शुक्लयजुर्वेदः/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६ शुक्लयजुर्वेदः
अध्यायः ०७
[[लेखकः :|]]
अध्यायः ०८ →

अध्याय 7
अग्निष्टोमे उपांशुग्रहादि सवनद्वयगता दक्षिणादानान्ता मन्त्राः

7.1
वाचस् पतये पवस्व वृष्णो अꣳशुभ्यां गभस्तिपूतः ।
देवो देवेभ्यः पवस्व येषां भागो ऽसि ॥

7.2
मधुमतीर् न ऽ इषस् कृधि ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।
स्वाहा ।
उर्व् अन्तरिक्षम् अन्व् एमि ॥

7.3
स्वांकृतो ऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
देवेभ्यस् त्वा मरीचिपेभ्यः ।
देवाशो यस्मै त्वेडे तत् सत्यम् उपरिप्रुता भङ्गेन हतो ऽसौ फट् ।
प्राणाय त्वा ।
व्यानाय त्वा ॥

7.4
उपयामगृहीतो ऽस्य् अन्तर्यच्छ मघवन् पाहि सोमम् ।
उरुष्य राय ऽएषो यजस्व ॥

7.5
अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर्दधाम्य् उर्व् अन्तरिक्षम् ।
सजूर् देवेभिर् अवरैः परैश्चान्तर्यामे मघवन् मादयस्व ॥

7.6
स्वांकृतोऽसि विश्वेभ्य ऽ इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय ।
देवेभ्यस् त्वा मरीचिपेभ्यः ।
ऽ उदानाय त्वा ॥

7.7
आ वायो भूष शुचिपा ऽ उप नः सहस्रं ते नियुतो विश्ववार ।
उपो तेऽअन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ।
वायवे त्वा ॥

7.8
इन्द्रवायू ऽ इमे सुता ऽ उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ।
उपयामगृहीतोऽसि वायव ऽ इन्द्रवायुभ्यां त्वा ।
एष ते योनिः ।
सजोषोभ्यां त्वा ॥

7.9
अयं वां मित्रावरुणा सुतः सोम ऽ ऋतावृधा ।
ममेद् इह श्रुतꣳ हवम् ।
उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वा ॥

7.10
राया वयꣳ ससवाꣷसो मदेम हव्येन देवा यवसेन गावः ।


तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ।
एष ते योनिर् ऋतायुभ्यां त्वा ॥

7.11
या वां कशा मधुमत्याश्विना सूनृतावती ।
तया यज्ञं मिमिक्षतम् ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा ।
एष ते योनिर् माध्वीभ्यां त्वा ॥

7.12
तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदꣳ स्वर्विदम् ।
प्रतीचीनं वृजनं दोहसे धुनिम् आशुं जयन्तम् अनु यासु वर्धसे ।
उपयामगृहीतो ऽसि शण्डाय त्वा ।
एष ते योनिर् वीरतां पाहि ।
अपमृष्टः शण्डः ।
देवास् त्वा शुक्रपाः प्रणयन्तु ।
अनाधृष्टासि ॥

7.13
सुवीरो वीरान् प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
संजग्मानो दिवा पृथिव्या शुक्रः शुक्रशोचिषा ।
निरस्तः शण्डः ।
शुक्रस्याधिष्ठानम् असि ॥

7.14
अच्छिन्नस्य ते देव सोम सुवीर्यस्य रायस्पोषस्य ददितारः स्याम ।
सा प्रथमा सꣳस्कृतिर् विश्ववारा स प्रथमो वरुणो मित्रो ऽ अग्निः ॥

7.15
स प्रथमो बृहस्पतिश् चिकित्वाꣳस् तस्मा ऽ इन्द्राय सुतम् आ जुहोत स्वाहा ।
तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत् स्वाहा ।
अयाड् अग्नीत् ॥

शुक्रामन्थीग्रहप्रचारः

7.16
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इमम् अपाꣳ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ।
उपयामगृहीतो ऽसि मर्काय त्वा ॥

7.17
मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
आ यः शर्याभिस् तुविनृम्णो ऽ अस्याश्रीणीतादिशं गभस्तौ ।
एष ते योनिः प्रजाः पाहि ।
अपमृष्टो मर्कः ।
देवास् त्वा मन्थिपाः प्रणयन्तु ।
अनाधृष्टासि ॥

7.18
सुप्रजाः प्रजाः प्रजनयन् परीह्य् अभि रायस्पोषेण यजमानम् ।
संजग्मानो दिवा पृथिव्या मन्थी मन्थिशोचिषा ।
निरस्तो मर्कः ।
मन्थिनो ऽधिष्ठानम् असि ॥

7.19
ये देवासो दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥

7.20
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणः पाहि यज्ञं पाहि यज्ञपतिं विष्णुस् त्वाम् इन्द्रियेण पातु विष्णुं त्वं पाह्य् अभि सवनानि पाहि ॥

7.21
सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे ऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत ऽ इष ऽ ऊर्जे पवते ऽ द्भ्य ऽ ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते विश्वेभ्यस् त्वा देवेभ्यः ऽ ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

7.22
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत ऽ उक्थाव्यं गृह्णामि ।
यत् त ऽ इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ।
एष ते योनिर् उक्थेभ्यस् त्वा ।
देवेभ्यस् त्वा देवाव्यं गृह्णामि यज्ञस्यायुषे गृह्णामि ॥

7.23
मित्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राय त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राग्निभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राबृहस्पतिभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ।
इन्द्राविष्णुभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृह्णामि ॥

7.24
मूर्धानं दिवो ऽ अरतिं पृथिव्या वैश्वानरम् ऋत ऽ आ जातम् अग्निम् ।
कविꣳ सम्राजम् अतिथिं जनानाम् आसन्ना पात्रं जनयन्त देवाः ॥

7.25
उपयामगृहीतो ऽसि ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तमः ।
ऽ एष ते योनिर् वैश्वानराय त्वा ।
ध्रुवं ध्रुवेण मनसा वाचा सोमम् अव नयामि ।
अथा न ऽ इन्द्र ऽ इद् विशो ऽसपत्नाः समनसस् करत् ॥

7.26
यस् ते द्रप्स स्कन्दति यस् ते ऽ अꣳशुर् ग्रावच्युतो धिषणयोर् उपस्थात् ।
अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतꣳ स्वाहा ।
देवानाम् उत्क्रमणम् असि ॥

7.27
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
व्यानाय मे वर्चोदा वर्चसे पवस्व ।
उदानाय मे वर्चोदा वर्चसे पवस्व ।
वाचे मे वर्चोदा वर्चसे पवस्व ।
क्रतूदक्षाभ्यां मे वर्चोदा वर्चसे पवस्व ।
श्रोत्राय मे वर्चोदा वर्चसे पवस्व ।
चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् ॥

7.28
आत्मने मे मे वर्चोदा वर्चसे पवस्व ।
ओजसे मे वर्चोदा वर्चसे पवस्व ।
आयुषे मे वर्चोदा वर्चसे पवस्व ।
विश्वाभ्यो मे प्रजाभ्यो वर्चोदसौ वर्चसे पवेथाम् ॥

7.29
को ऽसि कतमो ऽसि कस्यासि को नामासि ।
यस्य ते नामामन्महि यं त्वा सोमेनातीतृपाम ।
भूर् भुवः स्वः सुप्रजाः प्रजाभिः स्या सुवीरो वीरैः सुपोषः पोषैः ॥

7.30
उपयामगृहीतो ऽसि मधवे त्वा ।
उपयामगृहीतो ऽसि माधवाय त्वा ।
उपयामगृहीतो ऽसि शुक्राय त्वा ।
उपयामगृहीतो ऽसि शुचये त्वा ।
उपयामगृहीतो ऽसि नभसे त्वा ।
उपयामगृहीतो ऽसि नभस्याय त्वा ।
उपयामगृहीतो ऽसीषे त्वा ।
उपयामगृहीतो ऽस्य् ऊर्जे त्वा ।
उपयामगृहीतो ऽसि सहसे त्वा ।
उपयामगृहीतो ऽसि सहस्याय त्वा ।
उपयामगृहीतो ऽसि तपसे त्वा ।
उपयामगृहीतो ऽसि तपस्याय त्वा ।
उपयामगृहीतो स्य् अꣳहसस्पतये त्वा ॥

7.31
इन्द्राग्नी ऽ आ गतꣳ सुतं गीर्भिर् नभो वरेण्यम् ।
अस्य पातं धियेषिता ।
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वा ।
एष ते योनिर् इन्द्राग्निभ्यां त्वा ॥

7.32
आ घा ये ऽ अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् ।
येषाम् इन्द्रो युवा सखा ।
उपयामगृहीतो ऽस्य् अग्नीन्द्राभ्यां त्वा ।
एष ते योनिर् अग्नीन्द्राभ्यां त्वा ॥

7.33
ओमासश् चर्षणीधृतो विश्वे देवास ऽ आ गत ।
दाश्वाꣳसो दाशुषः सुतम् ।
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

7.34
विश्वे देवास ऽ आ गत शृणुता म इमꣳ हवम् ।
एदं बर्हिर् नि षीदत ।
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

7.35
इन्द्र मरुत्व ऽ इह पाहि सोमं यथा शार्याते ऽ अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
ऽ एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

7.36
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यꣳ शासम् इन्द्रम् ।
विश्वासाहम् अवसे नूतनायोग्रꣳ सहोदाम् इह तꣳ हुवेम ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ।
उपयामगृहीतो ऽसि मरुतां त्वौजसे ॥

7.37
सजोषा ऽ इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूꣳन्२ ऽ अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

7.38
मरुत्वाꣳ२ ऽ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधं मदाय ।
आसिञ्चस्व जठरे मध्व ऽ ऊर्मिं त्वꣳ राजासि प्रतिपत्सुतानाम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वते ।
एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

7.39
महाꣳ२ ऽ इन्द्रो नृवद् आ चर्षणिप्रा ऽ उत द्विबर्हा ऽ अमिनः सहोभिः ।
अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥

7.40
महाꣳ२ ऽ इन्द्रो य ऽ ओजसा पर्जन्यो वृष्टिमाँ२ ऽ इव ।
स्तोमैर् वत्सस्य वावृधे ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा ॥

7.41
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यꣳ स्वाहा ॥

7.42
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी ऽ अन्तरिक्षꣳ सूर्य ऽ आत्मा जगतस् तस्थुषश् च स्वाहा ॥

7.43
अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम स्वाहा ॥

7.44
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽ एतु प्रभिन्दन् ।
अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा ॥

7.45
रूपेण वो रूपम् अभ्यागां तुथो वो विश्ववेदा वि भजतु ।
ऋतस्य पथा प्रेत चन्द्रदक्षिणाः ।
वि स्वः पश्य व्यन्तरिक्षम् ।
यतस्व सदस्यैः ॥

7.46
ब्राह्मणम् अद्य विदेयं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयꣳ सुधातुदक्षिणम् ।
अस्मद्राता देवत्रा गच्छत प्रदातारम् आ विशत ॥

7.47
अग्नये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीयायुर् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
रुद्राय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय प्राणो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ।
बृहस्पतये त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय त्वग् दात्र ऽ एधि मयो मह्यं प्रतिग्रहीत्रे ।
यमाय त्वा मह्यं वरुणो ददातु सो ऽमृतत्वम् अशीय हयो दात्र ऽ एधि वयो मह्यं प्रतिग्रहीत्रे ॥

7.48
को ऽदात् कस्मा अदात् कामो ऽदात् कामायादात् ।
कामो दाता कामः प्रतिग्रहीता कामैतत् ते ॥


भाष्यम्(उवट-महीधर)

सप्तमोऽध्यायः।
तत्र प्रथमा
वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ अ॒ᳪं᳭शुभ्यां॒ गभ॑स्तिपूतः । दे॒वो दे॒वेभ्य॑: पवस्व॒ येषां॑ भा॒गोऽसि॑ ।। १।।
उ०. वाचस्पतये । उपांशुग्रहणस्य पुरोरुक् । अनुष्टुप् प्राणदेवत्या । गृह्णाति । वाचस्पतये पवस्व । 'प्राणो वै वाचस्पतिः' इति श्रुतिः । वाचस्पतये प्राणाय पवस्व । पवनं गमनम् देवतार्था प्रवृत्तिः । वृष्णो अᳪं᳭शुभ्यां गभस्तिपूतः। यस्त्वं वृष्णोर्वर्षितुः सोमस्यांशुभ्याम् अध्वर्योर्गभस्तिभ्यां पूतः। 'पाणी वै गभस्ती' इति श्रुतिः । द्वितीयं गृह्णाति । देवो देवेभ्यः पवस्व । देवः सन् देवेभ्योऽर्थाय पवस्व प्रवृत्तिं कुरु । न ह्यदेवो देवांस्तर्पयितुमलम् । केषां देवानाम् । येषां त्वं देवानां भागोऽसि ॥ १॥
म०. षष्ठेऽध्याये यूपसंस्कारादिसोमाभिषवपर्यन्ता मन्त्रा उक्ताः । सप्तमे ग्रहग्रहणमन्त्रा उच्यन्ते । 'उपाᳪं᳭शुं च गृह्णाति वाचस्पतये देवो देवेभ्यो मधुमतीरिति' (का० ९ । ४ । २३) मन्त्रत्रयस्य प्रतीकोपादानात्तत्रैकैकेन मन्त्रेणोपांशुग्रहमेकैकवारं गृह्णीयात् । उपयामगृहीतोऽसीति मन्त्रत्रयस्यादौ योज्यम् । प्राणदेवत्या विराट् नववैराजत्रयोदशैर्नष्टरूपेति लक्षणान्नष्टरूपा विराट् प्रथमोऽष्टार्णस्तेनैकोना । पूर्वोत्तरार्धयोरुपांशुग्रहस्य प्रथमद्वितीयग्रहणे क्रमेण विनियोगः । हे सोम, त्वं वाचस्पतये प्राणाय पवस्व गच्छ । ‘पव गतौ' । 'प्राणो वै वाचस्पतिः' (४।१।१।९) इति श्रुतेः। यद्वा पतये पालकदेवार्थं वाचः वाचा । विभक्तिव्यत्ययः । मन्त्रेण वाचः संबन्धिना मन्त्रेण वा पवस्व शुद्धो भव । किंभूतस्त्वम् । वृष्णः वर्षितुस्तव संबन्धिभ्यामंशुभ्यां तौ हि तत्र क्षिप्येते । तथा गभस्तिपूतः 'पाणी वै गभस्ती' (४।१।१।९) इति श्रुतेरध्वर्योर्गभस्तिभ्यां पाणिभ्यां च पूतः । समासगतः पूतशब्दो विच्छिद्यांशुभ्यामित्यनेनापि योज्यः । द्वितीयं गृह्णाति । हे सोम, देवः सन् देवेभ्योऽर्थाय पवस्व प्रवृत्तिं कुरु । न ह्यदेवो देवांस्तर्पयितुमलम् । केभ्यो देवेभ्यः । येषां देवानां त्वं भागोऽसि तान्प्रति गच्छेत्यर्थः ॥ १॥

द्वितीया।
मधु॑मतीर्न॒ इष॑स्कृधि॒ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॒ स्वाहो॒र्वन्तरि॑क्ष॒मन्वे॑मि॒ ।। २।।
उ० तृतीयं गृह्णाति । मधुमतीः । मधुरस्वादोपेताः नः अस्माकम् इषः अन्नानि कृधि कुरु । गृह्यमाणः अंशून् सोमे निदधाति । यत्ते सोम । यत् ते तव हे सोम । अदाभ्यं नाम । दभ्नोतिर्हिंसार्थः । अनुपहिंसितं नाम । किं तत् सोमेति । जागृवि जागरणशीलं च अनुपहतं मानुषैर्धर्मैः । तस्मै ते तव हे सोम, सोमाय स्वाहा । स्वाहा इत्युक्त्वा निष्क्रामति । उर्वन्तरिक्षमन्वेमि व्याख्यातम् ॥२॥
म० तृतीयं गृह्णाति । लिङ्गोक्तदेवतम् । हे सोम, त्वं नोऽस्माकमिषोऽन्नानि मधुमतीः मधुररसोपेताः कृधि कुरु । 'यत्त इत्यात्तान्सोमे निदधाति' (का० ९ । ४ । २८) इति स्वीकृतानंशून्सोमे स्थापयेत् । सौम्यम् । हे सोम, ते तव अदाभ्यमहिंस्यम् । दभ्नोतिर्हिंसार्थः । जागृवि जागरणशीलं यन्नामास्ति सोमेति हे सोम, तस्मै तन्नामवते तुभ्यं सोमाय स्वाहा दत्तमस्तु । 'स्वाहेत्युक्त्वोर्वन्तरिक्षमिति निष्क्रमणमिति' (का० ९ । ४ । ३४) 'स्वाहेत्यक्षरद्वयमुक्त्वा निष्क्रमेत' । उरु विस्तीर्णमन्तरिक्षमन्वेमि अनुगच्छामि ॥ २॥

तृतीया।
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒: पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑ᳪं᳭शो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्लुता॑ भ॒ङ्गेन॑ ह॒तोऽसौ॒ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ।। ३।। (१ उपरिप्रुता इति पाठः.)
उ० जुहोति । स्वांकृतोऽसि स्वयं कृतोऽसि । स्वयं कृतोसीति प्राप्ते छन्दसि यकारलोपः । स्वयमुत्पन्नोसि । 'प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातः' इति श्रुतिः । स्वयमुत्पन्नोऽसि विश्वेभ्य इन्द्रियेभ्यः सकाशात् । दिव्येभ्यः देवेभ्यः पार्थिवेभ्यः द्विपदचतुष्पदेभ्यः सकाशात् स्वयमुत्पन्नोऽसि इत्यनुवर्तते । यस्त्वमेवं स्वतन्त्रोऽकृतकः तं मनः त्वाष्टु । मनः प्रजापतिः त्वां व्याप्नोतु । 'प्रजापतिर्वै मनः । प्रजापतिष्ट्वाश्नुताम्' इति श्रुतिः । स्वाहा त्वा सुभव सूर्याय । स्वाहाकारेण त्वां जुहोमीति शेषः । हे शोभन, भव ग्रह । सूर्याय प्रागुपमार्ष्टि मध्यमे परिधौ । देवेभ्यः त्वा । देवेभ्यो मरीचिपेभ्योऽर्थाय त्वामुपमार्ज्मीति शेषः । बाह्वादिश्लिष्टमंशुमभिचारं जुहुयात् । देवोᳪं᳭शो। हे देव सोमांशो, यस्मै वधाय त्वाम् ईडे । ईडिरध्येषणाकर्मा । प्रार्थयामि । तत्सत्यमस्त्विति शेषः । उपरिप्लुता प्लवतिर्गत्यर्थः। उपर्युपरिगतेन भङ्गेन आमर्दनेन हतो निहतः। असाविति नामादेशः । फट् । 'ञिफला विशरणे' । क्विबन्तस्यैतद्रूपम् डलयोरेकत्वात् । विशीर्यतु फटिति अभिचारे स्वाहाकारस्य स्थाने प्रयुज्यते । पात्रासादनम् । प्राणाय त्वा । सादयामीति शेषः । उपांशुसवनं सादयति । व्यानाय त्वा ॥३॥
म० स्वांकृत इति हुत्वा पात्रमुन्मार्ष्टीति' (का० ९।४।३७) उपांशुग्रहं हुत्वा पात्रमार्जनं कुर्यात् । ग्रहदैवतम् । 'प्राणो वा अस्यैष ग्रहः स स्वयमेव कृतः स्वयं जातः' (४१।१।२२) इति श्रुतेरुपांशुग्रहः प्राणः । हे प्राणरूपोपांशुग्रह, त्वं स्वांकृतो भवसि स्वयं स्वेनैव कृतो भवसि । छान्दसो यलोपः । स्वयमुत्पन्नोऽसि । केभ्यः । विश्वेभ्यः सर्वेभ्यः इन्द्रियेभ्यः सकाशात दिव्येभ्यः दिवि भवा दिव्या देवास्तेभ्यश्च सकाशात् पार्थिवेभ्यः पृथिवीभवेभ्यो द्विपदचतुष्पदेभ्यः सकाशात्स्वयमुत्पन्न इत्यनुवर्तते । यस्त्वमेवमकृतकः स्वतन्त्रस्तं त्वां मनः प्रजापतिरष्टु व्याप्नोतु । 'अशूङ् व्याप्तौ' पदविकरणव्यत्ययः । 'प्रजापतिर्वै मनः प्रजापतिष्ट्वाश्नुताम्' (४ । १ । १। २२) इति श्रुतेः । शोभनो भव उत्पत्तिर्यस्य तत्संबोधनं हे सुभव उत्तमजन्मन् ग्रह, सूर्याय सूर्यार्थं त्वा त्वां स्वाहाकारेण जुहोमि । यद्वास्य होममन्त्रस्यायमर्थः । हे प्राणरूप ग्रह, त्वं स्वांकृतोऽसि मया स्वीकृतोऽसि । किमर्थम् । दिव्येभ्यः देवजन्मनि स्थितेभ्यः पार्थिवेभ्यः मनुष्यजन्मनि स्थितेभ्यः सर्वेभ्य इन्द्रियेभ्यः इन्द्रियाणां हितायेत्यर्थः । मनश्च तेषामिन्द्रियाणामधीशं त्वामष्टु व्याप्नोतु । हे सुभव प्राणरूपोपांशुग्रह, तादृग्रूपं त्वां बहिःप्राणरूपाय सूर्याय स्वाहाकारेण जुहोमि । 'आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णीत' इत्याथर्वणिकश्रुतेः सूर्यस्य बहिःप्राणत्वम् । स्वांकृतशब्देन प्राणरूपग्रहस्य स्वाधीनत्वं दिव्यपार्थिवशब्दाभ्यां च जन्मद्वयं विवक्षितमिति तित्तिरिणोक्तम् । 'स्वांकृतोऽसीत्याह प्राणमेव समकृत विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्याहोभयेष्वेव देवमनुष्येषु प्राणान् दधातीति' । 'प्रथमे परिधावुत्तानं पाणिं प्रागुपमार्ष्टि देवेभ्यस्त्वेति' (का. ९ । ४ । ३८) । पश्चिमस्थे परिधौ सोमलिप्तमूर्ध्वाभिमुखं हस्तं कृत्वा प्रागभिमुखं यथा तथा मार्जनं कुर्यात् । दैवं यजुः । हे लेप, मरीचिपेभ्यः मरीचिपालकेभ्यो देवेभ्योऽर्थाय त्वा त्वां परिधौ मार्ज्मि इति शेषः । 'वास उरोबाहुषु श्लिष्टमᳪं᳭शुमभिचरन्जुहुयाद्देवाᳪं᳭शविति'(का० ९। ४ । ३९) । वस्त्रादिषु श्लिष्टो यः सोमांशुस्तमभिचारार्थं जुहुयात् । आभिचारिकं सोमांशुदेवतं यजुः । हे देव दीप्यमान हे अंशो सोमांशो, यस्मै वधाय त्वामीडे प्रार्थयामि । ईडिरध्येषणकर्मा । तत् वधकर्म सत्यमस्त्विति शेषः । उपरि प्रवते गच्छतीत्युपरिप्रुत् । प्रवतिर्गत्यर्थः । तेनोपरि आगतेन भङ्गेनामर्दनासाविति देवदत्तादिनामनिर्देशः । असौ द्वेष्यो हतो निहतः सन् फट् विशीर्णो भवतु । 'ञिफला विशरणे' । अस्य क्विबन्तस्यैतद्रूपम् । फलतीति फट् डलयोरैक्यम् । स्वाहाकारस्थाने फडित्यभिचारे प्रयुज्यते । 'प्राणाय त्वेति पात्रासादनम्' (का० ९ । ४ । ४१)। यस्मिन्प्रदेशे पूर्वमुपांशुपात्रं स्थापितं तत्रैव स्थापयेत् । हे उपांशुपात्र, प्राणदेवतासंतोषार्थं त्वाम् आसादयामीति शेषः । 'उपाᳪं᳭शुसवनं पाणिना प्रमृज्योदञ्चं व्यानाय त्वेति सᳪं᳭स्पृष्टमिति' ( का० ९ । ४ । ४२)। येनाश्मना सोमोऽभिषुतः स उपांशुसवनस्तं हस्तेन प्रमृज्योदगभिमुखग्रहसंलग्नं सादयेत् । हे उपांशुसवन, व्यानदेवताप्रीत्यर्थं त्वामासादयामि ॥३॥

चतुर्थी
उ॒प॒या॒मगृ॑हीतोऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म् । उ॒रु॒ष्य राय॒ एषो॑ यजस्व ।। ४।।
उ० अन्तर्यामं गृह्णाति । उपयामगृहीतोसि । उपयमतीत्युपयामः । उपयामेन गृहीतः त्वमसि । 'इयं वा उपयाम इयं वा इदम्' इत्यादिश्रुतिः । अन्तर्यच्छ मघवन् हे मघवन्, अन्तर्मध्ये ग्रहपात्रे यच्छ निगृह्णीष्व । ततः पाहि गोपाय पात्रस्थं सोमम् । ततोऽनन्तरम् उरुष्य रायः उरुष्यतिर्गोपायनार्थः । 'पशवो वै रायः' इति श्रुतिः। गोपाय पशून् । इषो यजस्व इषोऽन्नानि तत्प्रभवत्वात्प्रजा लक्षणया इष उक्ताः । 'प्रजा वा इषः' इति श्रुतिः । यजस्व यायजूकाः कुरु । । अस्मिन्नर्थे श्रुत्या एतत्पदं व्याख्यातम् ॥ ४ ॥ ।
म० 'उदितेऽन्तर्यामग्रहणमुपयामगृहीत इति' (का. ९ । ६ । १)। सूर्योदयानन्तरमन्तर्यामग्रहं गृह्णीयात् । उपयामयतीत्युपयामो ग्रहस्तेन गृह्यत इत्युपयामगृहीतः पचाद्यच् चित्त्वादन्तोदात्तः । 'यमोऽपरिवेषणे' इति परिवेषणादन्यत्र मित्वाभावाद्वृद्धिः । 'तत्पुरुषे तुल्यार्थ-' (पा० ६ । २ । २) इति पूर्वपदस्वरं बाधित्वा 'थाथघञ्-' (पा० ६ । २ । १४४ ) इति अजन्तस्यान्तोदात्तत्वम् । पुनस्तृतीयासमासे 'तत्पुरुषे तुल्यार्थ-' (पा० ६ । २।२) इत्यादिना तृतीयान्तस्य प्रकृतिस्वरत्वेन तदेव स्थितम् । हे सोमरस, त्वं तादृशोऽसि । हे मघवन् धनवन्निन्द्र, त्वं तादृशं रसमन्तर्ग्रहपात्रमध्ये यच्छ निगृह्णीष्व । । यद्वा शत्रुभ्योऽन्तर्धानं व्यवधानं यथा तथा नियमय । ततः सोमं पाहि पालय । तथा रायो धनानि उरुष्य रक्ष । उरुष्यती रक्षणकर्मा । यद्वा 'पशवो वै रायः' ( ४ । १।१५) इति श्रुतेः पशून्रक्ष । आ इषो यजस्व इषोऽन्नानि आयजस्व समन्ताद्देहि । यद्वान्नप्रभवत्वादिषो लक्षणया प्रजाः । 'प्रजा वा इषः' (४ । १ । २ । १५) इति श्रुतेः । ता यजस्व याजयस्व यायजूकाः कुरु । श्रुत्यैवं व्याख्यातत्वात् ॥ ४ ॥

पञ्चमी।
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व॒न्तरि॑क्षम् । स॒जूर्दे॒वेभि॒रव॑रै॒: परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व ।। ५।।
उ० अन्तस्ते । अन्तर्यामं पुरोरुक् त्रिष्टुप् मघवद्देवत्या । यस्य तव प्राणरूपापन्नस्यान्तः शरीरमध्ये द्यावापृथिव्यौ दधामि स्थापयामि । अन्तर्मध्ये च दधामि उरु विस्तीर्णमन्तरिक्षम् । स त्वं सजूः समानजोषणः सह प्रीयमाणः । देवेभिर्देवैः । 'अतो भिस ऐस्' 'बहुलं छन्दसि' इति भिस् । अवरैः परैश्च । अवरैः पृथिवीस्थानैः परैः द्युस्थानैः अन्तर्यामे अस्मिन्ग्रहे होमायोद्यते हे मघवन् , मादयस्व हर्षयस्वात्मानम् ॥ ५॥
म० मघवद्देवत्या त्रिष्टुप् । अन्तर्यामग्रहण एव विनियोगः । हे मघवन् , ते तवानुग्रहात् द्यावापृथिवी अन्तर्दधामि व्यवधायिके करोमि । यद्वा हे अन्तर्याम, प्राणरूपापन्नस्य तवान्तः शरीरमध्ये द्यावापृथिव्यौ दधामि । स्थापयामि । किंच उरु विस्तीर्णमन्तरिक्षमन्तर्मध्ये च दधामि द्यावापृथिव्योर्मध्ये स्थापयामि । हे मघवन्धनवन्निन्द्र, अवरैः पृथिवीस्थानैः देवेभिर्देवैः परैः द्युस्थानैश्च देवैः सजूः समानजोषणः समानप्रीतियुक्तः सन्नन्तर्यामे ग्रहे मादयस्व हर्षयस्वात्मानम् । यद्वा तृप्यस्व 'मद तृप्तौ' चुरादिरात्मनेपदी । देवेभिरित्यत्र 'बहुलं छन्दसि' (पा० ७ । १।१०) इति ऐसोऽभावे 'बहुवचने झल्येत्' (पा० ७ । ३ । १०३) इति एकारः ॥ ५॥

षष्ठी।
स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒: पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ उदा॒नाय॑ त्वा ।। ६।।
उ० जुहोति । स्वांकृतोसि । व्याख्यातम् । पात्रमासादयति । उदानाय त्वा ॥ ६ ॥
म०. स्वांकृत इति निःशेषस्यैव होमस्तिष्ठतः । व्याख्यातः । 'प्रथमे च न्युब्जेन पाणिना प्रत्यगिति' ( का० ९ । ६ । ४ )। प्रथमे परिधावधोमुखहस्तेन प्रत्यक्संस्थं मार्ष्टि देवेभ्यस्त्वेति मन्त्रेण । व्याख्यातः । उदानाय त्वेति पात्रासादनम् । हे ग्रह, उदानसन्तोषार्थं त्वां सादयामि ॥ ६ ॥

सप्तमी।
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा ।। ७ ।।
उ० ऐन्द्रवायवं गृह्णाति । आ वायो भूष । त्रिष्टुप् वायुदेवत्या । हे वायो, आ अभूष अभ्याक्रमस्व । हे शुचिपाः, पवित्रं सोमं । प्रथमवषट्कारवषट्कृतमप्राप्तमन्यैर्देवताविशेषैः पिबतीति शुचिपाः उप नः उप समीपे नः अस्माकम् अभ्याक्रमस्वेति संबन्धः । केनाहमभ्याक्रम इति चेत् सहस्रं ते नियुतो विश्ववार । बहवः ते नियुद्गुणयुक्ता अश्वा विद्यन्ते । हे विश्ववार, विश्वं सर्वं वृणोति विश्वैः सर्वैर्वा व्रियते प्राणिभिरिति विश्ववारः तस्य संबोधनं हे विश्ववार । किंच उपो ते अन्धो मद्यमयामि । उपगमयामि च ते तव स्वभूतम् अन्धोन्नं मद्यं मदनीयम् । कथंभूतम् । यस्य सोमस्य हे देव, दधिषे धारयसि पूर्वपेयं प्रथमवषट्कारलक्षणम् । पूर्वपानं प्रथमवषट्कार एव ते सोमस्य राज्ञ इत्याशयः । वायवे त्वेति देवतोद्देशः ॥ ७ ॥
म० 'ऐन्द्रवायवं गृह्णात्या वायविति' ( का० ९ । ६।५)। वायुदेवत्या त्रिष्टुप् वसिष्ठदृष्टा वायवे त्वेति यजुरन्ता । हे वायो, हे शुचिपाः शुचिं पवित्रं प्रथमं वषट्कृतमप्राप्तमन्यदेवैः ईदृशं सोमं पिबतीति शुचिपाः पवित्रसोमपान, त्वं नोऽस्माकमुप समीपे आ भूष आक्रमस्वागच्छेत्यर्थः । ‘भूष अलंकारे'. इह गत्यर्थः । केनाहं आक्रमे इति चेत् । सहस्रं ते नियुतो विश्ववार । विश्वं सर्वं वृणोति व्याप्नोति विश्वैर्वा व्रियते प्रार्थ्यते इति विश्ववारस्तत्संबोधनम् हे विश्ववार सर्वव्यापक, ते तव सहस्रं नियुतः सन्ति । 'नियुतो वायोः' इत्युक्तेर्नियुच्छब्देन वायुवाहनभूता मृगा उच्यन्ते । तवासंख्याता वाहनभूता मृगास्तैरागच्छेत्यर्थः । किंच मद्यं मदनीयं तृप्तिजनकमन्धः सोमलक्षणमन्नं ते तव उप समीपे एव अयामि गमयामि । सोमं ते समर्पयामीत्यर्थः । हे देव दीप्यमान वायो, यस्य सोमस्य पूर्वपेयं प्रथमवषट्कारलक्षणं पूर्वपानं त्वं दधिषे धारयसि । दधातेर्लिटि रूपम् । एवं वायुं प्रार्थ्य सोममाह हे सोमरस, वायवे वायुदेवतार्थं त्वां गृह्णामीति शेषः ॥ ७ ॥

अष्टमी।
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ।
उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनि॑: स॒जोषो॑भ्यां त्वा ।। ८ ।।
उ० द्वितीया पुरोरुक् । इन्द्रवायू । वायवी गायत्री । हे इन्द्रवायू, इमे अभिष्टुताः सोमाः अतः कारणात् उपप्रयोभिरागतम् । उपेत्ययमुपसर्ग आगतमित्यनेन संबध्यते । उपागतम् उपगच्छतम् । प्रयोभिः । प्रयःशब्दः 'इण् गतौ' इत्यस्य धातोः शतृप्रत्ययान्तस्य । 'इणो यण्' इति यणादेशः | भिस् । ततस्तकारस्य छान्दसः सकारः । ततो रुत्वादि । ततः प्रपूर्वस्य प्रयोभिरिति सिद्ध्यति । प्रयद्भिरश्वैः शीघ्रैरागच्छतम् । किंच । इन्दवो वामुशन्ति हि । हिशब्दो यस्मादर्थे । यस्मादिन्दवः सोमाः वां युवाम् उशन्ति । 'वश कान्तौ' कामयन्ते । यद्यस्मादिन्द्रवायू पिबतमिति । उपयामगृहीतोसि वायव इन्द्रवायुभ्यां च त्वा । गृह्णामीति शेषः। सादयति एष ते योनिः । एष पृथिवीलक्षणः ते तव योनिः स्थानम् । योनिशब्दो हि स्थानवचनः । सजोषाभ्यां सहप्रीतिभ्यां त्वां सादयामीति शेषः ॥ ८॥ .
म० 'अपगृह्य पुनरिन्द्रवायू इतीति' (का० ९ । ६ । ६)। एकवारमर्धमादाय पृथक्कृत्य पुनरैन्द्रवायवं गृह्णाति । ऐन्द्रवायवी गायत्री मधुच्छन्दोदृष्टा । उपयामेति यजुःसहितो मन्त्रः । हे इन्द्रवायू, युष्मदर्थमिमे सोमाः सुता अभिषुताः । प्रयः इत्यन्ननाम। प्रयोभिः एतैः सोमरसरूपैरन्नैर्निर्मितैरुप समीपे युवामागतमागच्छतम् । यद्वा प्रयःशब्द 'इण् गतौ' इति धातोः शतृप्रत्ययान्तस्य रूपम् । प्रेतीति प्रयन् । इणो यण् तस्य भिसि परे तकारस्य छान्दसः सकारः तस्य रुत्वादौ प्रयोभिरिति सिध्यति । प्रयोभिः प्रयद्भिः शीघ्रैरश्वैरागच्छतम् । हि यस्मादिन्दवः सोमा वां युवामुशन्ति कामयन्ते तस्मादागच्छतमित्यर्थः । सोममाह हे सोमरस, त्वमुपयामेन पात्रेण गृहीतोऽसि वायवे वायुदेवतार्थं इन्द्रवायुभ्यां इन्द्रवायुदेवतार्थं च त्वां गृह्णामीति शेषः । 'दशापवित्रेण परिमृज्यैष ते योनिरिति ग्रहसादनमिति' (का. ९ । ५। २५)। दशापवित्रेण गृहीतं ग्रहं परिमृज्य पात्राद्बहिर्निर्गतं सोमं मार्जयित्वा एष ते योनिरिति मन्त्रेण ग्रहस्य सादनं करोति । वीप्सा सर्वग्रहार्था । इति सूत्रार्थः । हे पात्र, एष खरस्यैकदेशः ते योनिः तव स्थानम् । अतोऽत्र सजोषोभ्यां समानप्रीतिभ्यामिन्द्रवायुभ्यामर्थं त्वां सादयामीति शेषः ॥ ८॥

नवमी।
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ ᳪं᳭ हव॑म् । उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा ।। ९ ।।
उ० मैत्रावरुणस्य पुरोरुक् । अयं वाम् । गायत्री मैत्रावरुणी । हे मित्रावरुणौ, अयं वां युवयोः अयमभिषुतः सोमः हे ऋतावृधौ सत्यवृधौ वा यज्ञवृधौ वा अतः कारणात् मम इत् इह श्रुतं हवम् । इदिति निपात एवार्थे । ममैव इह यजमानानां मध्ये श्रुतम् आह्वानम् । उपयाम गृहीतोसि मित्रावरुणाभ्यां त्वा । देवतादेशः ॥९॥
म० 'मैत्रावरुणमयं वामिति' ( का० ९।६।७) मैत्रावरुणं ग्रहं गृह्णीयात् । मित्रावरुणदेवत्या गायत्री गृत्समददृष्टा यजुरन्ता । हे मित्रावरुणौ, विभक्तेराकारः । हे ऋतावृधा, ऋतं यज्ञं सत्यं वा वर्धयत इति ऋतवृधौ ऋतस्य वर्धयितारौ वां युवयोरर्थायायं सोमः सुतः अभिषुतः तस्मादिहास्मिन् यज्ञे ममेत् । इत् एवार्थे । ममैव यजमानानां मध्ये ममैव हवमाह्वानं श्रुतं युवां शृणुतम् । हे सोमरस, त्वमुपयामेन मैत्रावरुणग्रहपात्रेण गृहीतोऽसि । मित्रावरुणाभ्यामर्थे त्वा त्वां गृह्णामीति शेषः ॥९॥

दशमी।
रा॒या व॒यᳪं᳭ स॑स॒वाᳪं᳭सो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गाव॑: ।
तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फ़ुरन्तीमे॒ष ते॒ योनि॑रृता॒युभ्यां॑ त्वा ।। १० ।।
उ० पयसा श्रीणाति । राया वयम् । मैत्रावरुणी त्रिष्टुप्। उपरितनेर्धर्चे तदः श्रवणादिह पदोध्याहारः । इह कामदुघां प्रार्थयते मन्त्रदृक् । यया धेन्वा गृहेसत्या । राया वय ᳪं᳭ससवा ᳪं᳭सो मदेम । राया धनेन वयं ससवांसः। 'वन षण संभक्तौ' । संभक्ताः सन्तो हृष्टाः स्याम । कथमिव । हव्येन देवाः यथा हविषा संभक्ता देवा हृष्यन्ति । यथाच यवसेन गवाह्निकादिना गावो हृष्टा भवन्ति तां तथाभूतां धेनुं हे मित्रावरुणौ, युवं युवां नः अस्मभ्यं विश्वाहा सर्वदा। धत्तं दत्तं । अनपस्फुरन्तीम् । स्फुरतिर्गत्यर्थः । अपेत्यापेत्य या पुरुषान्तरात्पुरुषान्तरं गच्छति सा अपस्फुरन्ती अपस्फुरन्ती न भवतीत्यनपस्फुरन्ती ताम् । अनन्यगामिनीं दत्तमित्यर्थः । विश्वाहेति सततं दानक्रियार्थम् । एष ते योनिः ऋतायुभ्यां त्वा । सादयामीति शेषः । ऋतशब्देनात्र मित्रोऽभिधीयते । अयुशब्देन वरुणः। | अयंतावत् श्रुत्यभिप्रायः येनैवमाह । 'ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म ह्यृतं वरुण एवायुरिति'। पदकारस्तु ऋतायुवाभ्यामित्येकं पदं कृतवान् तस्यायमभिप्रायः । ऋतं सत्यं यज्ञं वा यौ कामयेते तौ ऋतायू ताभ्यामृतायुभ्याम् ॥ १० ॥ -
म० ‘पयसा श्रीणात्येनं कुशावन्तर्धाय राया वयमिति' । (का० ९।६। ८ ) मैत्रावरुणपात्रे कुशद्वयं व्यवधाय तत्र स्वं सोमरसं क्षीरेण मिश्रीकुर्यात् । मित्रावरुणदेवत्या त्रिष्टुप् त्रसदस्यदृष्टा । उत्तरार्धे तामिति तदःश्रवणादिह यदोऽध्याहारः । मन्त्रदृक्कामदुघां प्रार्थयते । यया धेन्वा गृहे सत्या वयं राया धनेन ससवांसः । 'वन षण संभक्तौ' इत्यस्य वसौ रूपम् । धनेन संभक्ताः संपन्नाः सन्तो मदेम हृष्टाः स्याम । कथमिव । हव्येनेव । यथा हविषा संभक्ता देवा हृष्यन्ति, यथाच यवसेन घासेन गवाह्निकादिना गावो हृष्यन्ति हे मित्रावरुणौ, युवं युवां तां धेनुं नोऽस्मभ्यं विश्वाहा सर्वदा धत्तं दत्तम् । किंभूतां धेनुम् । अनपस्फुरन्तीम् । स्फुरतिर्गत्यर्थः । अपस्फुरति पुरुषान्तरं गच्छतीत्यपस्फुरन्ती न अपस्फुरन्ती अनपस्फुरन्ती ताम् । अनन्यगामिनीं दत्तमित्यर्थः । एष त इति सादनम् । हे ग्रह, एष ते योनिः स्थानम् ऋतायुभ्यां मित्रावरुणाभ्यामर्थे त्वां सादयामीति शेषः । 'ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म ऋतं वरुण एवायुः' (४ । १।४ । १०) इति श्रुतेः ऋतशब्देन मित्रः आयुशब्देन वरुणः इति श्रुतिव्याख्या । पदकारस्तु ऋतयुभ्यामिति पदं कृतवान् तेन ऋतं सत्यं यज्ञं वा कामयेते तौ ऋतयू ताभ्यामृतयुभ्याम् । संहितायां दीर्घः । यज्ञमिच्छद्भ्यां मित्रावरुणाभ्यामित्यर्थः पदकारस्य ॥ १० ॥

एकादशी।
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ।। ११ ।।
उ० आश्विनस्य पुरोरुक् । या वां कशा । गायत्री आश्विनी । हे आश्विनौ या वां युवयोः कशा । कशेति वाङ्नाम । सा प्रकाशयति अर्थान् । मधुमती मधुब्राह्मणोपनिषत् प्रशंसायुक्ता । सूनृतावती शोभना प्रिया ऋतावती सत्यवती च या वाक् सा सूनृतावती । तया यज्ञं मिमिक्षतम् । 'मिह सेचने'। सिञ्चतम् । अश्विनौ हि यज्ञे अध्वर्यू अत एवमुच्यते । उपयाम गृहीतोऽस्यश्विभ्यां त्वा गृह्णामि । एष ते योनिः माध्वीभ्यां त्वा सादयामि । 'दध्यङ् ह वा आभ्यामाथर्वणो मधुनामब्राह्मणमुवाच इत्युपक्रम्य तस्मान्मधुमत्यर्वाक् गृह्णाति माध्वीभ्यां त्वेति सादयति' इत्याह श्रुतिः । अतएवं व्याख्येयम् । मधु ब्राह्मणं यावधीयाते तौ माध्वी इत्युच्येते । इकारोऽत्र तद्धितः ॥ ११ ॥
म० 'आश्विनं गृह्णात्यन्वारब्धे वा या वामिति' (का० ९। ७ । ८)। यजमानेऽन्वारब्धे वाश्विनं ग्रहं गृह्णाति । आश्विनी गायत्री मेधातिथिदृष्टा यजुरन्ता । हे अश्विना अश्विदेवौ, वां युवयोर्या कशा । कशेति वाङ्नामसु पठितम् । काशयति प्रकाशयति वाङ्मयमिति कशा वाक् । किंभूता । मधुमती मधु ब्रह्म तद्वती मधुब्राह्मणोपनिषत्प्रशंसायुता । तथा सूनृतावती प्रियं सत्यं वचः सूनृतं तद्वती सत्यप्रियवचनोपेता । हे अश्विनौ, तया वाचास्मदीयं यज्ञं मिमिक्षतं 'मिह सेचने' सनन्तः । सेक्तुमिच्छतम् । निष्पादयतमित्यर्थः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि अश्विभ्यामर्थे त्वां गृह्णामीति शेषः । (का० ९ । ६ । ८) साधयत्येष ते हे ग्रह, एष ते योनिः स्थानं माध्वीभ्यां मधुब्राह्मणाध्येतृभ्यामश्विभ्यामर्थे त्वां सादयामीति शेषः । मधुब्राह्मणं यावधीयाते तौ माध्व्यौ ताभ्याम् । तद्धित ईप्रत्ययः । 'दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच' (४ । १।५। १८) इति श्रुतेः ॥ ११ ॥

द्वादशी।
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्येष्ठ॒ता॑तिं बर्हि॒षद॑ᳪं᳭ स्व॒र्विद॑म् । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्ट॒: शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्र ण॑य॒न्त्वना॑धृष्टाऽसि ।। १२ ।।
उ० शुक्रं गृह्णाति । तस्य पुरोरुक् । तं प्रत्नथा । जगती अनिरुक्ता प्रकरणाच्च शुक्रोभिधीयते । अत्र च व्यवहितैः पदैः वाक्यं प्रायशः कल्प्यते । हे सोम, तमिन्द्रं ज्येष्ठतातिम् उत्कृष्टतातिं उत्कृष्टविस्तारम् । अथवा 'वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' इति तद्धितः प्रशंसायाम् । ज्येष्ठतातिं ज्येष्ठप्रशस्यम् । बर्हिषदम् यज्ञेषु बर्हिषि सीदतीति बर्हिषदम्। स्वर्विदम् । स्वशब्देन द्युलोकोऽभिधीयते । द्युलोकं जानाति तत्र हि तस्स निवासः । धुनिम् । 'धूञ् कम्पने' । कम्पयितारं शत्रूणाम् । आशुं जयन्तम् शीघ्रं जयन्तं जेतव्यानि वस्तूनि । तमेवंगुणविशिष्टमिन्द्रं हे सोम, यासु अनु वर्धसे । यासु विक्षु येषु यजमानेषु वर्धसे पुनःपुनः संस्क्रियसे तासु तासु क्रियासु त्वमवस्थितः तत्र प्रतीचीनं वृजनं दोहसे । प्रतीचीनमात्मनोऽभिमुखमिन्द्रमवस्थाप्य स्ववीर्येण तर्पयित्वा अस्मे यजमानाय वृजनम् । वृजनमिति बलनाम । बलवच्च यज्ञफलं दोहसे प्रक्षारयसि । कथं पुनर्दोहसे प्रत्नथा । था उपमार्थीयः । प्रत्नशब्दः पुराणवचनः । चिरन्तनानामिव ऋषीणां भृगुप्रभृतीनां दोहसे । इमथा । इदानीन्तनानामिव यजमानानां दोहसे । अस्य यजमानस्य । उपयामगृहीतोसि शण्डाय त्वा गृह्णामि । शण्डोऽसुरः । एष ते योनिः वीरतां वीरत्वं पाहि गोपाय । सादयामीति शेषः । यूपशकलेनाभिमार्ष्टि । अपमृष्टः शण्डः अपमार्जनीकृतोऽस्य ग्रहस्य शण्डोऽसुरः। निष्क्रामति । देवास्त्वा । देवास्त्वां हे ग्रह, शुक्रपायिनः यजतिस्थानं प्रापयन्तु दक्षिणस्यां वेदिश्रोणावासादयति । अनाधृष्टासि अनुपहिंसितासि ॥ १२ ॥
म० 'शुक्रं बैल्वेन वा तं प्रत्नथेति' (का० ९ । ६ । १०) बिल्वपात्रेण वैकङ्कतेन वा शुक्रं ग्रहं गृह्णाति । जगती वैश्वदेवी काश्यपावत्सारदृष्टा द्वादशार्णचतुःपादा जगती उपयामेत्यन्ते यजुः । हे इन्द्र, त्वं यासु यज्ञक्रियासु अनुवर्धसे पुनः पुनः सोमपानेन वृद्धिं प्राप्नोषि तासु । वृजनमिति बलनाम । बलं बलवद्यज्ञफलं दोहसे क्षारयसि ददासीत्यर्थः । यजमानायेति शेषः । कथं दोहसे तत्र दृष्टान्तमाह । प्रत्नथा । 'प्रत्नपूर्व-' (पा० ५। ३ । १११) इत्यादिना थाल्प्रत्यय उपमार्थीयः। प्रत्नशब्दः पुराणवचनः । चिरन्तनानां भृग्वादीनामिव फलं दोहसे । पूर्वथा पूर्वेषामिव ऋषीणां साध्यादीनामिव । विश्वथा विश्वेषां सर्वेषामृषिपुत्राणामिव । इमथा इदानीन्तनानां यजमानानामिवास्य फलं दोहसे तं त्वां स्तुम इति शेषः । किंभूतं तम् । ज्येष्ठतातिम् तननं तातिः विस्तारः । ज्येष्ठा उत्कृष्टा तातिर्विस्तारो यस्य तम् । यद्वा 'वृकज्येष्ठाभ्याम्-' (पा० ५ । ४ ।४१) इत्यादिना प्रशंसायां तातिल्प्रत्ययः । प्रशस्तो ज्येष्ठो ज्येष्ठेषु प्रशस्यो वा ज्येष्ठतातिः । तथा बर्हिषदं यज्ञेषु बर्हिषि सीदतीति बर्हिषदस्तम् । स्वर्विदम् । स्वः द्युलोकं वेत्ति जानातीति स्वर्वित्तम् । तत्र हि तस्य निवासः । प्रतीचीनमात्मनोऽभिमुखं धुनिम् । 'धूञ् कम्पने' । कम्पितारं शत्रूणाम् आशुं शीघ्रं जयन्तं जेतव्यानि वस्तूनि । यद्वास्या ऋचोऽर्थान्तरम् । हे इन्द्र, यस्त्वं प्रतीचीनं प्रतिगमनमस्मत्प्रतिकूलं वृजनं वर्जनीयमालस्याश्रद्धादिकं दोहसे रिक्तीकरोषि विनाशयसि । 'दुह प्रपूरणे' प्रपूरणं रिक्तीकरणमिति क्षीरस्वामी। किंच यासु क्रियासु धुनिं त्वदनुग्रहाच्छत्रून्कम्पयन्तमाशुं क्षिप्रकारिणं जयन्तं सम्यगनुष्ठानेन यजमानान्तराण्यतिशयानमेनं यजमानमनु सोमपानेन स्तुत्या च यः त्वं वर्धसे तासु क्रियासु तं त्वां स्तुम इति शेषः । कथमिव । प्रत्नथा थाप्रत्यय | उपमार्थः । प्रत्नाः पुरातना भृग्वादयो यथा त्वामस्तुवन् पूर्वथा
पूर्वे पित्रादय इव विश्वथा अतीताः सर्वे यजमाना इव इमथा इदानीन्तना वर्तमाना यजमाना इव वयं वां स्तुम इत्यर्थः । कीदृशं त्वाम् । ज्येष्ठतातिं स्वार्थे तातिः । ज्येष्ठमित्यर्थः । बर्हिषदं यागे संनिहितत्वेन तिष्ठन्तम् । स्वर्विदं यजमानाय दातव्यं स्वर्गं वेत्तीति स्वर्वित् । एवमिन्द्रमुक्त्वा सोममाह । हे शुक्रग्रह, त्वमुपयामेन गृहीतोऽसि शण्डाय शुक्रपुत्राय शण्डनाम्नेऽसुराय वा त्वां गृह्णामीति शेषः । सादयत्येष ते । हे ग्रह, एष खरप्रदेशस्तव स्थानम् । त्वं यजमानस्य वीरतां वीरत्वं शूरत्वं पाहि पालय । 'शुक्रामन्थिभ्यां चरतः शुक्रेणाध्वर्युर्मन्थिना प्रतिप्रस्थाता प्रोक्षिताप्रोक्षितौ यूपशकलावादायापिधानं प्रोक्षिताभ्यामपमार्जनमप्रोक्षिताभ्यामपमृष्टः शण्ड इत्यध्वर्युरिति' (का० ९ । १० । १-५) अध्वर्युप्रतिप्रस्थातारौ शुक्रामन्थिग्रहाभ्यां यथाक्रममनुतिष्ठेताम् । तत्प्रकारः । प्रोक्षिताभ्यां द्वाभ्यां यूपशकलाभ्यां सहाप्रोक्षितौ द्वौ यूपशकलावादाय प्रोक्षिताभ्यां तयोर्ग्रहयोः क्रमेणाच्छादनं कृत्वा प्रोक्षिताभ्यां ग्रहावपमृज्यात् । तत्र प्रोक्षितेन शकलेन ग्रहं पिधायाप्रोक्षितेनाध्वर्युः शुक्रग्रहमपमार्ष्टि इति सूत्रार्थः । आभिचारिकं यजुः । शण्डनामकोऽसुरपुरोहितः शुक्रपुत्रोऽपमृष्टः अपमार्जनीकृतः । 'देवास्त्वेति निष्क्रामतो यथालिङ्गमिति' ( का० ९ । १० । ६) अध्वर्युप्रतिप्रस्थातारौ यथाक्रमेण शुक्रमन्थीत्येतत्पदद्वयवाचकमन्त्रलिङ्गमनतिक्रम्य हविर्धानमध्यान्निर्गच्छेताम् । तत्र शुक्रलिङ्गेनाध्वर्युर्निष्क्रामति । शुक्रदैवतम् । शुक्रनामकग्रहस्थं सोमं पिबन्ति शुक्रपा देवाः हे शुक्रग्रह, त्वां प्रणयन्तु यजतिस्थानं प्रापयन्तु (का० ९ । १० । ७) । अपरेणोत्तरवेदिमरत्नी सन्धायोत्तरवेदिश्रोण्योर्निधत्तोऽविसृजन्तो दक्षिणस्थामध्वर्युरुत्तरस्यां प्रतिप्रस्थातानाधृष्टासीति । अध्वर्युप्रतिप्रस्थातारौ वेदिपश्चाद्भागे अरत्नी संयोज्य ग्रहयोर्विसर्गमकुर्वन्तौ उत्तरवेदिश्रोण्योर्ग्रहौ सादयतः दक्षिणश्रोणावध्वर्युः शुक्रम् उत्तरवेदिश्रोणौ प्रतिप्रस्थाता मन्थिनं सादयति । वेदिश्रोणिदैवतम् । हे उत्तरवेदिश्रोणे, त्वमनाधृष्टानुपहिंसितासि ॥ १२ ॥

त्रयोदशी।
सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्त॒: शण्ड॑: शु॒क्रस्या॑धि॒ष्ठान॑मसि ।। १३ ।।
उ० यूपदेशं गच्छति । सुवीरो वीरान् हे ग्रह, कल्याणवीरः स त्वं यजमानस्य वीरान् प्रजनयन् उत्पादयन् परीहि परिगच्छ । किंच अभिरायस्पोषेण यजमानम् अभियोजयस्व धनस्य पोषेण यजमानम् । परीहीत्यनुवर्तते । अपरेण यूपमरत्नी संधत्त । संजग्मानः अयं शुक्रः संगच्छमानः दिवा द्युलोकेन संगच्छमानश्च पृथिव्या पृथिवीलोकेन संगच्छमानश्च । कोसौ शुक्रः । शुक्रशोचिषा शुक्लदीप्त्या प्रजा बिभर्तीति शेषः । यूपशकलं निरस्यति । निरस्तः शण्डः । निःक्षिप्तः शण्डो यज्ञाद्बहिःकृतः । आहवनीये प्रोक्षितं प्रास्यति । शुक्रस्याधिष्ठानमसि । शुक्रो ग्रहः तस्याधिष्ठानम् अधिकरणमसि ॥ १३॥
म० 'सुवीर इति दक्षिणं यूपदेशं गच्छत्यध्वर्युरिति' (का० ९ । १०। ८)। शुक्रदैवतम् । हे शुक्रग्रह, त्वं सुवीरः शोभनवीर्योपेतः सन् वीरान् यजमानस्य शौर्योपेतान्भृत्यादीन् प्रजनयन्नुत्पादयन् रायः पोषेण धनस्य पुष्ट्या यजमानमभिलक्ष्य परीहि परितो गच्छ । 'अपरेण यूपमरत्नी संधत्तः संजम्मान इति यथालिङ्गमिति' (का० ९ । १० । १०) अध्वर्युप्रतिप्रस्थातारौ यूपपश्चिमभागे तत्तद्ग्रहवाचकपदलिङ्गमनतिक्रम्यारत्न्योः संधानं कुर्यातां शुक्रलिङ्गेनाध्वर्युः । शुक्रो ग्रहः शुक्रशोचिषा शुद्धदीप्त्या कृत्वा यूयं बिभर्तीति शेषः । किंभूतः शुक्रः । दिवा द्युलोकेन पृथिव्या भूलोकेन च संजग्मानः सङ्गच्छमानः । 'अप्रोक्षितौ निरस्यति निरस्तः शण्ड इत्यध्वर्युरिति' (का० ९ । १० । १२) अध्वर्युरप्रोक्षितं यूपशकलं निरस्येत् । आभिचारिकं शण्डनामकः शुक्रपुत्रोऽसुरपुरोहितो निरस्तः यज्ञाद्बहिर्निक्षिप्तः । 'आहवनीये प्रोक्षितौ प्रास्यतः शुक्रस्याधिष्ठानमित्यध्वर्युरिति' (का० ९ । १० । १३) अध्वर्युराहवनीये प्रोक्षितं यूपशकलं क्षिपेत् । शकलदेवतम् । हे यूपशकल, त्वं शुक्रग्रहस्याधिष्ठानमधिकरणमसि ॥ १३ ॥

चतुर्दशी।
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑: स्याम ।
सा प्र॑थ॒मा सँस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः ।। १४ ।।
उ०. जपति । अच्छिन्नस्य । हे देव सोम, अच्छिन्नस्य अनवखण्डितस्य ते तव सुवीर्यस्य कल्याणप्रभावस्य रायस्पोषस्य धनपोषस्य ददितारो भवेम। त्वत्प्रसादात् भूयोभूयः करणं यज्ञस्याशास्यते । जुहोति । सा प्रथमा यस्येन्द्रस्य सा प्रथमा संस्कृतिः। स प्रथमः सोमसत्कारः क्रियते सोमक्रये। सा दिवि देवमच्छेहीन्द्राय सोममिति । कथंभूता संस्कृतिः। विश्ववारा विश्वैः सर्वैर्यत्र सोमो व्रियते ऋत्विग्भिराहुतिभिश्च । विश्वं वा वृणोतीति । सोमे क्रीयमाणे यत्र जगदुत्पत्तिबीजत्वात् सा विश्ववारा संस्कृतिः। स च प्रथमो वरुणः स च प्रथमो मित्रः स च प्रथमोग्निः यस्येन्द्रस्यान्येषां देवगणानां प्रभुः ॥१४॥
म० 'अच्छिन्नस्येति जपिवेति' (का० ९ । १० । १४) यजमानो जपति । सौम्यम् । हे देव दीप्यमान सोम, अच्छिनस्य अनवखण्डितस्य संततस्य सुवीर्यस्य कल्याणप्रभावस्य ते तव ददितारः दातारः वयं स्याम भवेम । रायः पोषस्य धनपोषस्य च दातारः स्याम । भूयोभूयो यज्ञकरणमाशास्यते । यद्वा ते तव प्रसादात् रायः पोषस्य ददितारः स्याम । अच्छिन्नस्येति विशेषणद्वयं धनपोषस्यैव । 'उभयतो यूपं प्रत्यङ्मुखौ
जुहुतः सा प्रथमेत्यध्वर्युः प्रथमं तमनु प्रतिप्रस्थातेति' ( का० ९।११।१) अध्वर्युप्रतिप्रस्थातारौ यूपोभयपार्श्वयोः स्थित्वा पश्चिमाभिमुखौ सन्तौ जुहुयाताम् । अध्वर्युरादौ शुक्रं प्रतिप्रस्थाता ततो मन्थिनं जुहोति । इन्द्रदेवत्या त्रिष्टुप् । सा प्रथमा मुख्या संस्कृतिः सोमसंस्कारो यस्येन्द्रस्य क्रियते इन्द्रार्थं क्रियत इत्यर्थः । सोमक्रये सा देवि देवमच्छेहीन्द्राय सोममित्युक्तत्वात् (अध्या० ४ क. २०)। किंभूता संस्कृतिः । विश्ववारा विश्वैः सर्वैर्ऋत्विग्भिरनृत्विग्भिश्च व्रियते यत्र सोमः सा विश्ववारा । यद्वा विश्वं वृणोति क्रियमाणः सोमो यत्रेति विश्ववारा जगदुत्पत्तिबीजत्वात् । सोमस्य वरुणो मित्रः अग्निश्च स प्रसिद्धो यस्य प्रथमो मुख्यो भृत्य इति शेषः । वरुणमित्राग्नयोऽन्येषामप्युपलक्षकाः । देवगणानां यः प्रभुरित्यर्थः ॥ १४ ॥

पञ्चदशी।
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ ।
तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ता॒: सुहु॑ता॒ यत्स्वाहाऽया॑ड॒ग्नीत् ।। १५ ।।
उ० स प्रथमः । स च प्रथमो बृहस्पतिः । चिकित्वान् चेतनावान् उत्कृष्टधीः । अन्येषां मन्त्रिगणानां यस्येन्द्रस्य तस्मै इन्द्राय सुतमभिषुतं सोमम् आजुहोत क्षारयत स्वाहाकारेण हे ऋत्विजः । जपति । तृम्पन्तु होत्राः । होत्राशब्देन होत्रिकयाज्याछन्दांस्यभिधीयन्ते । तृम्पन्तु। 'तृप तृम्प तृप्तौ'। तृम्पन्तु होत्रा याज्याछन्दांसि । मध्वः मधुसोममित्यौपमिकम् । माद्यतेः मधुस्वादस्य सोमस्य । याः स्विष्टा याः शोभनमिष्टाः । याः सुप्रीताः याः साधुप्रीताः । कथमेतज्ज्ञायत इति चेत् सुहुता यत्स्वाहा । साधुहुता यस्मात्स्वाहाकारेण । प्रत्यङ् उपविशति । अयादग्नीत् अग्नीत् एवं होतुराचष्टे ॥१५॥
म० स प्रसिद्धः चिकित्वान् चेतनावानुत्कृष्टधीः बृहस्पतिः यस्येन्द्रस्य प्रथमो मुख्यो मन्त्री इति शेषः । यद्वा संस्कृतिः समीचीना कृतिर्विश्वैर्देवैर्वरणीया सा प्रथमा देवानां मध्ये मुख्या यस्येन्द्रस्य वरुणमित्राग्नयोऽपि स प्रथम इन्द्र एव । चिकित्वान् बृहस्पतिरपि स इन्द्र एव । हे ऋत्विजः, तस्मै तादृशायेन्द्राय सुतमभिषुतं सोमं स्वाहेति स्वाहाकारेणाजुहोत आभिमुख्येन जुहुत स्वाहाकारेण होमं कुरुत । 'तृम्पन्त्विति जपतीति' (का० ९ । ११ । ९) होत्रादैवतम् । ताः होत्राः छन्दोभिमानिन्यो देवताः तृम्पन्तु तृप्ता भवन्तु। 'तृम्प प्रीतौ' । होत्राशब्देन याज्याच्छन्दांस्यभिधीयन्ते । ताः काः । याः मध्वो मधुनो मधुस्वादस्य सोमस्य स्विष्टाः साधु इष्टाः तद्धोमे नियुक्तत्वात् याश्च होत्राः सुष्ठु प्रीताः । कथं ज्ञायन्ते । यद् यस्मात् स्वाहाकारेण सुहुताः साधु हुताः । होमार्थं नियुक्ता इत्यर्थः । ‘होतारं प्रत्यङ्ङुपसीदव्ययाडग्नीदिति' (का० ९।११।१०)। अध्वर्युर्होतृसमीपे प्रत्यङ्मुखस्तिष्ठेत् । होतृदैवतम् । अग्निरयाट् अयाक्षीत् अग्निधा यागः कृत इति होतुः कथयति ॥ १५ ॥

षोडशी।
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
इ॒मम॒पाᳪं᳭ सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा ।। १६ ।।
उ० मन्थिनं गृह्णाति । अयं वेनः। सोम्यानया त्रिष्टुभाधिदैवमधियज्ञं वावस्थितः स्तूयते । अधिदैवं तावच्चन्द्रात्मना संस्तूयते । अयं वेनश्चोदयत्पृश्निगर्भाः । वेनः वेनतेः कान्तिकर्मणः । अयं चन्द्रमा वेनः कान्तः । चोदयत् । 'चुद संचोदने । प्रेरयति पृश्निगर्भाः द्युलोकः पृश्निरादित्यो वा । साधारणत्वाद् द्युलोकगर्भा वा आदित्यगर्भा वा आपः । ज्योतिर्जरायू । ज्योतिरस्य जरायुस्थानीयं भवति चन्द्रमसः। रजसो विमाने । उदंकं रज उच्यते । उदकस्य विनिर्माणकाले प्राप्ते ग्रीष्मान्ते । इदानीमधियज्ञमवस्थितमुच्यते । इममेव च सोमं अपां च सूर्यस्य च संगमे गृहीताभिरद्भिर्वसतीवरीलक्षणाभिरभिषुतं सन्तं शिशुंन शिशुमिव विप्रा मेधाविनो ब्राह्मणाः मतिभिः रिहन्ति स्तुवन्ति स्तोत्रशस्त्रैः । रिहतिर्हि अर्चतेः कर्मसु पठितः। वसतीवर्यश्चापः अपांसंगमे सूर्यस्य च संगमे गृह्यन्ते । तत्र ह्येवं पठ्यते । ता वै स्यन्दमानानां गृह्णीयात् दिवा गृहीयादिति च । उपयामगृहीतोऽसि मर्कायत्वा गृह्णामि । मर्कोऽसुरः ॥ १६ ॥
म० 'मन्थिनमयं वेन इति' ( ९ । ६ । १२)। मन्थिग्रहं गृह्णीयात् । त्रिष्टुप् अनयाधिदैवमधियज्ञं चावस्थितः सोमः स्तूयते । अधिदैवं चन्द्रात्मना स्तूयते । 'वेनो वेनतेः कान्तिकर्मणः' (नि० १० । ३८) इति यास्कः। विनि कान्तौ' इत्यस्य रूपम् । अयं वेनः कान्तश्चन्द्रो रजसो विमाने उदकं रज उच्यते । उदकस्य निर्माणकाले ग्रीष्मान्ते प्राप्ते पृश्निगर्भा अपः चोदयत् चोदयति प्रेरयति वर्षतीत्यर्थः । पृश्निरादित्यो द्युलोको वा गर्भोऽवस्थानं यासां ताः द्युलोकस्था रविस्था वा अपो वर्षति । किंभूतो वेनः । ज्योतिर्जरायुः ज्योतिर्विद्युल्लक्षणं जरायुवद्वेष्टनं यस्य स ज्योतिर्जरायुः । इदानीमधियज्ञं लतात्मना सोमः स्तूयते । विप्रा मेधाविनो ब्राह्मणा इमं सोमं शिशुंन शिशुमिव बालमिव मतिभिः मतिपूर्वाभिर्वाग्भिः रिहन्ति स्तुवन्ति । बालं यथा कश्चिल्लालयति तद्वद्यं सोमं स्तोत्रशस्त्ररूपाभिर्वाग्भिः स्तुवन्ति । रिहतिरर्चनकर्मसु पठितः । अर्चनं स्तवनमेव । किंभूतमिमम् । सूर्यस्यापां च सङ्गमे गृहीताभिरद्भिरभिषुतमिति शेषः । सोमाभिषवार्थं वसतीवर्य आपो अपां सूर्यस्य च सङ्गमे गृह्यन्ते 'ता वै वहन्तीनां स्यन्दमानानां गृह्णीयाद्दिवा गृह्णीयात्' । इति श्रुतेः । यद्वायमर्थः । अपां सूर्यस्य सङ्गमे निमित्ते उदक सूर्यसमागमनिमित्तं वृष्टिगर्भनिष्पत्त्यर्थं विप्रा इमं सोमं स्तुवन्ति यथा बालं कस्यचिद्वस्तुनो लाभाय यथा कश्चित्स्तौति । ईदृश हे सोम, त्वमुपयामेन ग्रहपात्रेण गृहीतोऽसि । मर्कः शुक्रपुत्रोऽसुरपुरोहितस्तस्मै त्वां गृह्णामीति शेषः ॥ १६ ॥

सप्तदशी।
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विप॒: शच्या॑ वनु॒थो द्रव॑न्ता ।
आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तावे॒ष ते॒ योनि॑: प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्र ण॑य॒न्त्वना॑धृष्टासि ।। १७ ।।
उ० सक्तुभिः श्रीणाति । मनो न येषु । त्रिष्टुप् शुक्रामन्थिप्रचाराधियज्ञानुवादिनी। मनो न मन इव क्षिप्रम् येषु हवनेषु सोमहवनेषु सोमहोमेषु । तिग्मम् । तेजतेरुत्साहकर्मणः उत्साहयुक्तम् । विपः विपश्चितौ मेधाविनौ अध्वर्यू। छान्दसः प्रातिपदिकैकदेशलोपः । शच्या । शचीति कर्मनाम । कर्मणा निमित्तभूतेन । वनुथः प्रथमपुरुषस्य स्थाने मध्यमपुरुषश्छान्दसः । वनुतः व्याप्नुवतो युगपत् । शुक्रामन्थिहोमं द्रवन्तौ गच्छन्तौ तेष्वेव होमेषु कर्तव्येषु ।आयःशर्याभिस्तुविनृम्णो अस्याश्रीणीत।योध्वर्युः अश्रीणीत शर्याभिरङ्गुलीभिः। तुविनृम्णः । तुवीति बहुनाम नृम्णमितिधननाम बहुधनो महादक्षिणः। अस्येति गृहनिर्देशः। अस्य मन्थितः अश्रीणीत। आदिशं प्रतिदिशम् । क्वावस्थितस्य सतः । गभस्तौ पाणौ । यद्यप्यत्राध्वर्युप्रतिप्रस्थातारौ समानकर्माणौ तथापि यः श्रपणं करोति स एव प्रधानमित्याशयः। एष ते योनिः प्रजाः पाहि । यजमानसंबन्धिनीः प्रजाः गोपाय । यूपशकलेनोपमार्ष्टि । अपमृष्टो मर्कः अपमार्जनीकृतो मर्कोऽसुरः । निष्क्रामति । देवाः त्वा मन्थिपाः प्रणयन्तु प्रापयन्तु यजतिस्थानम् ।। मन्थीति ग्रहनाम । अनाधृष्टासि । निर्विशेषम् ॥ १७ ॥
म०. 'सक्तुभिः श्रीणात्येनं मनो न येष्विति' ( का० ९ । ६ । १३)। एनं मन्थिग्रहं यवपिष्टैर्मिश्रीकुर्यात् । त्रिष्टुप् सोमस्तुतिः । विपः विपश्चितौ मेधाविनौ अध्वर्युप्रतिप्रस्थातारौ । विप इत्यत्र छान्दसः प्रातिपदिकैकादेशलोपः । येषु हवनेषु सोमहोमेषु शच्या कर्मणा कृत्वा । शचीति कर्मनाम । मनो न मन इव तिग्मम् । 'तिग्मं तेजतेरुत्साहकर्मणः' ( नि० १०।६)। इति यास्कः। मनोवदुत्साहयुक्तं यथा तथा वनुथः। प्रथमपुरुषस्थाने मध्यमपुरुषश्छान्दसः । वनुतः व्याप्नुतः युगपत् शुक्रामन्थिग्रहाविति शेषः । शच्येति निमित्ततृतीया वा । कर्मनिमित्तं व्याप्नुत इत्यर्थः । किंभूतौ । विपश्चितौ द्रवन्ता द्रवन्तौ गच्छन्तौ हवनेषु तेष्वेव कर्तव्येषु होमेषु प्रचरन्तौ । योऽध्वर्युः शर्याभिः अङ्गुलीभिर्गभस्तौ पाणौ स्थितस्यास्य मन्थिग्रहस्य । कर्मणि षष्ठी । इमं मन्थिनमादिशं प्रतिदिशमा अश्रीणीत समन्तात् श्रीणीते सक्तुभिर्मिश्रयति । किंभूतो यः । तुविनृम्णः तुवि नृम्णं यस्य बहुधनः महादक्षिणः । तुवीति बहुनाम । नृम्णमिति धननाम । यद्यप्यत्राध्वर्युप्रतिप्रस्थातारौ समानकर्माणौ तथापि यः सक्तुभिः श्रपणं करोति स एव प्रधान इत्याशयः । एष त इति सादयति । हे मन्थिग्रह, ते तव एष योनिः प्रदेशः । त्वं प्रजाः यजमानसंबन्धिनीः पाहि पालय । 'अपमृष्टो मर्क इति प्रतिप्रस्थातेति' (का० ९।१०।५) प्रतिप्रस्थाता प्रोक्षितेन यूपशकलेन मन्थिनमाच्छाद्याप्रोक्षितेनापमार्ष्टि । अपमार्जनीकृतो मर्को नामासुरपुरोहितः (का. | ९ । १० । ६) देवास्त्वेति निष्कामतो यथालिङ्गमिति । प्रतिप्रस्थाता हविर्धानान्निष्क्रामेत् । मन्थिदैवतम् हे मन्थिग्रह, मन्थिनं ग्रहं पिबन्तीति मन्थिपाः देवाः त्वा प्रणयन्तु यजतिस्थानं प्रापयन्तु । अनाधृष्टासीति मन्त्रो विनियोगसहितः पूर्व व्याख्यातः ॥ १७ ॥

अष्टादशी।
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
स॒ञ्ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒न्थिशो॑चिषा निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि ।। १८ ।।
उ० पूर्वेण गच्छति । सुप्रजाः । यतस्त्वं सुप्रजाः । हे | मन्थिन् , सुप्रजाः । अतस्त्वं सुप्रजाः यजमानस्य प्रजनयन्परीहि परिगच्छ । किंच अभि गच्छस्व धनस्य पोषेण यजमानम् । परीहीत्यनुवर्तते । अपरेण यूपमरत्नी संधत्तः । संजग्मानः संगच्छमानो दिवा द्युलोकेन संगच्छमानश्च पृथिव्या पृथिवीलोकेन । कोऽसौ मन्थी मन्थिशोचिषा च । मन्थिनः शोचिर्दीप्तिः मन्थिशोचिः तेन मन्थिशोचिषा । संजग्मान इति वर्तते । यूपशकलं प्रास्यति । निरस्तो मर्कोऽसुरः । आहवनीये प्रास्यति । मन्थिनोऽधिष्ठानमसि । मन्थी ग्रहः । अधिष्ठानमधिकरणम् ॥ १८॥
म० 'सुप्रजा इति प्रतिप्रस्थातोत्तरमिति' (का० ९ । १० " ९)। प्रतिप्रस्थातोत्तरं यूपदेशं गच्छति । मन्थिदैवतम् । हे मन्थिग्रह, शोभना प्रजा यस्य स सुप्रजास्त्वं यजमानसंबन्धिनोः प्रजाः प्रजनयन्नुत्पादयन्सन् रायस्पोषेण धनस्य पुष्ट्या | सह यजमानमभि यजमानसंमुखं परीहि परिगच्छ आगच्छ । 'अपरेण यूपमरत्नी संधत्तः संजग्मान इति' ( का० ९ । १० ।१०)। प्रतिप्रस्थातारत्नी संधत्त इत्युक्तम् । मन्थी नाम ग्रहो दिवा पृथिव्या द्युलोकभूलोकाभ्यां संजग्मानः संगच्छमानः 'सन्मन्थिशोचिषा मन्थिनः स्वस्यैव दीप्त्या यूपं बिभर्तीति शेषः 'निरस्तो मर्क इति प्रतिप्रस्थातेति' (का० ९ । १० । ११)। प्रतिप्रस्थाता अप्रोक्षितं यूपशकलं निरस्येत् । आभिचारिकम् । मर्कनामासुरपुरोहितो निरस्तो निराकृतः । 'मन्थिन इति प्रतिप्रस्थातेति' (का. ९ । १० । १३) प्रतिप्रस्थाता प्रोक्षितं यूपशकलमाहवनीये प्रक्षिपेत् । शकलदैवतम् । हे यूपशकल, त्वं मन्थिग्रहस्याधिष्टानमधिकरणमसि ॥ १८ ॥

एकोनविंशी।
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ।। १९ ।।
उ० आग्रयणं गृह्णाति । ये देवासः वैश्वदेवी त्रिष्टुप् । ये यूयं हे देवासः । 'आजसेरसुक्' छान्दसः । दिवि युलोके एकादश संख्यया भवथ । पृथिव्याम् अधि उपरि एकादश स्थ । ये च यूयम् अप्सुक्षितः । अप्सु इत्यन्तरिक्षनामसु पठितम् । क्षियतिर्निवासार्थः । अन्तरिक्षनिवासिनः। महिना महाभाग्येन एकादश स्थ । महिनेति त्रिष्वपि स्थानेषु संबध्यते । सर्वत्र हि महाभाग्याविशेषात् । ते यूयं हे देवाः, यज्ञमिमम् आग्रयणलक्षणम् । जुपध्वं सेवध्वम् ॥१९॥
म० 'आग्रयणं द्वयोर्धारयोर्ये देवास इति' (का० ९ । ६ । १४)। धाराद्वये क्षरति सत्याग्रहणं ग्रहं गृह्णीयात् । वैश्वदेवी त्रिष्टुप् परुच्छेपदृष्टा । हे देवासः देवाः, ये यूयं दिवि धुलोके एकादश स्थ एकादशसंख्याका भवथ । केन । महिना महिम्ना खखमहिम्ना स्वस्खमाहात्म्येन । महिनेति पदं विष्वपि स्थानेषु संबध्यते । सर्वत्र महाभाग्याविशेषात् । तथा पृथिव्यामधि पृथिव्युपरि एकादश स्थ । तथा ये यूयमप्मुक्षितः अन्तरिक्षनिवासिन एकादश स्थ भवथ । अस्वित्यन्तरिक्षनामसु पठितम् । क्षियतिर्निवासार्थः । अप्सु अन्तरिक्षे क्षियन्ति निवसन्तीत्यर्थः । हे देवासः देवाः, ते त्रिविधा यूयमिमं यज्ञ यजनीयमाग्रयणग्रहं जुषध्वं सेवध्वम् ॥ १९ ॥

विंशी।
उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॒ऽसि॒ स्वा॒ग्रयणः ।
पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि ।। २० ।।
उ० उपयामगृहीतोऽसि । व्याख्यातम् । आग्रयणोऽसीति नाम्ना संबोधनं स्तुत्यर्थम् । नामधेयप्रतिलम्भो ह्यस्य साधुक्रियायोगात् । स्वाग्रयणः यस्मिन् त्वयि गृहीते अग्रे प्रथम वाचः अयनं गमनम् उत्सर्गः अध्वर्योः संजातः । यस्त्वमेवं साधुकारी तं त्वां ब्रवीमि । पाहियज्ञं पाहियज्ञपतिम् । गोपाय यज्ञं गोपाय यजमानम् । किंच विष्णुः त्वामिन्द्रियेण पातु । विष्णुर्यज्ञस्याधिष्ठात्री देवता स स्वामिन्द्रियेण वीर्येण पातु । विष्णुं त्वं पाहि त्वं च विष्णुं गोपाय । अभिसवनानि पाहि । - अभितः सर्वतः सवनानि पाहि त्रीण्यपि । स हि सर्वेषु सवनेषु गृह्यते ॥ २०॥
म०. आग्रयणदेवतं यजुराग्रयणग्रहण एव विनियुक्तम् । हे आग्रयणग्रह, समुपयामेन पात्रेण स्वीकृतोऽसि । आग्रयणोऽसि आग्रयणनामा भवसि । किंभूतस्त्वम् । वाग्रयणः अग्रस्य भावः आग्रम् सुष्टु आग्रं स्वाग्रं श्रेष्ठ्यम् अयति प्रापयतीति स्वाग्रयणः । अग्रशब्दस्यायतौ परे टिलोपः। तादृशस्त्वं यज्ञं पाहि रक्ष । यज्ञपतिं यजमानं च पाहि । विष्णुः यज्ञाधिष्ठाता देव इन्द्रियेण स्वसामर्थेन खां पातु । वमपि तादृशं विष्णुं पाहि रक्ष । सवनानि प्रातरादीनि अभि पाहि सर्वतो रक्ष ॥ २० ॥

एकविंशी।
सोम॑: पवते॒ सोम॑: पवते॒ऽस्मै॒ ब्रह्म॑णे॒ऽस्मै क्ष॒त्राया॒स्मै सु॑न्व॒ते यज॑मानाय पवत इ॒ष ऊ॒र्जे प॑वते॒ऽद्भ्य ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। २१ ।।
उ० सोमः पवते । पवत इति गतिकर्मसु पठितम् । ग्रहपात्रेषु गच्छति स्वकीये कर्मणि प्रवर्तते । अस्मै ब्रह्मणे - उत्पत्तिस्थित्यर्थं पवते । अस्सै क्षत्राय । पूर्ववद्व्याख्या । अझै सुन्वते यजमानाय कामप्राप्त्यर्थ पवते । इषे उर्जे अन्नाय तदुपसेचनाय क्षीरादेः पवते । अन्य ओषधीभ्यः पवते । अन्धो वृष्टिभ्यः ओषधीभ्यो यवादिभ्यः । उत्पत्तिस्थितये पवते । द्यावापृथिवीभ्यां प्रीणनाय पवते । सुभूताय पवते । किंवा बहुनोक्तेन । सर्वस्मै साधुभवनाय पवते । विश्वेभ्यः | त्वा देवेभ्यः देवतादेशः । एष ते योनिर्विश्वेभ्यः त्वा देवेभ्यः । | साढ़यामीति शेषः ॥ २१ ॥
म० 'त्रिहिकृत्य सोमः पवत इति' (का० ९ । ६ । | १५) हिकारत्रयं कृत्वा जपेदिति शेषः । वैश्वदेवत्यम् । सोमः | पवते । पवतिर्गत्यर्थः । सोमो गच्छति ग्रहपात्रेषु खकीये कर्मणि प्रवर्तत इत्यर्थः । द्विरुक्तिरादरार्था । किमर्थम् । अम्मै ब्रह्मणे ब्राह्मणजातिप्रीत्यर्थम् । अस्मै क्षत्राय एतत्क्षत्रियजातिप्रीत्यर्थम् । । अस्मै सुन्वते सोमाभिषवं कुर्वते यजमानाय कामप्राप्त्यर्थं पयते इषेऽन्नाय ऊर्जे तदुपसेचनाय क्षीरादये पवते निष्पत्त्यर्थमित्यर्थः । अभ्यो वृष्टिभ्यः ओषधीभ्यो व्रीहियवादिभ्यस्तत्सिद्ध्यर्थ पवते । द्यावापृथिवीभ्यां लोकद्वयत्रीणनाय पवते । किंवा बहुनोक्तेन । मुभूताय सर्वेषां साधुभवनाय पवते । हे आग्रयणग्रह, तादृशं ला खां विश्वेभ्यो देवेभ्यः सर्वदेवताप्रीत्यर्थं गृह्णामीति शेषः । | एष त इति सादयति । हे ग्रह, एष ते योनिः स्थानं विश्वेभ्यः । सर्वेभ्यो देवेभ्योऽर्थे वां सादयामीति शेषः ॥ २१॥

द्वाविंशी।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒व्यं॒ गृह्णामि । यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णामि ।। २२ ।।
उ० उक्थं गृह्णाति। उपयामगृहीतोसि। इन्द्राय त्वां गृह्णामीति संबन्धः । कथंभूताय ।बृहद्वते बृहदितिसामाभिप्रायम्। वयस्वते विशिष्टं यौवनलक्षणवीर्यसमेतं सदाकालं वयो यस्य स तथोक्तः तस्मै वयस्वते । कथंभूतं त्वां गृह्णामि । उक्थाव्यं उक्थानि मैत्रावरुणब्राह्मणाच्छᳪं᳭स्यच्छावाकसंबन्धीनि अवति गोपायतीत्युक्थाव्यम् । तत्र ह्यस्य विनियोगः । यत्ते तव हे इन्द्र, बृहत् महत् ऊर्जितं वयो यौवनलक्षणं तस्मै त्वां गृह्णामि । अत्र च ते इन्द्रेति युष्मदामन्त्रिताभ्यां प्रत्यक्षमिन्द्र उच्यते । त्वेति युष्मदादेशोऽपि प्रत्यक्ष एव । तयोः सामर्थ्यं कथमितिचेत् । यस्येन्द्रस्य बृहद्वयस्तस्मै त्वां गृह्णामीति पदद्वयस्य व्यत्ययेनेति ब्रूमः । ते इत्यस्य पदस्य यस्येत्यनेन पदेन व्यत्ययः । इन्द्र इत्यस्य पदस्य इन्द्रस्येत्यनेन व्यत्ययः। विष्णवे यज्ञाय च त्वां गृह्णामीति शेषः । एष ते योनिः उक्थेभ्यः त्वां सादयामीति शेषः । विगृह्णाति । देवेभ्यस्त्वा । देवेभ्योऽर्थाय त्वां देवाव्यं देवतर्पणम् । यज्ञस्यायुषे । अनवच्छिन्ना आकस्मिकभ्रेषरहिता परिसमाप्तिः यज्ञस्यायुः । यज्ञस्यायुषे यज्ञस्य समाप्तये गृह्णामि । यद्वा यज्ञो यजमानस्य शरीरमिति यजमानस्यायुराशास्यते ॥ २२ ॥
म० 'उक्थ्यमुपयामगृहीत इति' (का० ९ । ६ । २०) उक्थ्यं ग्रहं गृह्णीयात् । उपयामग्रहदेवतानि यूजंषि । हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि । हे उक्थ्यग्रह, त्वा त्वामिन्द्रार्थं गृह्णामि स्वीकरोमि । किंभूतायेन्द्राय । बृहद्वते बृहत्साम तद्वते । बृहत्सामप्रियायेत्यर्थः । तथा वयस्वते वयः सोमरूपमन्नं तद्वते । यद्वा वयो यौवनलक्षणं वीर्यसमेतं सदा तद्वते । किंभूतं त्वाम् । उक्थाव्यं उक्थानि मित्रावरुणब्राह्मणाच्छंस्यच्छावाकसंबन्धीनि शस्त्राणि अवति रक्षतीत्युक्थावीः तम् । तत्र ह्यस्य विनियोगः । किंच एवं सोममुक्त्वा इन्द्रमाह । हे इन्द्र, यत् ते तव बृहत् महत् वयोऽन्नं सोमरूपमस्ति तस्मै तत्पानार्थं त्वां प्रार्थये इति शेषः । हे सोम, विष्णवे विष्णुदेवतार्थं त्वां गृह्णामि । यद्वा हे इन्द्र, यत् ते तव बृहत् महत् ऊर्जितम् वयः यौवनलक्षणं तस्मै सोम, त्वां गृह्णामि । अत्र च ते इन्द्रेति युष्मदामन्त्रिताभ्यां प्रत्यक्ष इन्द्र उच्यते । त्वेति युष्मदा सोम उच्यते । प्रत्यक्षतः तयोः सामर्थ्यं नास्ति । ततस्ते इत्यस्य पदस्य अस्येत्यनेन व्यत्ययः । इन्द्रेत्यस्येन्द्रस्येत्यनेन पदेन व्यत्ययः । ततश्चायमर्थः । हे सोम, यदस्येन्द्रस्य बृहद्वयः तस्मै त्वां गृह्णामि । विष्णवे यज्ञाय च त्वां गृह्णामि । एष त इति सादनम् । हे ग्रह, एष ते तव योनिः स्थानमुक्थेभ्योऽर्थाय त्वां सादयामीति शेषः । 'उक्थं विगृह्णाति त्रैधं देवेभ्यस्त्वेति सर्वेभ्य इति' ( का० ९ । १४ । ८)। उक्थस्थालीस्थं सोमं त्रेधा विभज्य गृह्णाति । सर्वेभ्यः प्रशास्तृब्राह्मणाच्छंस्यच्छावाकेभ्यस्तत्कृतया गार्थमित्यर्थः । हे सोम, देवेभ्योऽर्थाय त्वां गृह्णामि । किंभूतं त्वाम् । देवाव्यं देवानवति तर्पयतीति देवावीस्तम् । किमर्थम् । यज्ञस्यायुषे अनवच्छिन्ना कर्मैकदोषरहिता परिसमाप्तिर्यज्ञस्यायुस्तस्मै यज्ञसमाप्तये फलपर्यन्तमवस्थानाय च गृह्णामि । यद्वा यज्ञो यजमानस्य शरीरमिति यजमानस्यायुषे गृह्णामि ॥ २२ ॥

त्रयोविंशी। :
मि॒त्रावरु॑णाभ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॑य त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒ग्निभ्यां॑ त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒वरु॑णाभ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒विष्णु॑भ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णामि ।। २३ ।।
उ० उक्थ्यविग्रहणेषु द्वितीयो मन्त्रविकल्पो मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां यथासंख्यम् । मित्रावरुणाभ्यां त्वा इन्द्राय त्वा इन्द्राग्निभ्यां त्वा एवमादयो मन्त्रा ऋजवः । चरकाणां मन्त्रविकल्पाः । इन्द्रावरुणाभ्यां त्वा इन्द्राबृहस्पतिभ्यां त्वा इन्द्राविष्णुभ्यां त्वा । एतेपि ऋजवः ॥ २३ ॥ ।
म० 'मित्रावरुणाभ्यां त्वेति वा प्रशास्त्र इति' ( ९ । १४ । '९) । मैत्रावरुणायोक्थ्यविग्रहे मन्त्रविकल्पः । मित्रावरुणाभ्यामर्थे देवाव्यं देवतर्पकं वां यज्ञस्यायुषे गृह्णामि । एवं प्रतिप्रस्थातोत्तराभ्यामिन्द्राय त्वेति ब्राह्मणाच्छᳪं᳭सिन इन्द्राग्निभ्यां त्वेत्यच्छावाकायेति' (का० ९ । १४ । १५) ब्राह्मणाच्छंस्यच्छवा
काभ्यां मन्त्रविकल्पावेवम् । इन्द्राय त्वां गृह्णामि इन्द्राग्निभ्यामर्थे त्वां गृह्णामि । शेषं पूर्ववत् । 'उत्तरेष्विन्द्रावरुणाभ्यामिन्द्राबृहस्पतिभ्यामिन्द्राविष्णुभ्यामिति' (का० १०।७।११) उक्थ्यादिसोमसंस्थेषु मैत्रावरुणादीनां तृतीयसवने उक्थ्यविग्रहमन्त्राः। इन्द्रावरुणयोरर्थे त्वां देवाव्यं यज्ञस्यायुषे गृह्णामि । एवमिन्द्रबृहस्पतिभ्यामर्थे त्वां गृह्णामि । इन्द्राविष्णुभ्यामर्थे त्वां गृह्णामि । मित्रावरुणाभ्यामित्यादौ ‘देवताद्वन्द्वे च' (पा० ६।३ । २६) इति पूर्वपदान्तस्य दीर्घः ॥ २३ ॥

चतुर्विशी।
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒विᳪं᳭ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ।। २४ ।।
उ० ध्रुवं गृह्णाति । मूर्धानं दिवः वैश्वानरी त्रिष्टुप् । 'वैश्वानरर्चात्र सर्वात्मा स्तूयते । यं वैश्वानरमित्थंभूतं जनयन्त । देवाः । मूर्धानं दिवः द्युलोकस्य सूर्यात्मनावस्थितं मूर्धानं शिरः आहुर्ब्रह्मविदः । यं च अरतिं पृथिव्याः । पृथिवीशब्देनात्रान्तरिक्षमभिधीयते । पठितं चैतदन्तरिक्षनामसु । एतद् अन्तरिक्षम् आकाशम् आपः पृथिवीति । अरतिम् अलमतिं पर्याप्तमतिं पृथिव्या अन्तरिक्षलोकस्याहुः । तत्र ह्यसौ स्थितो यथाकालं वृष्ट्या पुष्णाति भूतानि । वैश्वानरमृत आजातमग्निम् । यं वैश्वानरम् ऋते यज्ञे आजातमुत्पन्नम् अरणिद्वयाद् अग्निमाहुः । यं च कविं क्रान्तदर्शनमाहुः । सम्राजं सम्यगैश्वर्येण युक्तमाहुः । यं च अतिथिं जनानामाहुः । विज्ञायते हि अग्निरतिथिरूपेण गृहान्प्रविशति तस्मात्तस्योदकमाहरन्ति । आसन्ना पात्रं जनयन्त देवाः । योयमुक्तगुणो वैश्वानरस्तमासन् । आस्यशब्दस्य 'पद्दन्-' इत्यादिना आसन् आदेशः । सप्तम्याश्छान्दसो लोपः । देवानामासनि आस्ये मुखे । आ आभिमुख्येन । पात्रं पीयतेऽनेनेति पात्रम् । विज्ञायते हि चमसो देवपान इति । 'चमसेन ह वा एतेन भूतेन देवा भक्षयन्तीति' । जनयन्त देवा इन्द्रादयः ॥२४॥
म० 'ध्रुवं मूर्धानं दिव इति' (का० ९ । ६ । २१) ध्रुवसंज्ञं ग्रहं गृह्णीयात् । वैश्वानरदेवत्या त्रिष्टुब्भरद्वाजदृष्टा । वैश्वानरश्चात्र सर्वात्मना स्तूयते । देवा ईदृशमग्निं जनयन्त उत्पादितवन्तः । अडागमाभाव आर्षः । किंभूतमग्निम् । दिवो मूर्धानं द्युलोकस्य शिरोवदुन्नतप्रदेशे सूर्यरूपेणावस्थाय भासकम् । तथा पृथिव्या अरतिम् रतिरुपरतिस्तद्रहितम् । नहि पृथिव्या उपरि कदाचिदप्यग्निरुपरमते किंतु दाहपाकप्रकाशैः सर्वाननुगृह्णन् सर्वदा वर्तत एव । यद्वा पृथिवीशब्देनान्तरिक्षमुच्यते । आकाशं आपः पृथिवीत्यन्तरिक्षनाममु पठितत्वात् पृथिव्या अन्तरिक्षस्यारतिमलमतिं पर्याप्तमतिं पूरकमित्यर्थः । तत्र स्थितोऽसौ यथाकालं वृष्ट्या भूतानि पुष्णाति तथा वैश्वानरं विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितो वैश्वानरस्तम् । जठराग्निरूपेणान्नपाचकत्वात् । तथा ऋते यज्ञे यज्ञनिमित्तं आजातम् उत्पन्नमरणिद्वयात् । तथा कविं क्रान्तदर्शनं स्वभक्ताननुग्रहीतुमभिज्ञमित्यर्थः । तथा सम्राजं सम्यग्दीप्यमानमैश्वर्येण युक्तमित्यर्थः । तथा जनानां यजमानानामतिथिं हविर्भिः सत्कारयोग्यम् । विज्ञायते हि अग्निरतिथिरूपेण गृहान्प्रविशति तस्मात्तस्योदकमाहरन्ति । आसन् आपात्रम् आस्यशब्दस्य सप्तम्येकवचने 'पद्दन्न-' (पा० ६ । १ । ६३) इति सूत्रेणासन्-आदेशः 'सुपां सुलुक' (पा० ७१ । ३९) इति सप्तमीलोपः । आसन् आसनि आस्ये मुखे आपात्रम् आभिमुख्येन पीयतेऽनेनेत्यापात्रम् । 'विज्ञायते हि चमसो देवपान इति चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति' (१।४ । २ । १४ ) इति श्रुतेः । ईदृशमग्निं देवा इन्द्रादयोऽजनयन्तेत्यर्थः ॥ २४ ॥

पञ्चविंशी।
उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो॒ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑म ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा । ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि । अथा॑ न॒ इन्द्र॒ इद्विशो॑ऽसप॒त्नाः सम॑नस॒स्कर॑त् ।। २५ ।।
उ० उपयामगृहीतोऽसि ध्रुवोसि नाम्ना । क्रियाजमेतत्तवनामेति प्रशंसा । ध्रुवक्षितिर्ध्रुवाणाम् । 'क्षि निवासगत्योः'।
ध्रुवाणामपि त्वं ध्रुवक्षितिः ध्रुवनिवासः ध्रुवतमोऽच्युतानाम्। अच्युतानामपि त्वमेव ध्रुवतमः । अच्युतक्षित्तमः अच्युते क्षियतीत्यच्युतक्षित् अतिशयेन अच्युतक्षित् अच्युतक्षित्तमः । । सादयति । एष ते योनिः वैश्वानराय त्वा। सादयामीति शेषः । 'ध्रुवं निनयति ध्रुवं ध्रुवेण । बृहती । पूर्वोऽर्धर्चो ध्रुवदेवत्यः उत्तर ऐन्द्रः । ध्रुवं त्वाम् अवनयामि अवसिञ्चामि । ध्रुवेण एकाग्रेण मनसा वाचा च तन्मन्त्रोच्चारणप्रवणया सोमं प्रति । स हि होतृचमसे अवसिच्यते द्वादशे शस्त्रे । अथा नः अथास्माकमवसिक्तसोमानाम् । इन्द्र इत् । इच्छब्द एवार्थे । इन्द्रएव विशः मनुष्यान् असपत्नाः सपत्नरहितान् । समनसः 'समनस्कान् वृत्त्या युक्तानकरत् करोतु ॥ २५ ॥
म० ध्रुवदैवतं यजुः ध्रुवग्रहण एव विनियुक्तम् । हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि ध्रुवोऽसि ध्रुवनामकोऽसि । कीदृशस्त्वम् । ध्रुवा स्थिरा क्षितिनिवासो यस्य स ध्रुवक्षितिः । 'क्षि निवासगत्योः' स्थिरनिवासः आ वैश्वदेवीशंसनप्रस्थानात् । तथा ध्रुवाणामादित्यस्थाल्यादीनां मध्ये ध्रुवतमः अतिशयेन स्थिरः । तथा अच्युतानां च्युतिरहितानां क्षरणशून्यानां मध्ये अच्युतक्षित्तमः । अच्युते च्युतिरहिते पात्रे क्षियति निवसतीति अच्युतक्षित् अतिशयेनाच्युतक्षित् अच्युतक्षित्तमः । एष त इति सादनम् । हे ग्रह, एष ते योनिः स्थानं वैश्वानरायाग्नये ' त्वा त्वां सादयामि । 'ध्रुवᳪं᳭ होतृचमसेऽवनयति ध्रुवं ध्रुवेणेति' । ध्रुवपात्रस्थं सर्व सोमं होतृचमसे सिञ्चेत् । बृहती पूर्वोऽर्धर्चो ध्रुवदैवतः उत्तर ऐन्द्रः । प्रथमतृतीयावष्टाक्षरौ पादौ द्वितीयचतुर्थौ दशाक्षरौ सा बृहती 'वैराजौ गायत्रौ च' इति पिङ्गलोक्तेः । ध्रुवेणैकाग्रेण मनसा वाचा तन्मन्त्रोच्चारणप्रवणया ध्रुवं ध्रुवग्रहेऽवस्थितं सोममवनयामि होतृचमसेऽवसिञ्चामि । यद्वा ध्रुवं ग्रहं सोमं होतृचमसस्थं प्रत्यवनयामि । अथा अनन्तरमिन्द्र इत् । इदेवार्थे । इन्द्र एव नोऽस्माकं विशः प्रजाः ईदृशीः करत् । 'इतश्च लोपः परस्मैपदेषु' (पा० ३।४ । ९७) इतीलोपः . 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः । कीदृशीर्विशः । असपत्नाः नास्ति सपत्नो यासां ताः सपत्नरहिताः शत्रुशून्याः । तथा समनसः समानं मनो यासां ताः स्थिरमनस्काः । धृतियुक्ता इत्यर्थः ॥ २५॥

षड़्विंशी। ।
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अ॒ᳪं᳭शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जु॑होमि॒ मन॑सा॒ वष॑ट्कृत॒ᳪं᳭ स्वाहा॑ दे॒वाना॑मु॒त्क्रम॑णमसि ।। २६ ।।
उ० विप्रुषां होमः । यस्ते द्रप्सः । सौमी त्रिष्टुप् यजुरन्ता । स्वाहादेवानामुपक्रमणमिति यजुः । हे सोम, यस्ते द्रप्सः विप्रुड् रसैकदेशः स्कन्दति भूमौ वा अन्यत्र वा पतति । यश्च तव अंशुः स्कन्दति ग्रावच्युतः ग्राव्णश्च्युतः पतितः । अधिषवणयोरुपस्थात् अधिषवणफलकयोः उपस्थाद् उत्सङ्गात् । अध्वर्योर्वा यः स्कन्दति । परि वा यः पवित्रात् । परिस्कन्दति वा यः पवित्रात् । यतः कुतश्चित्स्कन्दतीत्यभिप्रायः । तं ते जुहोमि तं विप्रुषं ते तव संबन्धिनमंशुं वा अग्नौ जुहोमि । मनसा संकलय्य वषट्कृतं स्वाहा । वषट्कारेण स्वाहाकारेण वेत्यर्थः । तृणं चात्वाले प्रास्यति देवानामुत्क्रमणमसि । चात्वालमुच्यते । अतो हि देवाः स्वर्गं लोकमुपोदक्रामन् ॥ २६ ॥
म० 'यस्त इति विप्रुषाᳪं᳭ होमं जुह्वतीति' ( का० ९ । । २८) अभिषवे ग्रहणे च पतितानां सोमबिन्दूनां ग्रहणाशक्यत्वात्तत्प्रत्यवायपरिहाराय घृतहोमस्य विप्रुड्ढोम इति संज्ञा तमध्वर्य्वादयो जुह्वति । सौमी त्रिष्टुप् स्वाहेति यजुरन्ता देवश्रवोदृष्टा । हे सोम, ते तव यो द्रप्सः रसैकदेशः स्कन्दति भूमावन्यत्र वा पतति । यश्च ते तवांशुः खण्डः । ग्रावच्युतः ग्राव्णः सकाशात्पतितः। यश्च अधिषवणयोः अधिषवणफलकयोरुपस्थादुत्सङ्गात्स्कन्दति । वाथवा य अंशुरध्वर्योः सकाशात्स्कन्दति । वाथवा यः अंशुः पवित्रात्परिस्कन्दति । यतः कुतश्चित्परिस्कन्दतीति भावः । हे सोम, ते तव तं द्रप्समंशुं च स्वाहाकारेण जुहोमि । किंभूतं तम् । मनसा वषट्कृतं संकल्पितं वषट्कारेण च स्वाहाकारेण च जुहोमीत्यर्थः । 'अन्यतरत्तृणं चात्वाले प्रास्यतीति' (का० ९ । ६ । ३२)। अध्वर्युणा वेदार्थे तृणे गृहीते तयोरेकं चात्वाले क्षिपेत् । चात्वालदैवतम् । हे चात्वाल, त्वं देवानामुत्क्रमणमसि उत्क्रामन्ति गच्छन्ति स्वर्गं यस्मात्तदुत्क्रमणं देवास्त्वत्तः स्वर्गं गच्छन्ति 'अतो हि देवाः स्वर्गमुपोदक्रामन्' (४ । २ । ५ । ५) इति श्रुतेः ॥ २६ ॥

सप्तविंशी।
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्वोदा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व॒ क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व॒ चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ।। २७ ।।
उ० ग्रहान्दर्शयत्यवकाशान्वाचयन् यज्ञस्यैते प्राणा यजमानस्य वानूचानस्य उपांशुं प्राणरूपेण दर्शयति । प्राणाय मे चर्चादाः । हे उपांशो, यस्त्वं स्वभावत एव वर्चोदास्तं त्वां ब्रवीमि । प्राणाय मे मदीयाय वर्चसे पवस्व प्रवर्तयस्व । अनेन तुल्यव्याख्याना अवकाशमन्त्राः । उपांशुसवनम् । व्यानाय मे । अन्तर्यामम् । उदानाय मे । ऐन्द्रवायवम् । वाचे मे । मैत्रावरुणम् । क्रतूदक्षाभ्यां मे । कामः क्रतुरुच्यते । तस्य समृद्धिर्दक्षः आश्विनम् । श्रोत्राय मे । शुक्रामन्थिनौ युगपत् । चक्षुर्भ्यां मे वर्चोदसौ वर्चसे पवेथाम् । शुक्रामन्थिविषयं द्विवचनम् ॥ २७ ॥
म० 'ग्रहानवेक्षयति यथागृहीतमवकाशान् वाचयन् प्राणायाम इति प्रतिमन्त्रमिति (का० ९ । ७ । ९) प्राणायेत्यादयो मन्त्रा अवकाशसंज्ञास्तान्वाचयेत् । ग्रहणक्रमेण ग्रहान्यजमानं दर्शयति । लिङ्गोक्तदेवतान्येकादश । यज्ञस्यैते प्राणास्तान्प्राणरूपेण दर्शयति । हे उपांशो, यस्त्वं स्वभावत एव वर्चोदाः तेजसो दाता सः वं मे मम प्राणाय हृदयस्थितवायोर्वर्चसे पवस्व प्रवर्तस्व । उपांशुसवनम् । व्यानाय मे सर्वशरीरगतवायवे पवस्व । अन्यत्पूर्ववत् । अन्तर्यामं कण्ठदेशस्थो वायुरुदानः ऐन्द्रवायवम् । वागिन्द्रियाय मैत्रावरुणम् । क्रतुः कामः दक्षस्तस्य समृद्धिः तद्द्व्यसाधनरूपाय वर्चसे प्रवर्तस्व । आश्विनं श्रोत्राय श्रोत्रेन्द्रियाय । शुक्रामन्थिनौ युगपत् हे शुक्रामन्थिनौ, मे मम चक्षुषोः पाटवाय तद्रूपाय वर्चसे युवां पवेथां प्रवर्तेथाम् ॥ २७ ॥

अष्टाविंशी।
आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पवस्वौज॑से मे वर्चो॒दा वर्च॑से पवस्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व॒ विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ।। २८ ।।
उ० आग्रयणम् । आत्मने मे । उक्थ्यम् । ओजसे मे । ओजो जेप्यामीत्याशंसा । ध्रुवम् । आयुषे मे । पूतभृदाहवनीयौ च युगपत् । विश्वाभ्यां मे । यौ युवां स्वभावत एव वर्चोदसौ तौ ब्रवीमि । विश्वाभ्यः सर्वाभ्यो मे मम प्रजाभ्यो वर्चोदसौ वर्चसे पवेथां प्रवृत्तिं कुरुतम् ॥ २८ ॥
म० आग्रयणम् । ममात्मने जीवस्य स्वास्थ्याय वर्चसे पवस्व उक्थ्यम् । ओजः सर्वेन्द्रियपाटवं शारीरं बलं वा तद्रूपाय वर्चसे पवस्व । ध्रुवम् आयुर्निर्दुष्टजीवनं तद्रूपाय वर्चसे पवस्व । पूतभृदाहवनीयौ युगपदवेक्षते । हे पूतभृदाहवनीयौ, सर्वाभ्यो मम प्रजाभ्यः प्रजार्थं यद्वर्चस्तेजस्तदर्थं युवां पवेथाम् । किंभूतौ युवाम् । वर्चो दत्तस्तौ वर्चोदसौ । | सर्वत्र ददातेरसुन्प्रत्ययः । यद्वात्र प्राणायेत्यादिचतुर्थीनां षष्ठ्या | विपरिणामः । प्राणव्यानादीनां यद्वर्चस्तदर्थं पवस्वेत्यर्थः । यद्वा यस्तं प्राणाय वर्चोदाः स मे वर्चसे ब्रह्मवर्चसाय पवस्व एवं सर्वत्र ॥ २८ ॥

एकोनत्रिंशी।
को॑ऽसि कत॒मो॒ऽसि॒ कस्या॑सि॒ को नामा॑सि । यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा॒ सोमे॑नाती॑तृपाम । भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याᳪं᳭ सु॒वीरो॑ वी॒रैः सु॒पोष॒: पोषै॑: ।। २९ ।।
उ० अथ द्रोणकलशम् । कोसि । वर्धमान उष्णिक् अनुष्टुप् वा । अध्यस्तं प्रजापतिरूपं द्रोणकलशमाह । कोऽसि कः प्रजापतिः स त्वमसि । कतमोऽसि अतिशयेन प्रजापतिरसि। अनन्यभूतः प्रजापतिना । कस्यासि कस्य प्रजापतेरनन्यभूतोऽसि । कोनामासि प्रजापतिनामासि । किंच यस्य तव नामामन्महि । 'मन ज्ञाने' । विजानीमः। यं च त्वां सोमेनातीतृपामः तर्पितवन्तः सोऽस्मान्विदितनाम्नः कुरु तर्पय च कामैरिति शेषः । जपति । भूर्भुवःस्वरिति व्याख्यातम् २९
म० 'कोऽसीति द्रोणकलशमिति' (का० ९ । ७ । १४)। द्रोणकलशमवेक्षते । प्राजापत्या वर्धमानोष्णिक् । यस्याः प्रथमः पादः षडक्षरो द्वितीयः सप्ताक्षरस्तृतीयोऽष्टार्णश्चतुर्थो नवाक्षरः सा त्रिंशद्वर्णा वर्धमानोष्णिक् । अध्यस्तप्रजापतिं द्रोणकलशमाह हे द्रोणकलश, त्वं कः प्रजापतिरसि । कतमोऽतिशयेन प्रजापतिरसि । तथा कस्य प्रजापतेरसि । को नाम प्रजापतिनामासि । प्रजापतेरनन्यभूतोऽसीत्यर्थः । किंच वयं यस्य ते तव नाम अमन्महि विजानीमः 'मन ज्ञाने'। च पुनर्यं द्रोणकलशरूपं त्वां वयं सोमेन अतीतृपाम तर्पितवन्तः स त्वमस्मान् विदितनाम्नः कुरु तर्पय च कामैरिति शेषः । 'भूर्भुवः स्वरिति जपतीति' (का० ९ । ७।५) हे भूर्भुवःस्वः अग्निवायुसूर्याः, प्रजाभिः अहं सुप्रजाः शोभनप्रजायुक्तः स्यां भवेयम् । वीरैः पुत्रैः सुवीरः स्यां पोषैः धनादिपुष्टिभिः सुपोषः शोभनपोषो भवेयम् ॥ २९ ॥

त्रिंशी।
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वोपया॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वोपया॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि नभ॒स्या॒य त्वोपया॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतोऽस्यू॒र्जे त्वोपया॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या॒य त्वोपया॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या॑य त्वोपया॒मगृ॑हीतोऽस्यᳪं᳭हसस्प॒तये॑ त्वा ।। ३०।।
उ० ऋतुग्रहांस्त्रयोदश गृह्णाति त्रयोदशभिर्मन्त्रैः। मन्त्राणां नामान्येव । उपयाम गृहीतोऽसि मधवेत्वा । उपयाम गृहीतोऽसि माधवायत्वा । वासन्तिको श्रुत्युक्तौ व्युत्पत्तय उच्यन्ते । मधुप्रमुखमन्नं वसन्ते उत्पद्यत इति मधुमाधवौ मासौ । शुक्राय शुचये ग्रैष्मौ मासौ । उभावपि शोचतेः शुष्यत्यर्थस्य । नभसे नभस्याय वार्षिकौ मासौ । नह्यत्र सूर्यो भाति मेघप्रचुरत्वात् तस्मान्नभो नभस्यश्च । इषे ऊर्जे शारदौ मासौ । इषमन्नमूर्जं तदुपसेचनं दध्यादि तदिह प्रचुरं भवति इति मतुब्लोपादभेदोपचारात् द्वौ मासावुच्येते। सहसे सहस्याय हैमन्तिको मासौ । राहतेः प्रसहनार्थस्य । अभिभवति ह्यसौ शीतेन । तपसे तपस्याय शैशिरौ मासौ। एतयोर्हि बलिष्ठं तपति सूर्यः । अᳪं᳭हसस्पतये त्रयोदशो मासः । अंहः पापं तस्य पतिः । अयं च द्वादशस्वपि पतति ॥ ३० ॥ ।
म० 'ऋतुग्रहैश्चरतो द्रोणकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादश प्रतिमन्त्रमध्वर्योः पूर्वः पूर्वो मन्त्र उत्तर उत्तरः प्रतिप्रस्थातुरिति' (का० ९ । १३ । १-४) । अध्वर्युप्रतिप्रस्थातारावृतुग्रहैर्द्वादशभिरनुतिष्ठतः उपयामेत्यादयो द्वादश - मन्त्राः तत्र षट्सु मन्त्रयुग्मेषु पूर्वः पूर्वो मन्त्रोऽध्वर्योः उत्तर उत्तरः प्रतिप्रस्थातुरिति मन्त्रविवेकः । द्वादश लिङ्गोक्तानि । । हे ऋतुग्रह, त्वमुपयामेन गृहीतोऽसि मधवे मधुनाम्ने चैत्रमासाय त्वां गृह्णामीति शेषः । माधवाय वैशाखाय त्वां गृह्णामि । मधुमाधवौ वासन्तौ मधुप्रमुखमन्नं वसन्ते प्रपद्यते । शुक्राय ज्येष्ठाय त्वां गृह्णामि । शुचये आषाढमासाभिमानिदेवार्थं त्वां गृह्णामि । शुक्रशुची ग्रीष्ममासौ 'शुच शोषणे' इत्यस्य धातोः । नभसे श्रावणमासाय सोम, त्वां गृह्णामि । नभस्याय भाद्रपदमासाभिमानिने त्वां गृह्णामि । नभोनभस्यौ वार्षिकौ मासौ मेघबाहुल्यान्न भात्यत्र सूर्य इति नभा नभस्यश्च इषे आश्विनमासाय त्वां गृह्णामि ऊर्जे कार्तिकमासाय त्वां गृह्णामि । इषमन्नम् ऊर्ज तदुपसेचनं दध्यादि तदत्र प्रचुरं भवति मतुपो लोपादभेदोपचाराद्वा ऊर्क्शब्देन शारदौ मासावुच्येते । सहसे मार्गशीर्षमासाय । सहस्याय पुष्यमासाय । सहःसहस्यौ हैमन्तिकौ मासौ । सहतेः प्रसहनार्थस्य प्रयोगः । प्रसहनमभिभवनम् । यतो हेमन्तः शीतेन नरानभिभवति । तपसे माघमासाय तपस्याय फाल्गुनाय । तपस्तपस्यौ शैशिरौ मासौ । तपति सूर्यो यत्रात्यन्तं स तपास्तपस्यश्च । 'त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यᳪं᳭हसस्पतये त्वा' (का० ९। १३ ।१८) इति इच्छन्नध्वर्युस्त्रयोदशमृतुग्रहं गृह्णीयात् ऐच्छिको विकल्पः । हे ग्रह, त्वमुपयामेन पात्रेण गृहीतोऽसि तादृशं त्वामंहसः पतयेऽधिकमासाधिष्ठात्रे गृह्णामीति शेषः । अंहः पापं तस्य पतिः । मलमासत्वादयं द्वादशस्वपि पतति यद्वांहतेर्गतिकर्मणोऽसुन्प्रत्ययान्तस्य रूपमंह इति । अंहनमंहो गतिस्तस्य पतिः त्रयोदशो मासः आदित्यगतिवशेन जायते ॥ ३० ॥

एकत्रिंशी।
इन्द्रा॑ग्नी॒ आ ग॑तᳪं᳭ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ।
उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा ।। ३१ ।।
उ० ऐन्द्राग्नं ग्रहं गृह्णाति । इन्द्राग्नी आगतम् । गायत्री ऐन्द्राग्नी । हे इन्द्राग्नी, आगतम् आगच्छतम् सुतमभि- षुतं सोमं प्रति । गीर्भिर्नभोवरेण्यम् । गीर्भिस्त्रयीलक्षणाभिर्वाग्भिः । नभोवरेण्यम् । 'नभ आदित्यो भवति नेता भासां ज्योतिषां प्रभवः' । लुप्तोपमं चैतत् । नभ इव आदित्यमिव वरणीयम् । सोममागत्य च अस्य सोमस्य पातं पिबतम् । धियेषिता यजमानस्य संबन्धिन्या बुद्ध्या इषिता प्रेषितौ सन्तौ । उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वा गृह्णामि। एष ते योनिः इन्द्राग्निभ्यां त्वा सादयामि ॥ ३१ ॥
म० 'ऐन्द्राग्नं गृह्णाति' (का. ९ । १३ । २०)। प्रतिप्रस्थातेन्द्राग्निदेवताकं ग्रहं गृह्णीयात् । ऐन्द्राग्नी गायत्री विश्वामित्रदृष्टा । हे इन्द्राग्नी, युवां सुतमभिषुतं सोमं प्रति आगतमागच्छतम् । गच्छतेर्व्यत्ययेन शपो लुक् 'अनुदात्त-' (पा० ६ । ४ । ३७) इति मलोपश्च । किंभूतं सोमम् । गीर्भिर्नभोवरेण्यं गीर्भिः त्रयीलक्षणाभिर्वाग्भिः नभ इवादित्य इव वरेण्यो वरणीयः प्रार्थनीयस्तम् । 'नभ आदित्यो भवति नेता भासां ज्योतिषां प्रभवोऽपि' (नि० २ । २२) इति यास्कोक्तेर्नभ आदित्यः लुप्तोपमानम् । यद्वा गीर्भिः स्तुतिरूपाभिर्वाग्भिः युतमिति शेषः । नभो नभःस्थितैः स्वर्गस्थैर्देवैर्वरेण्यं प्रार्थनीयम् । नभःशब्देन लक्षणया नभःस्था देवा उच्यन्ते । किंच हे इन्द्राग्नी, युवामस्य सोमस्य संबन्धिनं स्वमंशं पातं पिबतम् । पिबादेशाभावश्छान्दसः । किंभूतौ युवाम् । धियेषिता धिया यजमानबुद्ध्या इषितौ प्रेषितौ प्रार्थितौ । एवं देवावुक्त्वा सोममाह हे सोम, उपयामेन ग्रहेण गृहीतोऽसि हे ग्रह, इन्द्राग्निभ्यामर्थे त्वां गृह्णामीति शेषः । एष त इति सादनम् । एष तव योनिः स्थानम् । इन्द्राग्निभ्यामर्थे त्वां सादयामि ॥ ३१ ॥

द्वात्रिंशी।
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा ।। ३२ ।।
उ० ग्रहस्य द्वितीयो मन्त्रविकल्पः आ घा ये । आग्नीन्द्री गायत्री । आघाये अग्निमिन्धते । 'इन्धी दीप्तौ' । आदीपयन्ति ये अग्निम् इष्टिपशुसोमचातुर्मास्यैर्यज्वानः । घ इति निपातोऽनर्थकः । ये च स्तृणन्ति बर्हिः आनुषक् । आनुषगिति नामानुपूर्वस्यानुषक्तं भवति । आनुपूर्व्येण क्रमेण किं तेषामिति । येषामिन्द्रः युवा । अनुपहतजरामृत्युशरीरः । सखा समानख्यानः नेतरेषामयज्वनाम् । उपयाम इति व्याख्यातम् ॥ ३२॥
म० अग्नीन्द्रदेवत्या गायत्री त्रिशोकदृष्टा । अस्या विनियोगः कात्यायनेनोक्तः । ऐन्द्राग्नग्रहे एव विकल्पः शाखान्तरे । ये यजमाना अग्निमा इन्धते आदीपयन्ति इष्टिपशुसोमचातुर्मास्यैर्यजन्तीत्यर्थः । घेत्यनर्थको निपातः । तस्य संहितायाम् 'ऋचि तुनुघ-' (पा० ६ । ३ । १३३) इत्यादिना दीर्घः । ये चानुषक् आनुपूर्व्येण क्रमेण बहिःस्तृणन्ति आच्छादयन्ति अनुषज्यते अनु क्रमेणासज्यते स्तीर्यत इत्यनुषक् । कर्मणि क्विप् । अकारस्य संहितायां दीर्घः । 'आनुषगिति नामानुपूर्वस्यानुषक्तं भवति' (नि० ६ । १४) इति यास्कोक्तेरानुषक्शब्देनानुपूर्वमुच्यते । किंच येषां यज्वनां युवा जरामृत्युरहित इन्द्रः सखा मित्रवदुपकारकः । हे सोम, तेषां यज्ञे उपयामेन ग्रहेण त्वं स्वीकृतोऽसि अग्नीन्द्रदेवार्थं त्वां गृह्णामि । सादयति हे सोम, एष ते योनिः अग्नीन्द्राभ्यामर्थे त्वां सादयामि ॥ ३२॥

त्रयस्त्रिंशी।
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑देवास॒ आग॑त । दा॒श्वाᳪं᳭सो॑ दा॒शुष॑: सु॒तम् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। ३३।।
उ० वैश्वदेवं गृह्णाति । ओमासः वैश्वदेवी गायत्री। हे ओमासः अवितारः तर्पयितारः तर्पणीया वा । चर्षणीधृतः चर्षणयो मनुष्यास्तान्धारयन्ति तैर्वा ध्रियन्ते चर्षणीधृतः । विश्वेदेवास आगत । हे विश्वेदेवाः, ये यूयम् । ओमासः अवितारो रक्षितारः। चर्षणीनां मनुष्याणाम् । तेनोपकारेणावनीया वा तर्पणार्हाः धारयितारश्च संवित्तिकर्तारः ते यूयम् । दाश्वांसः चेतसा दत्तवन्तः कृतसंकल्पा भूत्वा इदं नामास्माभिरस्मै देयमिति ततोऽस्य दाशुषः दत्तवतो यजमानस्यैतमभिषुतं सोमं पातुमागच्छत इत्येवमाशास्महे । हे विश्वेदेवाः, इहागच्छत । कथंभूताः । दाश्वांसः 'दाशृ दाने' 'दाश्वान्-' इति निपात्यते । दत्तवन्तो यजमानस्य कामान् । किमर्थं पुरस्कृत्यागच्छत । दाशुषः सुतम् हवींषि दत्तवतो यजमानस्याभिषुतं सोमं पातुम् । उपयाम इत्यादि व्याख्यातम् ॥ ३३ ॥
म० वैश्वदेवं गृह्णाति शुक्रपात्रेण द्रोणकलशादन्वारब्धेवौमास इति' (का० ९ । १४ । १) । अध्वर्यौ यज्वना स्पृष्टेऽस्पृष्टे वा सति द्रोणकलशाच्छुक्रपात्रेण वैश्वदेवं ग्रहं गृह्णीयात् । वैश्वदेवी गायत्री मधुच्छन्दोदृष्टा । हे विश्वेदेवासः विश्वेदेवाः, यूयमागत आगच्छत । किंभूता यूयम् । ओमासः ओमाः 'अवन्तीत्योमा रक्षितारः अवितारो वावनीया वा' (नि. १२।४० ) इति यास्कोक्तेः । तर्पयितारस्तर्पणीया वा । अवतेर्मक्प्रत्ययः संप्रसारणं च । तथा चर्षणीधृतः चर्षणयो मनुप्यास्तान्धरन्ति पुष्णन्ति तैर्वा ध्रियन्ते ते चर्षणीधृतः । चर्षणिशब्दम्य संहितायां दीर्घः । अनिष्टनिरसनं रक्षणम् इष्टप्रापणं पोषणमित्यवनधरणयोर्भेदः । तथा सुतमभिषुतं सोमं दाशुषः दत्तवतो यजमानस्य दाश्वांसः फलं दत्तवन्तः । कामान्पूरयन्त इत्यर्थः । यद्वा सुतं सोमं पातुमिति शेषः । 'दाश्वान्-' (पा० ६ । १ । १२) इत्यादिना निपातः। हे सोम, त्वमुपयामेन स्वीकृतोऽसि । विश्वेभ्यो देवभ्योऽर्थाय त्वां गृह्णामीति शेषः । सादयति एष ते योनिः विश्वेभ्यो देवेभ्योऽर्थाय त्वां सादयामि ॥ ३३ ॥

चतुस्त्रिंशी।
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मᳪं᳭ हव॑म् । एदं ब॒र्हिर्निषी॑दत ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑: ।। ३४ ।।
उ० द्वितीयो मन्त्रविकल्पः वैश्वदेवीगायत्री । हे विश्वेदेवाः, इह आगच्छत । आगत्य च शृणुत मे मम इमं हवमाह्वानम् । श्रुत्वा चावधार्य च आनिषीदत इदमस्मदीयं बर्हिः । उपयामगृहीतोऽसीत्यादि व्याख्यातम् ॥ ३४ ॥
म० वैश्वदेवी गायत्री गृत्समददृष्टा वैश्वदेवग्रहग्रहण एव विकल्पेनाम्नाता । हे विश्वेदेवासः, यूयमागत अस्मद्यज्ञं प्रत्यागच्छत । आगत्य च मे ममेमं हवमाह्वानं शृणुत । श्रुत्वा इदं मदीयं बर्हिः आनिषीदत बर्हिष उपर्युपविशत । उपयामेति पूर्ववत् ॥ ३४ ॥

पञ्चत्रिंशी।
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। ३५ ।।
उ० मरुत्वतीयं गृह्णाति । इन्द्र मरुत्वः । मरुद्भिः सहित इन्द्रो देवता । इत उत्तरं च तिसृणामृचां त्रिष्टुभामिन्द्रार्षं प्राङ्माहेन्द्रात् । हे इन्द्र, मरुत्वः 'मतुवसो रु संबुद्धौ छन्दसि' इति रुत्वम् मरुत्वः हे मरुत्वन् । मरुद्भिः सहित, इहास्मदीये यज्ञे पाहि पिब सोमम् । कथं पिबेत्यत आह । यथा शार्याते अपिबः । शार्यातो मानवः तस्यापत्यं शार्यातः। 'शार्यातो ह वा इदं मानवो ग्रामेण चचार' इति श्रुतिः । यथा येन प्रकारेण शार्याते राजनि अपिबः पीतवानसि । सुतस्य अभिषुतस्य सोमस्य स्वमंशम् । किंच । तव प्रणीत्या प्रणयनेन तव च शूरशर्मन् शर्मणि शरणे यज्ञगृहे । आविवासन्ति विवासतिः परिचर्यायाम् । आभिमुख्येनावस्थितास्त्वां परिचरन्ति कवयः क्रान्तदर्शनाः । सुयज्ञाः कल्याणयज्ञाः। उपयामेत्यादि व्याख्यातम् ॥ ३५ ॥
म० एते प्रातःसवनग्रहाः पूर्णाः । अथ माध्यन्दिनसवनग्रहा उच्यन्ते । 'माध्यन्दिने सवने मरुत्वतीया गृह्यन्ते' इति तित्तिरिवचनात् । तेषु त्रयो मरुत्वतीयास्तत्र प्रथममाह । 'मरुत्वतीयमृतुपात्रेणेन्द्र मरुत्व इति' (का० १०।१।१४) ऋतुपात्रेण मरुत्वतीयं ग्रहं गृह्णीयात् । ऐन्द्रमारुतीश्चतस्रस्त्रिष्टुभो विश्वामित्रदृष्टाः । मरुतो देवा विद्यन्ते यस्य स मरुत्वान् तस्य | संबोधनं हे मरुत्वः, 'मतुवसो रु संबुद्धौ छन्दसि' (पा० ८।। ३ । १) इति रुत्वम् । मरुद्भिः सहित हे इन्द्र, इहास्मदीये यज्ञे सोमं पाहि पिब । कथं पातव्यस्तत्राह । यथा शार्याते शर्यातिर्नाम कश्चिद्राजा तस्य संबन्धिनि यज्ञे सुतस्याभिषुतस्य सोमस्यांशमपिबः पीतवानसि तद्वदिह पिब । 'शार्यातो ह वा इदं मानवो ग्रामेण चचार' (४।१।५।२) इति श्रुतिः। किंच ' हे शूर वीर, तव प्रणीती प्रणीत्या प्रणयनेनानुज्ञया सुयज्ञाः कल्याणयज्ञाः कवयः क्रान्तदर्शनास्तव शर्मन्सुखनिमित्ते शर्मणि यज्ञगृहे वा आविवासन्ति वां परिचरन्ति । विवासतिः परिचर्यार्थः । उपयामेन सोम, त्वं गृहीतोऽसि मरुत्वत इन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः मरुत्वते इन्द्राय त्वां सादयामि ॥ ३५ ॥

षट्त्रिंशी।
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यᳪं᳭शा॒समिन्द्र॑म् ।
वि॑श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रᳪं᳭स॑हो॒दामि॒ह तᳪं᳭ हु॑वेम ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑ते ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।
उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां॒ त्वौज॑से ।। ३६ ।।
उ० द्वितीयं मरुत्वतीयं गृह्णाति । मरुत्वन्तं । मरुद्भिस्तद्वन्तमिन्द्रम् वृषभं वर्षितारम् वावृधानं वर्धमानम् अकवारिं अकुत्सितारिम् । शत्रवोऽपि यस्याऽकुत्सितावृत्रादयः। अथवा अकुत्सितदानं अकुत्सितैश्वर्यम् । दिव्यं द्युलोकजम् । शासं प्रशासनवन्तं शासितारं वा । विश्वासाहम् । सहतिरभिभवार्थः। स्वधर्मच्युतस्य सर्वस्याभिभवितारम् । उग्रम् उद्गूर्णवज्रम् सहोदाम् बलस्य दातारम् यमित्थंभूतमिन्द्रमाहुस्तम् अवसे नूतनाय । अवनाय पालनाय । इह यज्ञगृहे हुवेम आह्वयामः। उपयामगृहीत इत्यादि व्याख्यातम् । तृतीयं मरुत्वतीयं यजुषा ग्रहं गृह्णाति । उपयाम गृहीतोसि मरुतां त्वा ओजसे गृह्णामीति शेषः । ओज इति बलनाम । स्वकीयमोजो निधाय इन्द्रं प्रति मरुत आयातास्ततोऽनेन गृहीतेन सबला आयाताः तदेतद्यजुर्वदति ॥ ३६ ॥
म०. द्वितीयं मरुत्वतीयमाह 'वशिना मरुत्वतीयग्रहणं मरुत्वन्तमिति' (का० १० । ३।६)। रिक्तेन पात्रेण सशस्त्रमरुत्वतीयग्रहणम् । इहास्मिन्नस्मदीये यज्ञे तमिन्द्रं वयं हुवेम आह्वयामः । ह्वेञः शपि व्यत्ययेन संप्रसारणम् । किंभूतमिन्द्रम् । : मरुत्वन्तं मरुद्गणोपेतम् । वृषभं जलस्य वर्षितारम् । वावृधानम् । संहितायां दीर्घः । वर्धते कामान्वर्धयति वा ववृधानस्तम् । 'बहुलं छन्दसि' (पा० २ । ४ । ७६) इति वर्धतेः शानचि जुहोत्यादित्वेन श्लु: 'श्लौ' (पा० ६ । १ । १० ) इति द्वित्वम् । | अकवारिं कुत्सिता अरयो यस्य स कवारिः न कवारिरकवारिस्तं यस्य शत्रवोऽप्यकुत्सिता वृत्रादयः । यद्वा अकुत्सितमियर्ति ऐश्वर्यं प्राप्नोतीत्यकवारिस्तम् उत्कृष्टैश्वर्यम् । दिव्यं दिवि भवं द्युलोकस्थम् । शासं शास्तीति शासः पचाद्यच् । शासितारं दुष्टानाम् । यद्वा शासनं शासस्तद्वन्तम् । अर्शआदित्वादच् । प्रशासनवन्तम् । विश्वासाहं विश्वं पालयितुं सहते स विश्वासाट् तम् । अनलसमित्यर्थः । 'भजसहवहाम्' इति विण् । यद्वा सहतिरभिभवार्थः । स्वधर्मच्युतस्य विश्वस्य सर्वस्याभिभवितारम् । नूतनाय अवसे नवीनाय पालनाय इदानींतनयजमानरक्षणाय उग्रमुद्गूर्णवज्रम् । सहोदां सहो बलं ददाति सहोदास्तं क्विप् बलप्रदम् । उपयाम एष ते एतद्यजुर्द्वयं व्याख्यातम् । तृतीयं मरुत्वतीयमाह । 'ऋतुपात्रेण मरुत्वतीयग्रहणमुपयामगृहीतोऽसि मरुतां त्वौजस इति' (का० १० । ३ । ३)। मरुत्वतीयोऽयम् । मरुत्वद्देवत्वं यजुः । हे मरुत्वतीय ग्रह, मरुतां देवानामोजसे बलाय त्वा त्वां गृह्णामीति शेषः । ओज इति बलनाम । स त्वमुपयामेन गृहीतोऽसि स्वबलं निधायेन्द्रं प्रत्यागता मरुतोऽनेन ग्रहेण गृहीतेन सबला जाता इति भावः ॥ ३६॥

सप्तत्रिंशी।
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रू॒ᳪं᳭२।।रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। ३७ ।।
उ० द्वितीयो मन्त्रविकल्पः । सजोषा इन्द्र । हे इन्द्र, यः त्वं सजोषाः समानजोषणः समानपात्रभोजनः तं त्वां ब्रवीमि । समानगणो मरुद्भिः सोमं पिब । समानगणो मरुद्भिः भूत्वा सोमं पिब । वृत्रहा वृत्रस्य हन्ता भविष्यामीति शेषः । हे शूर विक्रान्त, विद्वान् एतमर्थं संजानानः । ततः पीत्वा सोमं मरुद्भिः सह । जहि शत्रून् वृत्रप्रमुखान् । अप मृधो नुदस्व । अपनुदस्व मृधः । 'नुद प्रेरणे' मृधः संग्रामात् । हत्वा शत्रून् ये हतावशिष्टाः शत्रवः तान् संग्रामात् प्रेरयस्व । अथाभयं कृणुहि विश्वतो नः । अथानन्तरमभयं कुरु सर्वतोऽस्माकम् । उपयाम इत्यादि व्याख्यातम् ॥ ३७॥
म० सजोषा इन्द्रेति (३७) मरुत्वां इन्द्रेति (३८) ऋग्द्वयस्य सोपयामस्य मरुत्वतीयग्रहणे एव विनियोगः वाचस्तोमे 'वाचस्तोमाश्चत्वारः' (२२ । ६ । २४) इति कात्यायनोक्तेः मरुत्वां इन्द्रेति मरुत्वतीयमित्याश्वलायनोक्तेश्च । हे इन्द्र, हे शूर वीर, त्वं सोमं पिब । किंभूतस्त्वम् । सजोषाः 'जुषी प्रीतिसेवनयोः' जोषणं जोषः प्रीतिः असुन्प्रत्ययः । तेन सह वर्तमानः संतुष्टः मरुद्भिः कृत्वा सगणः सपरिवारः। मरुद्गणसहित इत्यर्थः । वृत्रहा वृत्रं दैत्यं हन्तीति । अनेन सोमपानेन वृत्रं हनिष्यसीत्यर्थः । विद्वानेतमर्थं जानानः ततः सोमं पीत्वा शत्रून् वृत्रादीन् जहि मारय । किंच मृधः सङ्ग्रामान् अपनुदस्व । 'नुद प्रेरणे' । युद्धं निवर्तयेत्यर्थः । 'दीर्घादटि समानपदे' (पा० ८ । ३ । ९) इति शत्रूनिति नस्य रुत्वं पूर्वस्य सानुनासिकत्वम् । यद्वा मृधः इति पञ्चम्येकवचनं । मृधः सङ्ग्रामात् अपनुदस्व शत्रूनित्यस्यानुषङ्गः । ये हतावशिष्टाः शत्रवस्तान् सङ्ग्रामात् पलायनार्थं प्रेरयस्व । प्राणदानं कुर्वित्यर्थः । एवं रिपुनाशं कृत्वाथानन्तरं नोऽस्माकं विश्वतः सर्वतः अभयं कृणुहि कुरु 'कृञ् करणे' स्वादिः । उपयामेति व्याख्यातं शत्रूनपेत्यत्र 'दीर्घादटि समानपदे' (पा० ८ । ३ । ९) इति नस्य रुत्वम् 'अत्रानुनासिकः पूर्वस्य तु वा' (पा० ८ । ३ । २) तत्पूर्वस्य ऊकारस्यानुनासिकत्वम् ॥ ३७॥

अष्टत्रिंशी।
म॒रुत्वाँ॑२ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वᳪं᳭ राजा॑ऽसि॒ प्रति॑पत्सु॒ताना॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।। ३८ ।।
उ० मरुत्वां इन्द्र हे इन्द्र, यस्त्वं मरुत्वान् मरुद्गणयुक्तश्च वृषभश्च वर्षिता अपामन्तरिक्षेऽवस्थितः तं त्वां ब्रवीमि रणाय पिब सोमम् । रणं संग्रामं करिष्यामीति पिब सोमम् । 'अनुष्वधम् अनु पश्चात् स्वधान्नं पुरोडाशधानामन्थदधिपयस्यालक्षणं यस्य स तथोक्तः । मदाय । मदे हि सति योद्धा भवतीन्द्रः । कथं पुनः पिब । आसिञ्चस्व जठरे मध्व ऊर्मिम् । अकृपणमासिञ्चस्व जठरे उदरे । मध्वः मधु सोममित्यौपमिकं माद्यतेः । मधुस्वादस्य सोमस्योर्मिं महासंघातम् । विशिष्टस्य सोमपानस्य मन्त्रदृक् हेतुमाह । हे इन्द्र, त्वं राजासि प्रतिपत्सुतानाम् । यतस्त्वमेव राजा ईश्वरोसि प्रतिपत्प्रमुखास्वपि तिथिषु सुतानामभिषुतानां सोमानाम् । किमुत चतुर्दश्यन्तेऽभिषुतानाम् । त्वदर्थमेव सर्वासु तिथिषु सोमोऽभिषूयत इत्यभिप्रायः । छन्दोगानामपि प्रतिपद्विद्यते तदभिप्रायं चैतत् । उपयाम इत्यादि व्याख्यातम् ॥ ३८ ॥
म० हे इन्द्र, त्वं सोमं पिब 'द्व्यचोऽतस्तिङः' (पा ६ ।३ । १३५) इति संहितायां दीर्घः । किमर्थम् । मदाय तृप्तये रणाय सङ्ग्रामाय च । मदे सतीन्द्रो योद्धा भवति । किंभूतस्त्वम् । मरुत्वान् मरुतोऽस्य सन्तीति मरुद्गणसंयुक्तः । वृषभः वर्षिता जलानाम् । किंभूतं सोमम् । अनुष्वधम् अनु पश्चात् स्वधान्तानि पुरोडाशधानामन्थदधिपयस्यालक्षणानि यस्य सोऽनुष्वधस्तं 'पूर्वपदात्-' (पा० ८ । ३ । १०६) इति पत्वम् । कथं पिबेत्यत्राह । मध्वः मधुनो मधुस्वादोपेतस्य ऊर्मिं कल्लोलं जठरे उदरे आसिञ्चस्व । 'अनित्यमागमशासनम्' इति मध्व इत्यत्र | नुमभावः । सोमपाने हेतुमाह । हे इन्द्र, त्वं प्रतिपत्सुतानां प्रतिपत्प्रभृतिषु तिथिषु अभिषुतानां सोमानां राजासि ईश्वरोऽसि किमुत चतुर्दश्यन्तेऽभिषुतानां त्वदर्थमेव सर्वासु तिथिषु सोमोऽभिषूयत इत्यभिप्रायः । छन्दोगानां सवने प्रतिपद्विद्यते इति प्रतिपद्ग्रहणम् । उपयाम एष ते इति व्याख्याते ॥ ३८ ॥

एकोनचत्वारिंशी।
म॒हाँ२ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
अ॒स्म॒द्द्र॒य्ग्वावृधे वी॒र्या॒यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। ३९ ।।
उ० माहेन्द्रं गृह्णाति । महाᳪं᳭ इन्द्रः । त्रिष्टुम्माहेन्द्री महान्प्रभावत इन्द्रस्तथापि नृवत् मनुष्यवदाहूयमानं आगच्छति। आचर्षणिप्राः। चर्षणयो मनुष्याः। 'प्रा पूरणे'।आगत्य च चर्षणीनां मनुष्याणां पूरयिता कामैः । किंच उत द्विबर्हाः। अपि द्वयोः स्थानयोः परिवृढः मध्यमे च स्थाने उत्तमे च परिवृढः प्रभुः । अमिनः सहोभिः । अमिनोऽमितमात्रः सहोभिर्बलैः अप्राक्तोलितबलः । यद्वा । अनुपहिंसितः शत्रुबलैः अस्मद्य्र्सग्वावृधे वीर्याय । अस्मद्दर्शनोत्सुकः सन् वर्धते वीर्याय वीरकर्मणे य इन्द्रः सोऽस्मदीयैः कर्तृभिः स्तूयमानः उरुः प्रमाणतः पृथुश्च विस्तारेण । सुकृतः शोभनकृत्यभिप्रायः भूत् भूयात् । उपयाम इत्यादि व्याख्यातम् ॥३९॥
म० 'माहेन्द्रं गृह्णाति वैश्वदेववन्महाᳪं᳭ इन्द्र इति' (का० १०।३ । १०)। यथा वैश्वदेवग्रहः शुक्रपात्रेण गृहीतस्तथा माहेन्द्रं ग्रहं तेनैव गृह्णीयात् । माहेन्द्री त्रिष्टुप् भरद्वाजदृष्टा । तृतीयपादो नवाक्षरः । इन्द्रो वीर्याय वीरकर्मणे वावृधे ववृधे वर्धते । 'छन्दसि लुङलङ्लिटः' (पा० ३।४। ६) इति वर्तमाने लिट् संहितायामभ्यासदीर्घः । किंभूत इन्द्रः । महान्महाप्रभवः तथापि नृवन्मनुष्यवत् आहूयमान आगच्छति । यद्वा नृवन्मनुष्यवत् आचर्षणिप्राः आ समन्ताच्चर्षणीन्मनुष्यान् प्राति अभीष्टकामैः पूरयतीत्याचर्षणिप्राः । 'प्रा पूरणे' क्विप् । यथा राजा अमात्यादिर्मनुष्यः सेवकानभीष्टकामैः पूरयति तद्वत् । उतापिच द्विबर्हाः ‘बृहि वृद्धौ' बर्हणं बर्हः वृद्धिः असुन्प्रत्ययः । द्वयोः प्रकृतिविकृतिरूपयोः सोमयागयोर्बर्हो यस्य स द्विबर्हाः । यद्वा द्वयोः स्थानयोर्बर्हाः वृद्धः परिवृद्धः प्रभुः मध्यमे स्थाने उत्तमे च । तथा सहोभिः बलैः अमिनः अमितः उपमारहितः । अतोलितबल इत्यर्थः । 'अमिनोऽमितमात्रो महान्भवत्यभ्यमितो वा' ( नि० ६ । १६) इति यास्कोक्तेः । यद्वा सहोभिः शतबलैरभितः अप्रक्षिप्तः । अनुपहिंसित इत्यर्थः । 'डुमिञ् प्रक्षेपे' । 'मीञ् हिंसायाम्' इत्यस्य वा प्रयोगः । पूर्वपक्षे माने सर्वत्र निष्ठानत्वमार्षम् । तथा अस्मद्र्यक् अस्मान् प्रत्यञ्चतीत्यस्मद्द्र्यक् अस्मदभिमुखः । अस्मच्छब्दे उपपदेऽञ्चतेः क्विप् विष्वग्देवयोश्च' (पा० ६।३।९२) इत्यादिना क्विबन्तेऽञ्चतौ परेऽस्मच्छब्दस्य टेरद्र्यादेशः 'उगिदचाम्-' (पा० ७ । १। ७० ) इति प्राप्तस्य नुमोऽभावश्छान्दसः । स वर्धमान इन्द्र ईदृशो भूत् भवतु । लोडर्थे लुङ् । अडभावश्छान्दसः । कीदृशः । उरुः यशसा विपुलः पृथुः बलेन विस्तृतः कर्तृभिर्यजमानैः सुकृतः साधुकृतः सत्कृतः पूजित इत्यर्थः । हे ग्रह, त्वमुपयामेन गृहीतोऽसि महेन्द्राय त्वां गृह्णामि । सादयति एष ते योनिः महेन्द्राय त्वा सादयामि ॥ ३९ ॥

चत्वारिंशी।
म॒हाँ२ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ२ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। ४० ।।
उ०. द्वितीयो मन्त्रविकल्पः । महाᳪं᳭इन्द्रः । गायत्री माहेन्द्री। महानिन्द्रो यः प्रभावतः स ओजसा बलेन पर्जन्यो वृष्टिमानिव यथा हि वृष्टिमान्पर्जन्यो धाराभिरसंख्याभिरपरिच्छिन्नसंख्यः एवमोजसा असंख्यातमहाभाग्येन । स्तोमैः स्तूयमानो वत्सस्य वसनशीलस्य यजमानस्य वावृधे वर्धते । | उपयाम इत्यादि समानम् ॥ ४०॥
म० माहेन्द्री गायत्री वत्सदृष्टा । माहेन्द्रग्रहण एव विकल्पेन विनियुक्ता । य इन्द्रः वत्सस्य वसनशीलस्य वत्सस्थानीयस्य वा यजमानस्य स्तोमैः स्तोत्रैर्वावृधे ववृधे वर्धते । कीदृश | इन्द्रः । ओजसा तेजसा महान् । क इव वृष्टिमान्वृष्टियुक्तः | पर्जन्य इव । यथा वर्षन्मेघो धाराबलेन महान्वर्धते । उपयाम एष ते इति व्याख्याते ॥ ४० ॥

एकचत्वारिंशी।
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॒ᳪं᳭ स्वाहा॑ ।। ४१ ।।
उ०. दाक्षिणानि जुहोति । उदु त्यम् । सौरी गायत्री। | उत् इत्ययमुपसर्गो वहन्तीत्यनेन संबध्यते । उद्वहन्ति । | कम् । त्यं तं सूर्यम् । जातवेदसम् जातप्रज्ञानम् । देवं दातारं द्युस्थानं वा । केतवो रश्मयः । किमर्थमुद्वहन्ति । दृशे दर्शनाय । विश्वाय षष्ठ्यर्थे चतुर्थी। विश्वस्य जगतः॥४॥
म० 'शालाद्वार्ये दाक्षिणहोमो वासःप्रबद्धᳪं᳭ हिरण्यᳪं᳭ हवन्यामवधाय चतुर्ग्रहीतमुदुत्यमिति' (का० १० । २ । ४ । ५)। वस्त्रबद्धं स्वर्णं जुह्वां निधाय शालाद्वार्येऽग्नौ चतुर्ग्रहीताज्येन दक्षिणसंज्ञो होमः कार्यः । सौरी गायत्री प्रस्कण्वदृष्टा । तृतीयः पादः सप्तार्णः । उ निपातः पादपूरणः । त्यमिति त्यच्छब्दश्छान्दसः तच्छब्दार्थे । केतवो रश्मयः त्यं तं प्रसिद्धं सूर्य देवमुद्वहन्ति । 'देवो दानाद्द्योतनाद्वा' (नि. ७ ॥ २० ) इति यास्कः । किंभूतं सूर्यम् । जातवेदसं जातं वेदो ज्ञानं धनं वा यस्मात्तम् । किमर्थमुद्वहन्ति । विश्वाय दृशे षष्ठ्यर्थे चतुर्थी । विश्वस्य दर्शनाय जगद्द्रष्टुमित्यर्थः। 'दृशे विख्ये च' (पा० ३ । ४ । ११) इति तुमर्थे निपातः । तस्मै स्वाहा सुहुतमस्तु ॥४१॥

द्विचत्वारिंशी।
चि॒त्रं दे॒वाना॒मुदगा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ᳪं᳭ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑ ।। ४२ ।।
उ० द्वितीयं जुहोति । चित्रं देवानाम् । सौरी त्रिष्टुप् । सूर्यश्चात्र परापररूपेणावस्थितः स्तूयते । चित्रं देवानामुदगादनीकम् । उदयकालादारभ्य तावदपररूपेण स्तूयते । चित्रमिति क्रियाविशेषणम् । यश्चित्रमुदगात् चित्रमाश्चर्यभूतमुदगमत् । आश्चर्यं हि यः स्वकीयेन ज्योतिषा शार्वरं तमोपहत्यान्येषां ज्योतिषां ज्योतिरादायोद्गच्छति। यद्वा चित्रं चायनीयं पूजनीयमुदगमत् । देवानामनीकमित्यनयोः पदयोः संबन्धः। देवानां रश्मीनामनीकं मुखम् । यच्च चक्षुर्मित्रस्य चक्षुर्मित्रादिकस्य सदेवमनुष्यस्य जगतः । आदित्योदये हि रूपाण्यभिव्यज्यन्ते । यच्च आप्रा द्यावापृथिवी अन्तरिक्षम् यच्च उदयसमनन्तरमेव आ अप्राः 'प्रा पूरणे' आपूरितवत् स्वकीयेन प्रकाशेन द्यावापृथिव्यौ अन्तरिक्षं च । अधस्तनानि विशेषणानि मण्डलाभिप्रायान्नपुंसकलिङ्गान्यनूद्य अथेदानीं पररूपेण स्तौति । सूर्यं आत्मा पुरुषाभिप्रायमेतत् । जगतो जङ्गमस्य तस्थुषश्च स्थितिमतः स्थावरस्य चेत्यर्थः । तथाच श्रुतिः 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः प्रजापतिस्तद्ब्रह्म' इति। सूर्याद्वै तमनेन मन्त्रेण ख्याप्यते स सूर्यात्मत्वेनोपास्यः। एवं तावदधियज्ञं गतोऽप्ययं मन्त्रोऽधिदैवमाचष्टे । अध्यात्मं तु वक्ष्यति । 'यो वासावादित्ये पुरुषः' इत्यादिना ॥ ४२ ॥
म० 'चित्रं देवानामिति द्वितीयमिति' (का० १० । २ । ६)। चतुर्गृहीतेन शालाद्वार्ये द्वितीयामाहुतिं जुहोति । सौरी त्रिष्टुप् कुत्सदृष्टा । परापररूपेण स्थितः सूर्योऽत्र स्तूयते । सूर्यः चित्रमाश्चर्यं यथा तथा उदगात् उदयं प्राप्तः उद्गच्छति वा। लडर्थे लुङ् । उदयन्नेव स्वतेजसा नैशं तमो हन्ति अन्येषां ज्योतींष्यादत्त इत्याश्चर्यम् । किंभूतः सूर्यः । देवानाम् दीव्यन्ति द्योतन्ते इति देवाः किरणास्तेषामनीकं मुखमाश्रय इत्यर्थः । यद्वानीकं समूहः । किरणपुत्र इत्यर्थः । तथा मित्रस्य वरुणस्य अग्नेः चक्षुः । नेत्रवत्प्रकाशक इत्यर्थः । मित्रादय उपलक्षकाः सर्वस्य सदेवमनुप्यस्य विश्वस्य रूपाणि सूर्योदयेऽभिव्यज्यन्ते । अतो मित्रादीनां चक्षुः स सूर्य उद्गतः सन् द्यावापृथिवी दिवं भूमिं चान्तरिक्षं चाप्राः आपूरितवान् आपूरयति वा । स्वतेजसेति शेषः । एवमपररूपेण स्तुला पररूपेण स्तौति । किंभूतः सूर्यः । जगतो जङ्गमस्य तस्थुषः स्थावरस्य च जगत आत्मान्तर्यामी । 'यमेतमादित्ये पुरुषं वेदयन्ते स इन्द्रः स प्रजापतिस्तद्ब्रह्म' इति श्रुतेः सूर्याद्वैतमनेनोच्यत इति भावः । तस्मै स्वाहा सुहुतमस्तु ॥ ४२ ॥

त्रिचत्वारिंशी।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम॒ स्वाहा॑ ।। ४३ ।।
उ० आग्नीध्रे जुहोति । अग्ने नय ॥ ४३ ॥
म० आनीध्रीयेऽग्ने नयेत्याग्नीध्रीयेऽग्नौ सकृद्गृहीतमाज्यं जुहोति' ( का० १० । २ । ७) । 'अयं न इत्यपरामिति' (का० १० । २ । ८) द्वितीयामाहुतिमाग्नीध्रीये जुहोति । इमे द्वे ऋचौ पञ्चमेऽध्याये व्याख्याते ॥ ४३ ॥ ४४ ॥

चतुश्चत्वारिंशी।
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑: पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यᳪं᳭ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒: स्वाहा॑ ।। ४४ ।।
उ० अयं नो अग्निरित्युक्तार्थौ मन्त्रौ । चतस्रोऽप्येता यजुरन्ताः स्वाहाकारेण अग्रेण शालां तिष्ठन्नभिमन्त्रयते । दक्षिणतः स्थिता दक्षिणाः ॥ ४४ ॥

पञ्चचत्वारिंशी।
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु ।
ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्व॒: पश्य॒ व्यन्तरि॑क्षं॒ यत॑स्व सद॒स्यै॒: ।। ४५ ।।
उ० रूपेण वो रूपम् । अग्रे पशव आत्मनो दानमसहमाना अन्यानि रूपाण्याददिरे तान्देवाः स्वैः रूपैः प्रत्युपतिष्ठन्त ततस्ते स्वैः रूपैराजग्मुः । एतन्निदानमस्य मन्त्रस्य । रूपेण मूर्त्या । वः युष्मत्संबन्धि रूपम् । अभ्यागाम् | अभ्यागतः । सर्वो हि स्वं रूपमागच्छतीत्यभिप्रायः । किंच तुथो वो विश्ववेदा विभजतु । तुथो ब्रह्मा प्रजापतिः। वः युष्मान् विश्ववेदाः सर्वज्ञो विभजतु यथार्हमृत्विजां विभागं करोतु । यूयं चैतज्जानानाः ऋतस्य यज्ञस्य प्रस्तुतस्य पथा मार्गेण प्रेत प्रगच्छत । चन्द्रदक्षिणाः । चन्द्रं सुवर्णं यजमानस्य हस्तगतं द्वितीयं यासां ताश्चन्द्रद्वितीयदक्षिणा इति प्राप्ते चन्द्रदक्षिणा इत्युक्ताः । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । सदो गच्छति । वि स्वः पश्य व्यन्तरिक्षमिति । दक्षिणोच्यते । विपश्यामि त्वया दक्षिणया सोपानभूतया स्वः स्वर्गं देवयानमार्गम् विपश्यामि च अन्तरिक्षलोकं पितृयानमार्गम् । विपश्येति मध्यमपुरुषस्योत्तमपुरुषो व्याख्यातः श्रुत्या । सदसि स्थितान्ब्राह्मणान्प्रेक्षते । यतस्व सदस्यैः । दक्षिणोच्यते । 'यती प्रयत्ने' । तथाभूतं यत्नमातिष्ठस्व यथा सदस्यैः पूरितैरतिरिच्यसे ॥ ४५ ॥
म० ‘सहिरण्यो यजमानः शालां पूर्वेण तिष्ठन्नभिमन्त्रयते | दक्षिणा बहिर्वेदि तिष्ठन्तीर्दक्षिणतो रूपेण व इति' ( का० १०।२।१०) दक्षिणा गाः अभिमन्त्रयते । नष्टरूपानुष्टुप् दक्षिणदेवत्या । 'नववैराजत्रयोदशैर्नष्टरूपे'ति लक्षणात् । अत्र द्वितीय एकादशार्णस्तृतीयो द्वादशार्णस्तेन पूर्णैव । पूर्वं पशवः स्वदानमसहमाना रूपान्तराणि जगृहुः देवाः स्वै रूपैस्तानुपागतास्ततस्ते स्वै रूपैराजग्मुः (४ । ३ । ४ । १४) इति मन्त्रस्य निदानम् । हे दक्षिणारूपा गाः, रूपेण मूर्त्या वो युष्माकं रूपमहमभ्यागामभ्यागतोऽस्मि। अतो भवतीभिरागन्तव्यं सर्वे हि स्वरूपमागच्छन्तीति भावः । किंच तुथो ब्रह्मरूपः प्रजापतिर्वो युष्मान् विभजतु यथायोग्यमृत्विग्भ्यो विभज्य ददातु । 'ब्रह्म वै तुथः' (४।३ । ४ । १५) इति श्रुतेः । किंभूतस्तुथः । विश्ववेदाः वेदनं वेदो ज्ञानं । विश्वं सर्वं वेदो यस्य स विश्ववेदाः सर्वज्ञः । किंच यूयमेतज्ज्ञात्वा ऋतस्य यज्ञस्य पथा मार्गेण प्रेत प्रगच्छत । किंभूता यूयम् । चन्द्रदक्षिणाः चन्द्रमिति हिरण्यनाम । चन्द्रं सुवर्णं यजमानहस्तस्थं द्वितीयं दक्षिणा यासां ताश्चन्द्रद्वितीयदक्षिणा इति प्राप्ते शाकपार्थिवादित्वात् (पा० २।१ । ६९) द्वितीयपदलोपः । 'सदो गच्छति वि स्वरिति' (का. १०।२। १७ ) दक्षिणादैवत्यम् । हे दक्षिणाः, अहं स्वः स्वर्गं देवयानमार्गं विपश्य विपश्यामि विलोकयामि । अन्तरिक्षं पितृयानमार्गं च विपश्यामि । भवतीभिः सोपानभूताभिरिति भावः । 'व्यत्ययो बहुलम्' (पा०६।१।८५) इति उत्तमपुरुषस्थाने पश्येति मध्यमः पुरुषः । श्रुत्या तथा व्याख्यातत्वात् । प्रेक्षते । 'यतस्व सदस्यानिति सदस्यान्' (का. १० । २ । १८) यजमान ऋत्विजः प्रेक्षते । दक्षिणादैवतम् । हे दक्षिणे, त्वं यतस्व यत्नं कुरु । यथा सदस्यैः ऋत्विग्भिः पूरितैरप्यतिरिच्यस इति शेषः । तथा त्वया यतितव्यं यथा ऋखिजो धनैः संपूर्याधिका भवेयुरिति भावः ॥ ४५ ॥

षट्चत्वारिंशी।
ब्रा॒ह्म॒णम॒द्य वि॑देयं पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒यᳪं᳭ सु॒धातु॑दक्षिणम् ।
अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छत प्रदा॒तार॒मा वि॑शत ।। ४६ ।।
उ०. आग्नीध्रं गच्छति । ब्राह्मणमद्य । ब्राह्मणम् अद्य अस्मिन् विदेयं लभेयम् । अनुशिष्टेन अतिविशिष्टेन पित्रा जातम् । नहि कश्चिद्विना पित्रा जायते । पैतृमत्यम् । यस्य पितामहप्रभृतयोऽपि वश्याः श्रोत्रियाः स एवमुच्यते । ऋषिमार्षेयम् ऋषिर्मन्त्राणां व्याख्याता । अर्षेयो जात्या प्रवरैश्च जातः । सुधातुदक्षिणम् शोभनो धातुः सुवर्णं दक्षिणा यस्य स सुधातुदक्षिणः तम् । सुवर्णं हि आग्नीध्रे दीयते । दक्षिणां ददाति । अस्मद्राताः । ‘रा दाने' । हे दक्षिणाः, अस्माभिः राताः दत्ताः सत्यो देवत्रा गच्छत । देवान्प्रति गच्छत । ततोऽनन्तरं यज्ञफलं साधयन्त्यः प्रदातारमाविशत प्रकर्षेण दातारम् आविशत यजमानम् ॥ ४६ ॥
म० 'ब्राह्मणमद्येत्याग्नीध्रगमनमिति' ( का० १० । २ । १९)। आनीध्रमृत्विजं स्वस्थानस्थं प्रति यजमानो गच्छति । ब्राह्मणदैवत्यम् । अहमद्यास्मिन्दिने ईदृशं ब्राह्मणं विदेयं लभेय 'विद्लृ लाभे' । किंभूतम् । पितृमन्तं प्रशस्तः पितास्यास्तीति | पितृमान् तम् । पित्रा विना न कश्चिज्जायतेऽतोऽत्र प्राशस्त्यार्थे मतुप् । विशिष्टजनकोत्पन्नमित्यर्थः । तथा पैतृमत्यम् पितुरिमे पैतरः। तद्धितप्रत्ययलोपेऽपि छान्दसी वृद्धिः । मत एव मत्याः। | स्वार्थे यत् । पैतरः पितामहादयो मताः संमता जगन्मान्या | यस्य स पैतृमत्यस्तम् । यद्वा पितरः पूर्वजाः मताः संमताः श्रोत्रिया यस्य स पितृमतः पितृमत एव पैतृमत्यः । यद्वा प्रशस्तजनकोत्पन्नः पितृमानित्युक्तं तदपत्यं पैतृमत्यः । सर्वथा यस्य पितामहादयः श्रोत्रियाः स पैतृमत्य इत्यर्थः । तथा ऋषिं मन्त्राणां व्याख्यातारम् । तथा आर्षेयम् ऋषिषु विख्यात आर्षेयस्तम् । जात्या प्रवरैर्ज्ञानेन सुज्ञातमित्यर्थः । तथा सुधातुदक्षिणम् शोभनो धातुः सुवर्णं दक्षिणा यस्य स सुधातुस्तम् । 'उपविश्य हिरण्यमस्मै ददात्यस्मद्राताः' (का० १० । २ । २०)इति अस्मै आग्नीध्राय दक्षिणादैवत्यं । हे दक्षिणाः, यूयमस्मद्राताः । 'रा दाने' अस्माभिः राता दत्ताः सत्यो देवत्रा देवान्प्रति गच्छत । तानेत्य तेषां तृप्तिं कृत्वा ततः दातारं प्राविशत यज्ञफलं साधयन्त्यो यजमानं प्राविशतेत्यर्थः ॥ ४६ ॥

सप्तचत्वारिंशी।
अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे ।। ४७ ।।
उ० इतउत्तरं पञ्च प्रतिग्रहमन्त्राः । हिरण्यं प्रतिगृह्णाति । अग्नये त्वा मह्यं वरुणो ददातु । अग्निरूपापन्नाय मह्यं हे हिरण्य, त्वां वरुणो ददातु । वरुणेन हि हिरण्यमग्नये दत्तं पूर्वमतस्तेनैवात्मना गृह्णानो न रिष्यामीति देवतादेशः । सोऽमृतत्वमशीय सोऽहमनेन विधानेन गृह्णानोऽमृतत्वं व्याप्नुयाम् । आयुर्दात्रे एधि आयुष्मान्दाता भवतु । मयो मह्यं प्रतिग्रहीत्रे मयः सुखम् एधि भव मह्यं प्रतिग्रहीत्रे। गां प्रतिगृह्णाति । रुद्राय त्वा । रुद्रभूताय मह्यं हे गौः, त्वां वरुणो ददातु । सोऽहमनेन विधानेन गृह्णानोऽमृतत्वं व्याप्नुयाम् । प्राणो दात्रे एधि । प्राणरूपा दात्रे भव । वयो मह्यं प्रतिग्रहीत्रे वयोऽन्नं पशुर्वा भव मह्यं प्रतिग्रहीत्रे । वासो गृह्णाति बृहस्पतये बृहस्पतिरूपापन्नाय मह्यं त्वां वरुणो ददातु । सोऽहमनेन विधानेन गृह्णानोऽमृतत्वं व्याप्नुयाम् । त्वग्दात्र एधि भव । मयः सुखं भव मह्यं प्रतिग्रहीत्रे । अश्वं प्रतिगृह्णाति । यमाय त्वा यमरूपापन्नाय मह्यं त्वां वरुणो ददातु । सोऽहं यमरूपापन्नोऽमृतत्वं व्याप्नुयाम् । हयोऽश्वः दात्रे भव । वयोऽन्नं पशुर्वा भव मम त्वं प्रतिग्रहीत्रे ४७

म०. 'अग्नये त्वेति हिरण्यं प्रतिगृह्णीत इति' ( का० १० । २ । २८) अध्वर्युप्रतिप्रस्थाताराविति शेषः । हिरण्यदैवत्यम् ।। हे हिरण्य, वरुणोऽग्नयेऽग्निरूपापन्नाय मह्यं त्वा त्वां ददातु पूर्वं वरुणेन कनकाद्यग्न्यादिभ्यो दत्तमतस्तेन तेनात्मना प्रतिगृह्णानो विप्रो न नश्यतीति देवतादेशः। अनेन विधिना गृह्णानः सोऽहममृतत्वमारोग्यमशीय व्याप्नुयाम् । हे हिरण्य, त्वं दात्रे आयुर्जीवनमेधि भव । प्रतिग्रहीत्रे प्रतिग्रहकर्त्रे मह्यं मयः सुखमेधि दाता आयुष्मान्भवतु । अहं सुखी स्यामिति भावः । 'रुद्राय त्वेति गामिति' (का० १० । २ । २९)। गां प्रतिगृह्णीतः । गोदैवत्यम् । हे गौः, रुद्ररूपाय मह्यं वरुणः त्वा ददातु सोऽहममृतत्वं प्राप्नुयाम् । हे गौः, त्वं दात्रे यजमानाय प्राणः प्राणरूपा एधि । मह्यं प्रतिग्रहीत्रे वयोऽन्नं पशुर्वा भव । दुग्धदध्यादिरूपेणान्नं संततिद्वारा पशुश्च भवेत्यर्थः । 'बृहस्पतये त्वेति वास इति' (का० १० । २।३०) । वस्त्रं गृह्णीतः । वासोदैवत्यम् । हे वासः, बृहस्पतिरूपाय मह्यं वरुणः त्वां ददातु सोऽहममृतत्वमशीय त्वं च दात्रे त्वगेधि त्वगिन्द्रियसुखकारी भव । प्रतिग्रहीत्रे मह्यं मयः सुखं च भव । 'यमाय त्वेत्यश्वमिति' (का० १० । २ । ३१) हयं गृह्णीतः । अश्वदैवत्यम् । हे अश्व, यमरूपाय मह्यं वरुणः त्वां ददातु । स यमरूपोऽहमश्वं गृह्णानोऽमृतत्वं व्याप्नुयाम् । हे अश्व, त्वं दात्रे हयोऽश्वो भव मह्यं प्रतिग्रहीत्रे वयोऽन्नं तद्दाता पशुर्वा संततिद्वारा भव ॥४७॥

अष्टचत्वारिंशी।
को॑ऽदा॒त्कस्मा॑ अदा॒त्कामो॑ऽदा॒त्कामा॑यादात् कामो॑ दा॒ता काम॑: प्रतिग्रही॒ता कामै॒तत्ते॑ ।। ४८ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां सप्तमोऽध्यायः॥७॥
उ० अथ यदन्यद्ददाति तदनेन प्रतिगृह्णाति । कोऽदात् कः पुरुषः अदात् दत्तवान् एकः प्रश्नः। कस्मै पुरुषाय अदात् दत्तवान् द्वितीयः प्रश्नः । कामोऽदात् कामायादात् द्वौ प्रतिप्रश्नौ यथासंख्यम् । एवं चेत्काम एव दाता कामः प्रतिग्रहीता च । अतो ब्रवीमि हे काम, एतद्द्रव्यं ते तव । त्वमेव केनचित्प्रयोजनेन ददासि त्वमेव च केनचित्प्रयोजनेन प्रतिगृह्णासीति ४८
इति उवटकृतौ मन्त्रभाष्ये सप्तमोऽध्यायः ॥ ७ ॥
म० 'कोऽदादित्यन्यदिति' (का० १० । २ । ३२ )। अन्यन्मन्थौदनतिलादि गृह्णीतः । कामदैवत्यम् । दातुर्दानाभिमानाभावाय स्वस्य प्रतिग्रहजदोषाभावाय च देहेन्द्रियात्मसङ्घाते कामं विविनक्ति । को नरोऽदाद्दत्तवान् कस्मै नरायादात् । प्रश्नद्वयस्योत्तरमाह । कामोऽदात्कामायैवादात् न त्वं दाताहं प्रतिग्रहीता । त्वत्कामाभिमानी देवो मत्कामाभिमानिनेऽदात् । एवं च काम एव दाता काम एव प्रतिग्रहीता नान्यः । हे काम, एतद्द्रव्यं ते तव । दातृप्रतिग्रहीतृत्वात् ॥ ४८ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । उपांश्वादिप्रदानान्तः सप्तमोऽध्याय ईरितः ॥ ७ ॥



टिप्पणी