सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ५/अध्यायः २

विकिस्रोतः तः

ब्राह्मण १ यूपारोहणम्

१ यूपारोहणम्-तत्र प्रथममाप्तिलिङ्गकैर्मन्त्रैर्होमस्य वा यजमानवाचनस्य वा विधानं तदुभयसमानार्थवादकथनं च, होममनूद्य तत्र द्वादशमन्त्रान्विधाय तद्गत- द्वादशत्वसंख्यायाः प्रशंसनं, पक्षान्तरे क्लृप्तिलिङ्गकैर्मन्त्रैर्होमस्य वा यजमान- वाचनस्य वा विधानं तदुभयसमानार्थवादकथनं च, वाचनमनूद्य तत्र षण्म- न्त्रान्विधाय तद्गतषड्संख्यायाः प्रशंसनं, यूपगताष्टाश्रित्वस्य तद्गतसंख्यायाश्च प्रशंसनपूर्वकं यूपस्य वाससा वेष्टनं विधाय तत्र वासोगतसंख्यायाः प्रजापत्यात्मना प्रशंसनं, चषालनामकस्य यूपशकलस्य दारुमयत्वापवादाय गोधूमपिष्टमयत्वस्य सार्थवादं विधानं, यूपे गर्तत्वादिगुणविशेषं विधाय तत्र गर्तस्य पितृलोकात्मना प्रशंसनं, यूपस्य चोदकप्राप्तपरिणामापवादाय परिमाणान्तरविधानं, नेष्टृकर्तृकं सार्थवादं सप्रकारकं सोपपत्तिकं पत्न्याः कौशवासःपरिधापनविधानम्, यूपे आरोहणार्थनिश्रयणीस्थापनं विधाय पूर्वोत्तरपक्षाभ्यां यूपारोहणप्रकारविषयकसिद्धान्तोपवर्णनं अन्वयव्यतिरेकाभ्यां जायासहितस्य पुंसः सम्पूर्णावयवत्वप्रतिपादनपुरःसरं यूपारोहणकाले जायाया आमंत्रणं विधाय तत्र मंत्रस्य विनियोजनं, सार्थवादं गोधूममयचषालस्पर्शनस्य समन्त्रकं विधानं, यूपमतीत्य शिरस उद्गमनस्य सफलं समंत्रकं विधानं, यूपेऽवस्थितस्य यजमानस्य सर्वासां दिशां समंत्रकं विधानं, सप्तदशाश्वत्थपत्रोपनद्धानामूषपुटानां वैश्यकर्तृकं समंत्रकं सकारणं सार्थवादमुत्क्षेपणविधानं, बृहस्पतिदृष्टान्तेन प्रशंसनपुरःसरं तत्रैव यजमानस्य मित्रत्वप्रयोजनाय समंत्रकं भूम्यवेक्षणविधानं, यूपाद्धिरण्ये रुक्मोत्तरे बस्ताजिने बस्ताजिनोत्तराग्रामौदुम्बर्यामासन्द्यां वाऽवरोहणस्य सप्रकारकं सार्थवादं विधानम्, आसन्द्यां बस्ताजि- नास्तरणे साभिप्रायं मंत्रं विनियुज्य तस्यां मंत्रमंत्रार्थसहितं यजमानस्योपवेशनविधानं चेत्यादि.


ब्राह्मण २

२ नैवारचरोः प्रचरणविधानं,वाजप्रसवीयहोमं विधातुं तत्कालं प्रतिपाद्य होमार्थ- मन्नसम्भरणविधानम्, अन्नसम्भरणार्थं पात्रविशेषस्य विधानपूर्वकमपां सम्भरण- विधानम्, अन्नसम्भरणे सोपपत्तिकां सप्तदशत्वसंख्यापूर्वपक्षयित्वा तां निराकृत्य च यथोपस्मारं सर्वान्नसम्भरणपक्षस्थापनम् तत्रापि एकान्नसम्भरणनिषेधकथनं च, असम्भियमाणान्नविषये किञ्चिद्विशेषविधानं, सम्भृतान्नेन सप्तदशानां वाजप्रसवीयसंज्ञकाहुतीनां सप्रकारकं समंत्रकं होमविधानं, हुतशेषान्नस्य यज- मानायाभिषेककरणरूपं विनियोगं प्रदर्श्य तत्र मंत्रं विनियुज्य च मन्त्रे पूर्वोत्तरपक्षाभ्यां परमतं प्रत्याख्याय स्वमतं प्रतिष्ठाप्य चोहप्रकारकथनं, साभिप्रायं त्रिःकृत्वाऽऽवेदनविधानम्, उज्जयलिङ्गकैर्मन्त्रैः सप्तदशानामुज्जितिसंज्ञकाहुतीनां होमविधानं विकल्पेन यजमानाय वाचनविधानं वा, उभयत्र विद्यमानमंत्रगतसप्तदशसंख्यायाः प्रजापत्यात्मना प्रशंसनं, चोदकप्राप्तस्य स्विष्टकृद्यागादिकस्यानुसन्धानकथनं, स्विष्टकृत्समनन्तरभाविनां कर्मणामनुष्ठानकथनम्, एषु कर्मसूज्जितिवाचनानन्तरं माहेन्द्रग्रहणं स्तोत्रशास्त्रे च कृत्वा स्विष्टकृदादिकं यजमानस्य पश्चादवरोहणं कर्तव्यमिति कस्यचिन्मतमनूद्य तद्दूषयित्वा चानुपदमुक्त एव पक्षः श्रेयानिति स्वमतप्रतिष्ठापनं चेत्यादि,


ब्राह्मण ३ राजसूययागः

३ अथ राजसूययागः-तत्रापि राजसूयाङ्गभूते पवित्रनामके प्रथमसोमयागेऽन्ते कर्तव्यस्य पूर्णाहुतिप्रभृतिवैशेषिकोत्तरतन्त्रस्याभिधानं, तत्राप्यादौ सत्यां कामनायां सेतिकर्तव्यताकं सदक्षिणाकं पूर्णाहुतिहोमविधानम्, आरम्भ- णीयस्थानीयात्पवित्राख्यादग्निष्टोमादह्नः परस्मिन्नहन्यनुमत्या अष्टाकपालपुरोडाशस्य निर्वपणं-शम्यायाः पश्चात्स्रुवे हविष्यान्नस्य संवपनं-दक्षिणाग्न्युल्मुकमादाय दक्षिणदिग्गमनं तत्रोल्मुकाग्निमाधाय स्रुवपूरितेन द्रव्येण समंत्रकं सप्रयोजनं नैर्ऋतहोमानुष्ठानं चेत्यादि विधानं, पुनरागत्यानुमत- हविः प्रचरणविधानं, कपालगताऽष्टत्वसख्यां गायत्रीद्वारा पृथिवीयोग्यत्वेन प्रशस्य तत्र वासोरूपां दक्षिणां विधाय तत्प्रशंसनं, तत्परेद्युः सेतिकर्तव्यतायाः सदक्षिणाया आग्नावैष्णवेष्टेर्विधिप्रदर्शनं, तदपरेद्युरग्नीषोमीयेष्टेः प्रकृतिवत्कर्तव्यत्वेन प्रदर्शनं, तस्यामुत्सृष्टस्य गोः सार्थवादं दक्षिणात्वेन विधानं, तत्परस्मिन्नहन्यैन्द्राग्नेष्टेः सार्थवादं साण्डानुडुद्दक्षिणासहितं सविशेषं विधानं, तदपरेद्युराग्रयणेष्टेः सप्रयोजनं सार्थवादं गौर्दक्षिणासहितं सविशेष विधानं, तत परं साभिप्रायं वाजसूयाङ्गत्त्वेन चातुर्मास्यानां यजनविधानं चेति.


ब्राह्मण ४ राजसूये चातुर्मासम्

४ चातुर्मास्यान्तर्गतानां वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाणां चतुर्णामपिपर्वणां सार्थवादं सदृष्टान्तं प्राकृतैष्टिकचातुर्मास्यवत्कर्तव्यतयाऽत्र राजसूये चोदनं, पञ्चवातीयसंज्ञकहोमविधानं, तत्र प्रागादिक्रमेण पञ्चस्वग्निषु समन्त्रकं हवनविधानं, पञ्चाग्नीनेकीकृत्य तस्मिन्पूर्वोक्तैरेव मंत्रैर्हवनविधानं, पञ्चवातीयहोमानुवादेन सार्थ- वादं द्रव्यस्य विधानम्, अग्नीनां समासेनानुष्ठिताहुतिपञ्चकस्य प्रशंसनं, पञ्च- वातीयहोमे त्रियुक्तस्याश्वरथस्य दक्षिणात्वेन विधानं, आरोग्यकामस्याप्ययं होमो भवतीति पुरुषार्थतयाऽस्य पञ्चवातीयहोमस्य स्वतन्त्रं विधानं, ततो हविश्चतुष्टयात्मकस्येन्द्रतुरीयकर्मणः साख्यायिकं विधानं, तस्मिन्निन्द्रतुरीये दक्षिणाविशेषकथनं च, ततोऽपामार्गहोमस्य सार्थवादं सप्रकारकं मन्त्रमन्त्रार्थसहितं विधानं, हवनोपयुक्तस्य पालाशवैकङ्कतयोरन्यतरस्य स्रुवस्य दिग्विशेषे सार्थवादं समन्त्रं क्षेपणविधानं, एतन्मन्त्रकरणकं पुनरागमनं विधायाभिवर्द्धमानस्यापि स्वोप- द्रवपरिहारायास्यापामार्गहोमस्य विधानम अस्मिन्नपामार्गहोमे आभिचारिकप्रयोगप्रदर्शनं चेत्यादि,


ब्राह्मण ५ त्रिषंयुक्तादियागाः

५ त्रिषंयुक्तादियागाः-तत्र पूर्वं पुरुषप्राप्तिहेतुत्वेन प्रथमत्रिषंयुक्तयागस्य विधानं, त्रयाणां हविषां विभागपूर्वकं प्रशंसनं प्रयोजनकथनं च, तत्र वामनं पुरुषं दक्षिणात्वेन विधाय तत्प्रशंसनं, पशुप्राप्तिहेतुत्वेन द्वितीयत्रिषंयुक्तयागस्य विधानम्, अत्रापि पूर्ववत्त्रयाणां हविषां विभागपूर्वकं प्रशंसनं प्रयोजनकथनं च, तत्र श्यामवर्णां गां दक्षिणात्वेन विधाय श्यामत्वस्योपपत्तिपूर्वकं तस्याः प्रशंसनं, ब्रह्मवर्चसप्राप्तिहेतुत्वेन तृतीयत्रिषंयुक्तयागस्य विधानम् , अत्रापि पूर्ववत्त्रयाणां हविषां विभागपूर्वकं प्रशंसनं प्रयोजनकथनं च, तत्र बभ्रुवर्णां गां दक्षिणात्वेन विधाय तत्प्रशंसनं, तदपरस्मिन्नहनि द्विहविष्कस्य यागस्यैकतन्त्रेण वा पूर्वेद्युर्वैश्वानरो द्वादशकपालः परेद्युर्वारुणो यवमयश्चरुरिति भिन्नतन्त्रेण वा विधानं, प्रथमस्य हविषो वैश्वानरदेवताकत्वं प्रशंस्य कपा- लसंख्यायाः प्रशंसनं द्वितीयहविषः प्रशंसनं च, अनयोर्हविषोः क्रमेण दक्षिणां विधाय तयोः प्रशंसनं चेत्यादि,