शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१ -अंशुग्रहः--तत्र अंशुग्रहस्याधिदैवतया प्राजापत्यत्वमध्यात्मतयाऽऽत्मत्वमधिभूततया सर्वतनूत्वमुपपाद्य सार्थवादं सोपपत्तिकं चतुःस्रक्तिनौदुम्बरेण पात्रेणांशुग्रहग्रहणविधानम्, अंशुग्रहसम्बन्धि नोऽद्र्यादानांशुनिवपनावुपसर्जनाद्र्युद्यमनपूर्वकसकृदभिषवनानवानन्हवनं प्रागुक्तग्रहणं चेत्येतस्य पदार्थजातस्य तूष्णीमनुष्ठेयत्वोपवर्णनं, सार्थवादमनामिकायामवबद्धस्य हिरण्यस्यावघ्राणं विधाय औपतपस्विने रामस्य मतेनोच्छ्वसन्नंशुग्रहो होतव्य इति विधानम्, आश्वतराश्वेर्बुडिलस्य मतेन ग्रावाणमुद्यम्यैवांशुग्रह गृह्णीयात्तं नाभिषुणुयादिति सोपपत्तिकमभिषवनप्रत्याख्यानं, याज्ञवल्क्यस्य मतेन तु सकृदभिषुणुयादेव मंत्रेणोक्तत्वादिति सोपपत्तिकं प्रतिपादनम्, अंशुग्रहसम्बन्धिन्या द्वादशानां प्रथमगर्भाणां पष्ठौहीनां धेनूनां दक्षिणात्येन सार्थवादं विधानं, तत्र कौकूस्तमतेन ऋषभपञ्चविंशानां चतुर्विंशतीनां प्रथमगर्भाणां पष्ठौहीनां धेनूनां हिरण्यस्य च दक्षिणात्वेन दानविधानम्, एतस्यांशुग्रहस्य ग्रहणं यजमानो ज्ञातप्रियानूचानान्यतमश्चेत्तस्य सहस्रसर्ववेदसविश्वजित् - सर्वपृष्ठ्य - वाजपेय राजसूय-सत्रेषु कर्तव्यं नान्यत्रेति प्रतिपादनं चेत्यादि.


ब्राह्मण २

२ विषुवदहः-तत्र गवामयनिके विषुवत्यहन्येषोंऽशुग्रहो विकुर्यात्स च विकारः समंत्रकग्रहणरूप इति प्रदर्शनं, ग्रहणमनूद्य तत्र मंत्रस्य विनियोजनं चेति.


ब्राह्मण ३

३ पश्वयनम्-तत्र गवामयनिके पश्वालम्भविषये सवनीयविकल्पास्त्रयः-तत्र प्रत्य- हमाग्नेयादिवारुणान्ता पश्वेकादशिनी वा, प्रत्यहमैन्द्राग्नो वा, प्रत्यहं स्तोमायनं वेति कल्पत्रयं प्रथमपशुत्वेन निरूप्य द्वितीयः पशुः सौर्य उपालम्भ्यो वैषुवतेऽह्नि; गवामयनस्यैवोपान्यमहाव्रताख्येऽह्नि तु द्वितीयः पशुः प्राजापत्य उपालम्भ्य इत्यादि विधानम्.


ब्राह्मण ४

४ महाव्रतीयग्रहः-तत्रादौ महाव्रतीयग्रहस्योत्पत्तिं विधाय महाव्रतीयेतिसंज्ञानिर्वचनं, सप्रयोजनं महाव्रतीयग्रहग्रहणविधानं, तच्च ग्रहणम् ' इन्द्राय विमृधे ' तल्लिंगकमंत्रेण कर्तव्यमथवा 'वाचस्पतये विश्वकर्मणे' तल्लिंगकमंत्रेण कर्तव्यमथवा 'इन्द्राय विश्वकर्मणे' तल्लिंगकमंत्रेण कर्तव्यमिति सकारणं विधानं चेति.


ब्राह्मण ५

५ ग्रहोपासनम्-तत्र ग्रहाधिकारप्रसङ्गादाध्यात्मिकाधिभौतिकग्रहाणां प्रदर्शनं ग्रहशब्दस्य निर्वचनान्तरं च, ज्योतिष्टोमादियागेषु ग्रहाणां मध्ये यद्ग्रहस्य बह्वशननिमित्तयाऽऽर्त्याऽऽर्तत्वं तद्दैवत्यग्रहस्य वाङ्नामान्नादिभिरुपासनं विधायाधिभौतिकस्य सोमग्रहस्याधियज्ञिके उपसंहरणम्, अधिदैवस्य तदात्मकस्य ग्रहस्याभिचारिकं समंत्रकं सप्रकारकं सफलमुपस्थानविधानं चेत्यादि


ब्राह्मण ६

६ यज्ञोपचारः-तत्र साख्यायिकं ऋत्विग्वरिष्ठस्य ब्रह्मिष्ठस्य ब्रह्मणो दक्षिणत- उपवेशनविधानं यज्ञेषु यत्कर्मस्थानविशेषतया कर्तव्यत्वेन न चोदितं तत्कर्मविहारादुत्तरस्मिन्देशे विधेयमिति नियमनं च, प्रसंगाद् ब्राह्मणाच्छंसिनो वरणविधानम्, इतरेषामवृतानां ब्राह्मणानां दक्षिणदिश्यवस्थानविधानं च, प्रस्तोत्रामन्त्रितस्य ब्रह्मणः प्रसवजपविधानं मैत्रावरुणकर्तृकजपविधानं चेत्यादि.


ब्राह्मण ७

७ पुरश्चरणोपनिषत्-तस्यां च सौम्येऽध्वरे सोपपत्तिकं सफलं त्रय्या विद्यायाः प्रयुञ्जनप्रदर्शनं, वक्ष्यमाणमिथुनस्योपोद्धातार्थं वेदसिद्धस्यैव सदसि करणस्यानुवादकथनं, पुरश्चरणशब्दनिर्वचनं, वक्ष्यमाणस्य मिथुनक्रमस्यो- पन्यासार्थमनुवादकरणकथनम्, ऋक्सा- म्नोर्वाक्त्वं यजुषां मनस्त्वं चोपपाद्य सदसि ऋक्सामभ्यामनुष्ठितं प्रज्ञायते हविर्द्धानेन यजुषाऽनुष्ठितं न प्रज्ञायते इत्यादि सहेतुकं कथनं, देवैः प्रार्थिताया वाचः सफलं प्राग्गमनपूर्वकं प्रैषानुवचनोपाकरणादिकर्मणः प्रज्ञापनकथनं, हविर्धाने ऋचा प्रातरनुवाकादेः सयुग्भवननिरूपणं सदसि यजुषा औदुम्बर्युच्छ्रयणादेः सयुग्भवननिरूपणं च, सार्थवादं सदोहविर्धानयोः परिश्रयणकरणप्रतिपादनं, प्रसङ्गादद्वारेण सदोहविर्धाने प्रेक्षमाणस्य ' मा प्रेक्षथाः ' इति सहेतुकं निषेधकथनं च, ऋक्साम्नोः सोमस्यापां च मिथुनसम्पत्तिं तत्कार्यं च प्रदर्श्य तयोरितिहासस्य यज्ञे उपसंरणं, साख्यायिकं सोपपत्तिकं सकारणं सार्थवादं यजुर्त्रेदसाध्यकर्मण उपांशुचरणलक्षणधर्मविशेषस्य विधानम्, अध्वर्योः पुरश्च- रणनिमित्तत्वकथनम्, अन्येष्वपि कर्मस्वेतस्यैव धर्मस्यावृत्-इति सफलः पुरश्चरणोपसंहारश्चेत्यादि.

ब्राह्मण ८

८ सत्रोत्थानं-तत्र दीक्षा-निषत्-सत्र- आसन-उपायन-सत्रायण-उत्थाने-
त्यादिशब्दानां निर्वचनं, तत्रापि दीक्षा शब्दस्य प्रायणीयाद्यशेषवचनव्रतानुष्ठानत्वेन नेतव्यतया पुनः सत्रादीनां- सकलप्रयोगवचनस्य दर्शनं, सत्रेण दीक्षिष्यमाणा यदि अग्निं चेष्यमाणा भवेयुस्तदा- तेषां सर्वेषां यज्वनामग्नीनामेकीकरणाय तैः क्रियमाणे मन्थने मन्थनगतप्रकारभेदाद्वा मन्थनोत्तरं गृहपत्याहवनीये स्वस्वाग्नेरङ्गारप्रासनं वा जातस्य जातस्य स्वस्वाग्नेः सकलस्यानुप्रहरणं वा गृहपतेरेवा- रण्योर्जनिष्यमाणमग्निमुद्दिश्य ' अयं नः सर्वेषां साधारण ' इति संवादकरणमित्येवमग्नीनां संसर्गकरणप्रकारभेदाद्वा प्राजापत्यस्य पशोरनुष्ठानस्य कालविषयक- नियमविकल्पविशेषनिबन्धनाद्वा त्रयः पक्षा भवन्ति तेषां त्रयाणामपि पक्षाणां सेतिकर्तव्यताकं सविशेषं निरूपणं तत्रापि प्रथमपक्षस्य याज्ञवल्क्यसम्मतत्वप्रदर्शनं च, शालागार्हपत्यपुरोडाशपत्नीसंयाजा एकाहवद्विधेया इति सहेतुकं सफलं प्रतिपादनं चेत्यादि.


ब्राह्मण ९

९ सत्रोत्थानप्रकल्पनम्-तत्रादौ आहुतिद्वयस्योत्पत्त्यर्थमाख्यायिका, ततः प्रसङ्गात्पुरुषार्थाशने नियमविधानं, सत्रात्मकस्य द्वादशाहस्य मध्ये यो दशरात्रस्तस्य दशमेऽहनि सत्रोत्थानं कर्तव्यमिति कालविशेषं विधायैकैकस्य यजमानस्य सर्वेष्वहःसु वाग्यमनपूर्वमवस्थानमन्येषां तु समिदाहरणार्थं स्वध्यायार्थं वा वने गमनं तत्र गत्वाऽहविष उच्छिष्टस्यापि चाशनं कर्तव्यमिति प्रासङ्गिकं विधानम्, अपराह्णे दीक्षितानामप उपस्पर्शनपूर्वंक पत्नीशालायां प्रवेशनविधानं, दीक्षितेषु समन्वारब्धेश्वध्वर्योः शालाद्वार्ये इहरतिरित्युपसृज- न्निति चैताभ्यां मन्त्राभ्यां द्वयोराहुत्योर्होमकरणविधानं, दीक्षिताः ' प्राञ्च उपनिष्क्रामन्ति ' इत्याद्युक्तप्रकारेण सञ्चरमार्गेणैत्योत्तरस्य हविर्धानस्य जवन्यायां कूबर्यामुत्तरवेदेर्वोत्तरायां श्रोणौ 'सत्रस्य ऋद्धिः ' इति साम गायंतीत्ये- तन्निरूपणम्, उक्तसामगानप्रशंसार्थमर्थवादकथनम्, दीक्षितानां हविर्द्धानान्निर्गत्य सदः प्रविश्य स्वस्वधिष्ण्येषूपवेशनार्थं सञ्चरणमार्गनिरूपणं तत्र सञ्चरणे सकारणमतिच्छंदस्कस्य ' युवन्तमिन्द्रा ' इत्यस्य मन्त्रस्य विनियोजनं, प्राजापत्यस्य वायोर्ग्रहस्य ग्रहणादनन्तरं क्रियमाणस्य स्तोत्रोपाकरणस्य प्रशंसा- र्थमर्थवादकथनम्, तत्र स्तोत्रोपाकरणं सार्पराज्ञीषु ऋक्षु स्तुवीतेति सविशेषं निरूपणं, होतुस्तस्मिन्न जानति गृहपतेर्वा चतुर्होत्रव्याख्यानशस्त्रपठनविधानम्,
तत्रोक्ते शस्त्रेऽध्वर्योः प्रतिगर-विधानम्, सर्वेषां सार्थवादं ब्रह्मोद्यवदनकथनम्, अस्तमिते औदुम्बरीं स्थूणामुपसंगम्य सर्वेषां सार्थवादं वाग्यमनविधानम्, अस्तमिते सदसो निष्क्रम्य सर्वे उत्तरवेदिमपरेणोपविशेयुरिति प्रतिपादनं, प्रतिप्रस्थातुर्वसतीवरीणां परिहरणं विधाय सत्रर्द्धिकामानां वाग्विसर्जनविधानं, अनेककामानां तु ' भूर्भुवः स्वः' इति मन्त्रेण वाग्विसर्जनविधानं, तत्राशीराशासनं च, गृहपतेस्तदनुज्ञयाऽन्यस्य वा सुब्रह्मण्याह्वानविधानं सुब्रह्मण्य उप मा ह्वयस्व इत्यनुज्ञां लब्ध्वा सर्वेषां समिधोऽभ्याधानकथनं चेत्यादि.