शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण २

विकिस्रोतः तः

४.६.२ विषुवदहः

एतं वा एते गच्छन्ति । षड्भिर्मासैर्य एष तपति ये संवत्सरमासते तदुच्यत एव सामतो यथैतस्य रूपं क्रियत उच्यत ऋक्तोऽथैतदेव यजुष्टः पुरश्चरणतो यदेतं गृह्णन्त्येतेनो एवैनं गच्छन्ति - ४.६.२.१

अथातो गृह्णात्येव । उदु त्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् उपयामगृहीतोऽसि सूर्याय त्वा भ्राजायैष ते योनिः सूर्याय त्वा भ्राजायेति - ४.६.२.२