शतपथब्राह्मणम्/काण्डम् ६/अध्यायः २/ब्राह्मणम् ३

विकिस्रोतः तः

६.२.३

एतद्वै देवा अब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तेषां चेतयमानानां प्रजापतिरिमां प्रथमां स्वयमातृण्णां चितिमपश्यत्तस्मात्तां प्रजापतिनोपदधाति - ६.२.३.१

तमग्निरब्रवीत् । उपाहमायानीति केनेति पशुभिरिति तथेति पश्विष्टकया ह तदुवाचैषा वाव पश्विष्टका यद्दूर्वेष्टका तस्मात्प्रथमायै स्वयमातृण्णाया अनन्तर्हिता दूर्वेष्टकोपधीयते तस्मादस्या अनन्तर्हिता ओषधयोऽनन्तर्हिताः पशवोऽनन्तर्हितोऽग्निरनन्तर्हितो ह्येष एतयोपैत् - ६.२.३.२

तेऽब्रुवन् । चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति तेषां चेतयमानानामिन्द्राग्नी च विश्वकर्मा चान्तरिक्षं द्वितीयां स्वयमातृण्णां चितिमपश्यंस्तस्मात्तामिन्द्राग्निभ्यां च विश्वकर्मणा चोपदधाति - ६.२.३.३

तान्वायुरब्रवीत् । उपाहमायानीति केनेति दिग्भिरिति तथेति दिश्याभिर्ह तदुवाच तस्माद्द्वितीयायै स्वयमातृण्णाया अनन्तर्हिता दिश्या उपधीयन्ते तस्मादन्तरिक्षादनन्तर्हिता दिशोऽनन्तर्हितो वायुरनन्तर्हितो ह्येष एताभिरुपैत् - ६.२.३.४

तेऽब्रुवन् । चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति तेषां चेतयमानानां परमेष्ठी दिवं तृतीयं स्वयमातृण्णां चितिमपश्यत्तस्मात्तां परमेष्ठिनोपदधाति - ६.२.३.५

तमसावादित्योऽब्रवीत् । उपाहमायानीति केनेति लोकम्पृणयेति तथेत्येष वाव लोकम्पृणात्मना हैव तदुवाच तस्मात्तृतीया स्वयमातृण्णानन्तर्हिता लोकम्पृणाया उपधीयते तस्मादसावादित्योऽनन्तर्हितो दिवोऽनन्तर्हितो ह्येष एतयोपैत् - ६.२.३.६

तदेता वाव षड्देवताः । इदं सर्वमभवन्यदिदं किं च ते देवाश्चऽर्षयश्चाब्रुवन्निमा वाव षड्देवता इदं सर्वमभूवन्नुप तज्जानीत यथा वयमिहाप्यसामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथा वयमिहाप्यसामेति तेषां चेतयमानानां देवा द्वितीयां चितिमपश्यन्नृषयश्चतुर्थीम् - ६.२.३.७

तेऽब्रुवन् । उप वयमायामेति केनेति यदेषु लोकेषूपेति तथेति तद्यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तेन देवा उपायंस्तदेषा द्वितीया चितिरथ यदूर्ध्वमन्तरिक्षादर्वाचीनं दिवस्तेनऽर्षय उपायंस्तदेषा चतुर्थी चितिः - ६.२.३.८

ते यदब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्यच्चेतयमाना अपश्यंस्तस्माच्चितयः - ६.२.३.९

प्रजापतिः प्रथमां चितिमपश्यत् । प्रजापतिरेव तस्या आर्षेयं देवा द्वितीयां चितिमपश्यन्देवा एव तस्या आर्षेयमिन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यंस्त एव तस्या आर्षेयमृषयश्चतुर्थीं चितिमपश्यन्नृषय एव तस्या आर्षेयं परमेष्ठी पञ्चमीं चितिमपश्यत्परमेष्ठ्येव तस्या आर्षेयं स यो हैतदेवं चितीनामार्षेयं वेदार्षेयवत्यो हास्य बन्धुमत्यश्चितयो भवन्ति - ६.२.३.१०