शतपथब्राह्मणम्/काण्डम् ५/अध्यायः २/ब्राह्मण ५

विकिस्रोतः तः
Jump to navigation Jump to search

५.२.५ त्रिषंयुक्तादियागाः

आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति । ऐन्द्रावैष्णवं चरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन त्रिषंयुक्तेन यजते पुरुषानेतद्देवा उपायंस्तथो एवैष एतत्पुरुषानेवोपैति - ५.२.५.[१]

स यदाग्नावैष्णवः । एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता वैष्णवाः पुरुषास्तदस्मा अग्निर्दाता पुरुषान्ददाति - ५.२.५.[२]

अथ यदैन्द्रावैष्णवः । चरुर्भवतीन्द्रो वै यजमानो वैष्णवाः पुरुषास्तदस्मा अग्निर्दाता पुरुषान्ददाति तैरेवैतत्संस्पृशते तानात्मन्कुरुते - ५.२.५.[३]

अथ यद्वैष्णवः । त्रिकपालो वा पुरोडाशो भवति चरुर्वा यानेवास्मा अग्निर्दाता पुरुषान्ददाति तेष्वेवैतदन्ततः प्रतितिष्ठति यद्वै पुरुषवान्कर्म चिकीर्षति शक्नोति वै तत्कर्तुं तत्पुरुषानेवैतदुपैति पुरुषवान्त्सूया इति तस्य वामनो गौर्दक्षिणा स हि वैष्णवो यद्वामनः - ५.२.५.[४]

अथापरेण त्रिषंयुक्तेन यजते । स आग्नापौष्णमेकादशकपालं पुरोडाशं निर्वपत्यैन्द्रापौष्णं चरुं पौष्णं चरुं तेन त्रिषंयुक्तेन यजते पशूनेव तद्देवा उपायंस्तथो एवैष एतत्पशूनेवोपैति - ५.२.५.[५]

स यदाग्नापौष्णः । एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता पौष्णाः पशवस्तदस्मा अग्निरेव दाता पशून्ददाति - ५.२.५.[६]

अथ यदैन्द्रापौष्णः । चरुर्भवतीन्द्रो वै यजमानः पौष्णाः पशवः स यानेवास्मा अग्निर्दाता पशून्ददाति तैरेवैतत्संस्पृशते तानात्मन्कुरुते - ५.२.५.[७]

अथ यत्पौष्णः । चरुर्भवति यानेवास्मा अग्निर्दाता पशून्ददाति तेष्वेवैतदन्ततः प्रतितिष्ठति यद्वै पशुमान्कर्म चिकीर्षति शक्नोति वै तत्कर्तुं तत्पशूनेवैतदुपैति पशुमान्त्सूया इति तस्य श्यामो गौर्दक्षिणा स हि पौष्णो यच्छ्यामो द्वे वै श्यामस्य रूपे शुक्लं चैव लोम कृष्णं च द्वन्द्वं वै मिथुनं प्रजननं वै पूषा पशवो हि पूषा पशवो हि प्रजननम्मिथुनमेवैतत्प्रजननं क्रियते तस्माच्छ्यामो गौर्दक्षिणा - ५.२.५.[८]

अथापरेण त्रिषंयुक्तेन यजते । सोऽग्नीषोमीयमेकादशकपालं पुरोडाशं निर्वपत्यैन्द्रासौम्यं चरुं सौम्यं चरुं तेन त्रिषंयुक्तेन यजते वर्च एव तद्देवा उपायंस्तथो एवैष एतद्वर्च एवोपैति - ५.२.५.[९]

स यदग्नीषोमीयः । एकादशकपालः पुरोडाशो भवत्यग्निर्वै दाता वर्चः सोमस्तदस्मा अग्निरेव दाता वर्चो ददाति - ५.२.५.[१०]

अथ यदैन्द्रासौम्यः । चरुर्भवतीन्द्रो वै यजमानो वर्चः सोमः स यदेवास्माअग्निर्दाता वर्चो ददाति तेनैवैतत्संस्पृशते तदान्मन्कुरुते - ५.२.५.[११]

अथ यत्सौम्यः । चरुर्भवति यदेवास्मा अग्निर्दाता वर्चो ददाति तस्मिन्नेवैतदन्ततः प्रतितिष्ठति यद्वै वर्चस्वी कर्म चिकीर्षति शक्नोति वै तत्कर्तुं तद्वर्च एवैतदुपैति वर्चस्वी सूया इति नो ह्यवर्चसो व्याप्त्या चनार्थोऽस्ति तस्य बभ्रुर्गौर्दक्षिणा स हि सौम्यो यद्बभ्रुः - ५.२.५.[१२]

अथ श्वोभूते । वैश्वानरं द्वादशकपालं पुरोडाशं निर्वपति वारुणं यवमयं चरुं ताभ्यामनूचीनाहं वेष्टिभ्यां यजते समानबर्हिर्भ्यां वा - ५.२.५.[१३]

स यद्वैश्वानरो भवति । संवत्सरो वै वैश्वानरः संवत्सरः प्रजापतिः प्रजापतिरेव तद्भूमानं प्रजाः ससृजे भूमानं प्रजाः सृष्ट्वा सूया इति तथो एवैष एतद्भूमानं प्रजाः सृजते भूमानं प्रजाः सृष्ट्वा सूया इति - ५.२.५.[१४]

अथ यद्द्वादशकपालो भवति । द्वादश वै मासाः संवत्सरस्य संवत्सरो वैश्वानरस्तस्माद्द्वादशकपालो भवति - ५.२.५.[१५]

अथ यद्वारुणो यवमयश्चरुर्भवति ।तत्सर्वस्मादेवैतद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रजाः प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायन्तेऽनमीवा अकिल्विषाः प्रजा अभि सूया इति - ५.२.५.[१६]

ऋषभो वैश्वानरस्य दक्षिणा । संवत्सरो वै वैश्वानरः संवत्सरः प्रजापतिर्ऋषभो वै पशूनां प्रजापतिस्तस्मादृषभो वैश्वानरस्य दक्षिणा कृष्णं वासो वारुणस्य तद्धि वारुणं यत्कृष्णं यदि कृष्णं न विन्देदपि यदेव किं च वासः स्याद्ग्रन्थिभिर्हि वासो वारुणं वरुण्यो हि ग्रन्थिः - ५.२.५.[१७]