शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण ६

विकिस्रोतः तः

४.६.६ यज्ञोपचारः

देवा ह वै यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्बिभयां चक्रुस्ते होचुः को नो दक्षिणत आसिष्यतेऽथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति - ४.६.६.१

ते होचुः । य एव नो वीर्यवत्तमः स दक्षिणत आस्तामथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति - ४.६.६.२

ते होचुः । इन्द्रो वै नो वीर्यवत्तम इन्द्रो दक्षिणत आस्तामथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरिष्याम इति - ४.६.६.३

ते हेन्द्रमूचुः । त्वं वै नो वीर्यवत्तमोऽसि त्वं दक्षिणत आस्वाथाभयेऽनाष्ट्र ऽउत्तरतो यज्ञमुपचरिष्याम इति - ४.६.६.४

स होवाच । किं मे ततः स्यादिति ब्राह्मणाच्छंस्या ते ब्रह्मसाम त इति तस्माद्ब्राह्मणाच्छंसिनं प्रवृणीत इन्द्रो ब्रह्मा ब्राह्मणादितीन्द्रस्य ह्येषा स इन्द्रो दक्षिणत आस्ताथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपाचरंस्तस्माद्य एव वीर्यवत्तमः स्यात्स दक्षिणत आसीताथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरेयुर्यो वै ब्राह्मणानामनूचानतमः स एषां वीर्यवत्तमोऽथ यदिदं य एव कश्च ब्रह्मा भवति कुवित्तूष्णीमास्त इति तस्माद्य एव वीर्यवत्तमः स्यात्स दक्षिणत आसीताथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरेयुस्तस्माद्ब्राह्मणा दक्षिणत आसतेऽथाभयेऽनाष्ट्र उत्तरतो यज्ञमुपचरन्ति - ४.६.६.५

स यत्राह । ब्रह्मन्त्स्तोष्यामः प्रशास्तरिति तद्ब्रह्मा जपत्येतं ते देवसवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव स्तुत सवितुः प्रसव इति सोऽसावेव बन्धुरेतेन न्वेव भूयिष्ठा इवोपचरन्ति - ४.६.६.६

अनेन त्वेवोपचरेत् । देव सवितरेतद्बृहस्पते प्रेति तत्सवितारं प्रसवायोपधावति स हि देवानां प्रसविता बृहस्पते प्रेति बृहस्पतिर्वै देवानां ब्रह्मा तद्य एव देवानां ब्रह्मा तस्मा एवैतत्प्राह तस्मादाह बृहस्पते प्रेति - ४.६.६.७

अथ मैत्रावरुणो जपति । प्रसूतं देवेन सवित्रा जुष्टं मित्रावरुणाभ्यामिति तत्सवितारं प्रसवायोपधावति स हि देवानां प्रसविता जुष्टम्मित्रावरुणाभ्यामिति मित्रावरुणौ वै मैत्रावरुणस्य देवते तद्ये एव मैत्रावरुणस्य देवते ताभ्यामेवैतत्प्राह तस्मादाह जुष्टं मित्रावरुणाभ्यामिति - ४.६.६.८