शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ६/ब्राह्मण ९

विकिस्रोतः तः
Jump to navigation Jump to search

४.६.९

देवा ह वै सत्त्रमासत । श्रियं गच्छेम यशः स्यामान्नादाः स्यामेति तेभ्य एतदन्नाद्यमभिजितमपाचिक्रमिषत्पशवो वा अन्नं पशवो हैवैभ्यस्तदपाचिक्रमिषन्यद्वै न इमे श्रान्ता न हिंस्युः कथमिव स्विन्नः सक्ष्यन्त इति - ४.६.९.[१]

त एते गार्हपत्ये द्वे आहुती अजुहवुः । गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तदेनान्गृहेष्वेव न्ययच्छंस्तथैभ्य एतदन्नाद्यमभिजितं नापाक्रामत् - ४.६.९.[२]

तथो एवेमे सत्त्रमासते । ये सत्त्रमासते श्रियं गच्छेम यशः स्यामान्नादाः स्यामेति
तेभ्य एतदन्नाद्यमभिजितमपचिक्रमिषति पशवो वा अन्नं पशवो हैवैभ्यस्तदपचिक्रमिषन्ति यद्वै न इमे श्रान्ता न हिंस्युः कथमिव स्विन्नः सक्ष्यन्त इति - ४.६.९.[३]

त एते गार्हपत्ये द्वे आहुती जुह्वति गृहा वै गार्हपत्यो गृहा वै प्रतिष्ठा तदेनान्गृहेष्वेव नियच्छन्ति तथैभ्य एतदन्नाद्यमभिजितं नापक्रामति - ४.६.९.[४]

तथो एवैतस्मात् । एतदन्नाद्यमुपाहृतमपचिक्रमिषति यद्वै माऽयं न हिंस्यात्कथमिव स्विन्मा सक्ष्यत इति - ४.६.९.[५]

तस्य परस्तादेवाग्रेऽल्पश इव प्राश्नाति । तदेनदुपनिमदति तद्वेद न वै तथाऽभूद्यथाऽमंसि न वै माऽहिंसीदिति तदेनमुपावश्रयते स ह प्रिय एवान्नस्यान्नादो भवति य एवं विद्वानेतस्य व्रतं शक्नोति चरितुम् - ४.६.९.[६]

तद्वा एतत् । दशमेऽहन्त्सत्त्रोत्थानं क्रियते तेषामेकैक एव वाचंयम आस्ते वाचमाप्याययंस्तयाऽऽपीनयाऽयातयाम्न्योत्तरमहस्तन्वतेऽथेतरे विसृज्यन्ते समिद्धारा वा स्वाध्यायं वा तत्राप्यश्नन्ति - ४.६.९.[७]

तेऽपराह्ण उपसमेत्य । अप उपस्पृश्य पत्नीशालं सम्प्रपद्यन्ते तेषु समन्वारब्धेष्वेते आहुती जुहोतीह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहेति पशूनेवैतदाह पशूनेवैतदात्मन्नियच्छन्ते - ४.६.९.[८]

अथ द्वितीयां जुहोति । उपसृजन्धरुणं मात्र इत्यग्निमेवैतत्पृथिव्या उपसृजन्नाह धरुणो मातरं धयन्नित्यग्निमेवैतत्पृथिवीं धयन्तमाह रायस्पोषमस्मासु दीधरत्स्वाहेति पशवो वै रायस्पोषः पशूनेवैतदात्मन्नियच्छन्ते - ४.६.९.[९]

ते प्राञ्च उपनिष्क्रामन्ति । ते पश्चात्प्राञ्चो हविर्धाने सम्प्रपद्यन्ते पुरस्ताद्वै प्रत्यञ्चस्तंस्यमाना अथैवं सत्रोत्थाने - ४.६.९.[१०]

त उत्तरस्य हविर्धानस्य । जघन्यायां कूबर्यां सामाभिगायन्ति सत्त्रस्य ऋद्धिरिति
राद्धिमेवैतदभ्युत्तिष्ठन्त्युत्तरवेदेर्वोत्तरायां श्रोणावितरं तु कृततरम् - ४.६.९.[११]

यदुत्तरस्य हविर्धानस्य । जघन्यायां कूबर्यामगन्म ज्योतिरमृता अभूमेति ज्योतिर्वा एते भवन्त्यमृता भवन्ति ये सत्त्रमासते दिवं पृथिव्या अध्यारुहामेति दिवं वा एते पृथिव्या अध्यारोहन्ति ये सत्त्रमासतेऽविदाम देवानिति विन्दन्ति हि देवान्त्स्वर्ज्योतिरिति त्रिर्निधनमुपावयन्ति स्वर्ह्येते ज्योतिर्ह्येते भवन्ति तद्यदेवैतस्य साम्नो रूपं तदेवैते भवन्ति ये सत्त्रमासते - ४.६.९.[१२]

ते दक्षिणस्य हविर्धानस्य । अधोऽधोऽक्षं सर्पन्ति स यथाहिस्त्वचोनिर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यन्तेऽतिच्छन्दसा सर्पन्त्येषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तथैनान्पाप्मा नान्वत्येति तस्मादतिच्छन्दसा सर्पन्ति - ४.६.९.[१३]

ते सर्पन्ति । युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तं तमिद्धतं वज्रेण तं तमिद्धतम् । दूरे चत्ताय च्छन्त्सद्गहने यदिनक्षत् । अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इति - ४.६.९.[१४]

ते प्राञ्च उपनिष्क्रामन्ति । ते पुरस्तात्प्रत्यञ्चः सदः सम्प्रपद्यन्ते पश्चाद्वै प्राञ्चस्तंस्यमाना अथैवं सत्रोत्थाने - ४.६.९.[१५]

ते यथाधिष्ण्यमेवोपविशन्ति । देवेभ्यो ह वै वाचो रसोऽभिजितोऽपचिक्रमिषांचकार स इमामेव पराङत्यसिसृप्सदियं वै वाक्तस्या एष रसो यदोषधयो यद्वनस्पतयस्तमेतेन साम्नाऽऽप्नुवन्त्स एनानाप्तोऽभ्यावर्तत तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतयस्तथो एवैतेभ्य एतद्वाचो रसोऽभिजितोऽपचिक्रमिषति स इमामेव पराङतिसिसृप्सतीयं वै वाक्तस्या एष रसो यदोषधयो यद्वनस्पतयस्तमेतेन साम्नाऽऽप्नुवन्ति स एनानाप्तोऽभ्यावर्तते तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतयः - ४.६.९.[१६]

सर्पराज्ञ्या ऋक्षु स्तुवते । इयं वै पृथिवी सर्पराज्ञी तदनयैवैतत्सर्वमाप्नुवन्ति स्वयम्प्रस्तुतमनुपगीतं यथा नान्य उपशृणुयादति ह रेचयेद्यदन्यः प्रस्तुयादतिरेचयेद्यदन्य उपगायेदतिरेचयेद्यदन्य उपशृणुयात्तस्मात्स्वयम्प्रस्तुतमनुपगीतम् - ४.६.९.[१७]

चतुर्होतॄन्होता व्याचष्टे । एतदेवैतत्स्तुतमनुशंसति यदि होता न विद्याद्गृहपतिर्व्याचक्षीत होतुस्त्वेव व्याख्यानम् - ४.६.९.[१८]

अथाध्वर्योः प्रतिगरः । अरात्सुरिमे यजमाना भद्रमेभ्योऽभूदिति कल्याणमेवैतन्मानुष्यै वाचो वदति - ४.६.९.[१९]

अथ वाकोवाक्ये ब्रह्मोद्यं वदन्ति । सर्वं वै तेषामाप्तं भवति सर्वं जितं ये सत्त्रमासतेऽचारिषुर्यजुर्भिस्तत्तान्यापंस्तदवारुत्सताशंसिषुर्ऋचस्तत्ताऽआपस्तदवारुत्सतास्तोषत सामभिस्तत्तान्यापंस्तदवारुत्सताथैषामेतदेवानाप्तमनवरुद्धं भवति यद्वाकोवाक्यं ब्राह्मणं तदेवैतेनाप्नुवन्ति तदवरुन्धते - ४.६.९.[२०]

औदुम्बरीमुपसंसृप्य वाचं यच्छन्ति । विदुहन्ति वा एते यज्ञं निर्धयन्ति ये वाचा
यज्ञं तन्वते वाग्घि यज्ञस्तामेषां पुरैकैक एव वाचंयम आस्ते वाचमाप्याययंस्तयाऽऽपीनयाऽयातयाम्न्योत्तरमहस्तन्वतेऽथात्र सर्वैव वागाप्ता भवत्यपवृक्ता तां सर्व एव वाचंयमा वाचमाप्याययन्ति तयाऽऽपीनयाऽयातयाम्न्याऽतिरात्रं तन्वते - ४.६.९.[२१]

औदुम्बरीमन्वारभ्यासते । अन्नं वा ऊर्गुदुम्बर ऊर्जैवैतद्वाचमाप्याययन्ति - ४.६.९.[२२]

तेऽस्तमिते प्राञ्च उपनिष्क्रामन्ति । ते जघनेनाहवनीयमासतेऽग्रेण हविर्धाने तान्वाचंयमानेव वाचंयमः प्रतिप्रस्थाता वसतीवरीभिरभिपरिहरति ते यत्कामा आसीरंस्तेन वाचं विसृजेरन्कामैर्ह स्म वै पुरर्षयः सत्त्रमासतेऽसौ नः कामः स नः समृध्यतामिति यद्यु अनेककामाः स्युर्लोककामा वा प्रजाकामा वा पशुकामा वा - ४.६.९.[२३]

अनेनैव वाचं विसृजेरन् । भूर्भुवः स्वरिति तत्सत्येनैवैतद्वाचं समर्धयन्ति तया समृद्धयाशिष आशासते सुप्रजाः प्रजाभिः स्यामेति तत्प्रजामाशासते सुवीरा वीरैरिति तद्वीरानाशासते सुपोषाः पोषैरिति तत्पुष्टिमाशासते - ४.६.९.[२४]


अथ गृहपतिः सुब्रह्मण्यामाह्वयति । यं वा गृहपतिर्ब्रूयात्पृथगु हैवैके सुब्रह्मण्यामाह्वयन्ति गृहपतिस्त्वेव सुब्रह्मण्यामाह्वयेद्यं वा गृहपतिर्ब्रूयात्तस्मिन्त्समुपहवमिष्ट्वा समिधोऽभ्यादधति -