शतपथब्राह्मणम्/काण्डम् ५/अध्यायः १/ब्राह्मण १
५.१.१ वाजपेययज्ञः
देवाश्च वा असुराश्च । उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः - ५.१.१.१
अथ देवाः । अन्योऽन्यस्मिन्नेव जुह्वतश्चेरुस्तेभ्यः प्रजापतिरात्मानं प्रददौ यज्ञो हैषामास यज्ञो हि देवानामन्नम् - ५.१.१.२
ते होचुः । कस्य न इदं भविष्यतीति ते मम ममेत्येव न सम्पादयां चक्रुस्ते हासम्पाद्योचुराजिमेवास्मिन्नजामहै स यो न उज्जेष्यति तस्य न इदं भविष्यतीति तथेति तस्मिन्नाजिमाजन्त - ५.१.१.३
स बृहस्पतिः । सवितारमेव प्रसवायोपाधावत्सविता वै देवानां प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रासुवत्तत्सवितृप्रसूत उदजयत्स इदं सर्वमभवत्स इदं सर्वमुदजयत्प्रजापतिं ह्युदजयत्सर्वमु ह्येवेदं प्रजापतिस्तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत्तस्माद्यश्च वेद यश्च नैषोर्ध्वा बृहस्पतेर्दिगित्येवाहुः - ५.१.१.४
तद्ये ह स्म पुरा वाजपेयेन यजन्ते । एतां ह स्मैवोर्ध्वा दिशमुत्क्रामन्ति तत औपाविनैव जानश्रुतेयेन प्रत्यवरूढं ततोऽर्वाचीनं प्रत्यवरोहन्ति - ५.१.१.५
तेनेन्द्रोऽयजत । स इदं सर्वमभवत्स इदं सर्वमुदजयत्प्रजापतिं ह्युदजयत्सर्वमु ह्येवेदं प्रजापतिस्तेनेष्ट्वैतामेवोर्ध्वां दिशमुदक्रामत् - ५.१.१.६
तद्ये ह स्म पुरा वाजपेयेन यजन्ते । एतां ह स्मैवोर्ध्वां दिशमुत्क्रामन्ति तत औपाविनैव जानश्रुतेयेन प्रत्यवरूढं ततोऽर्वाचीनं प्रत्यवरोहन्ति - ५.१.१.७
स यो वाजपेयेन यजते । स इदं सर्वं भवति स इदं सर्वमुज्जयति प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः - ५.१.१.८
तदाहुः । न वाजपेयेन यजेत सर्वं वा एष इदमुज्जयति यो वाजपेयेन यजते प्रजापतिं ह्युज्जयति सर्वमु ह्येवेदं प्रजापतिः स इह न किं चन परिशिनष्टि तस्येश्वरः प्रजा पापीयसी भवितोरिति - ५.१.१.९
तदु वै यजेतैव । य एवमेतं यज्ञं कॢप्तं विद्युर्ऋक्तो यजुष्टः सामतो ये प्रजज्ञयस्त एनं याजयेयुरेषा ह त्वेतस्य यज्ञस्य समृद्धिर्यदेनं विद्वांसो याजयन्ति तस्मादु यजेतैव - ५.१.१.१०
स वा एष ब्राह्मणस्यैव यज्ञः । यदेनेन बृहस्पतिरयजत ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणोऽथो राजन्यस्य यदेनेनेन्द्रोऽयजत क्षत्रं हीन्द्रं क्षत्रं राजन्यः - ५.१.१.११
राज्ञ एव राजसूयम् । राजा वै राजसूयेनेष्ट्वा भवति न वै ब्राह्मणो राज्यायालमवरं वै राजसूयं परं वाजपेयम् - ५.१.१.१२
राजा वै राजसूयेनेष्ट्वा भवति । सम्राङ्वाजपेयेनावरं हि राज्यं परं साम्राज्यं कामयेत वै राजा सम्राड्भवितुमवरं हि राज्यं परं साम्राज्यं न सम्राट्कामयेत राजा भवितुमवरं हि राज्यं परं साम्राज्यम् - ५.१.१.१३
स यो वाजपेयेनेष्ट्वा सम्राड्भवति । स इदं सर्वं संवृङ्क्ते सकर्मणःकर्मणः पुरस्तादेतां सावित्रीमाहुतिं जुहोति देव सवितः प्रसुव यज्ञम्प्रसुव यज्ञपतिं भगायेति - ५.१.१.१४
तद्यथैवादो बृहस्पतिः । सवितारं प्रसवायोपाधावत्सविता वै देवानाम्प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रासुवत्तत्सवितृप्रसूत उदजयदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानां प्रसवितेदं मे प्रसुव त्वत्प्रसूत इदमुज्जयानीति तदस्मै सविता प्रसविता प्रसौति तत्सवितृप्रसूत उज्जयति - ५.१.१.१५
तस्मादाह । देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाजं नः स्वदतु स्वाहेति प्रजापतिर्वै वाचस्पतिरन्नं वाजः प्रजापतिर्न इदमद्यान्नं स्वदत्वित्येवैतदाह स एतामेवाहुतिं जुहोत्या श्वःसुत्याया एतद्ध्यस्यैतत्कर्मारब्धं भवति प्रसन्न एतं यज्ञं भवति - ५.१.१.१६