शतपथब्राह्मणम्/काण्डम् ५/अध्यायः २/ब्राह्मण ३
५.२.३ अथ राजसूययज्ञः
पूर्णाहुतिं जुहोति । सर्वं वै पूर्णं सर्वं परिगृह्य सूया इति तस्यां वरं ददाति सर्वं वै वरः सर्वं परिगृह्य सूया इति स यदि कामयेत जुहुयादेतां यद्यु कामयेतापि नाद्रियेत - ५.२.३.१
अथ श्वो भूते । अनुमत्यै हविरष्टाकपालं पुरोडाशं निर्वपति स ये जघनेन शम्यां पिष्यमाणानामवशीयन्ते पिष्टानि वा तण्डुला वा तान्त्स्रुवे सार्धं संवपत्यन्वाहार्यपचनादुल्मुकमाददते तेन दक्षिणा यन्ति स यत्र स्वकृतं वेरिणं विन्दति श्वभ्रप्रदरं वा - ५.२.३.२
तदग्निं समाधाय जुहोति । एष ते निर्ऋते भागस्तं जुषस्व स्वाहेतीयं वै निर्ऋतिः सा यं पाप्मना गृह्णाति तं निर्ऋत्या गृह्णाति तद्यदेवास्या अत्र नैर्ऋतं रूपं तदेवैतच्छमयति तथो हैनं सूयमानं निर्ऋतिर्न गृह्णात्यथ यत्स्वकृते वेरिणे जुहोति श्वभ्रप्रदरे वैतदु ह्यस्यै निर्ऋतिगृहीतम् - ५.२.३.३
अथाप्रतीक्षं पुनरायन्ति । अथानुमत्या अष्टाकपालेन पुरोडाशेन प्रचरतीयं वा अनुमतिः स यस्तत्कर्म शक्नोति कर्तुं यच्चिकीर्षतीयं हास्मै तदनुमन्यते तदिमामेवैतत्प्रीणात्यनयाऽनुमत्याऽनुमतः सूया इति - ५.२.३.४
अथ यदष्टाकपालो भवति । अष्टाक्षरा वै गायत्री गायत्री वा इयं पृथिव्यथ यत्समानस्य हविष उभयत्र जुहोत्येषा ह्येवैतदुभयं तस्य वासो दक्षिणा यद्वै सवासा अरण्यं नोदाशंसते निधाय वै तद्वासोऽतिमुच्यते तथो हैनं सूयमानमासङ्गो न विन्दति - ५.२.३.५
अथ श्वो भूते । आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति तेन यथेष्ट्यैवं यजते तद्यदेवादः प्रजातमाग्नावैष्णवं दीक्षणीयं हविस्तदेवैतदग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वत्यग्निर्वै यज्ञस्यावरार्ध्यो विष्णुः परार्ध्यस्तत्सर्वाश्चैवैतद्देवताः परिगृह्य सर्वं च यज्ञं परिगृह्य सूया इति तस्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति तस्य हिरण्यं दक्षिणाग्नेयो वा एष यज्ञो भवत्यग्ने रेतो हिरण्यं यो वै विष्णुः स यज्ञोऽग्निरु वै यज्ञ एव तदु तदाग्नेयमेव तस्माद्धिरण्यं दक्षिणा - ५.२.३.६
अथ श्वो भूते । अग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपति तेन यथेष्ट्यैवं यजत एतेन वा इन्द्रो वृत्रमहन्नेतेनो एव व्यजयत याऽस्येयं विजितिस्तां तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति तथो एव विजयते विजितेऽभयेऽनाष्ट्रे सूया इति तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति तस्योत्सृष्टो गौर्दक्षिणोत्सर्जं वा अमुं चन्द्रमसं घ्नन्ति पौर्णमासेनाह घ्नन्त्यामावास्येनोत्सृजन्ति तस्मादुत्सृष्टो गौर्दक्षिणा - ५.२.३.७
अथ श्वो भूते । ऐन्द्राग्नं द्वादशकपालं पुरोडाशं निर्वपति तेन यथेष्ट्यैवं यजते यत्र वा इन्द्रो वृत्रमहंस्तदस्य भीतस्येन्द्रियं वीर्यमपचक्राम स एतेन हविषेन्द्रियं वीर्यं पुनरात्मन्नधत्त तथो एवैष एतेन हविषेन्द्रियं वीर्यमात्मन्धत्ते तेजो वा अग्निरिन्द्रियं वीर्यमिन्द्र उभे वीर्ये परिगृह्य सूया इति तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति तस्यर्षभोऽनड्वान्दक्षिणा स हि वहेनाग्नेय आण्डाभ्यामैन्द्रस्तस्मादृषभोऽनड्वान्दक्षिणा - ५.२.३.८
अथाग्रयणेष्ट्या यजते । सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते देवसृष्टो वा एषेष्टिर्यदाग्रयणेष्टिरनया मेऽपीष्टमसदनयापि सूया इति तस्मादाग्रयणेष्ट्या यजत ओषधीर्वा एष सूयमानोऽभिसूयते तदोषधीरेवैतदनमीवा अकिल्विषाः कुरुतेऽनमीवा अकिल्विषा ओषधीरभिसूया इति तस्य गौर्दक्षिणा - ५.२.३.९
अथ चातुर्मास्यैर्यजते । सर्वान्वा एष यज्ञक्रतूनवरुन्द्धे सर्वा इष्टीरपि दर्विहोमान्यो राजसूयेन यजते देवसृष्टो वा एष यज्ञक्रतुर्यच्चातुर्मास्यान्येभिर्मेऽपीष्टमसदेभिरपि सूया इति तस्माच्चातुर्मास्यैर्यजते - ५.२.३.१०