ( पा० ३ । ४ । ९७ ) इति तिप इकारलोपे 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे ओर्गुणे कृणवदिति रूपम् । ‘स आज्यस्योपस्तीर्य द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति' (१ । ७ । २ । १०)। इत्येतच्छ्रुत्यभिप्रायम् । हे यविष्ट युवतम, यद्वा मिश्रयितृतम, तं यजमानं प्रतरमतिशयेन प्रकृष्टं प्रतरम् 'अमु च छन्दसि' (पा० ५। ४ । १२) इत्यव्ययात्परात् घादमुप्रत्ययः । प्रकृष्टतरं वस्यः स्थानमुत्तमलोकं प्रनय प्रापय । अच्छाभिमुख्येन सुम्नं सुखं चाभिनय सर्वतः प्रापय । कीदृशं सुम्नम् । देवभक्तं देवैः भक्तं सेवितं देवयोग्यं सुखं प्रापयेत्यर्थः । वसति यत्र तद्वस्तृ तृन्प्रत्ययः । अतिशयेन वस्तृ वसीयः 'तुश्छन्दसि' (पा. ५। ३ । ५९) इतीयसुन् 'तुरिष्ठेमेयःसु' (पा० ६।४ । १५४ ) इति तृचो लोपः । छान्दसे ईलोपे वस्य इति सिध्यति । ‘स लोकमागच्छत्यशोकमहिमं तस्मिन् वसति शाश्वतीः समाः' (बृह० मा० ४ । १५) इति श्रुतेः । 'प्रकृत्यान्तःपादमव्यपरे' (पा० ६।१। ११५) इति वस्यो अच्छेत्यत्र सन्ध्यभावः ॥ २६ ॥
सप्तविंशी।
आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थ उ॑क्थ॒ आ भ॑ज श॒स्यमा॑ने ।
प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ।। २७ ।।
उ०. आ तं भज । यदःस्थाने तदो वृत्तिः लटः स्थाने लोटः अर्थसंबन्धात् । हे अग्ने, आभजसि तं यजमानम् । सौश्रवसेषु साधुश्रवणीयेषु यज्ञक्रतुषु । उक्थ उक्थ आभज ततस्तेष्वेव यज्ञक्रतुषु उक्थे उक्थे शस्यमाने आभजसि आसेवसे । यजमानः प्रियः सूर्यस्य भवति प्रियश्चाग्नेर्भवति । किंच उज्जातेन भिनदत् । उद्भिनत्ति धर्मार्थकामान् जातेनौरसपुत्रसंघातेन । उद्भिनत्ति च जनित्वैः जनिष्यमाणैः पौत्रप्रपुत्रसंघैः वेदार्थान् । प्रजाप्यस्य स्वर्गयायिनी भवतीत्यभिप्रायः ॥ २७ ॥
म० शोभनं श्रवः कीर्तिः सुश्रवः सुश्रवसः संबन्धीनि कीर्तिहेतुभूतानि कर्माणि सौश्रवसानि तेषु यज्ञकर्मसु हे अग्ने, त्वं तं यजमानमाभज सेवस्व । निरन्तरं कर्मानुष्ठायिनं कुर्वित्यर्थः । उक्थे उक्थे निष्केवल्यप्रगाथादिरूपे च शस्यमाने तत्तच्छस्त्रे सति तमाभज सर्वतः सेवस्व । कर्मणि शस्त्रे च प्रेरयेत्यर्थः । एवं त्वया सेवितोऽयं यजमानः सूर्ये सूर्यस्य प्रियो भवाति भवतु । लिङर्थे लेट् 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) । अग्ना अग्नेश्च प्रियोऽस्तु । ङसो डादेशः । तथा जातेनोत्पन्नेन पुत्रेण उद्भिनत् उद्भेदमुदयं वृद्धिमाप्नोतु । इलोपेऽडागमे चोद्भिनददिति रूपम् । तथा जनित्वैः जनिष्यमाणैश्च पौत्रादिभिरुद्भिनदत् । जनिष्यन्ते ते जनित्वाः तैः । भविष्यदर्थे औणादिक इत्वप्रत्ययः ॥ २७ ॥
अष्टाविंशी।
त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि ।
त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ।। २८ ।।
उ० त्वामग्ने । हे अग्ने, त्वां यजमानाः । अनुद्यून् अन्वहं अहन्यहनि विश्वानि वसूनि धनानि । दधिरे धारयन्ति भूमिगोहिरण्यादीनि । वार्याणि वरणीयानि । किंच । त्वया च सह द्रविणं यज्ञफलमिच्छमानाः कामयमानाः । व्रजम् व्रजन्त्यनेन सुकृतिन इति व्रजो देवयानमार्गः । गोमन्तम् गावो रश्मय आदित्यसंबन्धिनः तैः संयुक्तम् । उशिजो मेधाविनः ज्ञानकर्मसमुच्चयकारिणः । विवव्रुः विभिदुः । आदित्यमण्डलस्य मध्येन मार्गं कृतवन्त इत्यर्थः । तदुक्तम् 'ते य एवं विदुः' इत्युपक्रम्य 'देवलोकादादित्यमण्डलम्' इत्यादि ॥ २८ ॥
म० हे अग्ने, यजमानास्त्वामनु वर्तमानाः त्वां सेवमानाः सन्तः द्यून् । द्युशब्दो दिनवाची । 'कालाध्वनो:-' (पा० २ । ३ । ५) इति द्वितीया । दिनेषु सर्वदा वार्याणि वरणीयानि प्रार्थ्यानि विश्वा विश्वानि सर्वाणि वसु वसूनि धनानि गोभूहिरण्यादीनि दधिरे धारयन्ति । यथेष्टं धनं प्राप्नुवन्तीत्यर्थः । वसु अत्र सुब्लोपः । किंच त्वया सह स्थिताः त्वां भजन्तस्ते यजमाना द्रविणं यज्ञफलमिच्छमाना इच्छन्तः उशिजः मेधाविनो ज्ञानकर्मसमुच्चयकारिणः सन्तो गोमन्तं गावो रश्मयोऽत्र सन्तीति गोमान् तं रविमण्डलमध्यगं व्रजं व्रजन्त्यनेन सुकृतिन इति व्रजस्तं देवयानमार्गं विवव्रुः बिभिदुः । रविमण्डले मार्गं कृतवन्त इत्यर्थः । तदुक्तम् 'ते य एवमेतद्विदुः' इत्युपक्रम्य 'देवलोकादादित्यम्' इति ॥ २८ ॥
एकोनत्रिंशी।
अस्ता॑व्य॒ग्निर्न॒राᳪं᳭ सु॒शेवो॑ वैश्वान॒र ऋषि॑भि॒: सोम॑गोपाः ।
अ॒द्वे॒षे द्यावा॑पृथि॒वी हु॑वेम॒ देवा॑ ध॒त्त र॒यिम॒स्मे सु॒वीर॑म् ।। २९ ।।
उ० अस्ताव्यग्निः स्तुतोऽग्निर्वैश्वानरः नरां सुशेवः मनुष्याणां शोभनं सुखयिता । ऋषिभिः ऋत्विग्यजमानैः । सोमस्य गोपायिता अद्वेषे। पादौ लिङ्गोक्तदेवताकौ । यतोऽग्निः स्तुतः अतः अद्वेषे द्वेषरहिते द्यावापृथिव्यौ हुवेम आह्वयामः तदाश्रयकर्मप्राप्त्यर्थम् । हे देवाः, यूयमपि धत्त दत्त । रयिं धनम् । अस्मे अस्मभ्यम् । सुवीरं शोभनपुत्रम् ॥ २९ ॥
म० ऋषिभिः यजमानर्त्विग्भिः अग्निरस्तावि स्तुतः । कर्मणि चिण् । कीदृशोऽग्निः । नरां नराणां सुशेवः शोभनं सुखयिता । नुडागमाभावे गुणे च नरामिति रूपम् । शोभनं शेवः सुखं यस्मात् । वैश्वानरः विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितः जठराग्निरूपेण सोमं गोपायतीति सोमगोपाः सोमस्य रक्षिता । अद्वेषे । पादौ लिङ्गोक्तदेवौ । यतोऽग्निः स्तुतः अतोऽद्वेषे द्वेषरहिते द्यावापृथिवी रोदसी वयं हुवेम आह्वयामः तदाश्रितकर्माप्त्यै । हे देवा अग्न्यादयः, अस्मे अस्मासु सुवीरं शोभनपुत्रयुतं रयिं धनं यूयं धत्त स्थापयत ॥ २९ ॥
त्रिंशी।
स॒मिधा॒ऽग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आऽस्मि॑न् हव्या जु॑होतन ।। ३० ।।
(अस्मिन्—आस्मिन् पाठभेदः)
उ० वनीवाहनम् । आग्नेय्यः पञ्च कण्डिकाः । समिधाग्निं व्याख्यातम् ॥ ३० ॥
म०. 'अथ वनीवाहनं प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानᳪं᳭ समिधाग्निमिति' ( का० १६ । ६ । १५)। उख्याग्नेरुत्तरदिशि प्रागीषं शकटं संस्थाप्य यजमान उख्येऽग्नौ वनीवाहने समिधमाधत्त इति सूत्रार्थः । विरूपाक्षदृष्टाग्नेयी गायत्री व्याख्याताप्युच्यते ( अध्या० ३ क० १)। हे ऋत्विग्यजमानाः, समिधा कृत्वाग्निं दुवस्यत परिचरत अतिथिमेनमग्निं बोधयत । अस्मिन्नग्नौ हव्या हवींषि आजुहोतन साकल्येन जुहुत ॥ ३०॥
एकत्रिंशी।
उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्वᳪं᳭ सु॒प्रती॑को वि॒भाव॑सुः ।। ३१ ।।
उ० उद्यच्छति । उदु त्वा अनुष्टुप् । हे अग्ने, उद्भरन्तु त्वां विश्वेदेवाः । चित्तिभिः यैरग्निरुद्ध्रियते । स त्वं विश्वैर्देवैरुध्रियमाणः नः अस्माकं शिवो भव । शिवः शान्तः । सुप्रतीकः शोभनमुखः विभावसुः विभूतधनश्च ॥३१॥
म० 'सासन्दीकमुद्यम्योदुत्वेति दक्षिणतोऽनसि करोति' (का० १६ । ६ । १६) । समिदाधानानन्तरमुदुत्वेति मन्त्रेणासन्दीसहितमुख्याग्निमूर्ध्वं कृत्वा दक्षिणे स्थितो यजमानः शकटे तं स्थापयतीति सूत्रार्थः । तापसदृष्टाग्नेय्यनुष्टुप् । हे अग्ने, विश्वे सर्वे देवाः प्राणरूपाः चित्तिभिः उद्यमनप्रवीणाभिर्धीवृत्तिभिः त्वा त्वामुद्भरन्तु ऊर्ध्वं धारयन्तु । भृञः शप् उ पादपूरणः । हे अग्ने, स उद्धार्यमाणस्त्वं नोऽस्माकं शिवः कल्याणकृद्भव । किंभूतः । सुप्रतीकः शोभनं प्रतीकं मुखं यस्य । विभा दीप्तिरेव वसु धनं यस्य सः॥३१॥
द्वात्रिंशी।
प्रेद॑ग्ने॒ ज्योति॑ष्मान् याहि शि॒वेभि॑र॒र्चिभि॒ष्ट्वम् ।
बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हि॑ᳪं᳭सीस्त॒न्वा॒ प्र॒जाः ।। ३२ ।।
उ० प्रयाति । प्रेदग्ने अनुष्टुप् । प्रयाहि हे अग्ने, ज्योतिमान्भूत्वा । शिवेमिरर्चिभिः शिवैः शान्तैः सुखकरैः अर्चिभिः गच्छस्व । त्वं बृहद्भिः भानुभिः रश्मिभिः भासन् दीप्यमानः मा हिंसीः तन्वा शरीरेण प्रजाः ॥ ३२॥
म० 'अनड्वाहौ युक्त्वा प्रेदग्न इति प्राङ् यात्वा यथार्थम्' ( का० १६ । ६ । १८) । शकटे तूष्णीं वृषौ संयोज्य प्रेदिति मन्त्रेण प्राचीं गत्वा यथार्थं प्रयोजनवन्तं देशं गच्छेदित्यर्थः । अग्निदेवत्यानुष्टुप् । हे अग्ने, शिवेभिरर्चिभिः शान्ताभिर्ज्वालाभिर्ज्योतिष्मान्प्रकाशयुक्तस्त्वं प्रयाहि गच्छ । इत्पादपूरणः । किंच बृहद्भिर्भानुभिः प्रौढेः रश्मिभिः भासन्भासयन् जगदवभासयन् तन्वा स्वकीयेन दाहकेन शरीरेण प्रजाः पुत्रादिका मा हिंसीः मा नाशय ॥ ३२ ॥
त्रयस्त्रिंशी।
अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौ: क्षामा॒ रेरि॑हद्वी॒रुध॑: सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।। ३३ ।।
उ०. अक्रन्ददग्निरिति व्याख्यातम् ॥ ३३ ॥
म०. 'अक्षे खर्जत्यक्रन्ददग्निरिति जपति' ( का० १६ । ६ । २०) । अक्षे शब्दं कुर्वति जपेत् । व्याख्याता (क० ६) ॥ ३३ ॥
चतुस्त्रिंशी।
प्र-प्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः ।
अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय दैव्यो॒ अति॑थिः शि॒वो न॑: ।। ३४ ।।
उ० समिधमादधाति । प्र प्रायम् त्रिष्टुप् । प्र प्रायम् प्रकर्षेण महता अयमग्निः । भरतस्य प्रजापतेः शृण्वे शृणोति वचनम् । कथमेतदध्यवसीयते यथा प्रजापतेः शृणोति वचनमिति । वि यत्सूर्यो न रोचते बृहद्भाः । यत्समिदाधानसमनन्तरमेव विरोचते । सूर्यो न सूर्यइव बृहद्भाः महादीप्तिः। यश्च अभितस्थौ पूरुम् असुरराक्षसम् प्रतनासु संग्रामेषु एतया समिधा आप्यायितः । यस्माच्च दीदाय दीप्यते । दैव्यः देवसंबन्धी । अतिथिः अतिथिधर्मा जनानाम् । शिवः शान्तः नः अस्माकं भवति । तस्मात्प्रजापतेर्वचनं शृणोति ॥ ३४॥ -
म० 'वासेऽवहरत्युद्धृतावोक्षित उत्तरतः समिदाधानं प्रप्रेति' ( का० १६ । ६ । २१)। वासे स्थितौ क्रियमाणे उत्तरदिशि उद्धृतावोक्षिते प्रदेशेऽग्निमवहरत्युत्तारयति ततोऽग्नौ समिदाधानम् । वसिष्ठदृष्टाग्नेयी त्रिष्टुप् । 'प्रसमुपोदः पादपूरणे (पा० ८ । १।६) इति प्रोपसर्गस्य द्वित्वम् । अयमग्निः बिभर्ति हवींषि भरतस्तस्य भरतस्य यजमानस्य शृण्वे ' शृणुते आह्वानमिति शेषः । यजमानकृतमाह्वानं शृणोतीत्यर्थः । पुरुषव्यत्ययः । यत् योऽग्निः सूर्यो न सूर्य इव भाः भासत इति भाः सूर्यवद्भासमानः सन् बृहद्यथा तथा रोचते अत्यन्तं दीप्यते । योऽग्निः पृतनासु संग्रामेषु पूरुं राक्षसमभितस्थौ संमुखं तिष्ठति । दैव्यो देवसंबन्धीं अतिथिः नोऽस्माकं शिवः मङ्गलरूपः सोऽग्निर्दीदाय दीप्यते । 'दीङ् क्षये' धातूनामनेकार्थत्वादत्र दीप्त्यर्थः लिटि रूपम् । 'तुजादीनां दीर्घोऽभ्यासस्य' ( पा० ६ । १।७) इत्यभ्यासदीर्घः । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६ ) इति वर्तमाने लिट् ॥ ३४ ॥
पञ्चत्रिंशी।
आपो॑ देवी॒: प्रति॑गृभ्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्वᳪं᳭ सुर॒भा उ॑ लो॒के ।
तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे॒नत् ।। ३५ ।।
उ०. आपो देवीः । दश कण्डिका भस्माभ्यवहरणम् । आपो देवीः । अब्देवत्या त्रिष्टुप् । हे आपः देव्यः, प्रतिगृभ्णीत प्रतिगृह्णीत भस्मैतत्स्वागतादिभिः । तत्र अयं शिष्टव्यवहारः । ततः खातादिभिः परिगृह्य । स्योने कृणुध्वं सुरभा उ लोके स्योने सुखावहे कृणुध्वं स्थापयत । उकारः समुच्चयार्थः । सुरभौ शोभनगन्धे धूपपुष्पोपकारैः । लोके स्थाने शय्यायाम् तस्मै नमन्ताम् । तदःस्थाने एतदःप्रयोगः प्रकृतत्वात् । तस्मै भस्मरूपायाग्नये नमन्तां जनयः उपतिष्ठन्तु जायाः । सुपत्नीः शोभनपत्न्यः । रूपलावण्ययौवनालंकारवैदग्ध्यसंपन्नाः । यूयं च मातेव पुत्रं बिभृत धारयत । पानभोजनवासोभिः गोपयत । किंच अप्सु स्वात्मनि एनत् भस्म ॥३५॥
म०. 'पलाशपुटेनापो देवीरित्येकया' ( का० १६ । ६ । २६ ) । वनीवाहनानन्तरं तडागादिजलस्थानं गत्वा वटादिपत्रपुटेन सायंप्रातरुखायाः सकाशादुद्धृतं यद्भस्मास्ति तदे कया ऋचा जले क्षिपेदिति सूत्रार्थः । अब्देवत्या त्रिष्टुप । हे आपो देवीः देव्यः दीप्यमानाः, भस्म यूयं प्रतिगृभ्णीत स्वागतादिभिः प्रतिगृह्णीत । किंच स्योने सुखावहे सुरभौ पुष्पधूपादिभिः शोभनगन्धयुते लोके स्थाने एतद्भस्म कृणुध्वं कुरुध्वम् 'कृञ् कृतौ' स्वादिः उ पादपूरणः । किंच शोभन: पतिर्वरुणो यासां ताः सुपत्न्यः 'आपः वरुणस्य पत्नय आसन्' इति श्रुत्यन्तरात् । जनयन्त्यग्निमुत्पादयन्ति वृक्षोत्पत्त्यादिद्वारेति जनयः सुपत्नीर्जनयो भवत्यस्तस्मै भस्मरूपायाग्नये नमन्तां प्रह्वीभवन्तु । किंच हे आपः, एनद्भस्म अप्सु स्वात्मनि यूयं बिभृत धारयत । माता पुत्रमिव यथा माता पुत्रं स्वात्मनि धारयति तद्वत्पालयत ॥ ३५ ॥
षट्त्रिंशी।
अ॒प्स्व॒ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुन॑: ।। ३६ ।।
उ० अप्स्वग्ने । अधस्तनेन मन्त्रेण भस्मातिथित्वेनाप्स्ववस्थाप्य अथेदानीं गायत्र्यनुष्टुब्भ्यामग्नेः सर्वगतत्वं प्रकाशयन् भस्माभ्यवहरणमेवापन्हुते । अप्सु हे अग्ने, सधिष्टव सधिः समानस्थानम् । सौषधीरनुरुध्यसे स त्वं बीजमवस्थाय ओषधीः अनुरुध्यसे । ओषधिपरिणाममनु विपरिणमसे । ततो गर्भे सन् विद्यमानः जायसे पुनरपि ॥ ३६॥ .
म०' ततो द्वाभ्याम्' ( का० १६ । ६ । २७) । ततोऽनन्तरं पठिताभ्यां द्वाभ्यामप्स्वग्ने गर्भोऽसीत्येताभ्यामृग्भ्यां पत्रपुटेन द्वितीयवारमुख्याग्निभस्माप्सु प्रास्यति । विरूपदृष्टाग्नेयी गायत्री । पूर्वमन्त्रेण भस्मातिथित्वेन संस्तुत्य द्वाभ्यामग्नेः सर्वव्यापकत्वं वदन्भस्माभ्यवहरणमपह्नुते । हे अग्ने, अप्सु जलेषु तव सधिः स्थानं स त्वमोषधीः यवाद्या अनुरुध्यसे ओषधिपरिणाममनु विपरिणमसे 'सोऽचि लोपे चेत्पादपूरणम्' ( पा० ६।१।१३४ ) इति स इत्यस्य विसर्गलोपे सन्धिः । यद्वा ओषधीः स्वीकरोषि जठराग्निरूपेण । किंच गर्भे अरण्योर्मध्ये स्थितः सन्पुनःपुनर्जायसे ॥ ३६ ॥
सप्तत्रिंशी।
गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नाम् । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ।। ३७ ।।
उ० किंच । गर्भः असि भवसि ओषधीनां गर्भश्च वनस्पतीनाम् गर्भश्च विश्वस्य भूतस्य भूतग्रामस्य । हे अग्ने, गर्भः अपाम् असि ॥ ३७ ॥
म० तिस्रोऽनुष्टुभोऽग्निदेवत्याः । हे अग्ने, त्वमोषधीनां गर्भोऽसि भेषजरूपैरोषधिविशेषैरुत्पद्यमानत्वात् । हे अग्ने, त्वं वनस्पतीनां तरूणां गर्भोऽसि अरणिभ्यो जायमानत्वात् । विश्वस्य भूतस्य सर्वस्य प्राणिजातस्य गर्भोऽसि जठराग्निरूपेण विद्यमानत्वात् , अपां गर्भोऽसि वाडववैद्युतादिरूपत्वात् ॥ ३७ ॥
अष्टत्रिंशी।
प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । स॒ᳪं᳭सृज्य॑ मा॒तृभि॒ष्ट्वं ज्योति॑ष्मा॒न् पुन॒राऽस॑दः ।। ३८ ।।
उ० अप आदत्ते प्रसद्य चतसृभिराग्नेयीभिः । द्वे अनुष्टुभौ द्वे गायत्र्यौ । प्रसद्य अवस्थाप्य भस्मना भस्मरूपेण योनिं स्थानं अपश्च पृथिवीं च हे अग्ने, संसृज्य संगत्य च मातृभिः अद्भिः त्वम् ज्योतिष्मान् भूत्वा पुनरस्यामुखायामासदः आसीद ॥ ३८॥
म० 'अनामिकया प्रास्तादादत्ते प्रसद्येति' ( का० १६ । ६ । २९ ) । अप्सु क्षिप्ताद्भस्मनः सकाशादनामिकया भस्म गृह्णाति प्रसद्येति चतुर्ऋग्भिः । हे अग्ने, त्वं भस्मना कृत्वा योनिं कारणभूतां पृथिवीं योनिभूता अपश्च प्रसद्य प्राप्य मातृभिरद्भिः संसृज्यैकीभूय ज्योतिष्मान् तेजस्वी संपन्नः सन् पुनरासदः स्वस्थानमुखमासीद ॥ ३८ ॥
एकोनचत्वारिंशी।
पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ऽन्तर॑स्याᳪं᳭ शि॒वत॑मः ।। ३९ ।।
उ० पुनरासद्य पुनरप्यास्थाय सदनं स्थानम् अपश्च पृथिवीं च हे अग्ने, ततोऽनन्तरं शेषे । 'शीङ् स्वप्ने' इत्यस्यैतद्रूपम् । स्वपिषि । मातुः यथा उपस्थे उत्सङ्गे । अन्तर्मध्ये अस्यामुखायाम् । शिवतमः शान्ततमः ॥ ३९ ॥
म० हे अग्ने, अपश्च पृथिवीं च सदनमासद्य जलभूमिरूपं स्थानं प्राप्य पुनरपि अस्यामुखायामन्तर्मध्ये त्वं शेषे स्वपिषि मातुरुपस्थे उत्सङ्गे यथा शिशुः शेते । किंभूतस्त्वम् । शिवतमः कल्याणतमः ॥ ३९ ॥
चत्वारिंशी।
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा । पुन॑र्नः पा॒ह्यᳪं᳭ह॑सः ।। ४० ।।
उ० पुनरूर्जा । द्वे व्याख्याते ॥ ४० ॥
म०. द्वे व्याख्याते (क० ९) ॥४०॥ (क० १०) ॥४१॥
एकचत्वारिंशी।
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वप्स्न्या॑ वि॒श्वत॒स्परि॑ ।। ४१ ।।
द्विचत्वारिंशी।
बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मᳪं᳭हि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः ।
पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑ष्टे त॒न्वं॒ वन्दे अग्ने ।। ४२ ।।
उ० प्रास्योखायामुपतिष्ठते बोधा म इति द्वाभ्यां त्रिष्टुप्गायत्रीभ्याम् । गायत्री यजुरन्ता । विश्वकर्मणे स्वाहेति यजुः । बोधा मे बुध्यस्व मम अस्य वचसः । किमभिप्रायोहं ब्रवीमि । हे यविष्ठ मिश्रयितृतम, अथवा युवतम । मंहिष्ठस्य भूयिष्ठस्य प्रभृतस्य श्रोत्रपथं प्रापितस्य । | हे स्वधावः अन्नवन् । किंच पीयति त्वः पीयतिराकोशकर्मा । आक्रोशति त्वः। एकः पुरुषः त्वां हे अग्ने, अनु त्वो गृणाति। अनुगृणाति स्तौति । त्वः एकपुरुषः । एष लोकस्य स्वधावः कश्चिदाक्रोशति कश्चित्स्तौतीति । एवं च सति वन्दारुः वन्दनशीलः सन् ते तव तन्वं शरीरं वन्दे ॥ ४२ ॥
म० 'प्रास्योखायामुपतिष्ठते बोधा म इति' ( का० १६ । ६ । ३०)। तडागादागत्यानामिकया गृहीतं भस्म तूष्णीमुखायां प्रास्य बोधा म इति द्व्यृचेनोख्याग्निमुपतिष्ठते । दीर्घतमोदृष्टाग्नेयी त्रिष्टुप् । स्वधान्नमस्यास्तीति स्वधावान् तत्संबोधने स्वधावः । 'मतुवसो रुः संबुद्धौ छन्दसि' (पा० ८ । ३।१) इति रुत्वम् । हे अन्नवन् , हे यविष्ठ युवतम अग्ने, मे मम वचसो बोध बुध्यस्व अभिप्रायमिति शेषः । यद्वा कर्मणि षष्ठी । मद्वचनं जानीहीत्यर्थः । किंभूतस्य । भूयिष्ठस्य वचसः मंहिष्ठस्य भूयिष्ठस्य अतिशयेन बहु मंहिष्ठं तस्य । तथा प्रभृतस्य प्रहृतस्य श्रोत्रपथं प्रापितस्य आदरोक्तस्येत्यर्थः । किंच त्वशब्द एकशब्दार्थः सर्वादिः । पीयतिराक्रोशतिकर्मा । हे अग्ने, त्वः एकः पुरुषः पीयति आक्रोशति निन्दति त्वः एकः त्वामनुगृणाति त्वां स्तौति । कश्चित्स्तौति कश्चिन्निन्दतीति लोकस्वभावः । एवं सति हे अग्ने, अहं तु ते तव तन्वं तनूं शरीरं वन्दे स्तौमि नमामि च । 'वदि अभिवादनस्तुत्योः । कीदृशोऽहम् । वन्दारुः वन्दनशीलः 'शॄवन्द्योरारुः' (पा० ३ । २ । १७३) इति आरुप्रत्ययः शीलार्थः ॥ ४२ ॥
त्रिचत्वारिंशी।
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् । यु॒यो॒ध्यस्मद् द्वेषा॑ᳪं᳭सि वि॒श्वक॑र्मणे॒ स्वाहा॑ ।। ४३ ।।
उ० स बोधि । यस्त्वं सूरिः पण्डितः मघवा धनवांश्च सः बोधि बुध्यस्व । हे वसुपते धनस्य पातः, बुध्वा च युयोधि पृथक् कुरु । अस्मत्तः द्वेषांसि दौर्भाग्यानि सुप्रीतः सन् । समिधा उपहत्याज्यं जुहोति । विश्वकर्मणे स्वाहा ॥४३॥
म० सोमाहुतिदृष्टाग्नेयी यजुरन्ता गायत्री । विश्वकर्मणे स्वाहेति यजुः । हे वसुपते धनपते, हे वसुदावन् , वसु ददातीति वसुदावा । 'आतो मनिन्-' (पा० ३।२। ७४) इति क्वनिप् तत्संबुद्धौ हे वसुदावन् धनस्य दातः, स त्वं बोधि अस्मदभिप्रायं बुध्यस्व । बुध्यतेः शपि लुप्ते 'हुझल्भ्यो हेर्धिः' (पा० ६।४ । १०१) इति धिः गुणान्त्यलोपो छान्दसौ । कीदृशस्त्वम् । सूरिः विद्वान् मघवा धनवान् मघं धनमस्यास्तीति । संतुष्टः सन् द्वेषांसि दौर्भाग्यानि अस्मद्युयोधि अस्मत्तः पृथक्कुरु । 'प्रायश्चित्तिᳪं᳭ समिधोऽपहत्याज्यं विश्वकर्मण इति जुहोति' ( का० १६ । ७ । १)। स्रुवस्थानीयया समिधा घृतमादायोख्येऽग्नौ जुहोति तत्कर्मणः प्रायश्चित्तिरिति संज्ञेति सूत्रार्थः । यजुः । जगत्सष्टिस्थित्यादिकर्मकर्त्रे तुभ्यं स्वाहा सुहुतमस्तु ॥ ४३ ॥
चतुश्चत्वारिंशी।
पुन॑स्त्वाऽऽदि॒त्या रु॒द्रा वस॑व॒: समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः ।
घृ॒तेन॒ त्वं त॒न्वं॒ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑: ।। ४४ ।।
उ० आदधाति समिधम् । पुनस्त्वा । आग्नेयी त्रिष्टुप् । निर्वाणं त्वां पुनः समिन्धतां संदीपयन्तु । आदित्या रुद्राः वसवः पुनश्च ब्रह्माणः ब्राह्मणाः ऋत्विग्यजमानाः । वसुनीथ नीथा स्तुतिरुच्यते । वसुलाभनिमित्ता यस्य स्तुतिः स वसुनीथः । यज्ञैः यागैः घृतेन च त्वं तन्वं शरीरं वर्धयस्व । सत्याश्च सन्तु यजमानस्य कामाः । ये भस्माभ्यवहरणव्यवच्छिन्नाः ॥ ४४ ॥
म० 'उत्थायादधाति समिधं पुनस्त्वेति' ( का० १६ । ७ । २) । घृतहोमानन्तरमुत्थाय तामेव समिधमुख्येऽग्नावादधाति । आग्नेयी त्रिष्टुप् । आद्यपादश्चतुर्दशार्णस्तृतीयो दशकस्तेन द्व्यधिका । हे अग्ने, आदित्याः रुद्राः वसवश्च त्वा त्वां पुनः समिन्धतामुपशान्तं दीपयन्तु । हे वसुनीथ, वसु धनं तनिमित्ता नीथा स्तुतिर्यस्य । यद्वा वसूनि नयतीति वसुनीथः तत्संबुद्धौ हे धननेतः, ब्रह्माणः ब्राह्मणा ऋत्विग्यजमाना यज्ञैः कृत्वा त्वां पुनः समिन्धतां त्वं च तन्वं स्वशरीरं घृतेनास्मद्दत्तेन वर्धयस्व । त्वयि वृद्धे सति यजमानस्य कामाः सत्याः सन्तु ॥ ४४ ॥
पञ्चचत्वारिंशी।
अपे॑त॒ वी॒त॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑द्य॒मो॒ऽव॒सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै ।। ४५ ।।
उ० पलाशशाखया गार्हपत्यं व्यूहति । अपेत त्रिष्टुप् । अर्धर्चेनोदरसर्पिण उच्यन्ते । पादेन यमः पादेन पितरः । अप इत अपगच्छत । वि इत विगच्छत । वि च सर्पतातः । च अतः स्थानात् । येऽत्रस्थ ये यूयमत्रस्थ भवथ । पुराणाश्चिरन्तनाः। ये च नूतनाः इदानीन्तनाः कस्माद्वयमपसर्पाम इतिचेन्मतिः अदात् दत्तवान् यमः अवसानं स्थानम् । अवस्यन्त्यस्मिन्निति अवसानम् । पृथिव्याः अस्मै यजमानाय । अक्रन्दन् अकृतवन्तश्च पितरः इमं लोकं स्थानम् अस्मै यजमानाय । अतोऽपगच्छतेति ॥ ४५ ॥
म० 'अथ गार्हपत्यचयनमुच्यते । पलाशशाखया गार्हपत्यं व्युदूहत्यपेत वीतेति पुच्छः प्रतिदिशं पुरस्तात् प्रथमम् | ( का० १७ । १।३) । अत्र भाविन्यावृत्त्या शालाद्वार्यो गाईपत्यशब्देनोच्यते तदर्था चितिश्चितेः स्थानमपि गार्हपत्य एव । पलाशशाखया गार्हपत्यचितेः स्थानं व्युदूहति । ऊहिरत्र प्रेरणे । तत्र पतितं तृणादिकं स्थानाद्बहिः क्षिपतीत्यर्थः । अपेत वीति ऋचः पुच्छः पदैः प्रतिदिशमादौ प्राच्यामपेत वीति येऽत्र स्थेति दक्षिणे अदादिति पश्चादक्रन्नित्युत्तरे इति सूत्रार्थः । लिङ्गोक्तबहुदेवत्या त्रिष्टुप् । अर्धर्चेन तत्स्थानसर्पिण उच्यन्ते पादेन यमः पादेन पितरः । यमस्य सर्वभूम्यधिपतित्वात्तद्भृत्याः सर्वत्र चरन्ति तान्प्रत्युच्यते । हे यमभृत्याः, ये पुराणाः चिरन्तना ये च नूतनाः इदानीन्तनाः यूयमत्र स्थाने स्थ भवथ ते सर्वे यूयमतः स्थानादपेत अपगच्छत वीत विगच्छत अतिदूरं गच्छत विसर्पत च । अतः स्थानादपेत्य सङ्घातं विहाय विविधं गच्छत । कस्माद्वयमपसर्पामेत्यत आह । अवस्यति स्थापयत्यस्मिन्निति अवसानं पृथिव्या अवसानं स्थानमिदं यमो देवोऽस्मै यजमानायादाद्दत्तवान् । पितरश्चेमं लोकं स्थानमस्मै यजमानायाक्रन्कृतवन्तः । करोतेः शपि लुप्ते लङि रूपम् । यमेन पितृभिश्च एतच्चयनस्थानस्य यजमानाय दत्तत्वाद्यूयमपसर्पतेत्यर्थः ॥ ४५ ॥
षट्चत्वारिंशी।
सं॒ज्ञान॑मसि काम॒धर॑णं॒ मयि॑ ते काम॒धर॑णं भूयात् ।
अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि॒ । चित॑: स्थ परि॒चित॑ ऊर्ध्व॒चित॑: श्रयध्वम् ।। ४६ ।।
उ० उखां निवपति उल्बसंस्तवः पशुसंस्तवश्च तेषामतस्तथैव व्याख्यायते । संज्ञानमसि । त्रीणि यजूंषि । समिति एकीभावमाचष्टे । यत एकं ज्ञानमसि उल्बसंस्तवात् । 'तस्मादु समानोल्बाः समेव जानीते' इति श्रुतिः । कामधरणं च कामान्धारयति संपादयति कामधरणम् 'पशवो वा उखाः पशवः कामधरणं' इति श्रुतिः । अतो मयि ते तव कामधरणं भूयात् । 'मयि ते पशवो भूयासुः' इति श्रुतिः । उल्बाभिप्रायमेकवचनम् । सिकता निवपति । अग्नेर्भस्मासि । 'भस भर्त्सनदीप्त्योः' । भसितं भस्म भस्मसादृश्यात्सिकता भस्मेत्युक्ताः 'न वा अग्निः स्वं भस्मातिदहति' इति श्रुतिः । अग्नेश्च पुरीषं पूरणम् असि । भस्माभिप्रायमेकवचनम्। 'अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकताः' इति श्रुतिः । परिसृत उपदधाति चितःस्थ । 'चिञ् चयने' अस्य क्विपि बहुवचनम्। या यूयं चितो भवथ । परि सर्वतश्च चितस्थ ता उच्यन्ते । ऊर्ध्वचितो भूत्वा एनमग्निमाश्रयध्वम् ॥ ४६ ॥
म० 'उदीचीᳪं᳭ शाखामुदस्योखां निवपति संज्ञानमिति' (का० १७ । १ । ४)। यया व्युदूहनं कृतं तां शाखामुदक् क्षिप्ता गार्हपत्यचितिस्थाने क्षारमृदो निदधाति । ऊषदेवत्यं यजुः । हे ऊषस्वरूप, त्वं संज्ञानमसि पशूनां सम्यक् ज्ञानसाधनमसि । पशवो हि ऊषदेशं घ्रात्वा लिहन्ति । तथा कामधरणं कामान्मनोरथान्धरति संपादयतीति कामधरणं यज्ञद्वारा कामसंपादकत्वात् । अतस्ते तव कामधरणं कामसंपादनसामर्थ्यं मयि भूयात् अस्तु । यद्वा श्रुत्यनुसारेण व्याख्यानम् । ते तव कामधरणं पशवः मयि भूयात् भूयासुः । यतस्त्वं कामधरणं पशुरूपं संज्ञानं सम्यक् ज्ञापकमसि उल्बसंभवात् । 'पशवो वा ऊषाः पशवः कामधरणं मयि ते पशवो भूयासुः' (७।१।१।८) इति श्रुतेः उल्बाभिप्रायमेकवचन- मुल्बस्योषोत्पन्नत्वात् । 'सिकताश्चाग्नेर्भस्मेत्यूषवत्' ( का. १७ । १ । ६) । ऊषवत्सिकता निवपति । सिकतादेवत्यं यजुः । हे सिकतास्वरूप, त्वमग्नेर्भस्म भासकमसि सिकतास्थोऽग्निरत्युग्रो भवति । अग्नेश्च पुरीषं पूरणमसि पूरयतीति पुरीषम् । पिपर्तेरीषक्प्रत्यये औणादिके 'उदोष्ठ्यपूर्वस्य' (पा० ७ । १। १०२) इत्युदादेशः । भस्माभिप्रायमेकवचनम् । न वा अग्निः स्वं भस्मातिदहति । 'अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकताः' (७।१।१।९-१० ) इति च श्रुतिः । 'परिश्रिद्भिः परिश्रयति पूर्ववदेकविᳪं᳭शत्या चितः स्थेति' ( का० १७।१।७) | एकविंशतिपरिश्रिद्भिर्गार्हपत्यस्थानं वेष्टयति पूर्ववदिति प्रदक्षिणमूर्ध्वास्ताः खननीया इति । परिश्रिद्देवत्यं यजुः । हे परिश्रितः शर्कराः । यूयं चितः स्थ चीयन्ते भूमौ प्रक्षिप्यन्ते इति चितः भूमौ क्षिप्ता भवथ । परिचितः स्थ परितः सर्वतः स्थापिता भवथ । ऊर्ध्वं चीयन्त इति ऊर्ध्वचितः ऊर्ध्वं स्थापिताः सत्यो यूयं श्रयध्वमिदं गार्हपत्यायतनं सेवध्वम् ॥ ४६ ॥
सप्तचत्वारिंशी।
अ॒यᳪं᳭ सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्ति॑ᳪं᳭ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ।। ४७ ।।
उ० गार्हपत्य इष्टकाभिश्चीयते । अयं सो अग्निः षडर्चमाग्नेयं त्रैष्टुभम् । चतुर्थीषष्ठ्यौ अनुष्टुभौ । इष्टकोपधानं कुर्वन्नभिनयेन दर्शयति । अयं सः गार्हपत्योऽग्निश्चीयते । यस्मिंश्चिते सति अभिषुतं सोमम् इन्दुः दधे धारयति । जठरे उदरे वावशानः कामयमानः । कथंभूतं सोमं दधे । सहस्रियं सहस्रार्हम् । वाजम् अन्नभूतं सर्वस्य जगतः । अत्यं न सप्तिम् । नकारः संप्रत्यर्थे । अनन्तरं भक्षणादेव मुदकरम् । सप्तिं शरणं तृप्तिकरम् । न केवलं यस्मिंश्चिते इन्द्रः सोमं जठरे धारयति । किंतर्हि । त्वमपि ससवान्सन्स्तूयसे जातवेदः । ससवान्सन् हवींषि संभजमानः सन् स्तूयसे ऋत्विग्यजमानैः । हे जातवेदः, अयं तावदस्य मन्त्रस्य प्रगुणोऽर्थश्रुतिस्तु आहुतिपरिणामाभिप्रायेण व्याचष्टे । अयं वो लोको गार्हपत्य आपः सोमः सुतोऽस्मिंल्लोके य इन्द्रो धत्ते जठरे वावशान इति । मध्यं वै जठरमित्यादि अयं स लोको गार्हपत्याग्निर्यस्मिंल्लोके अभियुजः सोमपरिणामभूता अपः इन्द्रस्य जठरे मध्ये दधे स्थापयति । सहस्रियं वाजमत्यन्नसप्तिमिति । आपो वै सहस्रियो वाजः अपां विशेषणानि । ससवान्सन्स्तूयसे जातवेद इति व्याचष्टे । चितः संश्चीयसे जातवेद इति गार्हपत्यरूपेण चितः सन् चीयसे । आहवनीयरूपेणेति वा अर्थान्तरनिवृत्तित्वम् ॥ ४७ ॥
म० 'मध्येऽऽर्धबृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति | दक्षिणत उदङ्ङयᳪं᳭ सो अग्निरिति प्रत्यृचम्' ( का० १७।१। ८) । ततोऽध्वर्युर्मण्डलाद्दक्षिणे उदङ्मुख उपविश्य मध्ये चतस्रोऽर्धबृहतीसंज्ञा इष्टकाः प्राचीः प्राग्लक्षणा दक्षिणोत्तरपंक्त्योत्तरमारभ्योपदधाति अभ्यात्मं चयनमित्युक्तेः । ऋक्चतुष्केणैकैकाम् । हस्तदीर्घास्तदर्धायामाः पद्या लोकद्वयव्यापिन्य इष्टका अर्धबृहत्य उच्यन्त इति सूत्रार्थः । पञ्च ऋचो विश्वामित्रदृष्टा आग्नेय्यस्त्रिष्टुभश्चतुर्थ्यनुष्टुप् । इष्टकोपघातं कुर्वन्नभिनयेन दर्शयति । अयं गार्हपत्यः सः अग्निरिष्टकाभिश्चीयत इति शेषः । यस्मिन्नग्नौ चिते सति इन्द्रः सुतमभिषुतं सोमं जठरे स्वोदरे दधे धारयति । वर्तमाने लिट् । किंभूत इन्द्रः । वावशानः वष्टीति वावशानः 'बहुलं छन्दसि' (पा० २ । ४ । ७६) इति शपः श्लौ सति द्वित्वेऽभ्यासदीर्घे शानचि रूपम् । कामयमानः । कीदृशं सोमम् । सहस्रियं सहस्रार्हम् । वाजमन्नं बहूनां तृप्तिकरमित्यर्थः । अत्यं न । नकारः संप्रत्यर्थः । भक्षणादेव मदकरम् । सप्तिं शरणं तृप्तिकरम् । अग्नौ चितेन केवलमिन्द्र एव सोमं जठरे धत्ते किंतु हे जातवेदः, जातं वेदो धनं यस्मात् हे अग्ने, त्वमपि ससवान् हवींषि संभजमानः सन् ऋत्विग्यजमानैः स्तूयसे 'षण संभक्तो' क्वसुप्रत्ययः । उत्तरार्धस्यायं वार्थः । हे जातवेदः, सप्तिं शरणं गमनकुशलमत्यं न अश्वमिव सहस्रियं सहस्रसंख्याकेन धनेन संमितं वाजमन्नं ससवान्दत्तवान्सन् यजमानैस्त्वं स्तूयसे 'सहस्रेण संमितौ घः' (पा० ४ । ४ । १३५) इति घप्रत्ययः । 'षणु दाने' क्वसुः ससवान् ॥ ४७ ॥
अष्टचत्वारिंशी।
अग्ने॒ यत्ते॑ दि॒वि वर्च॑: पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑: ।। ४८ ।।
उ० अग्ने यत्ते । हे अग्ने, यत्ते तव दिवि द्युलोकआदिलक्षणं वर्चः । यच्च पृथिव्यामग्निलक्षणं वर्चः । यच्च ओषधीषु अन्तर्व्यवस्थितम् । यच्च अप्स्वन्तर्व्यवस्थितम् आयजत्र आयष्टव्यं मर्यादया यष्टव्यम् । एतान्यधस्तादुक्तानि वर्चांसि तव लघीयांसि । येन तु वर्चसा अन्तरिक्षम् उरु विस्तीर्णम् आततन्थ आतनोषि । त्वेषः स भानुः महत्तद्वर्चः। अर्णवः अर्णस्वान् उदकवान् अथवा 'अरणवान्गमनवान् वायुः सः' इति श्रुतिः । नृचक्षाः नृणां शुभाशुभकर्मद्रष्टा । त्रिस्थानोऽत्राग्निः स्तुतः ॥ ४८॥
म० हे आयजत्र मर्यादया यजनीय हे अग्ने, ते तव यत् दिवि द्युलोके वर्चो दीप्तिरर्करूपं वर्तते यच्च पृथिव्यामग्निरूपं यच्च ओषधीष्वन्तः स्थितं यच्चाप्सु जलेषु अन्तः स्थितं यच्च वर्चसा उरु विस्तीर्णमन्तरिक्षमाततन्थ आतनोषि विस्तारयसि । 'बभूथाततन्थ-' (पा० ७ । २ । ६४) इतीडभावः । स भानुः दीप्तिः त्वेषः त्वेषयति प्रकाशयति सकलं विश्वमिति त्वेषः 'त्विष दीप्तौ' पचादित्वादच् । अर्णवः अर्णांसि उदकानि सन्ति यत्रेत्यर्थः । 'अर्णसो वः सलोपश्च' । यद्वा अरणवान् गमनवान् प्रसरणशीलः । नृचक्षाः नॄन् चष्ट इति नृणां शुभाशुभकर्मद्रष्टा । ईदृशो यस्ते भानुस्तमेवेष्टकारूपमुपदधामीति शेषः । अनेन त्रिस्थानोऽग्निः स्तुतः ॥ ४८ ॥
एकोनपञ्चाशी।
अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ२ ऊ॑चिषे॒ धिष्ण्या॒ ये ।
या रो॑च॒ने प॒रस्ता॒त् सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आप॑: ।। ४९ ।।
उ० अग्ने दिवः । हे अग्ने, दिवः द्युलोकस्य संबन्धि अर्णमुदकम् अच्छा जिगासि । 'अच्छाभेराप्तुमिति शाकपूणिः'। अभिजिगासि । 'आपो वा अस्य दिवोर्णवस्ता एष धूमेना च्छैति' इति श्रुतिः । अच्छा देवान् अभिजिगासि च देवान् । कतमान्देवानित्यत आह । ऊचिषे धिष्ण्या ये । 'प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिष इष्णन्ति' इष्णन्ति उच्यन्त इति लिङ्गवचनयोर्व्यत्ययः । उच्यन्ते ये धिष्ण्या अग्नयः । किंच रोचने लोके स्थितस्य सूर्यस्य परस्तादाप उपतिष्ठन्ते याश्च अधस्तादुपतिष्ठन्ते आपः ताश्च त्वमभिजिगासि । त्वमेवैतै रूपैः परिणमसीत्यभिप्रायः॥४९॥
म०. हे अग्ने, दिवो द्युलोकस्य संबन्धि अर्णमुदकं त्वमच्छाजिगासि आभिमुख्येन गच्छसि 'गा स्तुतिगत्योः' ह्वादिः । अभ्यासेत्वं छान्दसम् । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु. ५। ३१) 'निपातस्य च' (पा० ६ । ३ । १३६) इत्यच्छेत्यस्य संहितायां दीर्घः । 'आपो वा अस्य दिवोर्णस्ता एष धूमेनाच्छैति' (७।१।१।२४ ) इति श्रुतिः। किंच ये देवा धिष्ण्या ऊचिषे ऊचिरे उच्यन्ते धियो बुद्धीरिन्द्रियाणि इष्णन्ति प्रेरयन्ति धिष्ण्याः प्राणरूपा देवाः तान् देवांश्च त्वमच्छा जिगासि अभिगच्छसि । ऊचिषे ब्रूञः कर्मणि लिट् पुरुषवचनयोर्व्यत्ययः । 'प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति' (७।१।१।२४) इति श्रुतेः । किंच रोचने दीप्तिरूपे मण्डले वर्तमानस्य सूर्यस्य परस्तादुपरिष्टाद्या आप उप उपतिष्ठन्ते अवस्ताद्रवेरधस्ताच्च या आप उपतिष्ठन्ते ता आपश्च त्वमभिजिगासीत्यन्वयः । त्वमेवैतै रूपैः परिणमसीति भावः ॥ ४९ ॥
पञ्चाशी।
पु॒री॒ष्या॒सो अ॒ग्नय॑: प्राव॒णेभि॑: स॒जोष॑सः । जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ।। ५० ।।
उ० पुरीष्यासः । बहुवचनमिष्टकापेक्षम् । ये पुरीष्याः पशव्याः पशुभ्यो हिताः अग्नय इष्टकाः । प्रावणेभिः । 'प्रुङ् गतौ' । प्रावणैः गमनैः लोकव्याप्तिभिः । सजोषसः समानप्रीतयः समानसेविनो वा । समानं हि ते लोकं सेवन्ते । अर्धबृहत्यो हि ताश्चतस्रः । ते जुषन्तां सेवन्तां यज्ञम् । अद्रुहः अहिंसितारः । अनमीवाश्च अशनायाबुभुक्षानिवृत्तिकरा इत्यर्थः । इषः अन्नभक्तीः महीः महतीः प्रभूताः ॥५०॥
म० अनुष्टुप् बहुवचनमिष्टकापेक्षम् । अग्नयः एते इष्टकारूपा यज्ञमस्मदीयमिमं यागं जुषन्तां सेवन्ताम् । अनमीवा नास्ति अमीवा व्याधिरशनायाबुभुक्षारूपो याभिस्ता अनमीवाः क्षुधातृष्णानिवर्तिकाः महीः महतीः बहुला इषः अन्नभक्तीश्चाग्नयो जुषन्ताम् । कीदृशा अग्नयः । पुरीष्यासः पुरीषेभ्यः पशुभ्यो हिताः पुरीष्याः । आज्जसेरसुक् । तथा प्रावणेभिः प्रवणैः प्रकर्षेण वनन्ति संभजन्ति विषयानिति प्रावणानि मनांसि तैः सजोषसः समानप्रीतयः । मनसा प्रीतियुक्ता इत्यर्थः । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां प्रावणेति दीर्घः । 'बहुलं छन्दसि' इत्येत्वम् । तथा अद्रुहः न द्रुह्यन्तीत्यद्रुहः अहिंसितारः परस्परं प्रीतियुताः ॥ ५० ॥
एकपञ्चाशी।
इडा॑मग्ने पुरु॒दᳪं᳭स॑ᳪं᳭ स॒निं गोः श॑श्वत्त॒मᳪं᳭ हव॑मानाय साध ।
स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।। ५१ ।।
उ० पश्चिमे उपदधाति इडामग्ने । इडामन्नं हे अग्ने, पुरुदंसं बहुकर्मसाधनभूतम् । यत्तु श्रुत्योक्तम् ‘पशवो वा इडा' इति तद्बलीवर्दैरुत्पाद्यत इत्यनेन हेतुना । सनिं गोः गोः संबधिनी च सनिं दानं पयोदधिघृतादिकम् । शश्वत्तमं शाश्वतिकतमं शाश्वतिककर्म अनपायि हवमानाय यजमानाय । स हि देवानाह्वयति । साध प्रसाधय । एतदुक्तं भवति । अन्नं सोपसेचनं शाश्वतिकतमं यजमानाय देहि । किंच । स्यान्नः सूनुस्तनयः भवेच्चास्माकं पुत्र औरसः । विजावा प्रज्ञातिमान् । यद्वा विजयशीलः । पितरं वा योजयति वीर्येण यया सुमत्या त्वमेतत्करोषि सा ते भूतु अस्मे अस्मासु ॥५१॥
म० 'इडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः' (का० १७ । १।११) इडामग्न इति ऋग्द्वयेन प्रतिमन्त्रं पश्चिमे द्वे पादमात्र्यौ पद्ये तिरश्च्यौ उदग्लक्षणे उपदध्यात् उत्तरतोऽवस्थितो दक्षिणामुखः इडामिति दक्षिणाम् अयं त इत्युत्तरामिति सूत्रार्थः । द्वे आग्नेय्यौ त्रिष्टुबनुष्टुभौ । हे अग्ने, हवमानाय यजमानाय साध साधय संपादय 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इडामन्नम् । शप आर्धधातुकष्टिलोपः। ह्वयति आह्वयति देवान् जुहोति वा हवमानः तस्मै । यत्तु श्रुत्योक्तं 'पशवो वा इडा' (७।१।१।२७) इति तद्बलीवर्दैरन्नस्योत्पाद्यमानत्वात् । किंभूतामिडाम् । पुरुदंसं दंस इति कर्मनामसु पठितम् । पुरूणि बहूनि दंसांसि कर्माणि यया सा पुरुदंसाः तां पुरुदंससमिति प्राप्ते टिलोपश्छान्दसः । बहुकर्मसाधनभूतमन्नं देहीत्यर्थः । तथा शश्वत्तममत्यन्तमविच्छेदेन वर्तमानमनपायिनं गोः सनिं धेनुसंबन्धि दानं पयोदधिघृतादिकं सर्वदा देहीत्यर्थः । किंच नोऽस्माकं यजमानानां सूनुः पुत्रः स्यादस्तु । कीदृशः सूनुः । तनयः औरसः पुत्रस्य सूनुशब्देनोक्तत्वाद्दत्तपुत्रादिव्यावृत्त्यै तनयशब्दः । यद्वा तनोत्यग्निहोत्रादिकर्माणीति तनयः । तथा विजावा विविधं जायते, पुत्रादिद्वारेति विजावा प्रजावान् 'विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इति धातोराकारः । हे अग्ने, ते तव सान्नगोपुत्रदानविषया सुमतिः - शोभना बुद्धिरनुग्रहेणास्मे अस्मासु भूतु भवतु । यजमानेभ्यस्तयान्नादि देयमिति भावः । व्यत्ययेन शपो लुक् । अस्मे विभक्तेः शेआदेशे त्यदाद्यत्वम् ॥ ५१ ॥
द्विपञ्चाशी।
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ।। ५२ ।।
उ० द्वितीयमुपदधाति अयं ते । व्याख्यातम् ॥ ५२ ॥
म० व्याख्याता [ अध्या० ३ क० १४ ] ॥ ५२ ॥
त्रिपञ्चाशी।
चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द प॑रि॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ।। ५३ ।।
उ० पुरस्तादुपदधाति चिदसि । 'चिञ् चयने । चितासि । सादयति । तया देवतया सादिता सती अङ्गिरस्वत्प्राणवत् । यथाहि प्राणः सर्वमङ्गं व्याप्य स्थितः एवं त्वमपि । ध्रुवा सीद निविशस्व । तया देवतयेति 'वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिराः' इति श्रुतिः । द्वितीयामुपदधाति । परि चिदसि । परि सर्वतश्चितासि तया देवतयेति व्याख्यातम् ॥ ५३ ॥
म० 'चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम्' । (का० १७॥ १ । १२) तदुत्तरतोऽपरमार्गेण दक्षिणां मत्वा चिदसीति प्रतिमन्त्रं पूर्वे तिरश्चौ उदग्लक्षणे दक्षिणे स्थित उदङ्मुख उपदधाति चिदसीत्युत्तरां परिचिदसीति दक्षिणाम् । इष्टकादैवत्ये द्वे यजुषी । चीयत इति चित् । हे इष्टके, त्वं चिता स्थापितासि । यद्वा चिनोति भोगान्संपादयतीति चित् त्वं भोगसंपादिकासि । तया प्रसिद्धया देवतया वाग्रूपया सादिता सती अङ्गिरस्वत्प्राणवत् प्राणा यथा सर्वाङ्गेषु स्थितास्तथा ध्रुवा स्थिरा सती त्वं सीद निविशस्व । तया देवतयेति 'वाग्वै सा देवताङ्गिरस्वदिति प्राणो वा अङ्गिरा' इति श्रुतेः। द्वितीयामुपदधाति । परिचित्परितः सर्वतः चीयते परितो भोगांश्चिनोतीति वा त्वं परिचिदसि । तया देवतयेति व्याख्यातम् ॥५३॥
चतुःपञ्चाशी।
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद ध्रु॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ।। ५४ ।।
उ० लोकंपृणामुपदधाति । लोकं पृण । पद्यादिलोकं(?) स्थानं पृण पूरय । छिद्रं पृण पूरय अग्नेरवयवभूता भव । अथो अपिच सीद निविशस्व ध्रुवा निश्चला त्वम् । इन्द्राग्नी च त्वां बृहस्पतिश्च अस्मिन्योनौ स्थाने असीषदन् आसादयन्तु । नहि मानुषोऽध्वर्युः त्वां सादयितुं समर्थ इत्यभिप्रायः
म० तिसृषु लोकंपृणासु मन्त्रो दशसु च द्वयोर्वा दशस्वेकस्यां च' (का० १७।१।१७) । आदौ तिसृषु लोकंपृणेष्टकासु तूष्णीमुपहितासु लोकंपृणेत्यभिमन्त्रणम् ततो दशसु मन्त्रः यद्वादौ द्वयोर्लोकंपृणयोर्मन्त्रस्ततो दशसु तत एकस्याम् एवमेकविंशतीष्टका गार्हपत्ये स्युरिति सूत्रार्थः । लोकंपृणादेवत्यानुष्टुप् । हे लोकंपृणेष्टके, त्वं लोकं पृण गार्हपत्यचयनदेशे पूर्वेष्टकाभिरनाक्रान्तं स्थानं पूरय । तथा छिद्रं पृण किंचिदपि छिद्रं यथा न दृश्यते तथा संश्लिष्टा भवेत्यर्थः । 'पृण तृप्तौ' तुदादिः । अथो अपिच ध्रुवा दृढा सती त्वं सीद तिष्ठ । किंच इन्द्राग्नी बृहस्पतिश्चैते देवा अस्मिन् योनौ स्थाने त्वा त्वां असीषदन् सादितवन्तः सदेश्चङ् । नहि मानुषोऽध्वर्युस्तां सादयितुं शक्य इति भावः ॥ ५४ ॥
पञ्चपञ्चाशी।
ता अ॑स्य॒ सूद॑दोहस॒: सोम॑ᳪं᳭ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ।। ५५ ।।
उ० सूददोहसाधिवदति । ता अस्य अनुष्टुप् । यज्ञाहुतिपरिणामभूता आप उच्यन्ते । व्यवहितपदप्रायो मन्त्रः । ता यज्ञपरिणामभूता दिव इत्यन्तं पदमिह संबध्यते । दिवः द्युलोकात् च्युताः सूददोहसः । 'आपो वै सूदोऽन्नं दोहः' इति श्रुतिः । अन्नसहिता आपः । अस्येत्यस्य पदस्य विश इत्यनेन संबन्धः । 'यज्ञो वै विशः' इति श्रुतिः । अस्य विशः अस्य संबन्धिनं सोमं श्रीणन्ति मिश्रयन्ति । पृश्नयः 'अन्नं वै पृश्निः' इति श्रुतिः । एतदुक्तं भवति । अस्मिन् लोके पतित्वा आप ओषधिवनस्पत्यन्नभूताः सोमस्योपकुर्वन्ति । कस्मिन्काले श्रीणन्ति । जन्मन्देवानाम् । 'संवत्सरो वै देवानां जन्म' इति श्रुतिः । संवत्सरभृतिनः संवत्सरे सोमयागः तदभिप्रायमेतत् । त्रिष्वारोचने । 'सवनानि वै त्रीणि रोचनानि' इति श्रुतिः । त्रिष्वारोचनेष्विति वचनव्यत्ययः। त्रिषु सवनेषु । एवं श्रुतितोऽयं मन्त्रो व्याख्यातः ५५
म० 'नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति' (का. १६ । ७ । १४) तया देवतयेति सादनम् । ता अस्येति सूददोहसाधिवदनम् । एते नित्ये सर्वत्रेति सूत्रार्थः । इन्द्रपुत्रप्रियमेधदृष्टाब्देवत्यानुष्टुप् । दिवो द्युलोकसंबन्धिनो दिवश्च्युता वा सूददोहसः सूदाश्च दोहसश्च ते सूददोहसः सूदेन जलेन सहिता दोहसोऽन्नानि अन्नयुक्ता आपः ताः प्रसिद्धा अस्य विशो यज्ञस्य संबन्धिनं सोममाश्रीणन्ति सम्यग्मिश्रयन्ति पक्कं कुर्वन्ति वा 'श्री पाके' क्र्यादिः । 'आपो वै सूदोऽन्नं दोहः' (८ । ७ । ३ । २१) 'यज्ञो वै विशः' (८ । ७ । ३ । २१) इति च श्रुतिः । कीदृशाः ।। सूददोहसः पृश्नयः नानाविधाः । यद्वा 'अन्नं वै पृश्नी' (८। ७ । ३ । २१) इति श्रुतेरन्नरूपाः अत्रागत्य व्रीह्यादिधान्य निष्पादका इत्यर्थः । कदा श्रीणन्ति देवानां जन्मन् जन्मनि संवत्सरे 'संवत्सरो वै देवानां जन्म' (८।७।३ । २१) इति श्रुतेः । संवत्सरे संवत्सरे सोमयागस्तदभिप्रायमेतत् । 'सव नानि वै त्रीणि रोचनानि' (८ । ७ । ३ । २१) इति श्रुतिः । | यज्ञपरिणामभूता अन्नोत्पादिका आपो दिवः सकाशादस्मिँल्लोके पतित्वौषधिवनस्पत्यन्नभूताः सत्यः सोमस्योपस्कुर्वन्तीति भावः ॥ ५५ ॥
षट्पञ्चाशी।
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: । र॒थीत॑मᳪं᳭ र॒थीनां॒ वाजा॑ना॒ᳪं᳭ सत्प॑तिं॒ पति॑म् ।। ५६ ॥ ।
उ० पुरीषं निवपति । इन्द्रं विश्वाः । ऐन्द्र्यनुष्टुप् । इन्द्रं विश्वाः सर्वाः गिरः स्तुतयः ऋग्यजुःसामलक्षणाः । अवीवृधन् वर्धयन्ति । समुद्रव्यचसम् समुद्रमिव विविधायनं नानागतिम् अक्षोभ्यबलं वा । रथीतमं रथीनाम् । सर्वेषां रथिनां मध्ये रथं युद्धलब्धातिशयम् । वाजानां सत्पतिं पतिं वाजानामन्नानां पतिं सतां च पतिम् । श्रुतिस्मृतिकर्मानुष्ठातारः सन्त उक्ताः ॥ ५६ ॥
म० 'चात्वालदेशात्पुरीषं निवपतीन्द्र विश्वा इति' (का० १७ । १ । १८)। चात्वालस्थानात् मृदमानीय गार्हपत्यचितेरुपरि क्षिपति । इन्द्रदेवत्या मधुच्छन्दसुतजेतृदृष्टानुष्टुप् । | विश्वाः सर्वा गिरः स्तुतयः ऋग्यजुःसामरूपा इन्द्रमवीवृधन् वर्धयन्ति । कीदृशमिन्द्रम् । समुद्रव्यचसं समुद्रवद् व्यचो व्याप्तिर्यस्य तं समुद्रवद्व्यापकं विविधाञ्चनं नानागतिमित्यर्थः । अक्षोभ्यगतिं वा । रथीनां रथयुक्तानां सर्वेषां मध्ये रथीतममत्यन्तं रथयुतं रथयुद्धे लब्धातिशयमित्यर्थः । 'ईद्रथिनः' (पा० ८ । २ । १७) इति घे परे रथिन ईदादेशः । तथा वाजानामन्नानां पतिं स्वामिनं सत्पतिं स्वधर्मवर्तिनां च प्रतिपालकम् ॥ ५६ ॥
सप्तपञ्चाशी।
समि॑तᳪं᳭ संक॑ल्पेथा॒ᳪं᳭ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ ।। ५७ ।।
उ० चित्येनोख्यं निवपति समितमिति चतसृभिरुष्णिगुपरिष्टाद्बृहत्युष्णिक्पङ्क्तिभिर्व्य७ ग्निदेवत्याभिः । तृतीया वाग्निदेवत्या । समितम् । द्वितीयपादप्रभृति व्याख्यायते । यौ युवां संप्रियौ संगतिप्रियौ रोचिष्णू रोचनशीलौ च । तौ सुमनस्यमानौ परस्परं शोभनं चिन्तयन्तौ । इषमन्नमूर्जं तदुपसेचनं सर्पिरादि अभिसंवसानौ अभ्यवहरन्तौ । वस्तेरर्थान्तरे वृत्तिः । एतत्कुर्वाणौ समितम् । 'इण् गतौ' । संगतिं कुरुतम् । संकल्पेथां च एकसंकल्पौ च भवतमित्येतदाशास्महे ॥ ५७ ॥
म० 'समंबिलां कृत्वोख्यं निवपति समितमिति' (का० १७ । १ । १९) । समं बिलं यस्याः सा समंबिला। विभक्त्यलुक् छान्दसः । गार्हपत्यचितिं मृत्पूरणेन परिश्रित्समां कृत्वा तन्मध्ये नीचैरुख्याग्निं स्थापयति चतुर्मन्त्रैः । चतस्रो द्व्यग्निदेवत्याः । समितम् उष्णिगेकाधिका अनियताक्षरपादत्वेऽप्यष्टाविंशत्यक्षरत्वात् । हे चित्योख्याग्नी, युवां समितं संगच्छतम् । 'इण् गतौ' संगतौ भवतम् । संकल्पेथां च एकसंकल्पौ भवतम् । यद्वा संकल्पनं यज्ञनिष्पादनं कुरुतम् । कीदृशौ युवाम् । संप्रियौ संप्रीणीतस्तौ 'इगुपध-' (पा० ३ । १।१३५) इति कः । सम्यक् परस्परं प्रीतियुक्तौ । रोचिष्णू दीप्यमानौ 'अलंकृञ्-' (पा० ३ । २ । १३६ ) इत्यादिना इष्णुच् । सुमनस्यमानौ शोभनं मनः कुरुतस्तौ वा । सुमनस्येते तौ सुमनस्यमानौ । सुब्धातुः क्यङन्ताच्छानच् । परस्परं शोभनचित्तवन्तौ । इषमन्नमूर्जमुपसेचनं घृतादि चाभिसंवसानौ अभ्यवहरन्तौ भुञ्जानौ अभितः सम्यक् संपादयन्तौ वा । वस्तेरर्थान्तरे वृत्तिः ॥ ५७ ॥
अष्टपञ्चाशी।
सं वां॒ मना॑ᳪं᳭सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।
अग्ने॑ पुरीष्याधि॒पा भ॑व॒ त्वं न॒ इष॒मूर्जं॒ यज॑मानाय धेहि ।। ५८ ।।
उ० सं वाम् आ समाकरम् आभिमुख्येन स्थित्वा संस्कृतवान् वां युवयोर्मनांसि । बुद्ध्यहंकारमनांसीति बहुवचनम् । संव्रता । व्रतमिति कर्मनाम । संस्कृतवांश्च युवयोः कर्माणि समुचितानि । चितशब्देन संस्कारा मनोगता उच्यन्ते । संस्कृतवांश्चास्मि मनोगतान्संस्कारान् । उकारः समुच्चयार्थीयः । एवं मनःकर्मसंस्कारैरेकीभूतं त्वामेकं देवताभिमानिनं प्रार्थये । हे अग्ने, पुरीष्य पशव्य, अधिपतिर्भव । त्वं नः अस्मभ्यम् इषं चोर्जं च यजमानाय धेहि देहि । इषमन्नमूर्जं च तदुपसेचनं दध्यादि ॥ ५८ ॥
म० उपरिष्टाद्बृहती अष्टसप्तनवत्रयोदशाक्षरपादत्वादेकाधिका । हे पूर्वोक्तावग्नी, वां युवयोर्मनांसि बहुवचनत्वान्मनोबुद्ध्यहंकारानहं समाकरं सर्वतः सङ्गतान्करोमि । करोतेर्लङ्युत्तमबहुवचने शपि अकरमिति रूपम् । तथा व्रता व्रतानि कर्माणि समाकरम् । व्रतमिति कर्मनाम ( निघ० २ । १ । ७) तथा चित्तानि च मनोगतसंस्कारान्समाकरम् । उकारः समुच्चयार्थः । एवं मनःकर्मसंस्कारैरेकीकृतैरेकीभूतमग्निं प्रार्थये हे पुरीष्य, पशव्य हे अग्ने, त्वं नोऽस्माकम् अधिपातीति अधिपाः पालको भव । इषमन्नमूर्ज तदुपसेचनं दध्यादि च यजमानाय धेहि देहि ॥ ५८ ॥
एकोनषष्टी।
अग्ने॒ त्वं पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒माँ२ अ॑सि । शि॒वाः कृ॒त्वा दिश॒: सर्वा॒: स्वं योनि॑मि॒हाऽस॑दः ।। ५९ ।।
उ० अग्ने त्वम् । हे अग्ने, त्वं पुरीष्यः रयिमांश्च धनवान् पुष्टिमांश्च असि यतः अतः शिवाः कृत्वा दिशः सर्वाः स्वं योनिमिहासदः इति व्याख्यातम् ॥ ५९ ॥
म० उख्याग्निदेवत्योष्णिक आर्ष्येकाधिका अनियताक्षरपादत्वात् । हे अग्ने, त्वं पुरीष्यः पशव्योऽसि । रयिमान् धनवान् | पुष्टिमान् पोषयुक्तश्चासि । अतः सर्वा दिशः शिवाः शान्ताः कृत्वा इहास्मिंश्चयने स्वं योनिं स्वकीयं स्थानमासदः प्राप्नुहि ॥ ५९ ॥
षष्टी।
भव॑तं न॒: सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ ।
मा य॒ज्ञᳪं᳭ हि॑ᳪं᳭सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य न॑: ।। ६० ।।
उ० भवतं न इति व्याख्यातम् ॥ ६० ॥
म० आर्षी पङ्क्तिः अनियताक्षरपादत्वात् द्व्यग्निदेवत्या | ( अध्या० ५ क० ३) पुनर्व्याख्यायते । हे जातवेदसौ अग्नी, यज्ञमस्मदीयं कर्म युवां मा हिंसिष्टं मा विनाशयतम् । यज्ञ
पतिं यजमानं च मा हिंसिष्टम् । अद्यास्मिन् कर्मदिने नोऽस्मभ्यं शिवौ शान्तौ युवां भवतम् । किंच युवां नोऽस्मदर्थं समनसौ सचेतसौ अरेपसौ च भवतम् । मनसा सहितौ समानचित्तौ । अन्यविषयं मनो हित्वास्मदनुग्रहाभिमुखत्वं समनस्त्वम् । अस्मदनुग्रहेऽन्योन्यविप्रतिपत्तिराहित्यं सचेतस्त्वम् । अरेपसौ निष्पापो अस्माकं प्रामादिकापराधसत्त्वे कोपाभावो निष्पापत्वम् ईदृशावस्मभ्यं भवतमित्यर्थः ॥ ६० ॥
एकषष्टी।
मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॒म॒ग्निᳪं᳭ स्वे योना॑वभारु॒खा ।
तां विश्वै॑र्दे॒वैर्ऋ॒तुभि॑: संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ।। ६१ ।।
उ० उखां शिक्याद्विमुञ्चति मातेव पुत्रम् । अनुष्टुप् । उखास्तुतिः । येयमुखा माता इव पुत्रं पृथिवीरूपमवस्थाय पुरीष्यं पशव्यं अग्निम् स्वे स्वकीये उत्सङ्गे कृत्वा अभाः । प्रथमपुरुषस्यैतद्रूपम् । उखाशब्दसामानाधिकरण्यात् अभारुषा अभार्षीत् धारितवती । तामिदानीं कृतसत्यां सतीं विश्वर्देवैः ऋतुभिः संविदानः । अहो महत्कर्म कृतमित्येवं संवादं कुर्वन् प्रजापतिर्विश्वकर्मा च विमुञ्चतु शिक्यात् ॥६१॥
म०. 'सिकताभिः समंबिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्याभ्रिवन्निधायासिञ्चति पयोमध्ये तूष्णीम्' (का० १७.१.३१)। शून्यामुखां सिकताभिः संपूर्य मातेवेति मन्त्रेण शिक्यात्पृथक्कत्वाभ्रिवदिति स्थापिताग्नेरुत्तरेऽरत्निमात्रे गार्हपत्यचितेरुपर्येवोखां निधाय तन्मध्ये तूष्णीं दुग्धं सिञ्चेदिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । तृतीयो नवकः । । चतुर्थो द्वादशकः । पृथिवी भूरूपा मृण्मयी या उखा पुरीष्यं पशव्यमग्निं स्वे योनौ स्वकीयगर्भस्थाने अभाः अभार्षीत् धृतवती । भृञो लुङि 'बहुलं छन्दसि' (पा० ७ । ३ । ९७) इतीडागमाभावे सिचो विसर्गे तिपि लुप्ते रूपम् । माता पुत्रमिव यथा माता पुत्रमुत्सङ्गे बिभर्ति । प्रजापतिः कृतकृत्यां तामुखां विमुञ्चतु शिक्यपाशाद्विमुक्तां करोतु । कीदृशः प्रजापतिः । विश्वैर्देवैर्ऋतुभिश्च संविदानः संवित्त इति ऐकमत्यं गतः अहो महत्कर्मोखया कृतमिति संवादं कुर्वन् । विश्वकर्मा विश्वं सृष्टिरूपं कर्म यस्यासौ विश्वकर्मा ॥ ६१ ॥
द्विषष्टी।
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यामन्वि॑हि॒ तस्क॑रस्य ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ।। ६२ ।।
उ० नैर्ऋतीनामिष्टकानामुपधानं तिसृभिरनुष्टुब्भिः । असुन्वन्तम् सोमाभिषवमकुर्वाणम् यजमानं चान्यैः यज्ञक्रतुभिः इच्छ परिगृह्णीष्व । किंच स्तेनस्येत्यामन्विहि । स्तेनस्य चौरस्य इत्यां गतिम् अनुकुर्वन् इहि प्रपलाय्य याहि । तस्करस्य तदेवायं चौरकर्म करोति नान्यत् स तत्करः सन् तस्कर इत्युच्यते । पुनरप्याह । अन्यमस्मदिच्छ अन्यं पुरुषमस्मत्तः इच्छ गृहीतुम् सा ते तव इत्या गतिः । एवं दण्डगर्भमुक्त्वा अथेदानी साम्नाह । नमो देवि निर्ऋते तुभ्यमस्तु हे देवि निर्ऋते तुभ्यं नमः अस्तु ॥ ६२ ॥
म० 'नैर्ऋतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः पादमात्रीर्हविष्यासन्नहोमवद्देशे दक्षिणोत्तराः कृत्वा दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यूचं पराचीः' (का० १७ । १ । २३ )। ततोऽध्वर्युः राजसूये हविष्यासन्नहोमे यादृशो देशस्तादृशे वयं प्रदीर्णे इरिणे वा असुन्वन्तमिति प्रत्यूचं तिस्रो नैर्ऋतिसंज्ञा इष्टका दक्षिणोत्तराः कृत्वा ततस्ता अस्पृशत्रुपदधाति । कीदृशीः । पाकेन कृष्णवर्णाः तुरेव पक्काः लक्षणहीनाः पद्याः पराचीः अनात्ममुखीः । वयं दक्षिणामुखः पूर्वमुत्तरां निधाय ततो दक्षिणे द्वे इति सूत्रार्थः । तिस्रो निक्रतिदेवत्यास्त्रिष्टुभः । हे निर्ऋते, असुन्वन्तं सोमयागमकुर्वाणम् अयजमानमन्यहविर्यज्ञर्यजनमकुर्वाणं च खमिच्छ प्रतिगच्छ तं गृहाणेत्यर्थः । किंच स्तेनो गुप्तचोरः तस्करः प्रकटचोरः तयोरित्यां गतिमन्विहि अनुगच्छ । पृष्ठतो गत्वा तावपि गृहाणेत्यर्थः । सर्वथा सोमं सुन्वन्यो हविर्यज्ञैश्च यजयोऽस्मदन्यमिच्छ न खस्मानिच्छ । सा दुष्टशिक्षा ते तवेत्या गतिश्चर्या हे देवि निते, एवंभूतायै तुभ्यं नमोऽस्तु ॥ ६२ ॥
त्रिषष्टी।
नम॒: सु ते॑ निर्ऋते तिग्मतेजोऽय॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् ।
य॒मेन॒ त्वं य॒म्या सं॑विदा॒नोत्त॒मे ना॒के अधि॑रोहयैनम् ।। ६३ ।।
उ० नमः सु ते नमस्कारः शोभनः ते तव हे निर्ऋते, अस्तु । निर्ऋतिः कृच्छ्रापतिः भूमिर्वा। तिग्ममुत्साहतेजो यस्याः सा तिग्मतेजाः तस्याः संबोधनं हे तिग्मतेजः, अयस्मयं विचृत अयोमयं विच्छिन्धि बन्धमेतम् । येनाहं बद्धः अजस्य जीवभावलक्षणेन जनित्वा म्रियते मृत्वा जायत इति । किंच । यमेनाग्निना त्वं यम्या च पृथिव्या संविदाना एकमतीभूय । उत्तमे नाके उत्कृष्टे स्वर्गे अधिरोहय एनं यजमानम् ॥ ६३ ॥
म० 'निर्ऋतिः कृच्छ्रापतिः। 'स्यादलक्ष्मीस्तु निर्ऋतिः' इत्यभिधानात् भूमिर्वा, निर्ऋतिदिगभिमानिनी देवता वा । | 'अलक्ष्म्यां दिक्पतौ चापि निर्ऋतिर्निरुपद्रवे' इति कोशात् । तिग्मं तीक्ष्णं दुःसहं तेजो यस्याः सा तिग्मतेजाः तस्याः संबोधने हे तिग्मतेजः, हे निर्ऋते, तुभ्यं सु सुतरां नमोऽस्तु । अयस्मयमयोमयम् 'अयस्मयादीनि छन्दसि' (पा० १।४।२०) इति सत्वम् । लोहपाशवद्दृढमेतं बन्धं जीवत्वेन जन्ममृतिरूपमज्ञानं त्वं विचृत विच्छिन्धि नाशय । 'चृती ग्रन्थे' तुदादिः। 'द्व्यचोऽतस्तिङः' ( पा० ६।३।१३५) इति संहितायां दीर्घः । किंच यमेन अग्निना यम्या पृथिव्या च संविदाना ऐकमत्यं गता सती उत्तमे उत्कृष्टे नाके सर्वसुखोपेते दुःखमात्रहीने स्वर्गे एनं यजमानमधिरोहय स्थापय ॥ ६३ ॥
चतुःषष्टी।
यस्या॑स्ते घोर आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय ।
यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निरृ॑तिं त्वा॒ऽहं परि॑वेद वि॒श्वत॑: ।। ६४ ।।
उ० यस्यास्ते यस्याः तव हे घोरे विषमशीले। आसन् आस्ये मुखे जुहोमि हविः एषां बन्धानाम् अवसर्जनाय विमोचनाय । सा त्वमेतान्बन्धानस्मत्तो विसृज । किंच । यां च त्वां जनो लोकः भूमिरिति कृत्वा प्रमन्दते स्तौति तां त्वामहमपि स्तौमि । तथैव प्रतिष्ठा भूतानां जनयित्री मातेव बिभर्तीत्यादिभिर्गुणैः । किंच । निर्ऋतिं त्वाम् अहं परिवेद जानामि विश्वतः सर्वतः । नितरां हि विदित आमन्त्रितो हिनस्तीत्यत एतान् बन्धानवसृज अस्मत्तः ॥ ६४ ॥
म० हे घोरे विषमशीले क्रूररूपे निर्ऋतिदेवि, यस्याः ते तव आसन् आस्ये मुखे अहं जुहोमि आहुतिवदिष्टकामुपदधामि । किमर्थम् । एषां बन्धानां यजमानस्य स्वर्गाप्तिप्रतिबन्धकानां पापानामवसर्जनाय । किंच जनो जन्तुमात्रो यां त्वा त्वां भूमिरिति प्रमन्दते स्तौति शास्त्रानभिज्ञत्वात् । 'मदिङ् स्वपने जाड्ये मदे मोदे स्तुतौ गतौ' इति धातुः । त्वं तु | निर्ऋतिः । अहं तु शास्त्रज्ञतया तादृशीं त्वा त्वां विश्वतः सर्वथापि निर्ऋतिमेव परिवेद सम्यग्जानामि । निर्ऋतिशब्दस्यायमर्थः सर्वदेवसाधारणाद्देवयजनान्निष्कृष्य स्वतन्त्रदेशे विदीर्णादौ ऋतिः प्राप्तिर्यस्याः सा निर्ऋतिरिति । इदं प्रकारद्वयं वेदेति विश्वत इत्युक्तम् ॥ ६४ ॥
पञ्चषष्टी।
यं ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ पाशं॑ ग्री॒वास्व॑विचृ॒त्यम् ।
तं ते॒ वि ष्या॒म्यायु॑षो॒ न मध्या॒दथै॒तं पि॒तुम॑द्धि॒ प्रसू॑तः । नमो॒ भूत्यै॒ येदं च॒कार॑ ।। ६५ ।।
उ० शिक्यरुक्मपाशेण्ड्वासंदीः परेणास्यति । यं ते देवी त्रिष्टुप् । यजमान उच्यते । यं ते देवी निर्ऋतिः आबबन्ध आबद्धवती शिक्यपाशं रुक्मपाशं च । ग्रीवासु कण्ठे । अविचृत्यम् । 'चृती च्छेदने' । अविच्छेद्यम् अनवखण्डनीयम् अनेनैव यजुषा तं पाशं ते तव विष्यामि । स्यतिरुपसृष्टो विमोचने । विमुञ्चामि । आयुषो न मध्यात् । अग्निर्वा आयुस्तस्यैतन्मध्यं यश्चितो गार्हपत्यो भवत्यचित आहवनीयः । नकारः संप्रत्यर्थे । अग्नेर्मध्यात् अथोन्मुक्तपाशः सन् अग्निरूपमवस्थाय यजमान एतं पितुमन्नम् अद्धि भक्षय । प्रसूतोभ्यनुज्ञातो निर्ऋत्या । उदपात्रं निषिच्य अन्तरात्मेष्टकमुपतिष्ठन्ति । नमो भूत्यै । विराडेकपदा भूतिदेवत्या । नमो भूत्यै श्रिये या इदमग्निलक्षणं कर्म चकार कृतवती ॥ ६५॥
म० 'शिक्यरुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति' ( का० १७ । २ । ४ )। शिक्यं रुक्मपाशं इण्ड़्वे आसन्दीं च नैर्ऋतीष्टकातः पश्चात्क्षिपति । यजमानदेवत्या त्रिष्टुप् । यजमानं प्रत्युच्यते । हे यजमान, निर्ऋतिर्देवी ते तव ग्रीवासु कण्ठावयवेषु यं पाशं शिक्यरूपमाबबन्ध आसमन्ताद्बद्धवती । कीदृशं पाशम् । अविचृत्यं 'चृती छेदने' अच्छेद्यं दृढं तं ग्रीवास्थं ते तव पाशमनेन मन्त्रेणाहं विष्यामि विमुञ्चामि । स्यतिरुपस्पृष्टो विमोचनार्थः । कस्मात् स्थानाद्विमुञ्चामि आयुषोऽग्नेर्मध्याद्गार्हपत्यचितिस्थानात् न संप्रति इदानीमेव पाशं दूरीकरोमीत्यर्थः । नकारः संप्रत्यर्थः । 'अग्निर्वा आयुस्तस्यैतन्मध्यं तच्चितो गार्हपत्यो भवत्यचित आहवनीय' (७।२।१।१५) इति श्रुतेरायुःशब्देनात्राग्निरुच्यते । अथ पाशविमोकानन्तरं प्रसूतः निर्ऋत्यानुज्ञातः सन् अग्निरूपमाश्रित्य हे यजमान, एतं पितुमन्नमद्धि भक्षय । 'उदपात्रं निषिच्यान्तरात्मेष्टकमुत्तिष्ठन्ति नमो भूत्या इति' (का. १७ । २ । ४)। शिक्यादिनिरसनानन्तरमात्मनो नैर्ऋतीष्टकानां च मध्ये जलपूर्णं चमसं तूष्णीं निनीय ब्रह्मयजमानाध्वर्यवो नम इति मन्त्रेणोत्तिष्ठन्ति नैर्ऋतीसमीपादिति सूत्रार्थः । भूतिदेवत्यैकपदा विराट् । या देवी इदमग्निलक्षणं कर्म चकार कृतवती तस्यै भूत्यै श्रीरूपिण्यै देव्यै नमो नमस्कारोऽस्तु ॥ ६५ ॥
षट्षष्टी।
नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाऽभि च॑ष्टे॒ शची॑भिः ।
दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ।। ६६ ।।
उ० शालाद्वार्योपस्थानम् । निवेशनः त्रिष्टुप् । पृथिवीलोकसंस्तुतोऽयमग्निर्योयमग्निर्निवेशनः । निविशन्तेऽस्मिन्निति निवेशनः । संगच्छन्तेऽस्मिन्निति संगमनः । केषाम् । वसूनां धनानाम् । यश्चायं विश्वारूपा सर्वाणि रूपाणि आहवनीयदक्षिणाग्न्यतिप्रणीताग्नीध्रधिष्ण्यप्रभृतीनि । अभिचष्टे अभिपश्यति । शचीभिः स्वैः स्वैर्युक्तानि । कथं पश्यति । देव इव सविता सत्यधर्मा अवितथकर्मकारी । यश्च इन्द्रो न इन्द्र इव तस्थौ तस्थिवान् । समरे संग्रामे । पथीनां परिपन्थिभिः सह । तं वयं स्तुम इति वाक्यशेषः ॥ ६६ ॥
म० 'अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति' ( का० १७ । २ । ६)। ब्रह्मयजमानाध्वर्यवो नैर्ऋत्युपधानदेशात् पश्चादपश्यन्तः शालां गच्छन्ति । अध्वर्युरेत्य शालाद्वारि भवं गार्हपत्याचितिरूपमग्निमुपतिष्ठते । विश्वावसुगन्धर्वदृष्टेन्द्रदेवत्या त्रिष्टुप् । अयमग्निः विश्वा विश्वानि रूपा रूपाणि अभिचष्टे पश्यति आहवनीयातिप्रणीताग्नीध्रधिष्ण्यादीनि सर्वाणि रूपाणि सर्वतः पश्यति । कीदृशानि रूपाणि । शचीभिः स्वैः स्वैः कर्मभिर्युक्तानीति शेषः । कीदृशोऽग्निः । निवेशनः निवेशयति यजमानं स्वगृहे स्थापयतीति निवेशनः । तथा वसूनां धनानां संगमनः संगमयति प्रापयतीति संगमनः प्रजापशुरूपधनप्रापकः । सत्यधर्मा सत्योऽवश्यंभाविफलोपेतो धर्मोऽग्निहोत्रादिलक्षणो यस्यासौं सत्यधर्मा । क इव । सविता देव इव । यथा सविता सूर्यो देवः सर्वाणि रूपाणि अभिचष्टे । यश्चाग्निः पश्रीनां । विभक्तिव्यत्ययः । पथिभिः परिपन्थिभिः सह समरे संग्रामे इन्द्रो न इन्द्र इव तस्थौ स्थितवान् यथेन्द्रो युद्धे तिष्ठति तद्वत् तं वयं स्तुम इति शेषः । पथिशब्दस्य परिपन्थिवाचकवाद्भस्य टेरिति ( पा० ७ । १ । ८८ ) टिलोपाभावे छान्दसे दीर्घे पथीनामिति रूपम् ॥ ६६ ॥
सप्तषष्टी।
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ।। ६७ ।।
उ० सीरं युज्यमानमभिमन्त्रयते गायत्रीत्रिष्टुब्भ्याम् । सीरा युञ्जन्ति सीराणि लाङ्गलानि युञ्जन्ति कवयो मेधाविनः । युगा वितन्वते युगानि च वितन्वन्ति । पृथक् नाना । कथंभूताः । कवयः युञ्जन्ति । धीराः धीमन्तः अग्निक्षेत्रविदः । किमर्थं युञ्जन्ति । देवेषु सुम्नया । सुम्नमिति सुखनाम । द्वितीयार्थे तृतीया । देवेषु सुम्नं सुखं कर्तुमिति शेषः । सीरकविशब्दयोर्बहुवचनं पूजार्थम् । युगानि तु बहून्यपि यज्ञे भवन्ति ॥ ६७ ॥
म० 'दक्षिणामग्निश्रोणिमपरेण तिष्ठन् युज्यमानमभिमन्त्रयते सीरा युञ्जन्तीति' (का० १७ । २ । ११)। चितेर्दक्षिणश्रोणेः पश्चिमे तिष्ठन्नध्वर्युः प्रतिप्रस्थात्रोत्तरांसपूर्वे षड्भिर्वा दशभिश्चतुर्विंशत्या वा वृषैर्युज्यमानमौदुम्बरं हलं द्वाभ्यामभिमन्त्रयते । सीरदेवत्ये सोमपुत्रबुधदृष्टे द्वे गायत्रीत्रिष्टुभौ । धीराः धीमन्तोऽग्निक्षेत्रविदः कवयः कृषिकर्माभिज्ञाः सीरा सीराणि हलानि युञ्जन्ति वृषैर्योजयन्ति । युगा युगानि पृथक् नाना वितन्वते विस्तारयन्ति । किं कर्तुम् । देवेषु सुम्नया सुम्नमिति सुखनाम । ततो द्वितीयैकवचनस्य 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति यादेशः । सुम्नं सुखं कर्तुमिति शेषः । देवानां सुम्नं कर्तुं युञ्जन्तीत्यर्थः । चतुर्थ्या यादेशो वा। देवानां सुम्नया युञ्जन्ति । सीरकविपदयोबहुत्वं पूजार्थम् । तयोरेकत्वाद्युगानि बहूनि सन्ति ॥ ६७ ॥
अष्टषष्टी।
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् ।
गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्य॒: प॒क्वमेया॑त् ।। ६८ ।।
उ० युनक्त सीरा सीराणि युनक्त । वियुगा तनुध्वं वितनुध्वम् युगानि सम्यग्योक्तृप्रभृतिभिः । ततः कृते योनौ वाहनादिभिः वपत इह क्षेत्रे बीजं व्रीह्यादि । गिरा च वाचा च या ओषधीरित्यादिकया । चशब्दाच्चमसेन च वपत। तथाच वपत यथा श्रुष्टिः अन्नजातिः व्रीह्यादिका सभराः सह भरसा फलव्रातेन वर्तत इति सभराः । सान्तोयं स्त्रीलिङ्गः शब्दः । आनामितफलेत्यर्थः । असत् भवेत् । नोऽस्माकं यथा नेदीयः अन्तिकतमम् । इच्छब्दोऽनर्थकः । सृण्यः दात्रान् पक्वम् औषधम् आ इयात् आगच्छेत् । एतदुक्तं भवति अतिघनत्वादोषधीनां निकटतमं दात्रं भूमेश्च दात्रपूरं पक्वमोषधमागच्छेत् यथा तथा वपतेति ॥ ६८॥
म० हे कर्षकाः, सीराः सीराणि हलानि युनक्त युङ्क्त योजयत । 'तप्तनप्तनथनाश्च' (पा. ७ । १। ४५) इति थस्य तबादेशे श्नसोरल्लोपाभावे युनक्तेति रूपम् । युगा युगानि वितनुध्वं शम्यायोक्त्रादिभिर्विस्तारयत । ततः कृते कर्षणेन संस्कृते इह अस्मिन्योनौ स्थाने बीजं व्रीह्यादिकं यूयं वपत । कया । गिरा या ओषधीरित्यादिकया (क० ७५) वेदमन्त्रवाचा चकाराच्चमसेन च। किंच ‘वाग्वै गीरन्नᳪं᳭ श्रुष्टिः ' (७।२।२ । ५) इति श्रुतेः श्रुष्टिः अन्नजातिर्व्रीह्यादिका सभरा असत् भरणं भरः पुष्टिः । भृञोऽसुन्प्रत्ययः । भरसा फलपुष्ट्या सह वर्तमाना सभराः पुष्टा अस्तु । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इतीकारलोपेऽडागमेऽसदिति रूपम् । पक्वं धान्यं नेदीय इत् अतिशयेनान्तिकं नेदीयः 'अन्तिकबाढयोर्नेदसाधौ' (पा० ५। ३ । ६३ ) इत्यन्तिकस्येयसुनि प्रत्यये नेदादेशः । इत् एवार्थे । नेदीय इत् अन्तिकतममेवात्यल्पकालमेव पक्वं धान्यं सृण्यः । सृणिशब्दोऽत्र दात्रार्थः । सृण्या लवनसाधनेन दात्रेण लूनमिति शेषः । दात्रेण छिन्नं सत् नः अस्मान्प्रति आ इयात् आगच्छतु अल्पकालेन पक्वमस्मद्गृहमागच्छत्वित्यर्थः ॥ ६८ ॥
एकोनसप्ततितमी।
शु॒नᳪं᳭ सुफाला॒ वि कृ॑षन्तु॒ भूमि॑ᳪं᳭ शु॒नं की॒नाशा॑ अ॒भिय॑न्तु वा॒हैः ।
शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तना॒स्मै ।। ६९ ।।
उ० चतस्रः सीताः कृषति चतसृभिर्ऋग्भिः । तत्र द्वे त्रिष्टुभौ तृतीया पङ्क्तिः चतुर्थ्यनुष्टुप् । शुनं सुफालाः । शुनमिति सुखनाम । सुखेन शोभनफालाः लाङ्गलाग्रस्थिताः विकृषन्तु विविधं कृषन्तु विलिखन्तु भूमिम् । सुखेन च कीनाशाः हलिनः अभिगच्छन्तु वाहैः अनडुद्भिः सहिताः। अथैवं कृष्टे सति शुनासीरा । शुनो वायुः । शु इत्यव्यक्तानुकरणम् । 'शु एत्यन्तरिक्षे सीर आदित्यः सरणात्। वाय्वादित्यौ हविषा उदकेन । तोशतिर्वधकर्मा । निघ्नन्तौ भूमिम् सुपिप्पलाः । पिप्पलमिह फलमुच्यते । ओषधीः कर्तन कुरुतम् । द्वयोर्बहुवचनं छान्दसम् । अस्मे अस्माकम् ॥६९॥
म०. 'आत्मनि कृषत्यनुपरिश्रिच्छुनᳪं᳭ सुफाला इति प्रत्यृचम्' ( का० १७ । २ । १२) । चितिस्थाने परिश्रित्समीपे चतुर्ऋग्भिर्दक्षिणपश्चिमोत्तरपूर्वेषु चतस्रः सीताः कृषति । कुमारहारितदृष्टाः सीतादेवत्याश्चतस्रः । द्वे त्रिष्टुभौ तृतीया पङ्क्तिः चतुर्थ्यनुष्टुप् । सु शोभनाः फालाः सीराग्रस्था लोहविशेषाः शुनं सुखं यथा तथा भूमिं विकृषन्तु विलिखन्तु । शुनमिति सुखनाम । 'फालः सीरोपकरणोत्प्लवयोः फालमंशुके' इति कोशः । कीनाशा हलिनः शुनं सुखेन वाहैः वृषभैः सह अभियन्तु अभिगच्छन्तु । हे शुनासीरा शुनासीरौ हे वाय्वादित्यौ, अस्मे अस्माकमोषधीः व्रीह्यादिकाः सुपिप्पलाः शोभनफलाः युवां कर्तन कुरुत । कुरुतमिति वचनव्यत्ययः । थस्य तनबादेशे शपि लुप्ते गुणे कृते कर्तनेति रूपम् । 'कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः' इति कोशः । शुनश्च | सीरश्च शुनासीरौ 'देवताद्वन्द्वे च' (पा० ६ । ३ । २६) इति पूर्वपददीर्घः । शुनो वायुः सीर आदित्यः । 'शुनो वायुः शु इत्यन्तरिक्षे सीर आदित्यः सरणात्' (निरु० ९।४०) इति यास्कोक्तेः । कीदृशौ शुनासीरौ । हविषा जलेन तोशमाना। तोशतिर्वधकर्मा । भूमिं घ्नन्तौ जलेन भूमिं सिञ्चन्तौ सन्तावोषधीः सफलाः कुरुतमिति भावः । पिप्पलं फलम् ॥ ६९॥
सप्ततितमी।
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भि॑: ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒ऽभ्याव॑वृत्स्व ।। ७० ।।
उ० घृतेन सीता । सीता समज्यताम् अनुमता इति परोक्षाभिधायीनि त्रीणि पदानि । सीते अभ्याववृत्स्वेति प्रत्यक्षाभिधायिनी द्वे पदे एकस्मिन्मन्त्रवाक्ये । तत्र 'विरोधिसमवाये तु भूयसां स्याद्धर्मित्वम्' इति न्यायात् । 'प्रथमं वा नियम्येत कारणाव्यतिक्रमः स्यात्' इति च न्यायात्। तस्मादुपक्रमप्रभृति व्याख्यायते । घृतेनोदकेन मधुना मधूदकेन समज्यतां संसिच्यताम् । विश्वैः सर्वैर्देवैः अनुमता अभ्यनुज्ञाता मरुद्भिश्च । मरुतो ह वै वर्षास्वीशते । एवमक्षारोदकेन सिक्ता अभ्यनुज्ञाता च मरुदादिभिः । ऊर्जस्वती अन्नवती । पयसा पयोदधिघृतादिभिः पिन्वमाना पूरयन्ती सर्वा दिशः। अस्मान्सीते । सीता इति विभक्तिव्यत्ययः परोक्षत्वात् । अस्मान्प्रति सीता अभ्याववृत्स्व स्वयमभ्यावर्ततामिति पुरुषव्यत्ययः ॥ ७० ॥
म० सीता लाङ्गलपद्धतिर्मधुना मधुरेण घृतेनोदकेन समज्यतां संसिच्यतां सिक्ता भवतु । कीदृशी सीता । विश्वैर्देवैर्मरुद्भिश्चानुमता अनुज्ञाता अङ्गीकृता वा । एवं परोक्षमुक्त्वा प्रत्यक्षमाह हे सीते, ऊर्जस्वती अन्नवती सा त्वं पयसा पयोदधिघृतादिभिः पिन्वमाना दिशः पूरयन्ती सती पयसा दुग्धादिभिः सह अभ्याववृत्स्व अस्मदभिमुखमावृत्ता भव । अस्माकमनुकूला भवेत्यर्थः । वृतेः 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति शपः श्नौ सति लोटि ववृत्स्वेति रूपम् ॥ ७० ॥
एकसप्ततितमी।
लाङ्ग॑लं॒ पवी॑रवत्सु॒शेव॑ᳪं᳭ सोम॒पित्स॑रु । तदुद्व॑पति॒ गामविं॑ प्रफ॒र्व्यं॒ च॒ पीव॑रीं प्र॒स्थाव॑द्रथ॒वाह॑णम् ।। ७१ ।।
उ० लाङ्गलं पवीरवत् । पविर्धारोच्यते सोऽस्यास्तीति पवीरं फालः रो मत्वर्थे । तदस्य लाङ्गलस्यास्तीति पवीरवल्लाङ्गलं फालसंयुक्तमित्यर्थः । श्रुतिस्तु लक्षणया व्याचष्टे लाङ्गलं रयिमदिति । सुशेवं शेवमिति सुखनाम । शोभनं सुखकरम् । सोमपित्सरु सोमं पिबतीति सोमपाः यजमानः तस्मिन् सोमपि यजमाने त्सरणशीलः त्सरुरुच्यते। भूमेः खननशीलम् । यद्वा त्सरुर्वृतं सोमपि यजमाने पापं त्सरयति नाशयतीति सोमपित्सरु । यद्वा । सोमः पीयते येन चमसेन स सोमपिः तस्य सोमपेः त्सरु वृतं लाङ्गलम् । नहि लाङ्गलस्य कर्मान्तरेण सोमचमसाः स्युः । यदित्थंभूतं लाङ्गलं तदुद्वपति उद्गमयति । गाम् अविं प्रफर्व्यं च पीवरीम् । फर्वतिर्गतिकर्मा । प्रकर्षेण फर्व्या गम्या प्रफर्वी प्रथमयुवतिः पीवरी उच्छूनस्तनकपोलानामुद्वपति प्रस्थानाद्रथवाहणम् । प्रस्थानसंयुक्तमुत्कृष्टजवोपेतं च रथवाहनमश्वम् उद्वपतीत्यनुषज्यते ॥ ७१ ॥
म० तत् पूर्वोक्तं लाङ्गलं हलं गां धेनुमविं छागविशेषं रथवाहनं रथवाहकमश्वादिकं च उद्वपति उद्गमयति प्रापयति । रथं वाहयति प्रापयतीति रथवाहनम् । कृषिसमृद्धावेव गवादिकं यजमानस्य सुलभमिति भावः । अतएव लाङ्गलं गवादिप्रापकम् । कीदृशं लाङ्गलम् । पवीरवत् । पविर्धारास्यास्तीति पवीरं फालः । रो मत्वर्थः। पवीरमस्यास्तीति पवीरवत् फालसंयुक्तम् । तथा सुशेवम् । शेवमिति सुखनाम शोभनसुखकरं शोभनं शेवं यस्मात् । तथा सोमपित्सरु सोमं पिबतीति सोमपाः यजमानः तस्मिन् सोमपि यजमाननिमित्तं त्सरति भूमिं खनतीति सोमपित्सरु । यद्वा सोमपि यजमाने त्सरति नाशयति पापमिति सोमपित्सरु । 'त्सर छद्मगतौ' इति धातोरुप्रत्ययः शीलार्थः । ‘हलदन्तात्सप्तम्या' (पा० ६ । ३ । ९) इति विभक्तेरलुक् 'आतो धातोः' (पा० ६ । ४ । १४०) इति आलोपे हलन्तत्वात् । यद्वा सोमः पीयतेऽनेनेति सोमपिश्चमसः तस्य त्सरु निष्पादकम् । नहि लाङ्गलकर्मविना सोमचमसाः स्युः । ईदृशं लाङ्गलं गवादि गमयतीत्यर्थः । कीदृशीं | गामविं च । प्रफर्व्यं फर्वतिर्गतिकर्मा । प्रकर्षेण फर्वति गच्छति प्रफर्वी तां प्रफर्व्य 'वा छन्दसि' (पा० ६ । १ । १०६) | इत्यमि पूर्वरूपभावे यणादेशः । युवतित्वादतिवेगवतीमित्यर्थः । तथा पीवरीं स्थूलां पुष्टाङ्गीम् । कीदृशं रथवाहनम् । प्रस्थावत् | प्रस्था प्रस्थानं गतिरस्यास्तीति प्रस्थावत्प्रयाणसमर्थमुत्कृष्टजवोपेतमित्यर्थः ॥ ७१ ॥
द्विसप्ततितमी।
कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒श्विभ्यां॑ पू॒ष्णे प्र॒जाभ्य॒ ओष॑धीभ्यः ।। ७२ ।।
उ० कामं कामदुघे । सीतोच्यते । हे कामदुघे कामानां प्रपूरणि, कामं धुक्ष्व पूरय । केषामित्यत आह । मित्राय वरुणाय च । इन्द्राय अश्विभ्याम् । पूष्णे प्रजाभ्यः ओषधीभ्यः । चकारः समुच्चयार्थः सर्वत्रानुषज्यते ॥ ७२ ॥
म० कामान्मनोरथान्दुग्धे पूरयति कामदुघा । 'दुहः कब् घश्च' (पा० ३ । २ । ७० ) इति कप्प्रत्ययो घान्तादेशश्च तस्याः संबुद्धौ हे कामदुघे लाङ्गलपद्धते, मित्रादिपूषान्तदेवानामर्थे प्रजार्थमोषधिनिष्पत्त्यर्थं च काममपेक्षितं भोगं धुक्ष्व संपादय ॥ ७२ ॥
त्रिसप्ततितमी।
विमु॑च्यध्वमघ्न्या देवयाना॒ अग॑न्म॒ तम॑सस्पा॒रम॒स्य ज्योति॑रापाम ।। ७३ ।।
उ० अनडुहो विमुञ्चति । विमुच्यध्वम् । गायत्री । एवं जगतः स्थितिनिमित्तभूतां कृषिमभिनिर्वर्त्य कृतकृत्याः सन्तो विमुच्यध्वं युगात् । हे अघ्न्याः अहन्तव्याः । देवयानाः देवकर्मकारिणः । यद्वा देवयानमार्गनिमित्तभूता अगन्म गतवन्तः अशनायोद्भवा तमसः पारमस्य । तदुक्तम् 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति। तदेव स्पष्टयति । ज्योतिः आपाम प्राप्तवन्तः । परमात्मलक्षणं यज्ञलक्षणं वा देवलक्षणं वा ॥ ७३ ॥
म० 'अनडुहो विमुच्य विमुच्यध्वमिति पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति' (का० १७ । २ । २०-२१)। वृषान्हलाद्वियोज्य पशुवदित्यैशानीं दिशं प्रति विसृजत्यध्वर्युः यजमानश्च सुत्यायां ससीरांस्तानध्वर्यवे ददातीति सूत्रार्थः । विमोचने मन्त्रः वृषदेवत्यार्षी गायत्री पादानियमात् । हे देवयानाः, देवतार्थकर्मकारिणः, देवार्थं यानं कृष्याद्युद्यमो येषां ते । यद्वा देवयानमार्गहेतुभूताः कर्मद्वारा तत्प्रापकाः । हे अघ्न्या अहन्तव्या गावो बलीवर्दाः, यूयं विमुच्यध्वम् । मुचेः कर्मकर्तरि यक् लोटि । जगत्स्थितिहेतुं कृषिमेवं निष्पाद्य कृतकृत्याः सन्तो युगात्पृथग्भवतेत्यर्थः । अस्य तमसः क्षुत्पिपासाद्युद्भूतस्य दुःखस्य पारं समाप्तिं वयमगन्म प्राप्ताः । गच्छतेर्लङि शपि लुप्ते रूपम् । तदुक्तं 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतीति' (बृह. ३ । २ । १।) । दुःखपारमेव स्पष्टयति । वयं ज्योतिरापाम परमात्मलक्षणं यज्ञरूपं वा तेजः प्राप्ताः । आप्नोतेर्लुङि 'पुषादि-' (पा० ३ । १ । ५५) इत्यादिना अङ्प्रत्ययः ॥ ७३ ॥
चतुःसप्ततितमी ।
स॒जूरब्दो॒ अय॑वोभिः स॒जूरु॒षा अरु॑णीभिः स॒जोष॑साव॒श्विना॒ दᳪं᳭सो॑भिः स॒जूः सूर॒ एत॑शेन स॒जूर्वै॑श्वान॒र इड॑या घृ॒तेन॒ स्वाहा॑ ।। ७४ ।।
उ० कुशस्तम्बे जुहोति । सजूरब्दः यजुरेतत् । समानजोषणः । अब्दः संवत्सरः । स हि अपो ददाति । अयवोभिः यवाश्च अयवाश्च अर्धमासा मासाश्चोच्यन्ते । सजूः उषा अरुणीभिः । अरुणवर्णाभिर्गोभिः किरणैः । सजोषसौ अश्विना अश्विनौ । दंसोभिः कर्मभिः सजूः सूरः एतशेन अश्वेन । सजूर्वैश्वानर इडया । आग्नेयी पृथिवी इडा पृथिवीस्थाना या स्त्री तस्या अत्र ग्रहणं युक्तम् । गौर्वागन्नं च इडाशब्देनोच्यते । घृतेन हविषा स्वाहा सुहुतमस्तु ॥ ७४ ॥
म० ‘पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजूरब्द इति' (का० १७। ३ । ३)। तदानीं संस्कृतेन जुह्वा पञ्चगृहीतेनाज्येन कृष्टात्ममध्यस्थापितकुशस्तम्बे स्रुचमूर्ध्वां कुर्वञ्जुहोति लिङ्गोक्तदेवतं यजुर्ब्राह्म्यनुष्टुप्छन्दस्कम् । अब्दः अपो जलानि ददातीत्यब्दः संवत्सरः उषाः प्रातरधिष्ठात्री देवता अश्विना अश्विनौ देवभिषजौ सूरः सूर्यः वैश्वानरः अग्निश्च एभ्योऽब्दादिदेवेभ्यो घृतेन स्वाहा इदं घृतं तेभ्यः सुहुतमस्तु । तेषां प्रत्येकं विशेषणानि । कीदृशोऽब्दः । अयवोभिः सजू: यवाश्चायवाश्चार्धमासा मासाश्चोच्यन्ते जोषणं जुट् प्रीतिः सह जुषा वर्तते समाना जुट् वा यस्य सजूः । जुषतेः संपदादित्वाद्भावे क्विप्। मासार्धमासैः प्रीतियुक्त इत्यर्थः । कीदृश्युषाः । अरुणीभिः अरुणवर्णाभिः गोभिः सजूः प्रीतियुता । कीदृशावश्विनौ । दंसोभिः कर्मभिश्चिकित्सादिभिः सजोषसौ प्रीतौ । कीदृशः सूरः । एतशेनाश्वेन सजूः तुष्टः । कीदृशोऽग्निः । इडया पृथिव्या सजूः प्रीतः तदधिष्ठातृत्वात् । आग्नेयी हि पृथिवी इडाशब्देन गौर्वागन्नं चोच्यते ॥ ७४ ॥
पञ्चसप्ततितमी।
या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हᳪं᳭ श॒तं धामा॑नि स॒प्त च॑ ।। ७५ ।।
उ० क्षेत्रे सर्वोषधं वपति । सप्तविंशतिरनुष्टुभः । ओषधीस्तुतिः पञ्चदश तु वपने नियुक्ताः । या ओषधीः । या ओषधयः । पूर्वा जाताः प्रथमजाताः । अन्याभ्य ओषधीभ्यः भविष्यत्कालसंबन्धिनीभ्यः देवेभ्यः ऋतुभ्यः । 'ऋतवो वै देवाः' इति श्रुतिः । ऋतुभ्योऽर्थाय । ऋतव ओषधिसंबद्धाः कर्तव्या इति । त्रियुगं पुरा त्रीणि युगानि समाहृतानि त्रियुगं त्रिकालमित्यर्थः । वसन्ते प्रावृषि शरदि पुरा पूर्वेषु वसन्तादिषु । पूर्वस्मिन्हि संवत्सरे ओषधयः अग्निक्षेत्रे उप्यन्ते । किंनिमित्तमित्यत आह । मनै नु मन्ये जानामि । तासां बभ्रूणां बभ्रुवर्णानाम् । बभ्रू रासभः । अहं शतं धामानि । धामशब्दः स्थानपर्यायः । संवत्सरोपलक्षितमेकैकं स्थानं यदिदं शतायुः शतार्थः शतवीर्यः पुरुषः एतानि शतं धामानि सप्तच 'य एवेमे शीर्षन् प्राणास्तानेतदाह' इति ॥ ७५ ॥
म० 'या ओषधीरिति तृचैर्वपत्युदपात्रवत्' (का० १७ । ३ । ८)। पञ्चभिस्तृचैश्चमसेन सर्वौषधं वपति उदपात्रवदिति चतुश्चतुःसीतासु यथाकृष्टम् । अथर्वपुत्रभिषग्दृष्टा ओषधिदेवत्या यो अस्मानभिदासतीत्यन्ताः (१०१) सप्तविंशतिरनुष्टुभः मुञ्चन्तु मेत्याद्या ( ९० ) द्वादश बन्धुदृष्टाः कुत्रापि कर्मण्यनियुक्ताः । पादानां न्यूनाधिक्ये व्यूहाधिक्ये कार्ये । युगशब्दः कालवाची । त्रयाणां युगानां समाहारस्त्रियुगं त्रिकालं वसन्ते प्रावृषि शरदि च । पुरा सृष्ट्यादौ या ओषधीः ओषधयः पूर्वाः प्रथमा भाविनीभ्यः ओषधीभ्यः आद्याः जाता उत्पन्नाः । किमर्थं । देवेभ्यः ऋतुभ्यः। 'ऋतवो वै देवाः' (७ । २ । ४ । २६) इति श्रुतेः। ऋतव ओषधियुताः कर्तव्या एतदर्थम् । बभ्रूणां जगज्जनभरणसमर्थानां पाकेन पिङ्गलवर्णानां वा तासामोषधीनां शतं सप्त च धामानि अहं मनै नु मन्य एव जाने । मन्यतेर्लिटि आत्मनेपदे उत्तमैकवचने शपि ‘एत ऐ' (पा० ३ । ४ । ९३) इति रूपम् । संवत्सरोपलक्षितमेकैकं स्थानं 'शतायुर्वै पुरुषः' इति श्रुतेः शतं धामानि वर्षात्मकानि शिरःस्थानि मुखदृङ्नासाख्यानि सप्त स्थानानि च 'य एवेमे सप्त शीर्षन् प्राणास्तानेतदाह' (७ । २ । ४ । २६) इति श्रुतेः । नराणां शतवर्षपर्यन्तमिन्द्रियाणामोषधिभिस्तर्प्यमाणत्वादोषधीनां तत्स्थानत्वम् । यद्वा शतं धामानि स्थानभेदान् जातिभेदानसंख्यान् विशेषतश्च सप्त भेदान्याम्यानारण्यांश्च व्रीह्यादीन्नीवारादींश्चाहं जाने ॥ ७५ ॥
षट्सप्ततितमी।
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ।। ७६ ।।
उ० शतं वः हे ओषधयः अश्वमातरः, शतं वः युष्माकं धामानि जन्मानि । सहस्रमुत वो रुहः अपिच सहस्रं युष्माकं विरोहणानि सन्ति । अधा शतक्रत्वः । अथैवं सति हे शतक्रत्वः बहुकर्माणः, यूयं प्रजापतिं इमं वा यजमानं मे मम संबन्धिनम् अगदम् गदो व्याधिः अव्याधिं कृत कुरुत ॥ ७६ ॥
म० हे अम्ब, मातृस्थाना ओषधयः वो युष्माकं धामानि जातिभेदाः क्षेत्राणि वा जन्मानि वा शतं सन्ति । उत अपिच वो युष्माकं रुहः रोहन्तीति रुहः प्ररोहा अङ्कुराः सहस्रं सन्ति । शतसहस्रपदाभ्यामपरिमितत्वमुच्यते । अध अथ 'निपातस्य च' (पा० ६।३ । १३६) इति संहितायां दीर्घः। शतं क्रत्वः कर्माणि याभिस्ताः शतक्रतवः 'जसि च' (पा० ७ । ३ । १०९) प्राप्तगुणस्याभावे छान्दसो यणादेशः । अथैवं सति हे शतक्रत्व, यूयं मे मम इमं यजमानमगदं क्षुत्पिपासादिषडूर्मिरोगरहितं कृत कुरुत । करोतेः शपो लुक् ॥ ७६ ॥
सप्तसप्ततितमी।
ओष॑धी॒: प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुध॑: पारयि॒ष्णव॑: ।। ७७ ।।
उ० ओषधीः प्रति । हे ओषधयः, प्रतिमोदध्वं हृष्यत । पुष्पवतीः प्रसूवरीः पुप्पवत्यः प्रसववत्यश्च सत्यः ततोऽनन्तरं अश्वा इव संग्राम्याः सजित्वरीः सह जयनशीला भूत्वा वीरुधः विविधं व्याधिं रुन्धन्तीति वीरुधः । पारयिष्णवः पारणशीलाश्च भवत अस्माकमिति शेषः ॥७७॥
म० हे ओषधीः हे ओषधयः, यूयं प्रतिमोदध्वं हृष्टा भवत । कीदृश्यो यूयम् । पुष्पवतीः पुष्पैरुपेताः । प्रसूवरीः फलप्रसववत्यः प्रसुवते जनयन्ति फलानीति प्रसूवरीः 'अन्येभ्योऽपि दृश्यन्ते' (पा. ३ । २ । ७५) इति सूतेर्वनिपि प्रत्यये 'वनो र च' (पा० ४ । १ । ७) इति ङीप् रान्तादेशश्च । अश्वा इव सजित्वरीः सह जयन्ति तच्छीलाः 'इण्नशजि-' (पा० ३ । २ । १६३ ) इति क्वरप् ‘टिड्ढाणञ्-' (पा० ४ । १ । १५) इति ङीप् । यथाश्वाः संग्रामे जयशीलाः तद्वत्फलपर्यन्तत्वाज्जयशीलाः । 'वा छन्दसि' (पा. ६ । १ । १०६) इति सर्वत्र पूर्वसवर्णदीर्घः । वीरुधः विविधं रुन्धन्ति निवारयन्ति व्याधिमिति वीरुधः 'नहिवृतिवृधि-' (पा० ६।३ । ११६) इत्यादिना उपसर्गदीर्घः । यद्वा विविधं रोहन्ति प्ररोहन्तीति वीरुधः । विरुहः क्वौ धान्तादेशो । वेर्दीर्घः इति धान्तादेश उपसर्गदीर्घश्च । पारयिष्णवः ‘पारतीर कर्मसमाप्तौ' चुरादिरदन्तो धातुः । पारयन्ति फलपाकान्तत्वं परित्यज्य बहुकालं कर्मपरायणशीलाः पारयिष्णवः 'णेश्छन्दसि' (पा० ३ । २ । १३७) इतीष्णुच्प्रत्ययः ॥७७ ॥
अष्टसप्ततितमी ।
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ।। ७८ ।।
उ० ओषधीरिति । हे ओषधयः, या यूयम् इति इत्थमशनदानव्याध्यपगमादिकुर्वन्त्यो मातरः जगन्निर्मात्र्य ततो देवीः वः युष्मान् हे देव्यः, उपब्रुवे उपसङ्गम्य ब्रुवे ब्रवीमि प्रार्थयामि । सनेयं संभजेयम् अश्वं गां वासः आत्मानं च सनेयं तव यज्ञपुरुष प्रजापतिरूपिणम् ॥ ७८॥
म० हे ओषधीः ओषधयः, हे मातरः जगन्निर्मात्र्यः, भोजनदानव्याध्यपगमादिभिरुपकर्त्र्यः हे देवीः देव्यः, वो युष्मान् प्रति इति अमुना वक्ष्यमाणविधिना तत् प्रसिद्धं मदभीष्टमुपब्रुवे वच्मि प्रार्थयामि । इति किम् तदाह । हे पुरुष यज्ञपुरुष, तव प्रसादादश्वं हयं गां धेनुं वासो वस्त्रमात्मानं शरीरमहं सनेयं संभजेयम् । 'वन षण संभक्तौ' लिङ् । यज्ञपुरुषं प्रति मया यदश्वादिकं प्रार्थ्यते तदोषधिभिरनुमन्तव्यमित्योषधिप्रार्थनमिति भावः ॥ ७८ ॥
एकोनाशीतितमी ।।
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ।। ७९ ।।
उ० अश्वत्थे वः । चतुर्थः पादोऽत्र प्रथमं व्याख्यायते । यत्सनवथ पूरुषम् । यदा यूयं सनवथ संसेवध्वम् पूरुषं यजमानम् । अथ अश्वत्थे वः युष्माकं निषदनमवस्थानम् । पर्णे वः पलाशपर्णमय्यां जुह्वाम् वः युष्माकं वसतिः स्थितिः होमार्थमध्वर्युणा कृता । अश्वत्थपर्णयोस्तद्धितलोपश्छान्दसः । अथापि तद्धितेन कृत्स्नवन्निगमा भवन्तीति । गोभाज इत्किलासथ । इच्छब्दः पादपूरणः । किलेति विद्याप्रकर्षे । ततोग्नौ हुताः सत्यः । गोभाजः गोशब्देनादित्योऽभिधीयते । आदित्यभाजः यूयं किल भवथ । तदुक्तम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति । यद्वा अश्वत्थे फलिते सर्वा ओषधयः फलवत्यो भवन्ति ।पर्णे फलिते कोद्रवादयः फलिता भवन्ति । गोभाजः पृथिवीभाजश्च उप्ताः सत्यः किल भवथ । तदुक्तम् । यदा पूरुषः संसेवध्वं भाजनादिभिरुपकारैः एवं दुरवधार्यं गतयो यूयमित्यभिप्रायः ॥ ७९ ॥
म० हे ओषधयः, वो युष्माकमश्वत्थे आश्वथ्यामुपभृति स्रुचि निषदनं स्थानं भवति हविषां तत्र स्थापनात् । किंच वो युष्माकं पर्णे पलाशे पर्णमय्यां जुह्वां वसतिः स्थितिः कृता । । अध्वर्युणा होमार्थ जुह्वां स्थापनात् अश्वत्थपर्णशब्दाभ्यां तद्वितप्रत्ययलोपश्छान्दसः । “अथापि तद्धितेन कृत्स्नवन्निगमो भवन्ति' (नि० २।५) इति यास्कोक्तेः । हविर्भूता ओषधयः प्रार्थ्यन्ते । किलेति विद्याप्रकर्षे । इत् एवार्थे । हे हविर्भूता ओषधयः, यूयमग्नौ हुताः सत्यो गोभाजः असथ भवथ । गामादित्यं भजन्तीति गोभाजः । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते' इति श्रुतेः । यद्वा अश्वत्थे वो निषदनमश्वत्थे फलिते सर्वौषधीनां फलवत्त्वात् पर्णे वो वसतिः कृता पलाशे च फलिते व्रीह्यादीनां फलितत्वात् । अतएव यूयमुप्ताः सत्यो गोभाजो भूमिभाज एव किलासथ भवथ । 'गौर्नादित्ये बलीवर्दे मखभेदर्षिभेदयोः । स्त्रियां स्याद्दिशि भारत्यां भूमौ च सुरभावपि' इति कोशात् । किमर्थमिदमित्यत आह । यत् यस्मात्कारणात् पुरुषं यजमानं यूयं सनवथ सेवध्वमन्नदानेन पोषयथ तस्मादश्वत्थादिस्थानमित्यर्थः । अश्वत्थे पलाशे च वः स्थानम् । देवाधिष्ठानादश्वत्थो लोके नतिप्रदक्षिणादिना पूज्यते पलाशश्चेध्मादिरूपेण । एवमश्वत्थादिरूपेण यूयं भूभाजः स्थ । शेषं पूर्ववत् । अस्तेः शपि असथेति रूपं लटि । सनवतिः परिचर्यार्थः ॥ ७९ ॥
अशीतितमी।
यत्रौ॑षधीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ।। ८० ।।
उ० यत्रौषधीः । यत्र यस्मिन्पुरुषे भैषज्यकर्तरि हे ओषधयः, यूयं समग्मत समागच्छत व्याधिं जेतुम् । कथमिव । राजानः समिताविव यथा राजानः समितौ संग्रामे शत्रुं जेतुं समागच्छन्ति । किं तत्रेत्यत आह । विप्रः ब्राह्मणः स उच्यते भिषक् वैद्यः । रक्षोहा च अमीवचातनश्च । अमीवा व्याधिः। चातयतिर्नाशने। व्याधिनाशनः ८०.
म०. हे ओषधीः ओषधयः, यत्र विप्रे भैषज्यकर्तरि ब्राह्मणे यूयं समग्मत संगच्छत रोगं जेतुम् । के इव राजान इव । यथा राजानः समितौ युद्धे शत्रून् जेतुं समागच्छन्ति । गमेर्लुङि मध्यमबहुवचने 'पुषादि-' (पा० ३ । १।५५) इत्यङि 'गमहन-' (पा० ६ । ४ । ९८) इत्युपधालोपे छान्दसेऽग्मतेति रूपम् । स भवदाश्रितो विप्रः भिषग्वैद्य उच्यते कथ्यते । कीदृशो विप्रः । रक्षोहा रक्षांसि हन्तीति रक्षोघ्नं पुरोडाशं कृत्वा रक्षसां हन्ता रक्षःकृतोपद्रवनाशकः । तथा अमीवचातनः अमीवान् रोगान् चातयति नाशयतीति अमीवचातनः ओषधदानै रोगनाशकः । चातयतिर्नाशनार्थः धातूनामनेकार्थत्वात् ॥ ८० ॥
एकाशीतितमी।
अ॒श्वा॒व॒तीᳪं᳭ सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आऽवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ।। ८१ ।।
उ० अश्वावतीम् । सर्वा ओषधीरिति बहुवचनोपदेशादिहापि बहुवचनं भवति । या ओषधयश्च अश्ववत्यः अश्वसंपादिन्यः सोमवत्यः सोमयागसंपादिन्यः उर्जयन्त्यः 'उर्ज बलप्राणनयोः' बलसंपादिन्यः । उदोजसः उद्गतमोजो यासां उदोजसः । ताः सर्वा ओषधीः अहम् आ अवित्ति जानामि । विदित्वा च अस्मै अरिष्टतातये । रिषतिर्विनाशार्थः । न रिष्टमरिष्टमविनाशः तस्य तननमरिष्टतातिः अस्मै अरिष्टविनाशतननाय भैषज्यं करोमीति शेषः॥८१॥
म० अस्मै अस्य यजमानस्य अरिष्टतातये । रिषतिर्विनाशार्थः । रेषणं रिष्टम् भावे क्तः । न रिष्टमरिष्टमनाशो मङ्गलमित्यर्थः । तस्य कारणमरिष्टतातिः । 'शिवशमरिष्टस्य करे' (पा. ४ । ४ । १४३ । ) इति तातिप्रत्ययः । यद्वा तननं तातिर्विस्तारः तस्मै यजमानस्य शुभकरणाय सर्वा ओषधीरहमा अवित्सि समन्ताद्वेद्मि जानामि । वेत्तेर्लुङि आत्मनेपदे उत्तमैकवचने इडभावे अवित्सीति रूपम् । अस्मै यजमानार्थं वेद्मीति वा । तद्विशेषणम् । अरिष्टं शुभं करोति तनोति वारिष्टतातिस्तस्मै । सर्वाः का इत्यत आह । अश्वावतीमश्वा अस्यां सन्तीत्यश्ववती ताम् अश्वसंपादिनीं कांचित् ओषधिसमृद्धौ सत्यां धनद्वारेणाश्वलाभात् । अन्यां सोमवतीं सोमयागोऽस्यामस्तीति सोमवती तां सोमसंपादिनीं 'मन्त्रे सोमाश्व-' (पा. ६ । ३ । १३१) इत्यादिनाश्वसोमयोर्दीर्घः । ऊर्जयन्तीम् 'ऊर्ज बलप्राणनयोः' बलसंपादिनीं जीवयन्तीं वा ऊर्जयन्तीति । उदोजसमुद्गतमोजो यस्याः सा उदोजास्तां तेजःसंपादिनीम् । एवं नानाकार्यकारिणीः सर्वा ओषधीः जानामीत्यर्थः । यद्वा अश्वावतीमित्यादीनि बहुवचनान्तानि कार्याणि ओषधीरित्यस्य विशेषणत्वात् ॥ ८१॥
द्व्यशीतितमी ।
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धन॑ᳪं᳭ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ।। ८२ ।।
उ० उच्छुष्माः। उच्छब्द ईरत इत्यनेन संबध्यते । उदीरते उद्गच्छन्ति प्रकाशीभवन्ति । शुष्माः वीर्याणि ओषधीनां संबन्धीनि । कथमिव । गावः गोष्ठादिव निष्क्रान्ताः । कि कुर्वतीनाम् । धनं सनिष्यन्तीनां संभजमानानां यजमानार्थं आत्मानं च संभजमानानाम् तव यज्ञ पूरुष ॥ ८२ ॥
म० हे पुरुष यज्ञपुरुष, तवात्मानं त्वदीयं शरीरं प्रति धनं सनिष्यन्तीनाम् 'षणु दाने' हवीरूपं धनं दातुमिच्छन्तीनामोषधीनां शुष्मा बलानि सामर्थ्यानि उदीरते उद्गच्छन्ति प्रकाशीभवन्ति । गावो गोष्ठादिव यथा गोष्ठात् स्वस्थानाद् गावोऽरण्यदेशं प्रति उद्गच्छन्ति तद्वत् । 'ईर कम्पे अदादिः ॥८२॥
त्र्यशीतितमी।
इ॒ष्कृ॑ति॒र्नाम॑ वो मा॒ताऽथो॑ यू॒यᳪं᳭ स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑: स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ।। ८३ ।।
उ० इष्कृतिर्नाम । उपसर्गैकदेशलोपश्छान्दसः । निष्क्रमणं विनाशनं व्याध्यादेः करोतीति निष्कृतिः । निष्कृतिस्तावद्युष्मदीयाया मातुर्नाम व्युत्पत्त्यभिप्रायम् । अथो अपिच यूयं स्थ भवथ निष्कृतीः व्याधिनिष्क्रमणाः । किंच सीराः सह इरया अन्नेन वर्तन्त इति सीराः पतत्रिणीः पतनशीलाः स्थन भवथ। 'कुरुतनेत्यनर्थका उपजना भवन्ति' इति नकार उपजनः । कस्मिन्काले यूयमित्थंभूता भवथेत्यत आह । यदामयति निष्कृथ । 'अम रोगे' यदा आमयाविनि स्थितं तस्य व्याधिं निष्कृथ निर्नाशयत ॥ ८३ ॥
म० हे ओषधयः, वो युष्माकमिष्कृतिर्नाम निष्कृतिनाम्नी माता जननी । निष्करोति व्याधिं नाशयतीति निष्कृतिः । 'निशब्दो बहुलम्' ( ३ । १ । १७) इति प्रातिशाख्यसूत्रेणोपसर्गैकदेशनकारलोपः । अथो अपि च यूयमपि निष्कृतीः निष्कृतयः स्थ व्याधिनिष्क्रमणकारिण्यो भवथ निष्कृतिमातृरूपत्वात् । किंच सीराः सह इरया अन्नेन वर्तन्त इति सीराः । सहस्य सादेशे टिलोप इकारदीर्घश्च छान्दसः । यद्वा सीराः क्षुधादीनामपसारयित्र्यः । यद्वा सीरं हलं निष्पादकत्वेन यासु ताः सीराः । पतत्रिणीः पतत्रं पतनं गमनं विद्यते यासां ताः पतत्रिण्यः प्रसरणशीलाश्च स्थन भवथ । 'वा छन्दसि' ( पा० ६। १।१०६) इति दीर्घः 'तप्तनप्त-' (पा. ७ । १ । ४५) इत्यादिना थस्य थनादेशः । यत् यस्मात् आमयति 'अम रोगे' चुरादिः शत्रन्तः । रुजति आमयाविनि नरे स्थितं रोगं निष्कृथ नाशयथ । यद्वा यत् क्षुधादिकं रोगवद् बाधते तद्यूयं निष्कृथ । करोतेः शपि लुप्ते लटि रूपम् ॥ ८३ ॥
चतुरशीतितमी।
अति॒ विश्वा॑: परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धी॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो रप॑: ।। ८४ ।।
उ० अति विश्वाः । यदा अत्यक्रमुः आक्रामन्ते तनूः विश्वाः सर्वाः परिष्ठाः परि सर्वतो व्याधीनधिष्ठाय तिष्ठन्तीति परिष्ठा ओषधयः। कथमिव । स्तेन इव व्रजम् । यथा स्तेनः तस्करः व्रजमत्यक्रामत् परिमुमोषिषया एवमत्यक्रमुः। अथानन्तरमेव ओषधयः प्राचुच्यवुः प्रच्यावयन्ति । यत्किंचित्तन्वः शरीरस्य रपः । 'रपो रिप्रमिति पापनामनी भवतः' । पापजनितं व्याधिमित्यर्थः ॥ ८४॥
म० परि सर्वतो रोगानधिष्ठाय तिष्ठन्तीति परिष्ठाः रोगनाशिका विश्वाः सर्वाः ओषधीः ओषधयो यदा अत्यक्रमुः आक्रमन्ते भक्षिताः सत्यो देहं व्याप्नुवन्ति । क्रमतेर्लङि अन उश् छान्दसः । तत्र दृष्टान्तः स्तेन इव व्रजम् । यथा रात्रौ स्तेनश्चोरो गोष्ठमाक्रमते गोशालायां गामपहर्तुं सर्वत्र गच्छति तद्वत् यदौषधयो रोगमपहर्तुं देहमाक्रमन्ते तदा तन्वः शरीरस्य यत् किंच यत्किमपि रपः पापं शिरोव्यथागुल्मातिसारादिरूपं पापफलं यत् किंचिदस्ति तत्सर्वं प्राचुच्यवुः प्रच्यावयन्ति नाशयन्ति 'च्यु गतौ' लुङि ‘णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' (पा० ३ । १ । ४८) इति चङ्प्रत्यये रूपम् । 'रपो रिप्रमिति पापनामनी भवतः' ( नि० ४ । २१) इति यास्कः॥८४ ॥
पञ्चाशीतितमी।
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ।। ८५ ।।
उ० यदिमाः । यदैव इमा वाजयन् पूजयन् अहम् ओषधीः हस्ते आदधे आस्थापयामि। अथानन्तरमेव । आत्मा यक्ष्मस्य व्याधेः नश्यति । कथमिव । पुरा जीवगृभो यथा । जीवन्नेव हिंसार्थं यो गृह्यते पशुर्वान्यो वा मनुष्यादिः स जीवगृप् तस्य जीवगृभः प्रागेव वध्यासं इति विषादान्मृतोऽहमिति मन्यमानस्य यथात्मा नश्येत् एवं व्याधेरात्मा नश्यति यदाहमोषधीर्हस्त आदध इति संबन्धः ॥ ८५ ॥
म० यत् यदा इमा ओषधीः वाजयन्पूजयन्मानयन्सन् ' अहं हस्ते स्वकरे आदधे स्थापयामि तदैव यक्ष्मस्य व्याधेरात्मा स्वरूपं पुरा भक्षणात्प्रागेव नश्यति किं पुनर्भक्षणेनेति भावः । तत्र दृष्टान्तः । जीवगृभो यथा जीवन्सन्नेव यो हिंसार्थं गृह्यते आघातस्थानं नीयते स जीवगृप् तस्य जीवगृभो वधात्प्रागेवातिविषदान्मृतोऽहमिति मन्यमानस्य मनुष्यस्यात्मा यथा नश्यति नष्टप्रायो भवति तथौषधौ हस्ते धृतायां व्याधेरात्मा नश्यतीत्यर्थः ॥ ८५॥
षडशीतमी।
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ।। ८६ ।।
उ० यस्यौषधीः । यस्य रोगिणः हे ओषधयः, प्रसर्पथ अङ्गमङ्गं परुष्परुः सर्वाण्यङ्गानि सर्वाणि च पर्वाणीत्युक्तं भवति । परुशब्दः पर्ववचनः। तस्य रोगिणः ततो यक्ष्मं विबाधध्वे । ततस्तस्मादङ्गपर्वसमुदायात् व्याध्यपगमं कुरुध्वे । कथमिव । उग्रो मध्यमशीरिव । उग्रः क्षत्रियो बद्धगोधाङ्गुलित्राणः स एव विशिष्यते मध्यमशीः मध्यमं भागं शृणातीति मध्यमशीः । स यथा शत्रून्बाधते एवं यूयमपि रोगिणो रोगं बाधध्वे इत्युपमार्थः । यद्वा उग्रो रुद्रः स एव त्रिशूलमध्यमेन शृणातीति मध्यमशीः स यथा युगान्ते सर्व जगद्भस्मसात्करोति एवं यूयमपि व्याधिं कुरुध्वे ॥ ८६ ॥
म०. हे ओषधीः ओषधयः, यस्य रोगिणः अङ्गमङ्गं प्रत्यङ्गं 'सर्वाण्यङ्गानि परुष्परुः । परुःशब्दः पर्ववचनः । प्रतिपरुः सर्वाणि पर्वाणि ग्रन्थीन् यूयं प्रसर्पथ प्रगच्छथ व्याप्नुथ ततोऽङ्गपर्वसमुदायात् यक्ष्मं रोगं यूयं विबाधध्वे निवर्तयथ व्याधिनाशं कुरुध्वे । तत्र दृष्टान्तः । उग्रो मध्यमशीरिव मध्ये देहमध्ये भवं मध्यमं मर्मभागं शृणाति हिनस्ति मध्यमशीः ‘शॄ हिंसायाम्' क्विप् । 'ऋत इद्धातोः' (पा० ७ । १ । १००) इति इदादेशः 'उरण् रपरः' (पा. १।१। ५१) इति रेफः । मर्मघातकः उग्र उत्कृष्टो बद्धगोधाङ्गुलित्राण उद्गूर्णशस्त्रः क्षत्रियो यथा शत्रुं बाधते । यद्वा उग्रो रुद्रो मध्यमेन त्रिशूलमध्यभागेन शृणातीति मध्यमशीः यथा युगान्ते जगद्बाधते तद्वद् यूयमपि रोगिणो देहं प्रविष्टा व्याधिं विबाधध्व इत्यर्थः ॥८६॥
सप्ताशीतितमी।
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ।। ८७ ।।
उ० साकं यक्ष्म साकं सहेत्यर्थः । हे यक्ष्म, सह प्रपत प्रणश्य । चाषेण पक्षिणा किकिदीविना । शब्दानुकरणमेतत् । किकि एवं यो दीव्यति तेन सह प्रपत । स हि तव सार्थ उचितः । साकं वातस्य ध्राज्या गत्या प्रपत । साकं नश्य प्रपलाहि । निहाकया निहन्ति कायमिति निहाका निर्ऋतिः कृच्छ्रापत्तिः तया कृच्छ्रापत्त्या सह नश्य हे यक्ष्म, यद्वा शब्दानुकरणमेतत् । हा कष्टं निर्गतोऽहं कया ओषध्या एवंरूपया शब्दानुकरणभक्त्या सह नश्य हे यक्ष्म, अपुनरागमनाय ॥ ८७ ॥
म० हे यक्ष्मरोग, त्वं चाषेण पक्षिणा साकं सह प्रपत प्रकर्षेण गच्छ । किंभूतेन चाषेण । किकिदीविना । किकीति शब्दानुकरणम् । किकीति शब्देन दीव्यति क्रीडतीति किकीदीविस्तेन । चाषस्तवोचितः सार्थः । वातस्य ध्राज्या गत्या साकं प्रपत वातगतिवत्पलायस्वेत्यर्थः । किंच निहाकया साकं नश्य नष्टो भव । निहन्ति कायमिति निहाका निर्ऋतिः कृच्छ्रापत्तिस्तया सह नश्य । यद्वा शब्दानुकरणमिदं । हा कष्टं कया ओषध्या निहतोऽहमिति शब्दं कुर्वन् हे यक्ष्म, त्वं नश्य । अर्थान्तरं वा। कफावरुद्धकण्ठोत्थध्वनेरनुकरणार्थः किकिशब्दः । किकिना कण्ठध्वनिना दीव्यतीति किकीदिविः श्लेष्मरोगः । 'चष वधे' चषति व्याकुलं कृत्वा हन्ति चाषः पित्तरोगः । वातस्य ध्राजिर्वातरोगः । हे यक्ष्म रोगराज, त्वं कफपित्तवातरोगैः सह प्रपत गच्छ । यया पीडया कया रुजा निहतोऽस्मि हा कष्टमिति शब्दं करोति सा निहाका सर्वाङ्गवेदना तया साकं हे यक्ष्म, त्वं नश्य ॥ ८७ ॥
अष्टाशीतितमी।
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॑: संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑: ।। ८८ ।।
उ० शतम् ६०० ॥ अन्या वः । हे ओषधयः, अन्या ओषधिः वः युष्माकम् अन्यामोषधिम् अवतु पालयतु । अन्या च ओषधिः अन्यस्याः ओषध्याः प्रभावम् उपावत पुरुषवचनव्यत्ययः । उपावतु उपगम्य पालयतु । ता यूयमेव सर्वाः संविदानाः संगच्छमानाः इदं मे मम प्रावत प्रपालयत । वचः वचनमार्षम् ॥ ८८ ॥ .
म० हे ओषधयः, वो युष्माकं मध्ये अन्या काचिदोषधिव्यक्तिरन्यामोषधिव्यक्तिमवतु । तथा रक्षिता अन्यापि अन्यस्या रक्षिकाया उपावत उपावतु उप समीपमागत्य पालयतु । पुरुषवचनव्यत्ययः । अन्यान्यस्याः प्रभावमवतु वा । ताः सर्वास्तथाविधा ओषधयो यूयं संविदानाः परस्परैकमत्यं गताः सत्यो मे ममेदं वचो वाक्यं प्रार्थनारूपं प्रावत प्रकर्षेण रक्षत ॥ ८८ ॥
एकोननवतितमी ।
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी॑: । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वᳪं᳭ह॑सः ।। ८९ ।।
उ० याः फलिनीः या ओषधयः फलवत्यः याश्च अफला: फलरहिताः। या अपुष्पाः पुष्परहिताः । याश्च पुष्पिणीः पुष्पवत्यः । बृहस्पतिना अभ्यज्ञाताः ताः नः अस्मान् मुञ्चन्तु अंहसः पापात् ॥ ८९॥
म० या ओषधयः फलिनीः फलिन्यः फलयुक्ताः याश्चाफलाः फलरहिताः याश्चापुष्पाः पुष्परहिताः याश्च पुष्पिणीः पुष्पिण्यः पुष्पयुक्ताः ताः सर्वा ओषधयो बृहस्पतिप्रसूता बृहस्पतिप्रेरिताः सत्यो नोऽस्मानंहसः पापाद्रोगरूपान्मुञ्चन्तु पृथक् कुर्वन्तु ॥ ८९ ॥
एवमोषधिवापार्थानि पञ्च तृचानि समाप्तानि
नवतितमी।
मु॒ञ्चन्तु॑ मा शप॒थ्यादथो॑ वरु॒ण्या॒दु॒त । अथो॑ य॒मस्य॒ पड्वी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ।। ९० ।।
उ० इत उत्तरमनारभ्यवादमन्त्राः तेषां लिङ्गतो विनियोगः । मुञ्चन्तु मा शपथ्यात् शपथनिमित्तात्किल्बिषात् । अथो अपिच वरुण्यात् वरुणनिबन्धनात् । उत अथो अपिच । यमस्य संबन्धिनः पड्वीशात् बन्धनात् । पड्वीशशब्दो बन्धनवचनः । संदानर्मवन्तं पड्वीशमिति दृश्यते । किंच । सर्वस्मात् च देवनिमित्तात्किल्बिषात् मुञ्चन्तु । यत्किंचिद्धिनस्ति पापं कर्तुः संबन्धि तत्किल्बिषमित्युच्यते । ब्रह्महत्यादि ॥ ९० ॥
म० अथानारभ्याधीता मन्त्राः। शपथनिमित्तात्किल्बिषात्पापादोषधयो मा मां मुञ्चन्तु पृथक्कुर्वन्तु । अथो अपिच वरुण्यात् वरुणे भवं वरुण्यं तस्माद्वरुणापराधनिमित्तात्पापान्मां मुञ्चन्तु । उतापि च यमस्य संबन्धिनः पड़्वीशात् । पड्वीशशब्दो बन्धनवाची । यमबन्धननिमित्तात्पापान्मां मुञ्चन्तु । अथो अपिच सर्वस्माद्देवकिल्बिषाद्देवापराधनिमित्तात्पापान्मां मुञ्चन्तु ॥ ९० ॥
एकनवतितमी।
अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।। ९१ ।।
उ० अवपतन्तीः अवाचीनं पतन्त्यः अवदन् उक्तवत्यः । यं जीवमनुत्क्रान्तप्राणम् अश्नवामहै व्याप्नुमः न स रिष्याति दिवः परि दिवो द्युलोकात् ओषधयः। किमवदन्नित्यत आह । नविनश्यंति पूरुषः । छान्दसं दीर्घत्वम् ॥ ९१ ॥
म० दिवः परि द्युलोकात्सकाशादवपतन्तीरवपतन्त्योऽधस्ताद्भूमौ गच्छन्त्यः ओषधयः अवदन् परस्परं वचनमुक्तवत्यः । किं तदाह । जीवतीति जीवस्तं यं जीवमनुत्क्रान्तप्राणं पुरुषं वयमश्नवामहै 'अशूङ् व्याप्तौ' लोट् व्याप्नुमः स पुरुषो न रिष्यति न नश्यति । रिष्यतीत्यत्र 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्याडागमः । पूरुष इति छान्दसो दीर्घः सर्वत्र ॥९१॥
द्विनवतितमी ।
या ओष॑धी॒: सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासा॑मसि॒ त्वमु॑त्त॒मारं॒ कामा॑य॒ शᳪं᳭ हृ॒दे ।। ९२ ।।
उ० या ओषधीः या ओषधयः सोमराज्ञ्यः सोमो राजा यासामिति सोमराज्ञ्यः । बह्व्यः अनन्ताः । शतविचक्षणाः बहुवीर्याः । बहवो वा स्तोतारो विचक्षणा यासां बहुविचक्षणाः। तासामोषधीनां मध्ये त्वं भवसि उत्तमा यतः अतः अलंकामाय भव । शं च सुखं च हृदयाय भव ॥९२॥
म० सोमो राजा यासां ताः सोमराज्ञ्यः बह्व्यः बह्व्योऽनन्ताः शतविचक्षणाः शतमसंख्यं विचक्षणाश्चतुराः बहुवीर्या वा शतं विचक्षणाः स्तोतारो यासामिति वा एवंभूता या ओषधीः ओषधयः सन्ति तासामोषधीनां मध्ये हे ओषधे, त्वमुत्तमा उत्कृष्टा यतोऽसि भवसि अतः कामायेप्सिताय अरमलं पर्याप्ता भव । हृदे हृदयाय शं सुखकारिणी भव ॥ ९२ ॥
त्रिनवतितमी।
या ओष॑धी॒: सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै संद॑त्त वी॒र्य॑म् ।। ९३ ।।
उ० या ओषधीः या यूयं हे ओषधयः सोमराज्ञ्यः विष्ठिताः विविधं स्थिताः पृथिवीम् अनु । ताः बृहस्पतिप्रसूता अस्यै ओषध्यै संदत्त वीर्यम् । येनेयं बहुवीर्या भवतीत्यभिप्रायः ॥ ९३ ॥
म० सोमराज्ञ्यो या ओषधयः पृथिवीमनु विष्ठिताः विविधं स्थिताः बृहस्पतिप्रसूताः बृहस्पतिना प्रेरिताः ता ओषधयोऽस्यै ओषध्यै मद्गृहीतायै वीर्यं संदत्त सामर्थ्यं प्रयच्छत । इयं बहुवीर्या भवत्विति भावः ॥ ९३ ॥
चतुर्नवतितमी।
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वा॑: सं॒गत्य॑ वीरुधोऽस्यै॒ संद॑त्त वी॒र्य॑म् ।। ९४ ।।
उ० याश्च ओषधयः इदं वच उपशृण्वन्ति समीपस्थिताः । याश्च अतिदूरं परागताः दूरदेशव्यवहिताः ताः सन्निधानीकृत्याहं ब्रवीमि । सर्वाः सङ्गत्य संभूय । हे वीरुधः, विरोहणाः अस्यै संदत्त वीर्यं प्रभावम् ॥ ९४ ॥
म० या ओषधय इदं मद्वचनं प्रार्थनारूपमुप समीपस्थाः शृण्वन्ति याश्चान्याः दूरं परागताः दूरे व्यवस्थिता व्यवहिताः सत्यः ईषत् शृण्वन्ति हे वीरुधः, विविधरोहणा ओषधयः, ताः सर्वाः समीपदूरस्थाः सङ्गत्य सङ्गता भूत्वा अस्यै ओषध्यै यूयं वीर्यं संदत्त प्रयच्छत ॥ ९४ ॥
पञ्चनवतितमी।
मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पाच्चतु॑ष्पाद॒स्माक॒ᳪं᳭ सर्व॑मस्त्वनातु॒रम् ।। ९५ ।।
उ० मा वो रिषत् मा रिषतु मा विनश्यतु वो युष्माकं खनिता । यस्मै च पुरुषाय अहं खनामि वः युष्मान् । किंच द्विपात् स्त्रीपुंसम् चतुष्पात् गवादि । 'संख्यासुपूर्वस्य' इति पादशब्दान्त्यलोपः । अस्माकं सर्वमस्तु अनातुरमनाकुलम् । युष्मत्प्रसादादिति शेषः ॥ ९५ ॥
म० हे ओषधयः, वो युष्माकं खनिता चिकित्सायै युष्मन्मूलं ग्रहीतुं खननकर्ता मा रिषत् मा विनश्यतु । यस्मै च रुग्णाय चिकित्सार्थं वो युष्मानहं खनामि युष्मन्मूलमादातुं खननं करोमि स च मा रिषत् । किंबहुनास्माकं संबन्धि द्विपात् स्त्रीपुंसं चतुष्पाद्गवादि प्राणिजातं सर्वमनातुरं रोगरहितमस्तु । द्वौ पादौ यस्य चत्वारः पादा यस्य 'संख्यासुपूर्वस्य' (पा०. ५। ४ । १४० ) इति पादशब्दस्यान्तलोपः ॥ ९५॥
षटूनवतितमी।
ओष॑धय॒: सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तᳪं᳭ रा॑जन् पारयामसि ।। ९६ ।।
उ० ओषधयः सम् । ओषधयः समवदन्त संवादं कृतवत्यः । सोमेन सह राज्ञा । सोमो हि ओषधीनां राजा । किं समवदन्त । यस्मै पुरुषाय भैषज्यं कृणोति करोति ब्राह्मणः तमातुरं हे सोमराजन्, पारयामसि पारयामः उत्तारयामो व्याधेः । सोमेन सह संवादो व्याध्यपगमदृढीकरणार्थः ॥९६॥
म०. राज्ञा स्वस्वामिना सोमेन सह ओषधयः देवताः समवदन्त संवादं कृतवत्यः । कथं संवादस्तमाह । ब्राह्मणो यस्मै रुग्णाय कृणोति अस्मन्मूलादिना चिकित्सां करोति 'कृ कृतौ' स्वादिः । हे राजन् स्वामिन् सोम, तं रुग्णं नरं वयं पारयामसि पारयामः । 'इदन्तो मसि' (पा० ७।१ । ४६ )। सोम संवादो व्याधिनाशदार्ढ्यार्थः ॥ ९६ ॥
सप्तनवतितमी।
ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ।। ९७ ।।
उ० नाशयित्री । नाशयित्री बलासस्य बलमस्यति निक्षिपतीति बलासः क्षयः अर्शसः मूलव्याधेः । उपचितां शरीरे ये उपचीयन्ते श्वयथुगदश्लीपदप्रभृतयः तेषां च त्वं नाशनी भवसि । अथो शतस्य यक्ष्माणामपि बहूनां व्याधीनां नाशयित्री त्वमसि । पाकारोः अरुः क्षतमुच्यते । मुखपाकक्षतादेर्नाशिनी त्वमसि । यद्वा 'रुच दीप्तौ' । अन्नपाकस्य अरुः अदीप्तिर्मन्दाग्नित्वं तस्य च त्वं नाशनी भवसि ॥ ९७ ॥
म० हे ओषधे, त्वं बलासस्य क्षयव्याधेर्नाशयित्री नाशकर्त्री असि भवसि । बलमस्यति क्षिपतीति बलासः क्षयः । अर्शसो गुदव्याधेश्च नाशिकासि । उपचिताम् उपचिन्वन्ति शरीरं वर्धयन्तीत्युपचितः क्विप् । श्वयथुगडुश्लीपदादयः तेषां च नाशिकासि । अथो अपिच शतस्य यक्ष्माणां बहूनां व्याधीनां पाकारोः मुखपाकक्षतादेश्च नाशनी नाशकर्त्री त्वंवं भबसि । पाको मुखपाकः अरुः क्षतमुच्यते । पाकेनारुः पाकारुत्तस्य । यद्वा पाकोऽन्नपाकस्तस्यारुर्व्यथा मन्दाग्नित्वं तस्य नाशनी त्वमसि ॥ ९७ ॥
अष्टनवतितमी।
त्वां ग॑न्ध॒र्वा अ॑खनँ॒स्त्वामिन्द्र॒स्त्वां बृह॒स्पति॑: । त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ।। ९८ ।।
उ० त्वां गन्धर्वाः यतश्च त्वमित्थंभूता असि अतः त्वां गन्धर्वाः अखनन् अभिलषितकामप्राप्त्यर्थम् । त्वां च इन्द्रः त्वां च बृहस्पतिः त्वां च हे ओषधे, सोमराजा विद्वान् जानानः उपयोगं यक्ष्मान्महाब्याधेः अमुच्यत मुक्तः ॥ ९८ ॥
म० हे ओषधे, गन्धर्वाः देवविशेषाः त्वामखनन् स्वेष्टकार्यसिद्ध्यर्थं खननमकुर्वन् । इन्द्रश्च त्वामखनत् । बृहस्पतिश्च त्वामखनत् । हे ओषधे, सोमो राजा त्वां च विद्वान् त्वत्सामर्थ्यं जानन्सन् त्वामुपयुज्य यस्मात् महाव्याधेरमुच्यत मुक्तोऽभवत् ॥ ९८॥
एकोनशततमी।
सह॑स्व मे॒ अरा॑ती॒: सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्वं॑ पा॒प्मान॒ᳪं᳭ सह॑मानास्योषधे ।। ९९ ।।
उ० सहस्व मे । यतस्त्वमित्थंभूता च अतोऽहं याचे । सहस्व अभिभव मे मम अराती: अदानशीलाः शत्रुसेनाः । सहस्व च अभिभवस्व च पृतनायतः पृतनाः संग्रामाः संग्रामकामान् शत्रून् सहस्व च अभिभवस्व च सर्वं पाप्मानं सर्वमशुभम् । कस्मादभिभवनकर्मणि त्वमस्माभिर्नियुज्यसे इति चेत् । यतः सहमाना अमिभवनशीलासि त्वं हे ओषधे ॥ ९९॥
म० हे ओषधे, यतः त्वं सहमानासि शत्रूनभिभवन्ती भवसि अतो मे अरातीः अदानशीलाः शत्रुसेनाः सहस्व अभिभव । नास्ति रातिर्दानं यासां ता अरातयस्ताः । पृतनायतः संग्रामकामांश्च सहस्व पृतनां संग्रामं कामयन्ते ते पृतनायन्तस्तान् । 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इति क्यजन्ताच्छतृप्रत्ययः । किंच सर्वं पाप्मानमशुभं सहस्व । सहतिरभिभवार्थः ॥ ९९॥
शततमी।
दी॒र्घायु॑स्त ओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम् । अथो॒ त्वं दी॒र्घायु॑र्भू॒त्वा श॒तव॑ल्शा॒ विरो॑हतात् ।। १०० ।।
उ० दीर्घायुस्ते । पुनरपि त्वां प्रार्थयामः । हे ओषधे, खनिता अहं भूयासम् । यस्मै च आतुराय त्वां खनामि स च दीर्घायुर्भूयात् । अथो अपिच त्वं दीर्घायुर्भूत्वा अनवखण्डितायुर्भूत्वा शतवल्शा । वल्शशब्दोऽङ्कुरवचनः । बह्वङ्कुरा विरोहतात् विरोह । 'तुह्योस्तातङ्ङाशिषि-' इत्यादिना तातङादेशः। अनवखण्डितमूला त्वमनेकैरङ्कुरैः संतिष्ठस्वेत्याशीः ॥१००॥
म०. हे ओषधे, ते तव खनिता खननकर्ता दीर्घायुर्भूयादिति शेषः । यस्मै चातुराय नरायाहं त्वां खनामि सोऽपि दीर्घायुरस्तु । अथो अपिच त्वं दीर्घायुरखण्डितजीवना भूत्वा शतवल्शा बह्वङ्कुरा सती विरोहताद्विरोह बह्वङ्कुरोत्पद्यस्व । 'तुह्योस्तातङ्' (पा० ७। १ । ३५) इति तातङ् । वल्शशब्दोऽङ्कुरवाची । शतं वल्शाः यस्याः सा शतवल्शा ॥ १०० ॥
एकोत्तरशततमी।।
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सोऽस्माकं॒ यो अ॒स्माँ२ ऽअ॑भि॒दास॑ति ।। १०१ ।।
उ० त्वमुत्तमा असि हे ओषधे, तव च वृक्षाः शालतमालादयः उपस्तयः। उपकाराय ओषधीनां तिष्ठन्तीत्युपस्तयः तत्र हिताः प्रसर्पन्ति । नच वृक्षाणां भोग्या भवन्ति अयथातथेमे वृक्षा उपस्तयः यथा त्वत्प्रसादात् उपस्तिः अस्तु स पुरुषः अस्माकम् यः अस्मान् । अभिदासति 'दसु उपक्षये। अभिहन्ति ॥१०१॥
म० हे ओषधे, त्वमुत्तमा उत्कृष्टासि भवसि । वृक्षाः शालतालतमालादयस्तवोपस्तयः सन्तु । 'स्त्यैष्ट्यै शब्दसङ्घातयोः' उपस्त्यायन्ति उपकारायोपद्रवनिराकरणाय च समीपे संहतास्तिष्ठन्तीत्युपस्तयः वृक्षाः त्वां सेवन्तामित्यर्थः । किंच यो नरोऽस्मानभिदासति अभिहन्ति स नरोऽस्माकमुपस्तिः समीपस्थ उपासकोऽस्तु । दासतिर्हिंसाकर्मा ॥ १०१॥
इत्यनारभ्याधीताः समाप्ताः।
द्व्युत्तरशततमी।
मा मा॑ हिᳪं᳭सीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ᳪं᳭ स॒त्यध॑र्मा॒ व्यान॑ट् ।
यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १०२ ।।
उ० चतस्रो लोगेष्टकाश्चतसृभिर्ऋग्भिरुपदधाति । मामा कायी त्रिष्टुप् । मा माहिंसीत् पूर्वः प्रतिषेधार्थीयः उत्तरोऽस्मदादेशः । माहिंसीन्मा जनिता यः 'जनिता मन्त्रे' इति णिचो लोपः । जनयिता यः पृथिव्याः प्रजापतिः । यो वा दिवं सत्यधर्मा व्यानट् । वाशब्दः समुच्चयार्थीयः । व्यानडिति व्याप्तिकर्मा । श्रुत्या तु सृजतेरर्थे व्याख्यातः । यश्च दिवं सत्यधर्मा सत्यधारणः व्यानट् असृजत् । यश्च आपश्चन्द्राः प्रथमो जजान । 'मनुष्या वा आपश्चन्द्राः' इति श्रुतिः। मनुष्या एव हि यज्ञेनाप्नुवन्ति चन्द्रलोकं पितृमार्गानुसारिणः । यद्वा । यश्चापः चायनीयाः प्रथमः शरीरी जनितवान् । अपां चायनीयानां कारणभूतानां जननेन यो मनुष्यान् जनितवान् इति कारणे कार्योपचारः । कस्मै देवाय हविषा विधेम । य इत्थंभूतः कः प्रजापतिः तस्मै कस्मै काय इति प्राप्ते स्मैआदेशश्छान्दसः । 'सर्वनाम्नः स्मै' इति हि पाणिनिः । नचैतत्सर्वनाम देवतात्वात् प्रजापतये हविषा हविरिति विभक्तिव्यत्ययः । विदधातिर्दानकर्मा । तस्मै प्रजापतये हविर्दद्म इति संबन्धः ॥ १०२ ॥
म० 'लोगेष्टकाः स्फ्येनाहृत्य बहिर्वेदेरनूत्क्रान्तेषूपदधाति तिष्ठन्मा मा हिᳪं᳭सीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम्' ( १७ । ३ । ११) । ततोऽध्वर्युः स्फ्येन वेदिबहिःप्रदेशाल्लोगेष्टकाश्चतुरो मृत्खण्डान्पद्याप्रमाणानानीयात्मनो दक्षिणोत्तरपूर्वापरमध्यसूत्रप्रान्तेषु पूर्वादिषु तिष्ठन्मन्त्रचतुष्टयेनोपदध्यादिति सूत्रार्थः । हिरण्यगर्भदृष्टा कदेवत्या त्रिष्टुप् । यः प्रजापतिः पृथिव्याः भूमेर्जनिता जनयिता उत्पादकः । 'जनिता मन्त्रे' (पा० ६ । ४ । ५३ ) इति णिचो लोपः । वा चार्थे । यो वा यश्च दिवं व्यानट् द्युलोकमसृजत् । व्यानट् इति व्याप्तिकर्मा । श्रुतौ तु सृजतेरर्थे व्याख्यातः । 'यो वा दिवᳪं᳭ सत्यधर्मासृजते' (७ । ३ । १ । २०) इति श्रुतेः । यश्च चन्द्राः आह्लादिका जगत्कारणभूता आपो जलानि प्रथमः आदिभूतः सन् जजानोत्पादितवान् तद्द्वारा मनुष्यानुत्पादितवानित्यर्थः । यतः श्रुती आपश्चन्द्रा इति मनुष्या व्याख्याताः । मनुष्या एव हि यज्ञेनाप्नुवन्ति चन्द्रलोकं पितृमार्गानुसारिणः । 'मनुष्या वा आपश्चन्द्राः ' (७ । ३ । १।२०) इति श्रुतेः कारणे कार्योपचारात् । कीदृशः । प्रथमः शरीरी सत्यधमा सत्यं धरतीति सत्यस्य धारयिता स प्रजापतिर्मा मा हिंसीन्मा हन्तु । यतः कस्मै काय प्रजापतये हविषा हविः वयं विधेम दद्मः । हविर्दानान्मा हन्तु । कशब्दस्य सर्वनामत्वाभावात् स्मैआदेशः छान्दसः । हविषा इति विभक्तिव्यत्ययः । विधतिर्धातुर्दानार्थः ॥ १०२॥
त्र्युत्तरशततमी।
अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तो अ॑रोहत् ।। १०३ ।।
उ० दक्षिणत उपदधाति । अभ्यावर्तस्व अभिमुखीभव । अग्निं प्रत्यादृता भव हे पृथिवि, यज्ञेन यज्ञसाधनभूतेन हविषा । पयसा सह । कस्मात्कारणादित्यत आह । वपान्ते वपां पृष्ठे ते तव अग्निः इषितः प्रजापतिप्रेषितः अरोहत् आरूढवान् ॥ १०३ ॥
म० अग्निदेवत्या उष्णिक् । हे पृथिवि, यज्ञेनास्मच्चिकीर्षितेन पयसा तत्फलभूतेन दुग्धादिभोगेन च सह अभ्यावर्तस्व आभिमुख्येनागच्छ । कथमागन्तव्यमत आह । इषितः प्रजापतिप्रेषितोऽग्निः ते तव वपां त्वचं पृष्ठं वपासदृशमिमं प्रदेशमरोहत् आरोहतु । अनयर्चा दक्षिणे लोगेष्टकोपधानम् ॥ १०३ ॥
चतुरुत्तरशततमी।
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म् ।
तद्दे॒वेभ्यो॑ भरामसि ।। १०४ ।।
उ० पश्चादुपदधाति । अग्ने यत्ते । आग्नेयी गायत्री । हे अग्ने, यत्ते तव शुक्रं सारं शुक्लं वा । यच्च चन्द्रमाह्लादनीयम् । यच्च पूतं पवित्रम् यच्च यज्ञियं यज्ञार्हम् तद्देवेभ्योर्थाय । देवेभ्यो वा सकाशात् भरामसि संभरामः ॥१०४॥
म० अग्निदेवत्या गायत्री पश्चाल्लोगेष्टकोपधाने विनियुक्ता । । हे अग्ने, यत्ते तवाङ्गं शुक्रं शुक्लं शुद्धं दीप्तिमत् यच्चान्यदङ्गं चन्द्रमाह्लादकरं यदन्यत्पूतं पवित्रं यच्चान्यदङ्गं यज्ञियं यज्ञार्हं तत्सर्वं श्लाघ्यरूपं देवेभ्यो देवानामर्थे भरामसि भरामः संपादयामः ॥ १०४ ॥
पञ्चोत्तरशततमी । .
इष॒मूर्ज॑म॒हमि॒त आद॑मृ॒तस्य॒ योनिं॑ महि॒षस्य॒ धारा॑म् ।
आ मा॒ गोषु॑ विश॒त्वा त॒नूषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ।। १०५ ।।
उ० उत्तरत उपदधाति । इषमूर्जम् । त्रिष्टुप् । आशी:प्रायो मन्त्रः । अस्मिन्मन्त्रे विशेषणविशेष्यभावात् यत्तद्भ्यां वाक्यपरिपूर्तिः क्रियते । यत् इषमन्नं यच्च ऊर्जं तदुपसेचनं दधिपयोघृतादिकम् अहम् इतः उदीच्या दिशः । आदम् आददे गृहीतवान् । यच्च ऋतस्य सत्यस्य योनिं स्थानं तिस्रो विद्या अहमाददे । यच्च महिषस्य महतः इच्छावतश्चाग्नेः धाराम् आहुतिमहमाददे । उदीच्या दिशः । एतत्सर्वम् आमा गोषु विशत्वा तनूषु आविशतु मां गोषु तनूषु च पुत्रपौत्रादिकासु । सिकताः प्रध्वंसयति । जहामि परित्यजामि उदीच्यां दिशि स्थापयामि । सेदिम् अवसादम् अनिरामनन्ताम् अमीवां व्याधिम् ॥ १०५॥
म० आशीर्देवी त्रिष्टुप् पादत्रयस्योत्तरतो लोगेष्टकोपधाने विनियोगः । इषमन्नमूर्जं तदुपसेचनं दधिपयोघृतादिकमृतस्य सत्यस्य योनिं स्थानं विद्यात्रयं महिषस्य महत इच्छावतोऽग्नेर्धारां धारणामाहुतिं वा इतोऽस्मात्प्रदेशादुदीच्या दिशः सकाशादहमादमद्मि भक्षयामि स्वीकरोमीत्यर्थः । 'अद भक्षणे' लङ् । किंच एतत्सर्वमिडादिकं मामाविशतु आगत्य प्रविशतु । तनूषु मदीयपुत्रादिशरीरेषु गोषु मदीयधेन्वादिपशुषु चाविशतु । 'उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति-' (का० १७ । ३ । १३)। उत्तरलोगेष्टकातः सिकताः पातयति । नास्ति इरान्नं यस्यां तामनिरामन्नरहिताममीवां व्याधियुतां सेदिमवसादमहं जहामि त्यजामि । अन्नाभावरोगदुःखानि मे मा सन्त्वित्यर्थः ॥ १०५॥
षडुत्तरशततमी।
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो ।
बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं दधा॑सि दा॒शुषे॑ कवे ।। १०६ ।।
उ० आग्नेयेन षडृचेन सिकता निवपति । अग्ने तव । प्रथमे विहारपङ्क्ती । तिस्रः सतोबृहत्यः षष्ठी उपरिष्टाज्ज्योतिः। हे अग्ने, तव संबन्धी धूमः । श्रवोवयः अमुष्मिन् लोके श्रावयतीति श्रवः वयोऽन्नम् तस्याहुतिपरिणामद्वारेण निमित्तभूतत्वात् धूमो वय इत्युच्यते । धूमो वा अस्य श्रवो वयः सह्येनममुष्मिन् लोके श्रावयतीति श्रुतिः । एवंप्रभावस्तव धूमः । अथ महि महत् भ्राजन्ते अर्चयः अर्चींषीति लिङ्गव्यत्ययः। हे विभावसो विभूतधन । किंच । हे बृहद्भानो महादीप्त, शवसा बलेन सहितं वाजमन्नम् उक्थ्यम् उक्थ्यार्हं यज्ञार्हम् । दधासि ददासि दाशुषे हवींषि दत्तवते यजमानाय । हे कवे क्रान्तदर्शन ॥ १०६ ॥
म० 'अग्ने तवेति सिकता न्युप्य छादयत्यात्मानम्' (का० १७ । ३ । १५) षडृचेनोत्तरवेदौ सिकताः प्रक्षिप्य ताभिः पुच्छपक्षं विनात्मानं छादयेत् । पावकाग्निदृष्टं षडृचमग्निदेवत्यम् । आद्ये द्वे विष्टारपङ्क्ती । यस्या द्वितीयतृतीयपादौ द्वादशार्णौ आद्यतुर्यावष्टकौ सा विष्टारपङ्क्तिः । हे अग्ने, हे विभावसो, विभा दीप्तिरेव वसु धनं यस्य तत्संबोधनं हे कान्तिधन, तव वयो धूमः अर्चयो दीप्तयश्च भ्राजन्ते दीप्यन्ते । धीयते भक्ष्यते प्राणिभिरिति वयोऽन्नम् । 'वी कान्त्यसनखादनव्याप्तिषु' धूमस्याहुतिपरिणामद्वारेणान्नहेतुत्वादयोऽत्र धूम उच्यते । कीदृशं वयः । श्रवः श्रावयति द्युलोके कृतं कर्मेति श्रवः धूमदर्शनाद्देवानां कर्मज्ञानम् । तथा महि महत् नभोगामित्वात् 'धूमो वा अस्य श्रवो वयः स ह्येनममुष्मिंल्लोके श्रावयति' (७।३।१।२९) इति श्रुतेः । किंच बृहन्तो महान्तो भानवो रश्मयो यस्य तत्संबुद्धौ हे बृहद्भानो, हे कवे क्रान्तदर्शिन् विद्वन् यजमानाभिप्रायज्ञ, दाशुषे हविर्दत्तवते यजमानाय शवसा बलेन सह वाजमन्नं त्वं दधासि ददासि । कीदृशं वाजम् । उक्थ्यम् उक्थः शस्त्राद्युपेतो यज्ञस्तद्योग्यं यज्ञपर्याप्तमन्नं ददासीत्यर्थः ॥ १०६ ॥
सप्तोत्तरशततमी।
पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।
पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ।। १०७ ।।
उ०. पावकवर्चाः । हे अग्ने, यस्त्वं पावकवर्चाः । पावकशक्तिः शुक्रवर्चाः शुक्रशक्तिश्च अनूनं वर्चाश्च अपरिहीणशक्तिः सन् अन्यूनशक्तिर्वा सन् । उदियर्षि उद्गच्छसि। भानुना दीप्त्या । यश्च त्वं पुत्रइव मातरा मातापितरौ । उत्तमे वयसि विचरन् उपचरन् । उपावसि उपसङ्गम्य पालयसि । सदेवमनुष्यं जगत् । यश्च त्वं पृणक्षि पूरयसि रोदसी द्यावापृथिव्यौ । उभे अपि 'इमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमाम्' इति श्रुतिः तं त्वां स्तुम इति वाक्यशेषः ॥ १०७ ॥
म० हे अग्ने, त्वं भानुना दीप्त्या उदियर्षि उद्गच्छसि । उत्कर्षं प्राप्नोषीत्यर्थः । कीदृशस्त्वम् । पावकवर्चाः पावकं शोधकं वर्चो दीप्तिशक्तिर्यस्य सः । शुक्रवर्चाः शुक्रं शुक्लं निर्मलं वर्चो यस्य । अनूनवर्चाः अनूनमहीनं वर्चा यस्य पूर्णशक्तिः । किंच हे अग्ने, त्वं विचरन्सर्वतः प्रचरन्सन् उपावसि उप सङ्गम्य पालयसि सदेवमनुष्यं जगद्रक्षसि । तत्र दृष्टान्तः । पुत्रो मातरा यथा पुत्रश्चरमे वयसि मातरा मातापितरौ उपावति तद्वत् 'पितरामातरा च छन्दसि' (पा० ६ । ३ । ३३ ) इति निपातः । किंच उभे रोदसी द्यावापृथिव्यौ पृणक्षि पूरयसि । हविषा द्यां वृष्ट्या भूमिं पूरयसीत्यर्थः । ‘इमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमामिति' ( ७ । ३ । १। ३०) इति श्रुतेः । तं त्वां स्तुम इति वाक्यशेषः ॥१०७॥
अष्टोत्तरशततमी ।
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः ।
त्वे इष॒: सन्द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ।। १०८ ।।
उ० ऊर्जा नपात् । ऊर्कशब्देनाप उच्यन्ते । नपाच्छब्देन च पौत्रः । हे अपांपौत्र, अद्भ्य ओषधिवनस्पतयो जायन्ते ओषधिवनस्पतिभ्योऽग्निर्जायते । एवमपांनपादग्निः । जातवेदः जातप्रज्ञानः । सुशस्तिभिः साधुशंसनैः स्तुत इति | शेषः । मन्दस्व दीप्यस्व । धीतिभिः कर्मभिर्निमित्तभूतैः हितः निहितः स्थापितः । तस्मात्त्वां वयमेवं ब्रूम इत्यवोचाम । त्वे इषः संदधुर्भूरिवर्पसः । त्वयि इषः अन्नानि हविर्लक्षणानि संदधुः जुहुवुः । भूरिवर्पसः । वर्प इति रूपनाम । बहुरूपा यजमानाः जगदात्मत्वेनोपगताः । चित्रोतयः चायनीयानि अवनानि तर्पणानि येषां ते चित्रोतयः । वामजाताः वननीयजन्मानः विशिष्टदेशजातिकुलोत्पन्नाः ।। अतस्त्वं मन्दस्वेति संबन्धः ॥ १०८ ॥
म०. तिस्रः सतोबृहत्यः । यस्या आद्यतृतीयौ द्वादशकौ द्वितीयतुर्यावष्टको सा सतोबृहती । ऊर्क् जलं नपात्पौत्रः हे ऊर्जोनपादपां पौत्र, अद्भ्य ओषधिवनस्पतयो जायन्ते तेभ्योऽग्निर्जायत इत्यपां पौत्रत्वमग्नेः । यद्वा ऊर्जोऽन्नस्य नपात् न पातयति नाशयति नपात् । पतेर्णिजन्तात् क्विप् । हे अन्नस्याविनाशक, हे जातवेदः जातप्रज्ञान, धीतिभिः कर्मभिर्निमित्तभूतैर्हितः स्थापितः सन् सुशस्तिभिः शोभनाभिः शस्तिभिः स्तुतिभिः कृत्वा त्वं मन्दस्व मोदस्व हृष्टो भव । 'मदिङ् स्वपने जाड्ये मदे मोदे स्तुतौ गतौ' इति धातुः । किमतिहर्षः कार्यस्तत्राह । यजमानाः त्वे त्वयि इषो हविर्लक्षणान्यन्नानि संदधुः जुहुवुः । हविःप्राप्त्या हर्षः कार्य इत्यर्थः । कीदृशा यजमानाः । भूरिवर्पसः । वर्प इति रूपनाम । भूरीणि वर्पांसि येषां ते नानारूपाः। चित्रोतयः चित्रा विचित्रा नानाविधा ऊतयो रक्षा अवनानि अन्नानि तर्पणानि वा त्वत्कृतानि येषां ते । लया तर्पिता इत्यर्थः । वामजाताः वामं वननीयं संभजनीयं जातं जन्म येषां ते । विशिष्टदेशजातिकुलोत्पन्ना इत्यर्थः ॥ १०८॥
नवोत्तरशततमी ।
इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य ।
स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतु॑म् ।। १०९ ।।
उ० इरज्यन् अत्रोपरितनोऽर्धर्चः प्रथम व्याख्यायते । स इत्यस्य च पदस्य स्थाने यदोवृत्तिः । सर्वनामसामान्याद्वाक्यवशाच्च विभक्तिव्यत्ययोऽत्र कर्तव्यः। स दर्शतस्य वपुषो विराजसि । यस्त्वं दर्शनीयेन वपुषा शरीरेण ज्वालालक्षणेन विराजसि देदीप्यसे पृणक्षि पूरयसि । सानसिं चिरन्तनम् क्रतुं संकल्पम् तं त्वां ब्रवीमि । इरज्यन्दीप्यमान हे अग्ने, प्रथयस्व पृथुर्भव । स्वार्थे णिच् । जन्तुभिः मनुष्यैरध्वर्युप्रभृतिभिः चीयमान इति शेषः । अस्मे अस्मासु च रायो धनानि धारयन् स्थापयन् प्रथयस्वेत्यनुषज्यते । हे अमर्त्य अमरणधर्मन् ॥ १०९॥
म० हे अमरणधर्मन् हे अग्ने, रायो धनानि अस्मे अस्मासु त्वं प्रथयस्व विस्तारय । कीदृशस्त्वम् । जन्तुभिः प्राणिभिर्हविःप्रदैरध्वर्युप्रभृतिभिः इरज्यन् दीप्यमानः । किंच यस्त्वमीदृशो धनप्रथयिता स त्वं दर्शतस्य दर्शनीयस्य वपुषः चित्याग्निरूपस्य शरीरस्य मध्ये विराजसि विशेषेण दीप्यसे ।। विभक्तिव्यत्ययो वा । दर्शतेन वपुषा ज्वालालक्षणेन शरीरेण विराजसि । सानसिं चिरन्तनं क्रतुं संकल्पं पृणक्षि पूरयसि सर्वेष्टं ददासीत्यर्थः ॥ १०९॥
दशोत्तरशततमी।
इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्त॒ᳪं᳭ राध॑सो म॒हः ।
रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिᳪं᳭ र॒यिम् ।। ११० ।।
उ० इष्कर्तारम् यं तमिष्कर्तारम् निरुपसर्गस्यादिलोपः। निश्चयेन कर्तारम् अध्वरस्य यज्ञस्य । प्रचेतसं प्रकृष्टप्रज्ञानम् । क्षयन्तम् 'क्षि निवासगत्योः' । क्षयन्तं निवसन्तम् राधसो महः । राध इति धननाम । सप्तम्यर्थे षष्ठ्यौ । राधसि महति स्तुमः। स त्वं रातिं दानं दधासि । कस्य संबन्धिनीम् । वामस्य वननीयस्य दातुः संबन्धिनीम् । कथंभूताम् । सुभगाम् । भगशब्दो धनवचनः । किंच । महीमिषम् महतीं च इषं वृष्टिमन्नं वा दधासि । सानसिं पुराणं रयिं धनम् स्मर्यमाणविषयं निधानलक्षणं दधासि ॥ ११०॥
म० हे अग्ने, अध्वरस्य यज्ञस्य इष्कर्तारम् निस उपसर्गस्य नलोपः पूर्वमुक्तः (८३) निष्कर्तारं निश्चयेन कर्तारं यज्ञनिष्पादकं प्रचेतसं प्रकृष्टचित्तयुक्तं क्षयन्तम् 'क्षि निवासगत्योः' विशिष्टस्थाने निवसन्तमीदृशं यजमानं प्रति वामस्य वननीयस्य महो महतो राधसो धनस्य रातिं दानं त्वं दधासि ददासि । किंच सुभगां सुष्ठु भजनीयां महीं महतीमिषमन्नं च ददासि । सानसिं पुराणं रयिं धनमस्मर्यमाणविषयं निधानलक्षणं च दधासि निधिं दर्शयसीत्यर्थः ॥११०॥
एकादशोत्तरशततमी।
ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निᳪं᳭ सु॒म्नाय॑ दधिरे पु॒रो जना॑: ।
श्रुत्क॑र्णᳪं᳭ स॒प्रथ॑स्तमं त्वा गि॒रा दै॑व्यं॒ मानु॑षा यु॒गा ।। १११ ।।
उ० ऋतावानम् । यत्त्वामृतवानं सत्यवन्तं महिषं महान्तम् । विश्वदर्शतम् सर्वस्य दर्शनीयम् अग्निम् । अन्यदेवतानिवृत्त्यर्थोऽग्निशब्दः। सुम्नाय यज्ञाय दधिरे स्थापितवन्तः। पुरोऽग्रतः आहवनीयात्मना जनाः यजमानाः तं त्वाम् श्रुत्कर्णम् शृणोत्याह्वानं श्रुत्वा चानुतिष्ठति यः स श्रुत्कर्णः । सप्रथस्तमं सर्वतः पृथुतमं ऊर्ध्वमधोऽनवच्छिन्नगतिविज्ञानम् गिरा वाचा स्तुत्या । दैव्यं देवम् । स्वार्थे यत्प्रत्ययः । मानुषा मनुष्याः । युगा । युगशब्दः कालवचनः। कालैर्निमित्तभूतैः पूर्णमास्यमावस्यादिभिराह्वयन्ति ॥ ११॥
म० उपरिष्टाज्ज्योतिः । यस्यास्त्रयः पादा द्वादशाक्षराश्चतुर्थोऽष्टाक्षरः सोपरिष्टाज्ज्योतिः । मानुषा विभक्तेराकारः । मनुष्या जना मनुष्यजातियुक्ता जन्तव ऋत्विग्यजमानाः। युगा विभक्तेराकारः । युगशब्दः कालवाची । युगैः कालैः पौर्णमास्यमावास्यादिभिर्निमित्तैः गिरा वेदवाचा कृत्वा सुम्नाय यज्ञाय त्वा त्वामग्निं पुरोऽग्रतः पूर्वभागे आहवनीयरूपेण दधिरे स्थापितवन्तः । किंभूतं त्वामृतवानमृतमस्यास्तीति ऋतवा तं सत्यवन्तम् । छान्दसो दीर्घः । 'छन्दसीवनिपौ वाच्यौ वंश्च मतुप् च' (पा० ५। २ । १०९) इत्यस्त्यर्थे वन्प्रत्ययः । महिषं महान्तं विश्वदर्शतं सर्वस्य दर्शनीयं श्रुत्कर्णं शृणुत इति श्रुतौ क्विप् । श्रुतौ कर्णौ यस्य तम् । यद्विज्ञाप्यते तत्सत्यमेव कर्णाभ्यां श्रुत्वा संपादयतीत्यर्थः । सप्रथस्तमं प्रथनं प्रथः कीर्तिः । 'प्रथ प्रख्याने' अस्मादसुन्प्रत्ययः । प्रथसा सह वर्तमानः सप्रथाः अतिशयेन सप्रथाः सप्रथस्तमस्तमतिकीर्तिमन्तम् । दैव्यं देव एव दैव्यस्तं स्वार्थे यत् । यद्वा देवेभ्यो हितम् ॥ १११॥
द्वादशोत्तरशततमी।
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य सङ्ग॒थे ।। ११२ ।।
उ० सिकता अभिमृशति । आप्यायस्व । तिस्रः सौम्याः गायत्रीत्रिष्टुप्उष्णिहः वा गायत्र्यः द्वाभ्यां विनियोगः । आप्यायस्व आत्मानमभिवर्धय । कथं कृत्वा । समेतु ते । सामगच्छतु तव विश्वतः सर्वतः हे सोम, वृष्ण्यं सर्वभूतबीजम् । ततस्त्वं सर्वभूतोत्पत्तिना वृष्ण्येन भव । वाजस्यान्नस्य सङ्गथे सङ्गमने । अन्नभावं प्राप्नुहि अन्नं वा प्राप्नुहि ॥ ११२॥
म० 'आप्यायस्वेति सिकतालम्भनमृग्भ्याम्' (का० १७ । ३ । १६)। आत्मनि विस्तारिताः सिकताः स्पृशति ऋग्द्वयेन । गोतमदृष्टाः सोमदेवत्यास्तिस्रो गायत्रीत्रिष्टबुष्णिक्छन्दस्काः 'आप्यायस्व मदिन्तम' (११४) इति तृतीयस्या विनियोगः सूत्रे नास्ति । हे सोम, विश्वतः सर्वस्मात् वृष्ण्यं वीर्यं सर्वभूतोत्पत्तिकृद्बीजं ते तव समेतु समागच्छतु । तेन च वीर्येण त्वमाप्यायस्व सर्वतो वर्धस्व । किंच वाजस्यान्नस्य संगथे सङ्गमननिमित्तं भव । अन्नमस्मासु सङ्गमयेत्यर्थः ॥ ११२ ॥
त्रयोदशोत्तरशततमी।
सं ते॒ पया॑ᳪं᳭सि॒ समु॑ यन्तु॒ वाजा॒: सं वृष्ण्या॑न्यभिमाति॒षाह॑: ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑ᳪं᳭स्युत्त॒मानि॑ धिष्व ।। ११३ ।।
उ० सं ते पयांसि । संयन्तु ते तव पयांसि रसाः सारभूताः । संयन्तु च वाजाः अन्नानि । संयन्तु च वृष्ण्यानि रेतांसि । अभिमातिषाहः पाप्मनोऽभिभवतु सोमस्य ततः तैः पयोन्नवृष्ण्यैः आप्यायमानः अमृताय भव । प्रजात्यै अमरणधर्मिण्यै भव । 'प्रजात्यां तदमृतं दधाति तस्मात्प्रजातिरमृता' इति श्रुतिः । हे सोम, ततो दिवि द्युलोके श्रवांसि चन्द्ररूपाणि उत्तमानि आहुतिपरिणामजनितानि । धिष्व धारयस्व ॥ ११३॥
म० हे सोम, पयांसि पातव्या रसाः ते तव संयन्तु सङ्गच्छन्ताम् । उत अपिच वाजा अन्नानि संयन्तु वृष्ण्यानि रेतांसि ते संयन्तु । कीदृशस्य ते । अभिमातिषाहः अभिमातिं पाप्मानं सहतेऽभिभवतीत्यभिमातिसाट् तस्याभिमातिसाहः । षत्वं छान्दसम् । हे सोम, पयोऽन्नवृष्ण्यैराप्यायमानः वर्धमानः सन् अमृताय अमरणधर्मिण्यै प्रजात्यै पुत्रादिवृद्ध्यै यजमानस्य भवेति शेषः । अमृतशब्देन श्रुत्या प्रजातिर्व्याख्याता । तथाच श्रुतिः 'प्रजात्यां तदमृतं दधाति तस्मात्प्रजातिरमृतेति' (७ । ३ । १। ४६)। किंच दिवि द्युलोके उत्तमानि उत्कृष्टानि श्रवांसि अन्नानि आहुतिपरिणामजनितानि धिष्व धारय संपादय । लोकद्वयभोगं संपादयेत्यर्थः । 'धि धारणे' तुदादिः विकरणव्यत्यय आत्मनेपदं च छान्दसम् 'बहुलं छन्दसि' (पा० २ । ४ । ७३) इत्युक्ते 'सुधितवसुधित' (पा० ७ । ४ । ४५) इति सूत्रेण दधातेर्निपातो वा धत्स्वेत्यर्थे ॥ ११३ ॥
चतुर्दशोत्तरशततमी।
आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वे॑भिर॒ᳪं᳭शुभि॑: । भवा॑ नः स॒प्रथ॑स्तम॒: सखा॑ वृ॒धे ।। ११४ ।।
उ० आप्यायस्व । हे सोम, त्वमात्मानमाप्यायस्व । मदिन्तम मदयितृतम । यद्वा मदोऽस्यास्तीति मदी अतिशयेन मदी मदिन्तमः । 'नाद्धस्य' इति नुट् । विश्वेभिः | सर्वैरंशुभिः । ततः समर्थः सन् भव नः अस्माकम् सप्रथस्तमः सखा । सर्वतः प्रथयितृतमः सखा । वृधे वर्धनाय ॥ ११४॥
म० हे मदिन्तम, मदयति तर्पयतीति मदी। गहादिवाण्णिनिप्रत्ययः (पा० ३ । १ । १३४ ) । यद्वा मदस्तृप्तिरस्यास्तीति मदी 'अत इनिठनौ' (पा० ५।२। ११५) इतीन् अतिशयेन मदी मदिन्तमः (पा० ८।२।१७) इति नान्तात्परस्य तमपो नुडागमः । ईदृश हे सोम, विश्वेभिर्विश्वैः सर्वैरंशुभिः सूक्ष्मांशैः आप्यायस्व प्रवृद्धो भव । वृद्धः सन्नोऽस्माकं वृधे वर्धनाय सखा सहायो भव । 'द्व्यचोऽतस्तिङः' (पा० ६। | ३ । १३५) इति संहितायां दीर्घः । कीदृशस्त्वम् । सप्रथस्तमः अत्यन्तं सप्रथाः सकीर्तिः सप्रथस्तमः ॥ ११४ ॥
पञ्चदशोत्तरशततमी।
आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वाङ्का॑मया गि॒रा ।। ११५ ।।
उ० हौत्रम् । आ ते वत्सः । आग्नेय्यस्तिस्रो गायत्र्यः । हे अग्ने, आयमत् गृहीतवान् ते तव वत्सः पयोजीवनसामान्याद्यजमानो वत्स उक्तः । स हि पयोव्रतो भवति । मनः अन्तःकरणम् परमाच्चित्सधस्थात् । चिच्छब्दोऽप्यर्थे । परमादपि सहस्थानात् आदृत्येति शेषः । सहस्थानं देवैः समानं स्थानं द्युलोकोऽग्नेः केन वत्सो मन आयमदित्यत आह । त्वांकामया । त्वां स्तोतुं कामयमानया गिरा वाचा ॥ ११५॥
म०. 'श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताभावेऽश्वेतेऽश्वाभावेऽनडुह्यग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति' ( का० १७ । ३ । २०-२१) । श्वेतवर्णेऽश्वेऽन्यवर्णे तदभावे वृषे वा तिष्ठति सति अग्निभ्यः प्रह्रियमाणेभ्योऽनुब्रूहीति प्रेषितो होता आ ते वत्स इति तृचमनुवक्तीति सूत्रार्थः । अग्निदेवत्यास्तिस्रो गायत्र्यः आद्यावत्सारदृष्टा द्वितीया विरूपदृष्टा तृतीया प्रजापतिदृष्टैव । हे अग्ने, ते तव वत्सः पयोव्रतत्वाद्वत्ससमस्त्वत्प्रियो यजमानः परमाच्चित् । चिदप्यर्थे । उत्कृष्टादपि सधस्थात्सहस्थानात् द्युलोकात् मन आहृत्येति शेषः । आयमत् आयच्छति गृह्णाति मनोनिग्रहं करोतीत्यर्थः । 'इतश्च लोपः' (पा० ३ । ४ । ९७) इति इकारलोपे यमदिति रूपम् । 'इषुगमियमां छः' (पा. ७। ३। ४७) इति छत्वाभावश्छान्दसः । कया गिरा वेदवाचा मन आहृत्येत्यर्थः । कीदृश्या गिरा । त्वां कामया त्वां कामयते स्तोतुमिच्छतीति त्वांकामा तया अलुक् । देवैः सह तिष्ठति यस्मिन्नग्निः तत्सधस्थं द्युलोकः 'सधमाद-' (पा० ६।३। ९६) इति सहस्य सधादेशः ॥ ११५ ॥
षोडशोत्तरशततमी।
तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑: सुक्षि॒तय॒: पृथ॑क् । अग्ने॒ कामा॑य येमिरे ।। ११६ ।।
उ० तुभ्यं ताः । तुभ्यं हवींषि दत्वा यजमानैः ततोऽनन्तरम् ताः स्तुतयः हे अङ्गिरस्तम । अन्नं गिरतीत्यङ्गिरस्तमस्तस्य संबोधनं हे अङ्गिरस्तम । विश्वाः सर्वाः सुक्षितयः शोभननिवसनाः । स्थानकरणानुप्रदानवत्यो देवताः याथात्म्यसंतानचिन्तनगर्भाः पृथक् नानाभूताः हे अग्ने, कामय कामपरिपूरणार्थम् त्वय्येव येमिरे । कर्मणि लकारः । नियम्यन्ते स्तुतयः ॥ ११६ ॥
म० हे अङ्गिरस्तम, अन्यते जीव्यते येनेत्यन् अन्नम् 'अन् प्राणने' क्विप् । अन् अन्नं गिरति अत्तीत्यङ्गिराः अतिशयेनाङ्गिरा अङ्गिरस्तमः हे अग्ने, पृथक् नानाभूताः विश्वाः सर्वाः ताः प्रसिद्धाः स्तुतयः कामायाभिलाषपूरणाय तुभ्यं त्वयि येमिरे नियम्यन्ते । यजमानैरिति शेषः । कर्मणि लिट् । कीदृश्यः । सुक्षितयः शोभनाः क्षितयो निवासा याभ्यस्ताः । स्वर्गादिशुभस्थानप्रदा इत्यर्थः । यजमाना इह कामपूर्त्यै द्युलोकाप्त्यै च मन्त्रैस्त्वामेव स्तुवन्तीति भावः ॥ ११६ ॥
सप्तदशोत्तरशततमी।
अ॒ग्निः प्रि॒येषु॒ धाम॑सु॒ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ वि रा॑जति ।। ११७ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां द्वादशोऽध्यायः ॥ १२ ॥
उ० अग्निः प्रियेषु । योऽग्निः प्रियेष्वभिरुचितेषु धामसु स्थानेष्ववस्थितानाम् कामः कामपूरकः सः भूतस्योत्पन्नस्य प्राणिजातस्य भव्यस्य भविष्यतश्च । सम्राट् सङ्गतराज्यभावः सन् एक एवासहायः विराजति इष्टे अधिपतिः विविधं दीप्यते ॥ ११७ ॥
इति उवटकृतौ मन्त्रभाष्ये द्वादशोऽध्यायः ॥ १२ ॥
म० अग्निः प्रियेषु अभिरुचितेषु धामसु स्थानेषु धिष्ण्येषु एकोऽसहायभूतः सन् विराजति विशेषेण दीप्यते । कीदृशोऽग्निः । भूतस्योत्पन्नस्य भव्यस्य भविष्यतश्च जनस्य कामः कामपूरकः । सम्राट् सम्यक् राजमानः शोभमानः । भूतस्य भव्यस्य सम्राडीश्वर इति वा । काम्यते सर्वैर्यष्टुमिष्यत इति काम इति वा ॥ ११७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। रुक्मादिवाचनान्तोऽयं द्वादशोऽध्याय ईरितः ॥ १२ ॥