शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण १

विकिस्रोतः तः

४.४.१ सावित्रग्रहः

मनो ह वा अस्य सविता । तस्मात्सावित्रं गृह्णाति प्राणो ह वा अस्य सविता तमेवास्मिन्नेतत्पुरस्तात्प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्पश्चात्प्राणं दधाति यत्सावित्रं गृह्णाति ताविमा उभयतः प्राणौ हितौ यश्चायमुपरिष्टाद्यश्चाधस्तात् - ४.४.१.१

ऋतवो वै संवत्सरो यज्ञः । तेऽदः प्रातःसवने प्रत्यक्षमवकल्प्यन्ते यदृतुग्रहान्गृह्णात्यथैतत्परोऽक्षं माध्यन्दिने सवनेऽवकल्प्यन्ते यदृतुपात्राभ्यां मरुत्वतीयान्गृह्णाति न वा अत्रर्तुभ्य इति कं चन ग्रहं गृह्णन्ति नर्तुपात्राभ्यां कश्चन ग्रहो गृह्यते - ४.४.१.२

एष वै सविता य एष तपति । एष उ एव सर्व ऋतवस्तदृतवः संवत्सरस्तृतीयसवने प्रत्यक्षमवकल्प्यन्ते तस्मात्सावित्रं गृह्णाति - ४.४.१.३

तं वा उपांशुपात्रेण गृह्णाति । मनो ह वा ऽऽअस्य सविता प्राण उपांशुस्तस्मादुपांशुपात्रेण गृह्णात्यन्तर्यामपात्रेण वा समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि - ४.४.१.४

आग्रयणाद्गृह्णाति । मनो ह वा अस्य सवितात्माऽऽग्रयण आत्मन्येवैतन्मनो दधाति प्राणो ह वा अस्य सविताऽऽत्माग्रयण आत्मन्येवैतत्प्राणं दधाति - ४.४.१.५

अथातो गृह्णात्येव । वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम उपयामगृहीतोऽसि सावित्रोऽसि चनोधाश्चनोधा असि चनो मयि धेहि जिन्व यज्ञं जिन्व यज्ञपतिम्भगायेति - ४.४.१.६

तं गृहीत्वा न सादयति । मनो ह वा अस्य सविता तस्मादिदमसन्नं मनः प्राणो ह वा अस्य सविता तस्मादयमसन्नः प्राणः संचरत्यथाह देवाय सवित्रेऽनुब्रूहीत्याश्राव्याह देवाय सवित्रे प्रेष्येति वषट्कृते जुहोति नानुवषट्करोति मनो ह वा अस्य सविता नेन्मनोऽग्नौ प्रवृणजानीति प्राणो ह वा अस्य सविता नेत्प्राणमग्नौ प्रवृणजानीति - ४.४.१.७


वैश्वदेवग्रहः

अथाभक्षितेन पात्रेण । वैश्वदेवं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रेण वैश्वदेवं ग्रहं गृह्णाति न वै सावित्रस्यानुवषट्करोत्येतस्माद्वै वैश्वदेवं ग्रहं ग्रहीष्यन्भवति तदस्य वैश्वदेवेनैवानुवषट्कृतो भवति - ४.४.१.८

यद्वेव वैश्वदेवं ग्रहं गृह्णाति । मनो ह वा अस्य सविता सर्वमिदं विश्वे देवा इदमेवैतत्सर्वं मनसः कृतानुकरमनुवर्त्म करोति तदिदं सर्वं मनसः कृतानुकरमनुवर्त्म - ४.४.१.९

यद्वेव वैश्वदेवं ग्रहं गृह्णाति । प्राणो ह वा अस्य सविता सर्वमिदं विश्वे देवाअस्मिन्नेवैतत्सर्वस्मिन्प्राणोदानौ दधाति ताविमावस्मिन्त्सर्वस्मिन्प्राणोदानौ हितौ - ४.४.१.१०

यद्वेव वैश्वदेवं ग्रहं गृह्णाति । वैश्वदेवं वै तृतीयसवनं तदुच्यत एव सामतो यस्माद्वैश्वदेवं तृतीयसवनमुच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं महावैश्वदेवं गृह्णाति - ४.४.१.११

आधवनीय-पूतभृत


तं वै पूतभृतो[१] गृह्णाति । वैश्वदेवो वै पूतभृदतो हि देवेभ्य उन्नयन्त्यतो मनुष्येभ्योऽतः पितृभ्यस्तस्माद्वैश्वदेवः पूतभृत् - ४.४.१.१२

तं वा अपुरोरुक्कं गृह्णाति । विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति सर्वं वै विश्वेदेवा यदृचो यद्यजूंषि यत्सामानि स यदेवैनं विश्वेभ्यो देवेभ्यो गृह्णाति तेनो हास्यैष पुरोरुङ्मान्भवति तस्मादपुरोरुक्कं गृह्णाति - ४.४.१.१३

अथातो गृह्णात्येव । उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठान इति प्राणो वै सुशर्मा सुप्रतिष्ठानो बृहदुक्षाय नम इति प्रजापतिर्वै बृहदुक्षः प्रजापतये नम इत्येवैतदाह विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णात्यथेत्य प्राङुपविशति - ४.४.१.१४

स यत्रैतां होता शंसति । एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशती च तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वायविह ता विमुञ्चेति तदेतस्यां वायव्यायामृचि पात्राणि विमुच्यन्ते वायुप्रणेत्रा वै पशवः प्राणो वै वायुः प्राणेन हि पशवश्चरन्ति - ४.४.१.१५

स ह देवेभ्यः पशुभिरपचक्राम । तं देवाः प्रातःसवनेऽन्वमन्त्रयन्त स नोपाववर्त तं माध्यन्दिने सवनेऽन्वमन्त्रयन्त स ह नैवोपाववर्त तं तृतीयसवनेऽन्वमन्त्रयन्त - ४.४.१.१६

स होपावर्त्स्यन्नुवाच । यद्व उपावर्तेय किं मे ततः स्यादिति त्वयैवैतानि पात्राणि युज्येरंस्त्वया विमुच्येरन्निति तदेनेनैतत्पात्राणि युज्यन्ते यदैन्द्रवायवाग्रान्प्रातःसवने गृह्णात्यथैनेनैतत्पात्राणि विमुच्यन्ते यदाह नियुद्भिर्वायविह ता विमुञ्चेति पशवो वै नियुतस्तत्पशुभिरेवैतत्पात्राणि - ४.४.१.१७

स यत्प्रातःसवन उपावर्त्स्यत् । गायत्रं वै प्रातःसवनं ब्रह्म गायत्री ब्राह्मणेषु ह पशवोऽभविष्यन्नथ यन्माध्यन्दिने सवन उपावर्त्स्यदैन्द्रं वै माध्यन्दिनं सवनं क्षत्रमिन्द्रः क्षत्रियेषु ह पशवोऽभविष्यन्नथ यत्तृतीयसवन उपावर्तत वैश्वदेवं वै तृतीयसवनं सर्वमिदं विश्वे देवास्तस्मादिमे सर्वत्रैव पशवः - ४.४.१.१८


  1. युनज्मि वायुमन्तरिक्षेण ते सह उत्तरस्य हविर्धानस्योपरिष्टान्नीडे आधवनीयम् । युनज्मि वाचꣳ सह सूर्येण ते प्रधुरे पूतभृतम् ।(आश्वलायनश्रौतप्रयोगः)।