शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण ८

विकिस्रोतः तः

४.६.८ सत्रोत्थानम्

या वै दीक्षा सा निषत् । तत्सत्त्रं तस्मादेनानासत इत्याहुरथ यत्ततो यज्ञं तन्वते तद्यन्ति तन्नयति यो नेता भवति स तस्मादेनान्यन्तीत्याहुः - ४.६.८.१

या ह दीक्षा सा निषत् । तत्सत्त्रं तदयनं तत्सत्त्रायणमथ यत्ततो यज्ञस्योदृचं गत्वोत्तिष्ठन्ति तदुत्थानं तस्मादेनानुदस्थुरित्याहुरिति नु पुरस्ताद्वदनम् - ४.६.८.२

अथ दीक्षिष्यमाणाः समवस्यन्ति । ते यद्यग्निं चेष्यमाणा भवन्त्यरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना - ४.६.८.३

तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति - ४.६.८.४

अथ यदहरेषां दीक्षा समैति । अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र दीक्षिष्यमाणा भवन्ति गृहपतिरेव प्रथमो मन्थते मध्यं प्रति शालाया अथेतरेषामर्धा दक्षिणत उपविशन्त्यर्धा उत्तरतो मथित्वोपसमाधायैकैकमेवोल्मुकमादायोपसमायन्ति गृहपतेर्गार्हपत्यं गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति नाना गार्हपत्या दीक्षोपसत्सु - ४.६.८.५

अथ यदहरेषां क्रयो भवति । तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतानपरानग्नीन्हुत एव वैसर्जिने - ४.६.८.६

राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति तैरेव तेषामुल्मुकैः प्रघ्नन्तीति स स्माह याज्ञवल्क्यो ये तथा कुर्वन्तीत्येतन्न्वेकमयनम् - ४.६.८.७

अथेदं द्वितीयम् । अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना - ४.६.८.८

तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति - ४.६.८.९

अथ यदहरेषां दीक्षा समैति । अरणिष्वेवाग्नीन्त्समारोह्योपसमायन्ति यत्र दीक्षिष्यमाणा भवन्ति गृहपतिरेव प्रथमो मन्थतेऽथेतरे पर्युपविश्य मन्थन्ते ते जातं जातमेवानुप्रहरन्ति गृहपतेर्गार्हपत्ये गृहपतेरेव गार्हपत्यादुद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति समानो गार्हपत्यो दीक्षोपसत्सु - ४.६.८.१०

अथ यदहरेषां क्रयो भवति । तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतमपरमग्निं हुत एव वैसर्जिने - ४.६.८.११

राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैतऽ एकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति समदमु हैव ते कुर्वन्ति समद्धैनान्विन्दत्यर्तुका ह भवन्त्यपि ह तमर्धं समद्विन्दति यस्मिन्नर्धे यजन्ते ये तथा कुर्वन्ति एतद्द्वितीयमयनम् - ४.६.८.१२

अथेदं तृतीयम् । गृहपतेरेवारण्योः संवदन्ते य इतोऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सह सह नः साधुकृत्या य एव पापं करवत्तस्यैव तदित्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयतेऽथेतरेभ्यः समारोहयति स्वयं वैव समारोहयन्ते त आयन्ति यत्र प्राजापत्येन पशुना यक्ष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्त एतेन प्राजापत्येन पशुना - ४.६.८.१३

तस्य शिरो निदधति । तेषां यदि तदहर्दीक्षा न समैत्यरणिष्वेवाग्नीन्त्समारोह्य यथायथं विपरेत्य जुह्वति - ४.६.८.१४

अथ यदहरेषां दीक्षा समैति । गृहपतेरेवारण्योः संवदन्ते य इतोऽग्निर्जनिष्यते स नः सह यदनेन यज्ञेन जेष्यामोऽनेन सत्त्रेण तन्नः सह सह नः साधुकृत्या य एव पापं करवत्तस्यैव तदित्येवमुक्त्वा गृहपतिरेव प्रथमः समारोहयतेऽथेतरेभ्यः समारोहयति स्वयं वैव समारोहयन्ते त आयन्ति यत्र दीक्षिष्यमाणा भवन्ति मथित्वोपसमाधायोद्धृत्याहवनीयं दीक्षन्ते तेषां समान आहवनीयो भवति समानो गार्हपत्यो दीक्षोपसत्सु - ४.६.८.१५

अथ यदहरेषां क्रयो भवति । तदहर्गार्हपत्यां चितिमुपदधात्यथेतरेभ्य उपवसथे धिष्ण्यान्वैसर्जिनानां काले प्राच्यः पत्न्य उपसमायन्ति प्रजहत्येतमपरमग्निं हुत एव वैसर्जिने - ४.६.८.१६

राजानं प्रणयति । उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैतऽएकैकमेवोल्मुकमादाय यथाधिष्ण्यं विपरायन्ति तत्तत्कृतं नानाकृतं यन्नानाधिष्ण्या भवन्ति वरीयानाकाशोऽसत्परिचरणायेत्यथ यन्नानापुरोडाशा भूयो हविरुच्छिष्टमसत्समाप्त्या ऽइति - ४.६.८.१७

अथ येन सत्त्रेण देवाः । क्षिप्र एव पाप्मानमपाघ्नतेमां जितिमजयन्यैषामियं जितिस्तदत उद्यत एकगृहपतिका वै देवा एकपुरोडाशा एकधिष्ण्याः क्षिप्र एव पाप्मानमपाघ्नत क्षिप्रे प्राजायन्त तथो एवैतऽएकगृहपतिका एकपुरोडाशा एकधिष्ण्याः क्षिप्रऽएव पाप्मानमपघ्नते क्षिप्रे प्रजायन्ते - ४.६.८.१८

अथादः पूर्वस्मिन्नुदीचीनवंशा शाला भवति । तन्मानुषं समान आहवनीयो भवति नाना गार्हपत्यास्तद्विकृष्टं गृहपतेरेव गार्हपत्ये जाघन्या पत्नीः संयाजयन्त्याज्येनेतरे प्रतियजन्त आसते तद्विकृष्टम् - ४.६.८.१९

अथात्र प्राचीनवंशा शाला भवति । तद्देवत्रा समान आहवनीयो भवति समानो गार्हपत्यः समान आग्नीध्रीयस्तदेतत्सत्त्रं समृद्धं यथैकाहः समृद्धऽ एवं तस्य न ह्वलास्ति तस्यैषैव समान्यावृद्यदन्यद्धिष्ण्येभ्यः - ४.६.८.२०