शतपथब्राह्मणम्/काण्डम् ५/अध्यायः २/ब्राह्मण २

विकिस्रोतः तः

५.२.२

बार्हस्पत्येन चरुणा प्रचरति । तस्यानिष्ट एव स्विष्टकृद्भवत्यथास्मा अन्नं सम्भरत्यन्नं वा एष उज्जयति यो वाजपेयेन यजतेऽन्नपेयं ह वै नामैतद्यद्वाजपेयं तद्यदेवैतदन्नमुदजैषीत्तदेवास्मा एतत्सम्भरति - ५.२.२.१

औदुम्बरे पात्रे । अन्नं वा ऊर्गुदुम्बर ऊर्जोऽन्नाद्यस्यावरुद्ध्यै तस्मादौदुम्बरे पात्रे सोऽप एव प्रथमाः सम्भरत्यथ पयोऽथ यथोपस्मारमन्नानि - ५.२.२.२

तद्धैके । सप्तदशान्नानि सम्भरन्ति सप्तदशः प्रजापतिरिति वदन्तस्तदु तथा न कुर्यात्प्रजापतेर्न्वेव सर्वमन्नमनवरुद्धं क उ तस्मै मनुष्यो यः सर्वमन्नमवरुन्धीत तस्मादु सर्वमेवान्नं यथोपस्मारं सम्भरन्नेकमन्नं न सम्भरेत् - ५.२.२.३

स यन्न सम्भरति । तस्योद्ब्रुवीत तस्य नाश्नीयाद्यावज्जीवं तथा नान्तमेति तथा ज्योग्जीवति स एतस्य सर्वस्यान्नाद्यस्य सम्भृतस्य स्रुवेणोपघातं वाजप्रसवीयानि जुहोति तद्याभ्य एवैतद्देवताभ्यो जुहोति ता अस्मै प्रसुवन्ति ताभिः प्रसूत उज्जयति तस्माद्वाजप्रसवीयानि जुहोति - ५.२.२.४

स जुहोति । वाजस्येमं प्रसवः सुषुवेऽग्रे सोमं राजानमोषधीष्वप्सु ॥ ता अस्मभ्यं मधुमतीर्भवन्तु वयं राष्ट्रे जागृयाम पुरोहिताः स्वाहा - ५.२.२.५

वाजस्येमाम् । प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट्। अदित्सन्तं दापयति प्रजानन्त्स नो रयिं सर्ववीरं नियच्छतु स्वाहा - ५.२.२.६

वाजस्य नु । प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः॥ सनेमि राजा परियाति विद्वान्प्रजां पुष्टिं वर्धयमानो अस्मे स्वाहा - ५.२.२.७

सोमं राजानमवसेऽग्निमन्वारभामहे । आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिं स्वाहा - ५.२.२.८

अर्यमणं बृहस्पतिम् । इन्द्रं दानाय चोदय वाचं विष्णुं सरस्वतीं सवितारं च वाजिनं स्वाहा - ५.२.२.९

अग्ने अच्छा । वदेह नः प्रति नः सुमना भव। प्र नो यच्छ सहस्रजित्त्वं हि धनदा
असि स्वाहा - ५.२.२.१०

प्र नः । यच्छत्वर्यमा प्र पूषा प्र बृहस्पतिः प्र वाग्देवी ददातु नः स्वाहेति - ५.२.२.११

अथैनं परिशिष्टेनाभिषिञ्चति ।अन्नाद्येनैवैनमेतदभिषिञ्चत्यन्नाद्यमेवास्मिन्नेतद्दधाति तस्मादेनम्परिशिष्टेनाभिषिञ्चति - ५.२.२.१२

सोऽभिषिञ्चति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिति देवहस्तैरेवैनमेतदभिषिञ्चति सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामीति वाग्वै सरस्वती तदेनं वाच एव यन्तुर्यन्त्रिये दधाति - ५.२.२.१३

तदु हैक आहुः । विश्वेषां त्वा देवानां यन्तुर्यन्त्रिये दधामीति सर्वं वै विश्वेदेवास्तदेनं सर्वस्यैव यन्तुर्यन्त्रिये दधाति तदु तथा न ब्रूयात्सरस्वत्यै त्वा वाचो यन्तुर्यन्त्रिये दधामीत्येव ब्रूयाद्वाग्वै सरस्वती तदेनं वाच एव यन्तुर्यन्त्रिये दधाति बृहस्पतेष्ट्वा साम्राज्येनाभिषिञ्चाम्यसाविति नाम गृह्णाति तद्बृहस्पतेरेवैनमेतत्सायुज्यं सलोकतां गमयति - ५.२.२.१४

अथाह । सम्राडयमसौ सम्राडयमसाविति निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयत्ययं महावीर्यो योऽभ्यषेचीत्ययं युष्माकैकोऽभूत्तं गोपायतेत्येवैतदाह त्रिष्कृत्व आह त्रिवृद्धि यज्ञः - ५.२.२.१५

अथोज्जितीः । जुहोति वा वाचयति वा यदि जुहोति यदि वाचयति समान एव बन्धुः - ५.२.२.१६

स वाचयति । अग्निरेकाक्षरेण प्राणमुदजयत्तमुज्जेषं प्रजापतिः सप्तदशाक्षरेण सप्तदशं स्तोममुदजयत्तमुज्जेषमिति तद्यदेवैताभिरेतादेवता उदजयंस्तदेवैष एताभिरुज्जयति सप्तदश भवन्ति सप्तदशो वै प्रजापतिस्तत्प्रजापतिमुज्जयति - ५.२.२.१७

अथाहाग्नये स्विष्टकृतेऽनुब्रूहीति । तद्यदन्तरेणाहुती एतत्कर्म क्रियत एष वै प्रजापतिर्य एष यज्ञस्तायते यस्मादिमाः प्रजाः प्रजाता एतम्वेवाप्येतर्ह्यनु प्रजायन्ते तन्मध्यत एवैतत्प्रजापतिमुज्जयति तस्मादन्तरेणाहुती एतत्कर्म क्रियत आश्राव्याहाग्निं स्विष्टकृतं यजेति वषट्कृते जुहोति - ५.२.२.१८

अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सोऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य - ५.२.२.१९

तद्धैके । एतत्कृत्वाथैतत्कुर्वन्ति तदु तथा न कुर्यादात्मा वै स्तोत्रं प्रजा शस्त्रमेतस्माद्ध स यजमानं प्रणाशयति स जिह्म एति स ह्वलति तस्मादेतदेव कृत्वाऽथैतत्कुर्यात् - ५.२.२.२०

अथेडामादधाति । उपहूतायामिडायामप उपस्पृश्य माहेन्द्रं ग्रहं गृह्णाति माहेन्द्रं ग्रहं गृहीत्वा स्तोत्रमुपाकरोति तं स्तोत्राय प्रमीवति स उपावरोहति सोऽन्ते स्तोत्रस्य भवत्यन्ते शस्त्रस्य - ५.२.२.२१
इति वाजपेययज्ञाधिकारः