शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण ४

विकिस्रोतः तः

४.६.४

अथातो महाव्रतीयस्यैव । प्रजापतेर्ह वै प्रजाः ससृजानस्य पर्वाणि विसस्रंसुः स विस्रस्तैः पर्वभिर्न शशाक संहातुं ततो देवा अर्चन्तः श्राम्यन्तश्चेरुस्त एतम्महाव्रतीयं ददृशुस्तमस्मा अगृह्णस्तेनास्य पर्वाणि समदधुः - ४.६.४.१

स संहितैः पर्वभिः । इदमन्नाद्यमभ्युत्तस्थौ यदिदं प्रजापतेरन्नाद्यं यद्वै मनुष्याणामशनं तद्देवानां व्रतं महद्वा इदं व्रतमभूद्येनायं समहास्तेति तस्मान्महाव्रतीयो नाम - ४.६.४.२

एवं वा एते भवन्ति । ये संवत्सरमासते यथैव तत्प्रजापतिः प्रजाः ससृजान आसीत्स
यथैव तत्प्रजापतिः संवत्सरेऽन्नाद्यमभ्युदतिष्ठदेवमेवैत एतत्संवत्सरेऽन्नाद्यमभ्युत्तिष्ठन्ति येषामेवं विदुषामेतं ग्रहं गृह्णन्ति - ४.६.४.३

तं वा इन्द्रायैव विमृधे गृह्णीयात् । सर्वा वै तेषां मृधो हता भवन्ति सर्वंजितं ये संवत्सरमासते तस्माद्विमृधे वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । यो अस्मानभिदासत्यधरं गमया तमः । उपयामगृहीतोऽसीन्द्राय त्वा विमृध एष ते योनिरिन्द्राय त्वा विमृध इति - ४.६.४.४

अथो विश्वकर्मणे । विश्वं वै तेषां कर्म कृतं सर्वं जितं भवति ये संवत्सरमासते तस्माद्विश्वकर्मणे वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम । स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मण इति - ४.६.४.५

यद्यु ऐन्द्रीं वैश्वकर्मणीं विद्यात् । तथैव गृह्णीयाद्विश्वकर्मन्हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् । तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथासत् । उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मण इति
- ४.६.४.६