शुक्लयजुर्वेदः/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५ शुक्लयजुर्वेदः
अध्यायः ०६
[[लेखकः :|]]
अध्यायः ०७ →

अध्याय 6
अग्निष्टोमे अग्नीषोमीय पशु प्रधाने यूपसंस्कारमारभ्य सोमाभिषवान्ता मन्त्राः

6.1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।
दिवेऽत्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।
शुन्धन्तां लोकाः पितृषदनाः ।
पितृषदनम् असि ॥

6.2
अग्रेणीर् असि स्वावेश ऽ उन्नेतॄणाम् एतस्य वित्ताद् अधि त्वा स्थास्यति ।
देवस् त्वा सविता मध्व् आनक्तु ।
सुपिप्पलाभ्यस् त्वौषधीभ्यः ।
द्याम् अग्रेणास्पृक्ष ऽ आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृꣳहीः ॥

6.3
या ते धामान्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा ऽ अयासः ।
अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अव भारि भूरि ।
ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्य् ऊहामि ।
ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह ॥

6.4
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥

6.5
तद् विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयो दिवीव चक्षुर् आततम् ॥

6.6
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानꣳ रायो मनुष्याणाम् ।
दिवः सूनुर् असि ।
एष ते पृथिव्यां लोक ऽ आरण्यस् ते पशुः ॥

6.7
उपावीर् असि ।
उप देवान् दैवीर् विशः प्रागुर् उशिजो वह्नितमान् ।
देव त्वष्टर् वसु रम हव्या ते स्वदन्ताम् ॥

6.8
रेवती रमध्वं बृहस्पते धारया वसूनि ।
ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः ॥

6.9
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अग्नीषोमाभ्यां जुष्टं नि युनज्मि ।
अद्भ्यस् त्वौषधीभ्योऽनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यः ।
अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि ॥

6.10
अपां पेरुर् असि ।
आपो देवीः स्वदन्तु स्वात्तं चित् सद् देवहविः ।
सं ते प्राणो वातेन गच्छताꣳ सम् अङ्गानि यजत्रैः सं यज्ञपतिर् आशिषा ॥

6.11
घृतेनाक्तौ पशूँस् त्रायेथा ।
रेवति यजमाने प्रियं धा ऽ आ विश ।
उरोर् अन्तरिक्षात् सजूर् देवेन वातेनास्य हविषस् त्मना यज समस्य तन्वा भव ।
वर्षो वर्षीयसि यज्ञे यज्ञपतिं धाः ।
स्वाहा देवेभ्यः ।
देवेभ्यः स्वाहा ॥

6.12
माहिर् भूर् मा पृदाकुः ।
नमस् तऽ आतानानर्वा प्रेहि ।
घृतस्य कुल्याऽ उपऽ ऋतस्य पथ्याऽ अनु ॥

6.13
देवीर् आपः शुद्धा वोढ्वꣳ सुपरिविष्टा देवेषु ।
सुपरिविष्टा वयं परिवेष्टारो भूयास्म ॥

6.14
वाचं ते शुन्धामि ।
प्राणं ते शुन्धामि ।
चक्षुस् ते शुन्धामि ।
श्रोत्रं ते शुन्धामि ।
नाभिं ते शुन्धामि ।
मेढ्रं ते शुन्धामि ।
पायुं ते शुन्धामि ।
चरित्राꣳस् ते शुन्धामि ॥

6.15
मनस्तऽ आ प्यायताम् ।
वाक् तऽ आ प्यायताम् ।
प्राणस् तऽ आ प्यायताम् ।
चक्षुस्तऽ आ प्यायताम् ।
श्रोत्रं तऽ आ प्यायताम् ।
यत् ते क्रूरं यद् आस्थितं तत् त ऽआ प्यायतां निष्ट्यायतां तत् ते शुध्यतु ।
शम् अहोभ्यः ।
ओषधे त्रायस्व ।
स्वधिते मैनꣳ हिꣳसीः ॥

6.16
रक्षसां भागो ऽसि ।
निरस्तꣳ रक्षः ।
ऽ इदम् अहꣳ रक्षोऽ भितिष्ठामीदम् अहꣳ रक्षोऽ व बाधऽ इदम् अहꣳ रक्षो ऽधमं तमो नयामि ।
घृतेन द्यावापृथिवी प्रोर्णुवाथाम् ।
वायो वे स्तोकानाम् ।
अग्निर् आज्यस्य वेतु स्वाहा ।
स्वाहाकृते ऽ ऊर्ध्वनभसं मारुतं गच्छतम् ॥

6.17
इदम् आपः प्रवहतावद्यं च मलं च यत् ।
यच् चाभिदुद्रोहानृतं यच् च शेपे ऽ अभीरुणम् ।
आपो मा तस्माद् एनसः पवमानश् च मुञ्चतु ॥

6.18
सं ते मनो मनसा सं प्राणः प्राणेन गच्छताम् ।
रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिणन् वातस्य त्वा ध्राज्यै पूष्णो रꣳह्या ऽ ऊष्मणो व्यथिषत् ।
प्रयुतं द्वेषः ॥

6.19
घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा ।
दिशः ।
प्रदिशः ।
ऽ आदिशः ।
विदिशः ।
ऽ उद्दिशः ।
दिग्भ्यः स्वाहा ॥

6.20
ऐन्द्रः प्राणो ऽ अङ्गे ऽ अङ्गे नि दीध्यद् ऐन्द्र ऽ उदानो ऽ अङ्गे ऽ अङ्गे निधीतः ।
देव त्वष्टर् भूरि ते सꣳ-समेतु सलक्ष्मा यद् विषुरूपं भवाति ।
देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥

6.21
समुद्रं गच्छ स्वाहा ।
ऽ अन्तरिक्षं गच्छ स्वाहा ।
देवꣳ सवितारं गच्छ स्वाहा ।
मित्रावरुणौ गच्छ स्वाहा ।
ऽ अहोरात्रे गच्छ स्वाहा ।
छन्दाꣳसि गच्छ स्वाहा ।
द्यावापृथिवी गच्छ स्वाहा ।
यज्ञं गच्छ स्वाहा ।
सोमं गच्छ स्वाहा ।
दिव्यं नभो गच्छ स्वाहा ।
अग्निं वैश्वानरं गच्छ स्वाहा ।
मनो मे हार्दि यच्छ ।
दिवं ते धूमो गच्छतु स्वर् ज्योतिः पृथिवीं भस्मना पृण स्वाहा ॥

6.22
मापो मौषधीर् हिꣳसीः ।
धाम्नो-धाम्नो राजꣳस् ततो वरुण नो मुञ्च ।
यद् आहुर् अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु +दुर्मित्रियास् तस्मै सन्तु यो स्मान् द्वेष्टि यं च वयं द्विष्मः ॥

6.23
हविषीमतीर् इमा ऽ आपो हविष्माꣳ2 ऽ आ विवासति ।
हविष्मान् देवो ऽ अध्वरो हविष्माꣳ2 ऽ अस्तु सूर्यः ॥

6.24
अग्नेर्वोऽ पन्नगृहस्य सदसि सादयामि ।
इन्द्राग्न्योर् भागधेयी स्थ ।
मित्रावरुण्योर् भागधेयी स्थ ।
विश्वेषां देवानां भागधेयी स्थ ।
अमूर् या ऽ उप सूर्ये याभिर् वा सूर्यः सह ।
ता नो हिन्वन्त्व् अध्वरम् ॥

6.25
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यच्छ ॥

6.26
सोम राजन् विश्वास् त्वं प्रजा ऽ उपाव रोह ।
विश्वास् त्वां प्रजा उपाव रोहन्तु ।
शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः ।
श्रोता ग्रावाणो विदुषो न यज्ञꣳ शृणोतु देवः सविता हवं मे स्वाहा ॥

6.27
देवीर् आपो ऽ अपां नपाद् यो व ऽ ऊर्मिर् हविष्य ऽ इन्द्रियावान् मदिन्तमः ।
तं देवेभ्यो देवत्रा दत्त शुक्रपेभ्यो येषां भाग स्थ स्वाहा ॥

6.28
कार्षिर् असि ।
समुद्रस्य त्वाक्षित्या ऽ उन् नयामि ।
सम् आपो ऽ अद्भिर् अग्मत सम् ओषधीभिर् ओषधीः ॥

6.29
यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः ।
स यन्ता शश्वतीर् इषः स्वाहा ॥

6.30
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे रावासि गभीरम् इमम् अध्वरं कृधीन्द्राय सुषूतमम् ।
उत्तमेन पविनोर्जस्वन्तं मधुमन्तं पयस्वन्तम् ।
निग्राभ्या स्थ देवश्रुतस् तर्पयत मा ॥

6.31
मनो मे तर्पयत वाचं मे तर्पयत प्राणं मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रं मे तर्पयतात्मानं मे तर्पयत प्रजां मे तर्पयत पशून् मे तर्पयत गणान् मे तर्पयत गणा मे मा वितृषन् ॥

6.32
इन्द्राय त्वा वसुमते रुद्रवते ।
ऽ इन्द्राय त्वादित्यवते ।
ऽ इन्द्राय त्वाभिमातिघ्ने ।
श्येनाय त्वा सोमभृते ।
ऽ अग्नये त्वा रायस्पोषदे ॥

6.33
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे ।
तेनास्मै यजमानायोरु राये कृध्य् अधि दात्रे वोचः ॥

6.34
श्वात्रा स्थ वृत्रतुरो राधोगूर्ता ऽ अमृतस्य पत्नीः ।
ता देवीर् देवत्रेमं यज्ञं नयतोपहूताः सोमस्य पिबत ॥

6.35
मा भेर् मा सं विक्था ऽ ऊर्जं धत्स्व धिषणे वीड्वी सती वीडयेथामूर्जं दधाथाम् ।
पाप्मा हतो न सोमः ॥

6.36
प्राग् अपाग् उदग् अधराक् सर्वतस् त्वा दिश ऽ आ धावन्तु ।
अम्ब नि ष्पर सम् अरीर् विदाम् ॥

6.37
त्वम् अङ्ग प्र शꣳसिषो देवः शविष्ठ मर्त्यम् ।
न त्वद् अन्यो मघवन्न् अस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥



भाष्यम्(उवट-महीधर)

षष्ठोऽध्यायः।
तत्र प्रथमा।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪं᳭ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः ।
पि॑तृ॒षद॑नमसि ।। १ ।।
उ० अभ्रिमादत्ते । देवस्य त्वा । परिलिखति इदमहम् । यवानावपति यवोऽसि । प्रोक्षति दिवे त्वा । शेषमासिञ्चति शुन्धन्तां लोकाः पितृषदनाः। दर्भान् क्षिपति पितृषदनमसि। एतानि षट् यजूंषि व्याख्यातानि ॥ १॥
म० सौमिकवेदिप्रधाने पञ्चमाध्याये आतिथ्यमारभ्य यूपनिर्माणपर्यन्ता मन्त्रा उक्ताः अग्नीषोमीयपशुप्रधाने षष्ठेऽध्याये यूपसंस्कारमारभ्य सोमाभिषवोद्योगपर्यन्ता मन्त्रा उच्यन्ते । .'देवस्य त्वेत्यभ्रिमादाय यूपावटं परिलिखतीदमहमिति' (का. .. ६ । २ । ८ ) यवोऽसीत्यप्सु यवानोप्य प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रं प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादवटे शेषमासिञ्चति शुन्धन्तामिति बर्हीᳪं᳭षि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति' (६ । २ । १५-१८)। एतानि षड् यजूंषि औदुम्बरीविषये (अ० ५ क० २६) व्याख्यातानि ॥१॥

द्वितीया।
अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सु॑पिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः ।
द्यामग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृᳪं᳭हीः ।। २ ।।
उ० प्रथमशकलं प्रास्यति । अग्रेणीरसि । अग्रे प्रथम यूपस्य छिद्यमानस्यापनीयत इत्यग्रेणीः यूपावयवभूत इत्यर्थः। यद्वा अग्रेऽवस्थितो यूपमवटंप्रति नयतीत्यग्रेणीः पुरःसर इत्यर्थः । यस्त्वमग्रेणीरसि । स्वावेशमुन्नेतॄणाम् ऊर्ध्वं नेतॄणामध्वर्यूणां स्वावेशः । ते ह्येवमस्मिन्यूपावटे सुखेनावेशयन्ति स्थापयन्ति । स हि लघुप्रमाणो भवति । स त्वं हे यूपशकल, एतस्य वित्तात् । 'विद ज्ञाने' । एतस्य कर्मणो विद्धि विदितार्थो भव । कतमं तत्कर्म चेत् । अधि त्वा स्थास्यति । अधीत्युपरिभावमैश्वर्यं वा । अधि उपरि यूपस्त्वां स्थास्यति । यूपमनक्ति । 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु'। देवस्त्वा । देवः त्वां हे यूप, सवित्रा मध्वा मधुस्वादेन आज्येन आनक्तु म्रक्षयतु । चषालं प्रतिमुञ्चति । सुपिप्पलाभ्यः । पिप्पलं फलम् । शोभनफलाभ्य ओषधीभ्योर्थाय त्वाम् प्रतिमुञ्चामीति वाक्यशेषः । उच्छ्रयति । द्यामग्रेण । यूपस्य महिमोच्यते । द्यां द्युलोकम् अग्रेण अपस्पृशः पृष्टवानसि । आ अन्तरिक्षं मध्येनाप्राः । 'प्रा पूरणे'। आ अप्राः । आपूरितवानसि अन्तरिक्षं मध्येन । पृथिवीं उपरेण । उपरमित्यधस्तनेन प्रदेशेन, यूप इत्यपरशब्देन तेन प्रदेश उच्यते यूपस्य । अदृᳪं᳭हीः दृढीकृतवानसि ॥२॥
म० 'प्रथमशकलं चाग्रेणीरसीति' ( का० ६।२ । १९)। यूपावटे प्रथमशकलं निक्षिपेदिति सूत्रार्थः । हे यूपशकल, त्वमग्रेणीरसि अग्रे प्रथमं यूपस्य छिद्यमानस्य नीयतेऽपनीयत इत्यग्रेणीः । यूपस्य प्रथमावयवभूतो भवसीत्यर्थः । यद्वा अग्रे प्रथमं यूपमवटं प्रति नयतीत्यग्रेणीः पुरःसरः । किंभूतस्त्वम् । उन्नेतॄणामुन्नयनकर्तॄणामध्वर्यूणां स्वावेशः सुखेनावेशयितुं शक्यः ते ह्येनं यूपावटे सुखेनावेशयन्ति लघुत्वात् । स त्वमेतस्य कर्मणो वित्तात् । कर्मणि षष्ठी । एतत्कर्म विद्धि जानीहि । किं तत्कर्म । यत् यूपः त्वामधि स्थास्यति त्वदुपर्यवस्थानं करिष्यति तत्त्वया बोद्धव्यमित्यर्थः । 'देवस्य त्वेत्यनक्तीति' (का. ६ । ३ । २) यूपमिति शेषः । यूपदेवत्यम् । हे यूप, सविता देवः मध्वा मधुना मधुरेणाज्येन वा त्वामनक्तु । मध्वा । अनित्यमागमशासनमिति नुमभावः । 'चषालमुभय

यूपः.

तोऽक्तं प्रतिमुञ्चति सुपिप्पलाभ्य इति' (का० ६ । ३ । ३-४)। अध उपरि चाज्येन लिप्तं चषालं यूपाग्रे स्थापयेदिति सूत्रार्थः। हे चषाल, त्वां यूपस्याग्रे प्रतिमुच्चामीति शेषः । किमर्थम् । ओषधीभ्यः व्रीह्याद्योषधिनिष्पत्त्यर्थम् । किंभूताभ्य ओषधीभ्यः । सुपिप्पलाभ्यः शोभनफलयुक्ताभ्य इत्यर्थः । ( का. ६ । ३ । ७) द्यामणेत्युच्छ्रयतीति । उन्नतं कुर्यादित्यर्थः । यूपदेवत्यम् । यूपस्य महिमोच्यते । हे यूप, त्वमग्रेणाग्रभागेन द्यां दिवमस्पृक्षः स्पृष्टवानसि । स्पृशतेर्लुङि ‘शल इगुपधादनिटः क्सः' ( पा० ३ । १।४५ ) इति क्सप्रत्ययः । मध्येन मध्यभागेनान्तरिक्षमा अप्राः आपूरितवानसि । 'प्रा पूरणे' । अपरेणाधोभागेन अनिष्टप्रदेशेन पृथिवीं भूमिमदृंहीः दृढीकृतवानसि ॥२॥

तृतीया।
या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यास॑: । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णो॑: पर॒मं प॒दमव॑ भारि॒ भूरि॑ ।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृᳪं᳭ह क्ष॒त्रं दृ॒ᳪं᳭हायु॑र्दृᳪं᳭ह प्र॒जां दृ॑ᳪं᳭ह ॥ ३ ॥
उ० मिनोति या ते धामानि । 'डुमिञ् प्रक्षेपणे'। त्रिष्टुप् यूपदेवत्या । यूप उच्यते । यानि ते तव संबन्धीनि धामानि । स्थानजन्मज्योतिर्वचनो वा धामशब्दः । स्थानानीहाभिप्रेतानि । उश्मसि कामयामहे । गमध्यै गमनाय । यानि त्वदीयानि स्थानानि कामयामहे । वयं गमनायेति यदवृत्तयोगादिह तदनुप्रयोगो भवितुमर्हति । तत्र तेषु स्थानेषु । गावो रश्मयः । भूरिशृङ्गा बहुदीप्तयः । ज्वलन्नामसु शृङ्गाणीति पठितम् । अयासः अयनाः गन्तारः । अत्राह तदुरुगायस्य विष्णोः । अत्रशब्दस्तत्रशब्दस्यार्थे परोक्षत्वात् । अह इति विनिग्रहार्थीयः । तत्र चैतद् उरुगायस्य महागतेर्विष्णोः संबन्धि परममुत्कृष्टं पदमादित्यमण्डलाख्यमर्वाचीनं भारि भाति । तकारस्य स्थाने छान्दसो रेफः । भूरि बहुप्रकारम् । पांसुभिः पर्यूहति । ब्रह्मवनि त्वा व्याख्यातम् । पर्यूषति । ब्रह्मदृᳪं᳭ह व्याख्यातम् ॥ ३॥
म०. 'या त इति मिनोतीति' ( का० ६ । ३ । ८ ) अवटे यूपं प्रक्षिपेदित्यर्थः । यूपदेवत्या त्रिष्टुप् दीर्घतमोदृष्टा । हे यूप, या यानि ते तव धामानि स्थानानि गमध्यै गन्तुं वयमुश्मसि उश्मः कामयामहे । 'तुमर्थे से-' (पा० ३ । ४ । ९) इत्यादिना । गच्छतेस्तुमर्थे कध्यैन्प्रत्ययः नित्त्वादाद्युदात्तः । उश्मसि 'वश कान्तौ' लटि उत्तमबहुवचने शपो लोपे संप्रसारणे 'इदन्तो मसि' (पा० ७ । १ । ४६) इति इकारः । यानि तव स्थानानि गन्तुं वयमिच्छाम इत्यर्थः । किंच यत्र येषु तव स्थानेषु गावो रश्मयः । अयासः अयन्तीति अयाः 'अय गतौ' गन्तारो वर्तन्ते । सर्वे किरणा येषु स्थानेषु गता इत्यर्थः । किंभूता गावः । भूरिशृङ्गाः भूरि बहु शृङ्गं दीप्तिर्येषां ते भूरिशृङ्गाः । प्रज्वलन्नामसु शृङ्गाणीति पठितम् । | अहेत्येवार्थे । विष्णोः व्यापकस्य ब्रह्मणः तत् परममुत्कृष्टं पदं भूरि महत् आदित्यमण्डललक्षणमत्रैव अवभारि अवभाति । तकारस्थाने छान्दसो रेफः । यद्वा भूरि बहुप्रकारं यथा तथा अत्राह अत्रैव एष्वेव स्थानेषु अवभाति शोभते । किंभूतस्य विष्णोः। उरुगायस्य 'गाङ् गतौ' गानं गायः उरुर्गायो गतिर्यस्य । महागतेरित्यर्थः । यद्वा उरुभिर्महात्मभिर्गीयते स्तूयतेऽसावुरुगायस्तस्य । तादृशस्थानप्राप्तिहेतुभूतकर्मणे हे यूप, त्मत्रावटे तिष्ठेत्याशयः। 'ब्रह्मवनि त्वेति पाᳪं᳭सुभिः । ब्रह्म दृᳪं᳭हेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूषतीति' (का० ६।३ । १०-११)। द्वे यजुषी औदुम्बरीविषये (अध्या० ५ क० २७) व्याख्याते ॥ ३ ॥

चतुर्थी ।
विष्णो॒: कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ४ ।।
उ० वाचयति । विष्णोः कर्माणि । द्वे गायत्र्यौ वैष्णव्यौ। हे ऋत्विजः, विष्णोः यज्ञस्य कर्माणि वीर्याणि पश्यत यतः। तसिप्रकरणे आद्यादिभ्य उपसंख्यानं वक्तव्यम् । यतो यैर्वीर्यैः । व्रतानि । व्रतमिति कर्मनाम । आधानपशुसोमप्रभृतीनि कर्माणि आत्मनि । पस्पशे 'स्पश बन्धने' बद्धवान् । विष्णुर्हि अधिष्ठात्री देवता यज्ञानाम् । यद्वा विष्णोर्वीर्याणि पश्यत । यैर्वीर्यैस्तानि व्रतानि कर्माणि अग्निवायुसूर्याणां स्वानि स्वान्यप्रमत्ताः एतानि कुरुतेत्येवं पस्पशे निबद्धवान् । किंच यश्च विष्णुः इन्द्रस्य सखा वृत्रवधादिषु कर्मसु । कथंभूतः सखा । युज्यः 'युजिर् योगे'। योगार्हः अनुरूप इत्यर्थः ॥४॥
म० 'विष्णोः कर्माणीति वाचयति यूपमन्वारब्धमिति' (का० ६ । ३ । १२)। यूपं स्पृष्टवन्तं यजमानं वाचयेदिति सूत्रार्थः । द्वे वैष्णव्यौ गायत्र्यौ मेधातिथिदृष्टे । हे ऋविजः, विष्णोः यज्ञाधिष्ठातुः कर्माणि सृष्टिसंहारादिचरितानि यूयं पश्यत । यतो यैः कर्मभिः व्रतानि भवदीयानि लौकिकवैदिककर्माणि पस्पशे बद्धवान् निर्मितवानित्यर्थः । ‘स्पश बन्धने' स विष्णुरिन्द्रस्य युज्यः वृत्रवधादिकर्मसु योज्योऽनुरूपः सखा मित्रम् । यद्वा विष्णोः यज्ञस्य कर्माणि वीर्याणि पश्यत यतो यैर्वीर्यैर्व्रतानि आधानपशुसोमादीनि कर्माणि पस्पशे आत्मनि बद्धवान् । यद्वा यैर्वीर्यैर्व्रतानि कर्माणि अग्निवायुसूर्याणां स्वानि स्वानि एतान्यप्रमत्ताः कुरुतेत्येवं पस्पशे निबद्धवान् । शिष्टं समानम् ॥ ४ ॥

पञ्चमी।
तद्विष्णो॑: पर॒मं प॒दᳪं᳭ सदा॑ पश्यन्ति सू॒रयो॑ । दि॒वी॒व॒ चक्षु॒रात॑तम् ।। ५ ।।
उ० चषालमुदीक्षते । तद्विष्णोः । तदः प्रतियोगिनात्रपूर्वं यद्वृत्तेन भवितव्यम् । यद्विज्ञानघनबहुलमानन्दस्वभावं च तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः पण्डिताः वेदान्तज्ञानरहस्यविवृतसंपुटाः । कथंभूतं पदं पश्यन्ति । दिवीव धुलोकमध्यगतमिव । चक्षुः आदित्यमण्डलम् । आततं विततं विस्तारितम् । चक्षुःशब्देनान्यत्रापि मण्डलमुच्यते । 'चक्षुर्मित्रस्य वरुणस्याग्नेः' 'तच्चक्षुर्देवहितम्' इति च। यद्वा। यद्वृत्तसंबन्धो द्वितीयोर्धर्चः प्रथमः क्रियते । परमपदशब्देनादित्य उच्यते । इवश्चानर्थकः तद्दिवि चक्षुरादित्याख्यं विततं तद्विष्णोः परमं पदं तृतीयं सदा पश्यन्ति पण्डिता अधियज्ञविदः ॥ ५ ॥
म० तद्विष्णोरिति चषालमीक्षमाणमिति' (का० ६ । ३ । १३ ) यूपकटकं प्रेक्षमाणं यजमानं वाचयेदिति सूत्रार्थः । सूरयः विद्वांसो वेदान्तपारगाः विष्णोः तत्परमं पदं स्वरूपं सदा पश्यन्ति । कीदृशम् । दिवि आकाशे निरावरणे चक्षुरिवाततं व्याप्तम् । यद्वा यत् दिवि आकाशे चक्षुरादित्यमण्डलमाततं विस्तारितम् । इवोऽनर्थकः । चक्षुःशब्देनान्यत्रापि मण्डलमुच्यते । 'चक्षुर्मित्रस्य वरुणस्य' (अ० ७ क० ४२)। 'तञ्चक्षुर्देवहितम्' (अ० ३६ क० २४) ॥ ५ ॥

षष्ठी।
प॒रि॒वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्तां॒ परी॒मं यज॑मान॒ᳪं᳭ रायो॑ मनु॒ष्या॒णाम् ।
दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः ।। ६ ।।
उ० परिव्ययति । परिवीरसि । 'व्ये संवरणे' इत्यस्य क्तप्रत्ययार्थे क्विपि संप्रसारणम् । अस्माभिः परिवीतः परिवारितः परिवेष्टितो वा त्वमसि । अतः परिव्ययन्तां त्वां हे यूप। दैवीर्विशः 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतिः। त्वत्प्रसादाच्च परिव्ययन्ताम् परिवारयन्तु इमं यजमानं रायो धनानि । मनुष्याणां मनुष्याणां मध्ये । निर्धारणे षष्ठी। स्वरुमवगृहति । दिवः सूनुरसि । धुलोकस्य त्वं सूनुः पुरोसि। धुलोकाद्वर्षति तस्माद्यूपो जायते यूपात्स्वरुरित्यनया प्रणालिकया दिवः सूनुः स्वरुः । द्वादश उपशयस्तं निदधाति । एष ते पृथिव्याम् । एष ते तव पृथिव्यां लोकः आश्रयस्थानमित्यर्थः । 'पशवे यूपमुच्छ्रयन्ति' इति श्रुतिः। यूपस्य पशुना भवितव्यमित्यत आह । आरण्यस्तव पशुः ॥ ६॥
म० 'त्रिगुणा त्रिव्यामा कौशी रशना तया नाभिमात्रे त्रिवृतं परिव्ययति परिवीरसीति' (का० ६ । ३ । १५) । त्रिभिर्गुणैरवयवैरुपेता त्रिव्याममिता कुशसंबन्धिनी या रशना रज्जुस्तया नाभिप्रमाणे यूपप्रदेशे आवृत्तित्रयं यथा भवति तथा यूपमावेष्टयेदिति सूत्रार्थः । यूपदैवत्यं यजुः । हे यूप, त्वं परिवीरसि परितो रशनया वीतो वेष्टितोऽसि । यद्वास्माभिः परिवारितोऽसि । 'व्येञ् संवरणे' इत्यस्य क्तप्रत्ययार्थे क्विपि संप्रसारणम् । किंच दैवीर्विंशः देवसंबन्धिन्यः प्रजाः मरुद्गणादयः त्वा त्वां परिव्ययन्तां परितो वेष्टयन्तु । यद्वा दैवीर्विंशः पशवः त्वा परिव्ययन्ताम् । 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतेः । किंच मनुष्याणां संबन्धिन्यो रायो धनानि इमं यजमानं परिव्ययन्तां वेष्टयन्तु । यद्वा मनुष्याणामिति निर्धारणे षष्ठी । मनुष्याणां मध्ये रायो धनानि इमं यजमानमेव परिव्ययन्ताम् । 'यूपशकलमस्यामवगूहत्युत्तरेणाग्निष्ठां दिवः सूनुरसीति' (का. ६ । ३ । १७) अष्टास्रे यूपस्य यास्रिरग्निसमीपे स्थिता साग्निष्ठा तस्या उत्तरभागे रशनायां स्वरुनामकं शकलमवसृजेदिति सूत्रार्थः । हे स्वरो, त्वं दिवः द्युलोकस्य सूनुः पुत्रोऽसि । द्युलोकाद्वर्षति ततो यूपो जायते यूपात्स्वरुरिति प्रणालिकया दिवः सूनुः स्वरुः । 'वर्षिष्ठाद्दक्षिणं वितष्टं द्वादशं निदधात्येष त इति' (का० ८ । ८ । २३) । यूपैकादशिनीपक्षे वर्षिष्ठाद्यूपाद्दक्षिणभागे वितष्टमष्टास्रिं द्वादशं यूपं निदधाति स्थापयति न तु निखनतीति सूत्रार्थः । यूपदेवत्यम् । हे यूप, पृथिव्यामेष ते तव लोकः आश्रयस्थानमित्यर्थः । ननु ‘पशवो वै यूपमुच्छ्रयन्ति' (३ । ७ । ३ । ४) इति श्रुतेः यूपे पशुना भवितव्यमित्यत आह । ते तव आरण्योऽरण्ये भवोऽरण्यसंबन्धी पशुः वने वर्तमानः पशुस्तवैवेत्यर्थः ॥ ६ ॥

सप्तमी।
उ॒पा॒वीर॒स्युप॑ दे॒वान्दैवी॒र्विश॒: प्रागु॑रु॒शिजो॒ वह्नि॑तमान् । देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ।। ७ ।।
उ० तृणमादत्ते । उपावीरसि । उप समीपे अवस्थितः अवति रक्षतीत्युपावीः द्वितीयः सखा त्वमसीत्यर्थः । पशुमुपस्पृशति । उपदेवान् उपागुः उप गच्छन्तु देवान्प्रति । देवीर्विशः । 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतिः। कथंभूतान्देवान् । उशिजः मेधाविनः । वह्नितमान् वोढृतमान् । वहन्ति हि ते यजमानं स्वर्गं प्रति कर्मण्यङ्गभावमुपगच्छन्तः। हे देव त्वष्टः, वसु रम पशुलक्षणं वसु रमय । णिचो लोपश्छान्दसः। हव्या ते स्वदन्ताम् । एवं त्वष्टारमुक्त्वा अथेदानीं पशुमाह । हव्या हवींषि ते त्वदीयानि स्वदन्ताम् । 'स्वद स्वर्द आस्वादने' । णिचो लोपः । आस्वादयन्तु देवा इति शेषः ॥७॥
म० 'उपावीरसीति तृणमादायेति' (का० ६ । ३ । १९) हे तृणविशेष, त्वमुपावीरसि उप समीपमवति गच्छतीत्युपावीः । यद्वा उप समीपेऽवस्थितोऽवति रक्षतीत्युपावीः पशोर्द्वितीयः सखा त्वमसीत्यर्थः । तेन पशुमुपस्पृशत्युपदेवानिति' (का. ६।३ । २०)। गृहीतेन तृणेन पुरस्तात्प्रत्यञ्चं स्थितं पशुं स्पृशेदिति सूत्रार्थः । दैवीर्विशः पशवो देवानग्नीषोमादीनुप प्रागुः उपगच्छन्तु । 'दैव्यो वा एता विशो यत्पशवः' इति श्रुतेः । 'इण् गतौ' इत्यस्मात् 'छन्दसि लुङ्लङ्लिटः' (पा० ३। ४ । ६) इति । कालमात्रे लुङ् । 'इणो गा लुङि' (पा० २। ४ । ४५) इति गादेशः । किंभूतान्देवान् । उशिजो मेधाविनः । यद्वा हवींषि कामयमानान् वहन्तीति वह्नयः अतिवह्नयो वह्नितमास्तान् । यजमानं स्वर्गं प्रति प्रापयतां देवानां मध्ये श्रेष्ठतमानित्यर्थः । एवं पशून्प्रार्थ्य त्वष्टारमाह । हे देव त्वष्टः, त्वं वसु पशुलक्षणं धनं रम रमय । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति शपोऽप्यार्धधातुकसंज्ञत्वाण्णिचो लोपः। एवं त्वष्टारमुक्त्वा पुनः पशुमाह । हे पशो, ते तव हव्या हवींषि स्वदन्ताम् । 'स्वद स्वाद आस्वादने । स्वादूनि भवन्तु । यद्वा हवींषि स्वदन्तामास्वादयन्तु देवा इति शेषः । पूर्ववण्णिचो लोपः ॥ ७ ॥

अष्टमी।
रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि । ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒ मानु॑षः ।। ८ ।।
उ० रेवती रमध्वम् । लिङ्गव्यत्ययः। हे रेवन्तो धनवन्तः। पशवः, रता भवत । त्वमपि बृहस्पते धारय निश्चलीकुरु वसूनि पशुलक्षणानि । पशु बध्नाति । ऋतस्य त्वा । ऋतस्य यज्ञस्य पाशेन त्वा त्वां हे देवहविः पशो, पाशेन प्रतिमुञ्चामि । प्रतिपूर्वो मुञ्चिर्बन्धने वर्तते । बध्नामि । एवं पशुं संबोध्याथ मनुष्यस्य शमित्रादेः समर्पयति । धर्षा मानुषः । धर्षेति विकरणव्यत्ययश्छान्दसः । प्रथमपुरुषस्य स्थाने मध्यमः । धृष्णोतु शक्नोतु शामयितुं मानुषः । यद्वा यस्माद् ऋतस्य यज्ञस्य त्वां हे देव हविः, पाशेन प्रतिमुञ्चामि बध्नामि तस्माद् धृष्णोतु त्वां मानुषः ॥ ८॥
म० रयिर्धनं क्षीरादि यासां ता रेवत्यः । लिङ्गवचनव्यत्ययः । रेवन्तः 'रेवन्तो हि पशवः' (३।७।३।१३) इति श्रुतेः हे रेवन्तः क्षीरादिधनवन्तः पशवः, यूयं यजमानगृहे रमध्वं संक्रीडध्वम् । एवं पशुमुक्त्वा बृहस्पतिमाह । हे बृहस्पते, हे ब्रह्मन् , वसूनि पशुलक्षणानि धारया निश्चलीकुरु । ‘ब्रह्म वै बृहस्पतिः पशवो वसु' (३ । ७ । ३ । १३) इति श्रुतेः ।। 'द्विगुणरशनया द्विव्यामया कौश्या पाशं कृत्वान्तरा शृङ्गमभिदक्षिणं बध्नात्यृतस्य त्वेति' ( का० ६ । ३ । २६) । अवयवद्वयोपेतया व्यामद्वयपरिमितया कुशकृतया रज्ज्वा नागपाशं कृत्वा शृङ्गयोरन्तराले पशुं बध्नाति कथम् । अभिदक्षिणं दक्षिणशृङ्गमभिमुखं पाशं प्रतिमुञ्चेदिति सूत्रार्थः । हे देवहविः देवानां हवीरूप पशो, ऋतस्यावश्यंभाविफलोपेतत्वात्सत्यस्य यज्ञस्य पाशेन त्वा त्वां प्रतिमुञ्चामि बध्नामि । प्रतिपूर्वो मुञ्चतिर्बन्धने वर्तते । एवं पशुं संबोध्य शमित्रे समर्पयति मानुषो धर्षा । ‘ञिधृषा प्रागल्भ्ये' विकरणपुरुषव्यत्ययः । मानुषः शमिता धृष्णोतु शमयितुं शक्नोतु पाशेन बद्धत्वादिति भावः । संहितायां 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति सूत्रेण धर्षेत्यत्र दीर्घः ॥ ८॥

नवमी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि । अ॒द्भ्यस्त्वौ॑षधी॒भ्योऽनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।। ९ ।।
उ० यूपे बध्नाति पशुम् । देवस्य त्वा व्याख्यातः । अग्नीषोमाभ्यां जुष्टमभिरुचितं नियुनज्मि निबध्नामि । | पशुं प्रोक्षति । अद्भ्यस्त्वौषधीभ्यः । हे पशो, अद्भ्यः त्वामारभ्य ओषधीभ्यश्च आरभ्य आदितः सर्वं संपद्यते । अग्नीषोमाभ्यां त्वां जुष्टमभिरुचितं पशुं प्रोक्षामि मेध्यं करोमि । अमुमेवार्थं श्रुत्या स्पष्टयति 'इदᳪं᳭हि यदावर्षत्यथौषधयो जायन्ते' इत्यादिकया । अनुत्वेति व्याख्यातम् । इह त्वेवं संबन्धः। अद्भ्य आरभ्य अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि हे पशो, प्रोक्षमाणं त्वां मात्रादयोऽनुमन्यन्तामिति ॥ ९॥ .
म० 'देवस्य त्वेति यूप इति' (का० ६ । ३ । २७) यूपे पशुं बध्नातीति शेष इति सूत्रार्थः । अग्नीषोमदेवताभ्यां जुष्टमभिरुचितं पशुं नियुनज्मि निबध्नामि । व्याख्यातमन्यत् । 'अद्भ्यस्त्वेति पशुं प्रोक्षणीभिः प्रोक्षतीति' (का० ६।३।३०) हे पशो, अद्भ्यः ओषधीभ्यः । अत्र विभक्तिव्यत्ययः । अद्भिरोषधिभिश्च । त्वा त्वां प्रोक्षामि मेध्यं करोमि । किंभूतं त्वाम् । अग्नीषोमाभ्यां जुष्टं प्रीतं दर्भैरपामुत्पूतत्वादोषधीनामपि प्रोक्षणसाधनत्वमस्त्येव । स्वमातृभक्षिताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वात्तेनोभयेन प्रोक्षणं युक्तम् । तदाह तित्तिरिः 'अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति' । किंच हे पशो, एवं प्रोक्षितं त्वां माता भूमिरनुमन्यतां, तथा पिता द्यौरनुमन्यताम् , सगर्भ्यः समानगर्भे उदरे भवः सोदरो भ्राता अनुमन्यताम् । सयूथ्यः समानयूथे भवः सखा सुहृत् अनुमन्यताम् ॥ ९ ॥

दशमी।
अ॒पां पे॒रुर॒स्यापो॑ दे॒वीः स्व॑दन्तु स्वा॒त्तं चि॒त्सद्दे॑वह॒विः । सं ते॑ प्रा॒णो वाते॑न गच्छता॒ᳪं᳭ समङ्गा॑नि॒ यज॑त्रै॒: सं य॒ज्ञप॑तिरा॒शिषा॑ ।। १० ।।
उ० आस्ये उपगृह्णाति । अपां पेरुः । अपां पानशीलस्त्वमसि हे पशो । अधस्ताद् प्रोक्षति । आपो देवीः । आपो देव्यः स्वदन्तु आस्वादयन्तु उक्षयन्त्वेनं पशुम् । को गुण इति चेत् । स्वात्तंचित्सद्देवहविः । आस्वादितं हि सत् शोभनं देवानां हविः पशुलक्षणं भूयात् । पशुं समनक्ति । सं ते प्राणः । संगच्छतां ते प्राणः वातेन हे पशो, समङ्गानि यजत्रैः । संगच्छतां हे पशो, तवाङ्गानि यजत्रैः यागैः। संयज्ञपतिराशिषा संगच्छतां यज्ञपतिर्यजमानः आशिषा यज्ञफलेन स्वरुशाखाभ्याम् ॥ १० ॥
म० 'अपां पेरुरित्यास्य उपगृह्णातीति' (का० ६।३।३१) पशोर्मुखे प्रोक्षणीर्धारयेदिति सूत्रार्थः । पशुदैवतम् । हे पशो, त्वमपां जलानां पेरुः पानशीलोऽसि । पिबतीति पेरुः औणादिक एरुप्रत्ययः । उदकपानशीलो भवसि तत इदं पिबेत्यर्थः । 'आपो देवीरित्यधस्तादुपोक्षतीति' (का० ६ । ३ । ३२) पशोरधोभागे हृदि प्रोक्षेदिति सूत्रार्थः । हे पशो, आपोदेवीः अब्रूपा देव्यः स्वदन्तु त्वामास्वादयन्तु भक्षयन्तु । यद्वा आपोदेव्यः स्वदन्तु पशुं भक्षयन्तु । को गुण इति चेत् । स्वात्तं चित् । चिदित्यव्ययं हेरर्थे । हि यतो देवहविः देवानां हविः पशुलक्षणं स्वात्तमास्वादितं सत् शोभनं देवयोग्यं भूयादिति शेषः । अद्भ्यस्त्वेत्यादिमन्त्रत्रयेणोपरिष्टान्मुखेऽधोभागे पशोः प्रोक्षणेन सर्वं मेध्यं करोतीति तित्तिरिणा प्रतिपादितम् । तदाह 'उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वमेवैनं मेध्यं करोतीति' । 'उत्तरमाघारमाघार्य पशुं पूर्वᳪं᳭समनक्ति ललाटाᳪं᳭सश्रोणिषु सं त इति प्रतिमन्त्रमिति' (का० ६।४ । २) उत्तराघारहोमानन्तरं ध्रुवासमञ्जनादर्वागेव भाले अंसयोः श्रोण्योश्च जुह्वैव पशुं समनक्ति सं त इति त्रिभिः प्रतिमन्त्रमिति सूत्रार्थः । पशुदैवतयजूंषि । ललाटाञ्जनमन्त्रः - हे पशो, ते तव प्राणो बाह्येन वातेन संगच्छताम् । अथांसयोर्मन्त्रावृत्तिः अङ्गानि अंसादीनि यजत्रैः यागैः संगच्छन्ताम् । इज्यन्त इति यजत्राः । अथ श्रोण्योः यज्ञपतिर्यजमान आशिषा यज्ञफलेन संगच्छताम् ॥ १० ॥

एकादशी।
घृ॒तेना॒क्तौ प॒शूँᳪं᳭स्त्रा॑येथा॒ᳪं᳭ रेव॑ति॒ यज॑माने प्रि॒यं धा आ वि॑श । उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑ना॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॒ भव ।
वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धा॒: स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒: स्वाहा॑ ।। ११ ।।
उ० पशोर्ललाटमुपस्पृशति घृतेन । स्वरुशासावुच्येते । घृतेनाक्तौ म्रक्षितौ भवन्तौ युवां पशून् । पूजनार्थं बहुवचनम् । पशूंस्त्रायेथां पालयेथाम् । यजमानं वाचयति । रेवति । वाग्वै रेवती। हे वाक् रेवति धनवति । यजमाने प्रियं धा आविश । अस्मिन् यजमाने प्रियमभिप्रेतं धाः धेहि आविश च यजमानम् । उरोर्महतोऽन्तरिक्षाच्च गोपायेति शेषः । सजूर्देवेन वातेन । समानप्रीतिः देवेन वातेन भूत्वा । किंच अस्य पशुलक्षणस्य हविषः त्मना यज आत्मना यज । 'मन्त्रेष्वाङ्यादेरात्मनः' इत्याकारलोपः । समस्य तन्वा भव । संभव चास्य पशोः तन्वा शरीरेण । एतदुक्तं भवति । यजमानरूपेण पशुरूपेण वा त्मना भूत्वात्मनैव यज । हे रेवति, पश्चाच्च तृणमुपास्यति । वर्षो वर्षीयसि तृणमुच्यते । हे वर्षों वर्षप्रभव । अथवा विस्तीर्ण । वर्षीयसि विस्तीर्णतरे यज्ञे । यज्ञपतिं यजमानं धाः धेहि। जुहोति । स्वाहा देवेभ्यः । जुहोति देवेभ्यः स्वाहा । द्वे यजुषी ॥११॥
म० 'स्वरुमादायांक्त्वोभौ जुह्वग्रे ताभ्यां पशोर्ललाटमुपस्पृशति घृतेनाक्ताविति' (का. ६ । ४ । १२)। विशसित्रा दत्तं शासं गृहीत्वा स्वयमेव यूपात् स्वरुमादाय तावसिस्वरू जुह्वग्रे घृतेनांक्वा ताभ्यामसिस्वरुभ्यां पशोर्ललाटं स्पृशेदिति सूत्रार्थः । स्वरुशासदैवतम् । हे स्वरुशासौ, युवां घृतेनाक्तौ सन्तौ पशून् । बहुवचनं पूजार्थम् । एतं पशुं त्रायेयां पालयेथाम् । 'रेवति यजमान इति वाचयतीति' (का० ६।५। ११)। यजमानं वाचयेदित्यर्थः । वाग्देवतम् 'वाग्वै रेवती' इति श्रुतेः (३। ८।१।१२) हे रेवति धनवति वाग्देवते, यजमानेऽस्मिन् प्रियमभिप्रेतं धाः धेहि । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । आविश ज्ञानप्रदानेन यजमानं प्रविश । किंच हे रेवति, वातेन देवेन सजूः समानप्रीतिर्भूत्वा उरोर्विस्तीर्णादन्तरिक्षाद्यजमानं गोपायेति शेषः । किंचास्य पशुलक्षणस्य हविषा त्मना आत्मना यज । 'मन्त्रेष्वाङ्यादेरात्मनः' (पा० ६ । ४ । १४१) इति आकारलोपः । किंचास्य पशोस्तन्वा शरीरेण संभव एकीभव । हे रेवति, यजमानरूपेण पशुरूपेण चात्मना भूत्वा त्मना च यजेति तात्पर्यार्थः । ‘पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति' (का० ६ । ५। १५)। शामित्रस्य पश्चात्प्रागग्रं तृणमुपास्यति हस्तस्थतृणद्वयमध्ये एकं क्षिपति विशसनीयस्य पशोर्भूमिस्पर्शपरिहारार्थमिति सूत्रार्थः । तृणदेवतम् । हे वर्षो, वर्षादुत्पन्नं वर्षुः तत्संबोधनं वर्षो वर्षप्रसव हे तृण, यद्वा वर्षो विस्तीर्ण, वर्षीयसि विस्तीर्णतरे यज्ञे यज्ञपतिं यजमानं धाः धेहि । 'देवेभ्यः स्वाहेति जुहोतीति' (का० ६ । ५ । २४) मन्त्रयोरर्थैक्येऽपि पाठभेदतात्पर्यं तित्तिरिराह । 'पुरस्तात्स्वाहाकृतयोऽन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये स्वाहा देवेभ्यो देवेभ्यः स्वाहेति' ॥११॥

द्वादशी।
माहि॑र्भू॒र्मा पृदा॑कु॒र्नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ अनु॑ ।। १२ ।।
उ०. नियोजनीं चात्वाले प्रास्यति । माहिर्भूः । रज्जुरुच्यते । मा सर्पाकारा भूयाः। मा च पृदाकुर्भूयाः। पृदाकुरजगरः । पत्नीं पशुंप्रति नयन्वाचयति । नमस्त आतान । पत्नी नमस्कारादिराशीर्भिर्यज्ञं पूजयति । नमस्तव हे आतान यज्ञ । 'यज्ञो वा आतानो यज्ञं हि तन्यते' इति श्रुतिः । अनर्वा प्रेहि। अनर्वा अपृच्यतोऽन्यस्मिन् अनाश्रितोऽन्यस्मिन् प्र इहि प्रेहि प्रगच्छ आसमाप्तेः। घृतस्य कुल्या उप । कुल्या नद्यः घृतनदीरुपतिष्ठमानाः प्रेहि । बह्वत्र घृतमित्यभिप्रायः । ऋतस्य पथ्या अनु । ऋतस्य यज्ञस्य पथ्याः पथिभवाः पथ्याः घृतकुल्याः। सन्नाज्यपृषदाज्यकुल्योपलक्षणार्थं घृतकुल्याग्रहणम् । अनु प्रगच्छ ॥ १२ ॥
म० 'वपाश्रपणीभ्यां नियोजनीं चात्वाले प्रास्यति माहिर्भूरिति' (का० ६ । ५ । २६) वपा श्रप्यते याभ्यां ते वपाश्रपण्यौ काष्ठविशेषौ ताभ्यां कृत्वा नियोजनीं पशुबन्धनरज्जुं द्विगुणां चात्वाले क्षिपेदिति सूत्रार्थः । रज्जुदेवत्यम् । हे रज्जो, त्वमहिः सर्पाकारा मा भूः मा भूयाः । पृदाकुः अजगराकारापि मा भूः । 'पान्नेजनहस्तां वाचयति नयन्नमस्त आतानेति' (का. ६।६।१)। पादौ निज्येते क्षाल्येते येन स पान्नेजनः पादनेजनार्थ उदककलशः । पादग्रहणमन्यावयवोपलक्षणम् । पान्नेजनो मुखाद्यवयवशोधनार्थो जलकलशो हस्ते यस्याः सा पान्नेजनहस्ता तां पत्नीं नयन् गार्हपत्यसमीपात्पशुशोधनाय नयन्सन् प्रतिप्रस्थातामुं मन्त्रं तां वाचयेदिति सूत्रार्थः । यज्ञदेवत्यम् । आ समन्तात्तन्यते विस्तार्यते इत्यातानो यज्ञः । 'यज्ञो वा आतानो यज्ञᳪं᳭हि तन्वते' (३।८।२।२) इति श्रुतेः । हे आतान यज्ञ, ते तुभ्यं नमः । त्वमनर्वा शत्रुरहितः सन् प्रेहि समाप्तिपर्यन्तं प्रकर्षेण गच्छ । इयर्ति वधार्थमित्यर्वा नास्त्यर्वा यस्यासावनर्वा । 'अनर्वा प्रेहीत्यसपत्नेन प्रेहि' इति श्रुतेः । 'अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै' इति तित्तिरिवाक्यात् । किंच ऋतस्य यज्ञस्य पथ्याः पयि भवाः घृतस्य कुल्याः घृतनदीः अनुलक्ष्य उप प्रेहि गच्छ । सान्नाय्यपृषदाज्यकुल्योपलक्षणार्थं घृतकुल्याग्रहणम् । अत्र यज्ञे बहु घृतमाहुतमित्यभिप्रायः ॥ १२ ॥

त्रयोदशी।
देवी॑रापः शु॒द्धा वो॑ढ्व॒ᳪं᳭ सुप॑रिविष्टा दे॒वेषु॒ सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म ।। १३।।
उ० एवं यज्ञं स्तुत्वाथेदानीमपः प्राह । हे देव्यः आपः, शुद्धाः सत्यः वोढ्वं वहत यज्ञम् । सुपरिविष्टाः साधु सर्वतो निविष्टाः पान्नेजनीपात्रे देवेषु पशुं प्रापयतेति संबन्धः । किंच वयं सुपरिविष्टाः देवेष्वितीहाप्यनुवर्तते । देवेषु मध्येऽवस्थिताः तैरेव सुपरिविष्टा देवैः तेषामेव देवानां मध्यतः परिवेष्टारो भूयास्म वयमित्याशीः ॥ १३ ॥
म० एवं यज्ञं स्तुत्वेदानीमापः स्तूयन्ते । अर्धमब्देवत्यमर्धमाशीर्देवत्यम् । हे आपो देव्यः, यूयं देवेषु वोढ़्वं पशुमिति | शेषः । एनं पशुं देवान्प्रति वहत प्रापयत । 'वह प्रापणे' अस्य लुङि तङि मध्यमबहुवचने अडभावे रूपम् । किंभूता यूयम् । शुद्धाः स्वभावतः तथा सुपरिविष्टाः साधु परितः सर्वतो निविष्टाः पान्नेजनीपात्रे । किंच वयमपि सुपरिविष्टाः देवेष्विति पदमिहाप्यनुवर्तते । वयमपि देवेषु मध्येऽवस्थितास्तैरेव देवैः सुपरिविष्टाः तर्पिताः संतस्तेषामेव देवानां परिवेष्टारः परिवेषणकर्तारो भूयास्मेत्याशीः ॥ १३ ॥

चतुर्दशी ।
वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि॒ नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्राँ॑स्ते शुन्धामि ।। १४।।
उ० पशोः प्राणान् शुन्धयति पत्नी यथालिङ्गम् । वाचं ते शुन्धामि वाचं तव शोधयामि उदकेन उन्दनेन । एवं सर्वत्र व्याख्येयम् । मेढ्रशब्देन शिश्नमुच्यते । पायुशब्देन हदनप्रदेशः । चरित्राः पादाः। सुपरिचरन्ति गच्छन्त्येभिरिति चरित्राः । चरित्रशब्देन पादा उच्यन्ते ॥ १४ ॥
म० 'पशोः प्राणाञ्छुन्धति पत्नी मुखं नासिके चक्षुषी कर्णौ नाभिं मेढ्रं पायुं पादान्सᳪं᳭हृत्य वाचं ते शुन्धामीति प्रतिमन्त्रमिति' (का० ६ । ६ । २-३)। पत्नी पशुसमीप उपविश्य मृतस्य पशोः प्राणान्मुखादीन्यष्टौ प्राणायतनानि प्रतिमन्त्रं शुन्धति शोधयति अद्भिः स्पृशतीति सूत्रार्थः । पशुदेवत्यानि । हे पशो, अहं ते तव वाचं वागिन्द्रियं शुन्धामि | शोधयामि । एवमग्रेऽपि प्राणं प्राणवायुं प्राणेन्द्रियं चक्षुरिन्द्रियं श्रोत्रेन्द्रियं नाभिं नाभिच्छिद्रं मेढ्रं लिङ्गम् पायुं गुदम् चरन्ति गच्छन्त्येभिरिति चरित्राः पादाः एवं त्वदीयानि सर्वेन्द्रियाणि शुन्धामि ॥ १४ ॥

पञ्चदशी।
मन॑स्त॒ आ प्या॑यतां॒ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां॒ चक्षु॑स्त॒ आ प्या॑यतां॒ᳪं᳭ श्रोत्रं॑ त॒ आ प्या॑यताम् । यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आ प्या॑यतां॒ निष्ट्यायतां॒ तत्ते॑ शुध्यतु शमहो॑भ्यः । ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ᳪं᳭ हिᳪं᳭सीः ।। १५ ।।
उ०अध्वर्युयजमानौ पशुमाप्याययतः। मनस्ते मनः ते तव आप्यायतां हे पशो । एवं वागादीन्यपि व्याख्येयान्यङ्गानि । यत्ते क्रूरम् । यत् तव हे पशो, क्रूरं विकृतमशान्तं वा । यच्चावयवरूपमास्थितम् अध्यवसितम् शमित्रा यत्र स्थितः शमितेत्यर्थः । तत् आप्यायताम् निष्ट्यायताम् । 'ष्ट्यै संघाते' । संहतं भवतु संहननं भवतु । तत्ते शुध्यतु । तच्च तव शुध्यतु । जघनेन पशुमुदकं निनयतः । शमहोभ्यः शं सुखम् अहरादिभ्यः कालविशेषेभ्यः अस्माकमस्त्विति शेषः। पशोर्वा अहरादिभ्यः सुखं भवतु । अग्रेण नाभिं तृणं निदधाति । ओषधे त्रायस्व व्याख्यातः । प्रज्ञातयाऽभिनिदधाति । स्वधिते मैनम् । व्याख्यातः ॥ १५॥
म० शेषेण यजमानस्य शिरःप्रभृत्यनुषिञ्चतो मनस्त इति शिर इति' (का० ६ । ६ । ४-५)। पान्नेजनशेषेण यजमानः चकारादध्वर्युश्च पशोः शिरआद्यङ्गान्यनुषिञ्चतः । तत्र शिरसो मन्त्रमाह मनस्त इति शिर इति सूत्रार्थः । पशुदेवतानि हे पशो, ते तव मनः आप्यायतां शाम्यतु । विलिङ्गत्वादस्य विनियोग उक्तः । वाक्त आप्यायतामित्यादिमन्त्राणां लिङ्गादेव विनियोगः सिद्ध इति सूत्रकृता नोक्तः । वाक्त इति मुखं प्राणस्त इति नासिके चक्षुस्त इति चक्षुषी श्रोत्रं त इति कर्णौ एतानि मुखादीनि तव शाम्यन्तु । 'यत्ते क्रूरमित्यङ्गानीति' (का० ६।६।६)। सर्वाङ्गान्यवशिष्टान्यनुषिञ्चत इत्यर्थः । हे पशो, यत्ते तव क्रूरं बन्धननिरोधादिकं क्रूरमस्माभिः कृतं यच्च आस्थितं छेदादिकं कर्तुमुपस्थितं शमित्रा तत्सर्वं ते तवाप्यायतां शाम्यतु । किंच तत्सर्वं निष्ट्यायतां संहतं भवतु। 'ष्ठ्यै संघाते' अनुन्नं भवत्वित्यर्थः । तत्सर्वं तव शुध्यतु शुद्धं भवतु। 'शमहोभ्य इति पश्चात्पशोर्निषिञ्चत इति' (का० ६।६।७) पशोर्जघनदेशे पान्नेजनशेषमुभावपि निषिञ्चतामिति सूत्रार्थः । अहोभ्यः दिवसादिकालविशेषेभ्यः शं सुखमस्माकं पशोर्वा भूयादिति शेषः । 'उत्तानं पशुं कृत्वाग्रेण नाभिं तृणं निदधात्योषध इति' (का० ६ । ६ । ८)। नामेरग्रेऽङ्गुलचतुष्टये तृणं निदध्यादिति सूत्रार्थः । मन्त्रो व्याख्यातः (अ० ४ क. १)। 'स्वधित इति प्रज्ञातयाभिनिधाय छित्त्वेति' । (का० ६।६।९)। प्रज्ञातया प्रस्तुतया कृतचिह्नया घृताक्तयासिधारयाभिनिधाय तृणोपर्यसिधारां निधाय तूष्णीं सतृणामुदरत्वचं छिन्द्यादिति सूत्रार्थः । एनं पशुं स्वधिते मा हिंसीः ॥ १५॥

षोडशी।
रक्ष॑सां भा॒गो॒ऽसि॒ निर॑स्त॒ᳪं᳭ रक्ष॑ इ॒दम॒हᳪं᳭ रक्षो॒ऽभिति॑ष्ठामी॒दम॒हᳪं᳭ रक्षोऽव॑बाध इ॒दम॒हᳪं᳭ रक्षो॑ऽध॒मं तमो॑ नयामि ।
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्णु॑वाथां॒ वायो॒ वेस्तो॒काना॑मग्निराज्य॑स्य वेतु॒ स्वाहा॒ स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ।। १६ ।।
उ० रक्षसां भागः । व्याख्यातम् । अपास्यति । निरस्तᳪं᳭ रक्षः । 'असु क्षेपणे' निक्षिप्तं रक्षः । यजमानोऽभितिष्ठति । इदमहम् । यदेतत्तृणमभितिष्ठामि तदिदमहं रक्षः अभितिष्ठामि । न केवलमभितिष्ठामि किंतर्हि, इदमहं रक्षः अवा चीनं बाधे । एवमेव इदमहं रक्षः अधमम् अध्यानलक्षणं निकृष्टं तमो नयामि । वपाश्रपण्यावाच्छादयति वपया । घृतेन द्यावापृथिवी । वपाश्रपण्यौ द्यावापृथिव्यावध्यास्ते उच्येते। हे द्यावापृथिव्यौ, युवां घृतेन उदकेन आत्मानं प्रोर्णुवाथाम् । 'ऊर्णुञ् आच्छादने' । आच्छादयेथां परस्परम् । आहुतिपरिमाणाभिप्रायमेतत् । तथाचोक्तम् । 'ते वा एते आहुती हुते उत्क्रामतः' इत्युपक्रम्य 'आहुतिपरिमाणमिदं जगदिति' । तृणाग्रमध्वर्युराहवनीये प्रास्यति । वायो वेः तोकानाम् । हे वायो, वेः । 'विद ज्ञाने' अस्य 'दश्च' इति रुत्वे कृते रूपम् । विद्धि अवगतार्थो भव । स्तोकानां विप्रुषां वपासंबन्धिनाम् । ते ह्यत्र प्रतिष्ठन्ति । वपामभिघारयति । अग्निराज्यस्य । आहवनीयोऽग्निः आज्यस्य घृतस्य वेतु पिबतु स्वाहा सुहुतमेतद्धविर्भवतु । वपाश्रपण्यावनुप्रास्यति । स्वाहाकृते । हे वपाश्रपण्यौ युवां स्वाहाकृते सत्यौ आहुतिभावमुपगते सत्यौ ऊर्ध्वनभसम् ऊर्ध्वं नभ आकाशो यस्य स ऊर्ध्वनभाः तमूर्ध्वनभसं आकाशं मारुतं वायुं वा गच्छतम् प्राप्नुतम् । वायुर्हि प्रतिष्ठा यज्ञस्य ॥ १६ ॥
म० 'अग्रᳪं᳭सव्ये कृत्वा दक्षिणेन मूलमुभयतोऽनक्ति | लोहितेन रक्षसामिति' (का० ६ । ६ । ९) । यत्तृणं नाभ्यग्रे | स्थापितं तस्य छिन्नस्य तृणस्याग्रं वामहस्तेन धृत्वा दक्षिणहस्तेन मूलं धृत्वा तद्विगुणीकृत्याग्रे मूले च पशुच्छेदननिष्पन्नेन रक्तेनाञ्ज्यादिति सूत्रार्थः । रक्षोदेवत्यम् । हे लोहिताक्त तृण, त्वं रक्षसां भागोऽसि । 'निरस्तमित्यपास्यतीति' (का० ६।६।१०)। लोहिताक्तं तृणमुत्करे त्यजेदिति सूत्रार्थः । यद्यज्ञविघातकं रक्षोऽस्ति तन्निरस्तं परित्यक्तम् । 'इदमहमित्यभितिष्ठति यजमान इति' (का० ६ । ६ । ११) । उत्करे क्षिप्तं रुधिराक्तं तृणं यजमानोऽभितिष्ठतीति सूत्रार्थः । यत्तृणरूपं रक्षोऽध्वर्युणा निरस्तं तदिदं रक्षोऽहं यजमानोऽभितिष्ठामि अभितः पादेनोत्क्रम्य तिष्ठामि । न केवलमभितिष्ठामि किंतु अहमिदं रक्षोऽवबाधे अवाचीनं यथा भवति तथा नाशयामि । किंच अहमिदं रक्षोऽधममत्यन्तनिकृष्टं तमो नरकं नयामि प्रापयामि । 'वपामुत्खिद्य वपाश्रपण्यौ प्रोर्णोति घृतेन द्यावापृथिवी इति' ( का० ६ । ६ । १२) । पशूदराद्वपां निष्काश्य तया वपया वपाश्रपण्यावाच्छादयेदिति सूत्रार्थः । वपाश्रपण्योर्द्यावापृथिव्यावध्यस्ते उच्यते । हे द्यावापृथिवी, युवां घृतेनोदकेनात्मानं प्रोर्णुवाथामाच्छादयेथां परस्परम् । 'ऊर्णुञ् आच्छादने' । आहुतिपरिणामाभिप्रायमेतत् । तथा चोक्तं ते वा एते आहुती हुते उत्क्रामत इत्युपक्रम्याहुतिपरिणाममिदं जगदिति । तृणाग्रं चाध्वर्युर्वायो वेरिति' ( ६ । ६ । १५)। वामहस्तधृतं तृणाग्रमाहवनीये क्षिपेदिति सूत्रार्थः । वायुदेवत्यम्। हे वायो, त्वं स्तोकानां वपासंबन्धिनां विप्रुषां वेः कर्मणि षष्ठी । स्तोकान्विद्धि जानीहि ज्ञात्वा च पिबेत्यर्थः । ते ह्यत्र तिष्ठन्ति । 'विद ज्ञाने' इत्यस्य लुङि मध्यमैकवचने 'दश्च' (पा० ८।२।७५) इति दस्य रुत्वे कृते रूपम् । अडभाव आर्षः। वेः विद्धि । 'वपाᳪं᳭स्रुवेणाभिघारयत्यग्निराज्यस्येति' (का. ६i६।१७) । अग्निराहवनीयः आज्यस्य वेतु आज्यं पिबतु स्वाहा सुहुतमस्तु । 'हुत्वा वपाश्रपण्यावनुप्रास्यति प्राचीं विशाखां प्रतीचीमितरां स्वाहाकृते इति' (का० ६। ६ । २८) वपां हुत्वोत्तरत उपविश्य वपाश्रपण्यावाहवनीय एव क्षिपेत् । तत्प्रकारः विशाखां द्विशृङ्गां प्रागग्रां क्षिपेदितरामेकशृङ्गां प्रत्यगग्रामिति सूत्रार्थः । स्वाहाकारेणाहुतिभावमुपगते सत्यौ युवां मारुतं गच्छतं वायुं प्राप्नुतां । वायुर्हि प्रतिष्ठा यज्ञस्य । किंभूतम् । ऊर्ध्वनभसमूर्ध्वं नभ आकाशो यस्य स ऊर्ध्वनभाः तं नभोमध्ये वर्तमानमित्यर्थः ॥ १६ ॥

सप्तदशी।
इ॒दमा॑प॒: प्र व॑हताव॒द्यं च॒ मलं॑ च॒ यत् । यच्चा॑भिदु॒द्रोहानृ॑तं॒ यच्च॑ शे॒पे अ॑भी॒रुण॑म् ।
आपो॑ मा॒ तस्मा॒देन॑स॒: पव॑मानश्च मुञ्चतु ।। १७ ।।
उ० चात्वाले मार्जयन्ते इदमापः । त्र्यवसाना महापरिङ्क्तिदेवत्या पावमानश्चान्त्यः पादः । हे आपः, इदं पशुसंज्ञपननिमित्तं पापं प्रवहत अपनयत । किंच अवद्यं च अवदनीयं च यत् अभिशापादि मलं च यत् यच्च मलं शरीरसंलग्नं प्रसिद्धं तच्च प्रवहत । यच्चाभिदुद्रोहानृतम् । 'दुह जिघांसायाम्' । यदपि चाभिद्रुग्धवानस्मि असत्यमुच्चार्य । यच्च शेपे अभीरुणम् । आक्रोशेन यच्च शपितवानस्मि अभीरुणमनपराधिनम् । अनपराधी हि न बिभेति । यद्वा अभिलुनाति छिनत्ति कर्माणि यदुच्चरितं सत् तदभीरुणम् । आपः मां तस्मात् एनसः पापात् पवमानश्च मुञ्चतु । पवमानः सोमो वायुर्वा मां मुञ्चतु पृथक्करोतु ॥ १७ ॥
म० 'चात्वाले मार्जयन्ते सपत्नीका इदमापः प्रवहतेति' (का० ६ । ६ । २९)। सर्वे ऋविजश्चात्वालसमीपेऽद्भिरात्मानमभ्युक्षन्तीति सूत्रार्थः । अब्देवत्या त्र्यवसाना महापङ्क्तिः पावमानश्चान्त्यः पादः । यस्याः षट् पादा अष्टाक्षराः सा महापङ्क्तिः । हे आपः, इदं पशुसंज्ञपननिमित्तं पापं प्रवहत । किंच यच्चावद्यमवदनीयमभिशापादि यच्च मलं शरीरलग्नं प्रसिद्धं तच्च प्रवहत अपनयत। किंच यदहमनृतमसत्यमुक्त्वाभिदुद्रोह द्रुग्धवानस्मि 'द्रुह जिघांसायाम्' यच्चाहमभीरुणं बिभेतीति भीरुर्नभीरुरभीरुस्तमभीरुणमनपराधिनमनपराधिनमपराधी हि बिभेति एवंविधं शेपे शपितवानस्मि । अनपराधिनं प्रति यन्मयाभिशापो दत्तः आपः तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्कुर्वन्तु पवमानश्च सोमो वायुर्वा तस्मात्पापान्मां मुञ्चतु ॥ १७ ॥

अष्टादशी।
सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेड॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒
सम॑रिण॒न्वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रᳪं᳭ह्या॑ ऊ॒ष्मणो॑ व्यथिष॒त् प्रयु॑तं॒ द्वेष॑: ।। १८ ।।
उ० पशुहृदयमभिधारयति । सं ते मनः । संगच्छतां ते तव मनः मनसा । अनेन पृषदाज्येनाभिघारितम् । संगच्छतां च प्राणः प्राणेन पृषदाज्येनाभिघारितस्य पशोः प्राणः । वसां गृह्णाति रेडसि । रिषतिर्हिंसार्थः । या त्वं रिष्टासि हिंसितेवाभासि अल्पत्वात् । अल्पत्वं च पूष्णः श्रुतिः प्रतिपादयति । रेडसीति लेलयेव हियूः । लेलयशब्दश्चाल्पवचनः अग्निष्ट्वा श्रीणातु । यां च त्वामग्निः श्रपयन् श्रीणाति भूयसीकरोति । आपः त्वा समरिणन् । यां च त्वामापः समरिणन्समभरन् । रिणातिर्बिभर्त्यर्थे । आपो हि पच्यमानेभ्यः पश्वङ्गेभ्यः यं रसमाददते सा वसेत्युच्यते । तां त्वां वातस्य ध्राज्यै । गृह्णामीति शेषः । ध्राजिर्गतिः । वातस्यान्तरिक्षेण गतिर्भवत्विति । पूष्णो रᳪं᳭ह्यै । पूषा आदित्यः । रंहतिर्गत्यर्थः । आदित्यस्य द्युलोकेन गतिर्भवत्विति गृह्णामि । ऊष्मणो व्यथिषत् । ऊष्मा अन्तरिक्षम् । तद्धि ब्रह्मण ऊष्मेव । अन्तरिक्षार्धं च वसा गृह्यते । होममन्त्रे अन्तरिक्षस्य हविरसीति लिङ्गात् । ऊष्मणोऽन्तरिक्षस्य या भोक्त्री शक्तिस्ता व्यथिषत् व्यथतु । इयं वसान्तरिक्षस्य तृप्तिं कृत्वातिरिक्ता भवत्वित्यर्थः । अन्तरिक्षे च तृप्ते तत्प्रभवत्वाद्वायुसूर्ययोरपि स्वकर्मक्षमता भवति । तस्मादुच्यते वातस्य त्वा ध्राज्या इत्यादि । प्रयौति । प्रयुतं द्वेषः । 'द्विष अप्रीतौ' । निवृत्तं पृथग्भूतं । वसाया द्वेषः ॥ १८॥
म०. 'सं ते मन इति हृदयमभिघार्य सर्वमिति' (का० ६।८।६) जुहूस्थेन पृषदाज्येन पूर्वं हृदयमभिघार्य तूष्णीं सर्वं पशुमभिघारयेदिति सूत्रार्थः । हृदयदेवत्यम् । हे हृदय, ते तव पशोर्मनः देवानां मनसा सङ्गच्छताम् पृषदाज्येनाभिघारितं सत् । ते तव प्राणोऽपि देवानां प्राणेन सङ्गच्छतां सङ्गतोऽस्तु अभिघारितः । 'रेडसीति वसां गृहीत्वेति' (का० ६। ८ । १२) । मांसपाकभाण्डे स्थितः स्नेहात्मको द्रवविशेषो वसा तां गृह्णीयादिति सूत्रार्थः । वसादेवत्यम् । हे वसे । त्वं रेट् असि । रिषतिर्हिंसार्थः कर्मणि विच् । रिष्टासि हिंसितेवाभासि अल्पत्वात् । पूष्णोऽल्पत्वं श्रुत्योक्तम् । 'रेडसीति लेलयेव हि यूरिति' (३ । ८ । ३ । २०) लेलयाशब्दश्चाल्पवाचकः । अग्निः त्वा त्वां श्रीणातु 'श्री पाके' क्र्यादिः । श्रपयन् भूयसीं करोति । यद्वाग्निराहवनीयस्त्वां श्रीणातु स्वीकरोतु । किंच आपः त्वा त्वां समरिणन् ‘रो बधे गतौ' क्र्यादिः । अत्र | रिणातिर्बिभर्त्यर्थे । समभरन्नपुष्णन् । यद्वा आपः त्वां समरिणन् सम्यक् प्राप्नुवन्तु । तव शोषो मा भूदित्यर्थः । आपो हि पञ्चमानेभ्यः पश्वङ्गेभ्यो यं रसमुत्पादयन्ति सा वसेत्युच्यते । तां त्वां गृह्णामीति शेषः । किमर्थम् । वातस्य ध्राज्यै गत्यै वातस्यान्तरिक्षे गतिर्भवत्विति । तथा पूष्णो रंह्यै आदित्यस्य गत्यै । रंहतिर्गत्यर्थः । आदित्यस्य द्युलोके गतिर्भवत्विति वाय्वादित्ययोरप्रतिहतगमनसिद्ध्यर्थं त्वां गृह्णामीत्यर्थः । किंच ऊष्मणो व्यथिष्यत् । ऊष्मान्तरिक्षं तद्धि ब्रह्मण ऊष्मेव ऊष्माणमन्तरिक्षं वसा व्यथरतु कर्मणि षष्टी । यद्वा व्यत्ययेन प्रथमार्थे षष्ठी । ऊष्मा व्यथिष्यत् व्यथतां । वसां पीत्वा तृष्णाधिक्येन यथा सीदति । वसारूपं हविस्तथाविधं भवत्वित्यर्थः । हि वसा गृह्यते होममन्त्रे अन्तरिक्षस्य हविरसीति लिङ्गात् । इयं वसाऽन्तरिक्षस्य तृप्तिं कृत्वातिरिक्ता भवत्वित्यर्थः । अन्तरिक्षे च तृप्ते तत्प्रभवत्वाद्वायुसूर्ययोरपि स्वकर्मक्षमता भवति तस्मादुच्यते वातस्य ते ध्राज्या इत्यादि । 'व्यथ भयचलनयोः' अस्य 'लिङर्थे लेट्' (पा. ३ । ४ । ७) इति । लेटि 'सिब्बहुलं लेटि' (पा० ३ । ४ । ३४) इति । सिप्प्रत्यये 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इति । तिप इकारलोपे 'लेटोऽडाटौं' (पा० ३ । ४ । ९४) इति अडागमे व्यथिषदिति रूपम् । 'द्विरभिघार्य प्रयुतमिति पार्श्वेन सᳪं᳭सृजत्यसिना वेति' ( का०६। ८ । १२) वसां द्विरभिघार्य पार्श्वेनासिना वाज्यं वसां च मिश्रयेदिति सूत्रार्थः । द्वेषो दौर्भाग्यं प्रयुतं पृथग्भूतं वसायाः सकाशाद्घृतमिश्रणेन ॥ १८ ॥

एकोनविंशी।
घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबता॒न्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ।
दिश॑: प्र॒दिश॑: आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ ।। १९ ।।
उ० वसां जुहोति । घृतं घृतपावानः । वसायां हि घृतं विद्यते द्विरभिघारणस्य विहितत्वात् । अतएवमाह । घृतं पिबत हे घृतपावानः । 'धेट् पाने' । 'आतो मनिन्क्वनिप्' इत्यादिना वनिप् । पातार उपभोक्तारः । वसां पिबत हे वसायाः पातारः । हे वसे, त्वम् अन्तरिक्षस्य हविरसि स्वाहा सुहुतमेतद्धविर्भवतु । दिशो व्याघारयति । दिशः प्रदिशः । अत्र स्वाहाकारः सर्वत्र साकाङ्क्षत्वादिति कात्यायनः । अतएवं व्याख्या । दिग्भ्यः स्वाहा प्रदिग्भ्यः स्वाहा । आदिग्भ्यः स्वाहा । विदिग्भ्यः स्वाहा । उद्दिग्भ्यः स्वाहा । दिग्भ्यः स्वाहा इति ॥ १९॥
म०. 'वसैकदेशं जुहोमि घृतं घृतपावान इति' ( का० ६। ८ । १७) । वसाहोमहवन्या वसाया एकदेशं जुहुयादिति सूत्रार्थः । वैश्वदेवं यजुः । वसाया द्विरभिघारितत्वाद्धृतमस्ति तत्र । अत एवमाह । हे घृतपावानः, घृतं पिबन्तीति घृतपावानः 'पा पाने' । 'आतो मानिन्' (पा० २ । २ । ७४ ) इत्यादिना वनिप् । घृतस्य पातारो देवाः, यूयं घृतं पिबत । हे वसापावानः वसायाः पातारो देवाः, यूयं वसां पिबत । एवं देवानुक्त्वा वसामाह हे वसे, त्वमन्तरिक्षस्य हविरसि स्वाहा सुहुतमस्तु । 'दिशो व्याघारयति वसाशेषेण वाजिनवदिति' (का० ६ । ८ । २१)। यथा वाजिनशेषेण दिग्व्याघारणमुक्तं तथेत्यर्थः । तद्यथा 'दिशो व्याघारयति दिश इति प्रतिमन्त्रं प्रदक्षिणं पुरस्तात्प्रथममुत्तमाभ्यां मध्ये पूर्वार्धे चेति' ( का० ४ । ४।१६-१७)। षट् दिग्देवतानि अत्र 'स्वाहाकारः सर्वत्र साकाङ्क्षत्वादिति' (का० ४ । ४ । १८) वचनात् स्वाहा सर्वत्र युज्यते । दिग्भ्यः स्वाहा प्रदिग्भ्यः स्वाहा आदिग्भ्यः स्वाहा विदिग्भ्यः स्वाहा उद्दिग्भ्यः स्वाहा सर्वाभ्यो दिग्भ्यः सुहुतमस्त्वित्यर्थः ॥ १९ ॥

विंशी।
ऐ॒न्द्रः प्रा॒णो अङ्गे॑ अङ्गे॒ नि दी॑ध्यदै॒न्द्र उ॑दा॒नो अङ्गे॑ अङ्गे॒ निधी॑तः । देव॑ त्वष्ट॒र्भूरि॑ ते॒ सᳪं᳭ स॑मेतु॒ सल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति ।
दे॑व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ।। २० ।।
उ० पशुं संमृशति । ऐन्द्रः प्राणः । इन्द्र आत्मा तस्य स्वभूतः प्राणः ऐन्द्रः प्राणः। अस्य पशोः अङ्गे अङ्गे। वीप्सा। यावन्ति पशोरङ्गानि तेषु सर्वेषु । निदीध्यत् 'दीधीङ् दीप्तिदेवनयोः' इत्यस्य धातोर्दधात्वर्थे वर्तमानात्कर्मणि लकारश्छान्दसः । निधीयते निहितः । ऐन्द्रश्चास्य उदानः अङ्गे अङ्गे निधीतः निहितः । एवं तावदनेन यजुषा पश्वङ्गेषु प्राणं दत्वा अथेदानीं देवत्वष्टरित्यादिकायास्त्रिष्टुभोर्धर्चेन त्वष्टारमाह । त्वष्टा हि रूपाणामीष्टे । हे देव त्वष्टः, भूरि ते सᳪं᳭समेतु । बहुप्रकारं तव संबन्धि रूपं यद्विकृतमसिना तत्संगत्य एकीभवतु । कथंभूतम् । सलक्ष्म समानलक्षणं सत् यद्विषुरूपं भवति तत्समेत्विति संबन्धः। एवं त्वां हे पशो, प्राणैश्चाङ्गैश्चानेन मन्त्रेण कृत्स्नीकृतं सन्तं दृढीकृतं सन्तं देवत्रा यन्तम् देवान् प्रति गच्छन्तम् । अवसे अवनाय प्रीत्यै । सखायः समानख्यानाः पशवः अनुमदन्तु अभ्यनुजानन्तु त्वां मातापितरश्च । बहुवचनं पूजार्थम् ॥ २० ॥
म० 'ऐन्द्रः प्राण इति पशुᳪं᳭संमृशतीति' ( का० ६ । ९।१) पशुरूपं हविः स्पृशेदिति सूत्रार्थः । इन्द्र आत्मा तत्संबन्धी प्राणः प्राणवायुरस्य पशोरङ्गे अङ्गे सर्वेष्वङ्गेषु निदीध्यत् निहितः । 'दीधीङ् दीप्तिदेवनयोः' । अस्य धातोर्दधात्यर्थे वर्तमानात्कर्मणि लेट् परस्मैपदं व्यत्ययेन 'लेटोऽडाटौ' (३ । ४ । ९४ ) इत्यट् । तथा ऐन्द्रः इन्द्रसंबन्धी उदानवायुः पशोः सर्वेष्वङ्गेषु निधीतः निक्षिप्तः ‘धीङ् आदरानादरयोः' । 'अङ्ग इत्यादौ च' (पा० ६ । १ । ११९) इत्यङ्गशब्दस्य एङ् अति प्रकृत्या ॥ एवमनेन यजुषा पश्वङ्गेषु प्राणान्दत्वा त्वष्टारमाह । त्वाष्ट्री त्रिष्टुप् हे त्वष्टः त्वष्टृनामक देव, यत् पश्वङ्गजातं सलक्ष्मा समानलक्षणं सत् छेदनेन विषुरूपं नानारूपं भवाति भवति तत् सर्वं ते तवानुग्रहेण भूरि बहुलमत्यन्तं संसमेतु सम्यगेकीभवतु । 'प्रसमुपोदः पादपूरणे' (पा. ८ । १।६) इति समित्यस्य द्वित्वम् । पुनः पशुमाह । हे पशो, एवं प्राणैः स्वाङ्गैश्चानेन मन्त्रेण दृढीकृतं देवत्रा यन्तं देवान्प्रति गच्छन्तं त्वा त्वां सखायो मित्रभूता इतरे पशवो मातापितरश्च अनुमदन्तु अभ्यनुजानन्तु । बहुवचनं पूजार्थम् । अवसे अवितुं प्रीणयितुम् । तुमर्थे असेप्रत्ययः । यद्वा अवितुं तन्मुखेन स्वर्गप्राप्त्या स्वकुलं सर्वमवितुमित्यर्थः ॥ २० ॥

एकविंशी।
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ ऽन्तरि॑क्षं गच्छ॒ स्वाहा॑ दे॒वᳪं᳭ स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑
ऽहोरा॒त्रे ग॑च्छ॒ स्वाहा॑ छन्दा॑ᳪं᳭सि गच्छ॒ स्वाहा॒ द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॑ य॒ज्ञं ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ दि॒व्यं नभो॑ गच्छ॒ स्वाहा॒ ऽग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्दि॑ यच्छ॒ दिवं॑ ते धू॒मो ग॑च्छतु॒ स्वर्ज्योति॑: पृथि॒वीं भस्म॒नाऽऽपृ॑ण॒ स्वाहा॑ ।। २१ ।।
उ० प्रतिप्रस्थातोपयजति । समुद्रं गच्छ । हविरुच्यते । समुद्रं गच्छ तर्पणायेति शेषः । एवमुत्तरेष्वपि योज्यम् । सुखं विमृष्टे मनो मे मम हार्दि हृदये गच्छ निबध्नीहि । निबध्यमानो हि स्वादायतनान्न च्यवते । 'तथोहोपयष्टात्मानं नानुप्रवृणक्ति' इति श्रुतिः । स्वरुं जुहोति । दिवं ते । स्वरुरुच्यते । द्युलोकं तव धूमो गच्छतु । कृष्ट्यै स्वर्ज्योतिः। स्वःशब्देनादित्योऽभिधीयते । ज्योतिः आदित्यं गच्छतु तव । पृथिवीं च भस्मना आपृण आपूरय स्वाहा ॥ २१ ॥
म० 'प्रतिप्रस्थातोपयजति गुडतृतीयस्य प्रच्छेदमनुयाजेषु समुद्रं गच्छेति प्रतिमन्त्रमिति' (का० ६ । ९ । १० ) अनुयाजेषु हूयमानेषु प्रतिप्रस्थाता पूर्वं स्थापितं गुदतृतीयभागमेकादशधा तिर्यक्प्रच्छिद्य प्रतिमन्त्रं जुहोतीति सूत्रार्थः । हे हविर्गुडावयरूप, त्वं समुद्रादिनामकान्देवान्गच्छ प्राप्नुहि । तर्पणायेति शेषः । स्वाहा सुहुतमस्तु । 'प्रतिवषट्कारᳪं᳭हुत्वा मनो म इति सुखोपस्पर्शनमिति' (का. ६ । ९ । ११) प्रतिवषट्कारमेकैकं हुत्वा सर्वान्ते मुखं स्पृशेदिति सूत्रार्थः । हे समुद्रादिदेवतासमूह, हार्दि हृदयसंबन्धि मे मनो यच्छ निबध्नीहि । निबद्धं मनो हि स्वादायतनान्न च्यवते । 'अनुयाजान्ते स्वरुं जुहोति दिवं ते धूमः इति' (का० ६ । ९ । १२) स्वरुदैवतम् हे स्वरो, ते तव धूमः दिवं द्युलोकं गच्छतु वृष्ट्यै । तव ज्योतिः ज्वाला स्वः आदित्यं गच्छतु । स्वःशब्देनादित्योऽभिधीयतेऽन्तरिक्षं वा । भस्मना पृथिवीमापृण समन्तात्पूरय । स्वाहा सुहुतमस्तु ॥ २१॥

द्वाविंशी ।
माऽपो मौ॑षधीर्हिᳪं᳭सी॒र्धाम्नो॑ धाम्नो राजँ॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ।
सुमि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म: ।। २२ ।।
उ० हृदयशूलमुपगूहति । मापो मौषधीः । इदं वै पशो: संज्ञप्यमानस्येत्युपक्रम्य हृदयशूलं शुक्समवैतीत्युक्तम् । अत एवमुच्यते । मा हिᳪं᳭सीरपः माच ओषधीः हिंसीः । इदानीं वरुणमाह । हे वरुण राजन् , धाम्नोधाम्नः। धामशब्दः स्थानवचनः । यतो यतः पापसमन्वितात्स्थानाद्बिभीमः ततः ततः नोऽस्मान्विमुञ्च । यदाहुः गायत्री वारुणी अनवसाना । यदाहुरघ्न्या इति अघ्न्या गोनाम । प्रकरणादिहानूबन्ध्याविषयं बहुवचनम् । अनूबन्ध्याबहुत्वे अर्थवत् । एकानूबन्ध्यापक्षे तु पूजार्थम् । यद्वेदस्मृतिलोकवाक्यान्याहुः अघ्न्या अवध्या अहन्तव्या वन्द्याः पूजनीया इति । इतिकरणो वाक्यस्यार्थमभिनयेन दर्शयति । वयं तु हे वरुण इति शपामहे । इतिः करणप्रदर्शनार्थः । शपतिर्हिंसार्थः । एवमनेन विधिना हिंस्मः अघ्न्याः अतएव वयं याचामहे । ततो वरुण नो मुञ्च । ततस्तस्मादेनसो वरुण, नः अस्मान्विमुञ्च । | अथाभिमन्त्रयते । सुमित्रियाः साधुमित्रत्वेनावस्थिताः । नः अस्माकं आप ओषधयश्च सन्तु । दुर्मित्रियाः दुष्टमित्रत्वेनावस्थितास्तस्मै सन्तु योऽस्मान्द्वेष्टि शत्रुः यं च शत्रुं द्विष्मो वयम् ॥ २२ ॥
म० 'अभ्यवेत्य शुष्कार्द्रसन्धौ हृदयशूलमुपगूहति शुगसि तमभिशोच योऽस्मान् द्वेष्टि यं च वयं द्विष्मो मापो मौषधीरिति चेति' (का० ६ । १० । ३ ) जले प्रविश्य आलब्धस्य पशोर्हृदयस्थं मांसं यस्मिन् श्रितं स हृदयशूलस्तं शुष्कार्द्रभूप्रदेशयोः सन्धौ निगूहेत् भूमावधोमुखं क्षिपेत् शुगसि माप इति मन्त्राभ्यामिति सूत्रार्थः । हृदयशूलदैवतं यजुः । हे हृदयशूल, त्वमपो जलानि ओषधीश्च मा हिᳪं᳭सीः । 'धाम्नो धाम्नः सुमित्रिया न इत्युपस्पृशन्त्यप इति' ( का० ६ । १० । ५) सर्वे ऋत्विग्यजमाना मन्त्राभ्यां जलं स्पृशन्तीति सूत्रार्थः । वरुणदेवतं यजुः । हे राजन् वरुण, धाम्नो धाम्नः यस्माद्यस्मात् त्वदीयपाशसमन्वितात्स्थानान् वयं बिभीमस्तस्मात्तस्मात्स्थानात् नोऽस्मान्मुञ्च मोचय । यदाहुः । वरुणदेवत्या गायत्री अवसानहीना । अघ्न्या इति गोनाम प्रकरणादिहानूबन्ध्याविषयम् । | बहुवचनमनूबन्ध्याबहुवेऽर्थवत् । एकानूबन्ध्यापक्षेतु पूजार्थम् । अघ्न्या इति यदाहुः वेदस्मृतिलोकवाक्यानि अघ्न्या अहन्तव्या अवध्याः पूजनीया इति वदन्ति । इतिकरणेन वाक्यस्यार्थमभिनयेन दर्शयति । हे वरुण, वयं तु इति शपामहे । इतिकरणं प्रदर्शनार्थम् । शपतिर्हिँसार्थः । इति एवमनेन विधिना अघ्न्या हि स्मः । अतएव त्वां याचामहे हे वरुण, ततस्तस्मादघ्न्या वधजातादेनसो नोऽस्मान्मुञ्च मोचय । सुमित्रियाः आपः ओषधयश्च नोऽस्माकं सुमित्रियाः साधुमित्रत्वेनावस्थिताः सन्तु । यः शत्रुरस्मान्द्वेष्टि वयं च यं शत्रुं द्विष्मः द्वेषं कुर्मः तस्मै उभयात्मकाय शत्रवे आप ओषधयश्च दुर्मित्रियाः अमित्रत्वेनावस्थिताः सन्तु । धाम्नो धाम्न इति मन्त्रः शूलोपगूहनमन्त्रस्य शेषो वा । सुमित्रिया इति मन्त्रोऽपामभिमन्त्रणे वा ॥ २२ ॥

एवमग्नीषोमीयः पशुः समाप्तः ।

त्रयोविंशी।
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒२ आ वि॑वासति । ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्माँ॑२ अस्तु॒ सूर्य॑: ।। २३ ।।
उ० वसतीवरीर्गृह्णाति । 'हविष्मतीः' अनुष्टुप् लिङ्गोक्तदेवता । हविष्मतीः हविषा संयुक्ता इमा आपः । 'यत्र वै यज्ञस्य शिरश्छिद्यते तस्य रसो द्रुत्वापः प्रविवेश' इत्येतदभिप्रायम् । हविष्मान् हविषा संयुक्तो यजमान आविवासति । विवासतिः परिचर्यायाम् । परिचरणं शुश्रूषा । इमा आपः हविष्मान् हविषा संयुक्तो देवोध्वरो यज्ञः आभिरद्भिः । हविष्मान् अस्तु सूर्यः । एतस्मै वै गृह्णाति य एष तपतीत्येतदभिप्रायम् ॥ २३ ॥
म० अथ सोमाभिषवोपयुक्तानां वसतीवरीसंज्ञानामपां ग्रहणमभिधीयते । 'अग्नीषोमीयस्य वपामार्जनान्ते वसतीवरीग्रहणᳪं᳭स्यन्दमानानामनस्तमितेऽस्तमितश्चेन्निनाह्यात्पुरेजानश्चेदनीजानोऽन्यस्यापि समीपावसितस्य पुरेजानस्योभयाभाव उल्कुषीᳪं᳭हिरण्यं वोपर्युपरि धारयन् हविष्मतीरिति' (का० ८ । ९।७।१०) अग्नीषोमीयस्य पशोर्वपामार्जनपर्यन्ते कर्मणि कृते अनस्तंगते रवौ वहन्तीनामपामेकदेशाद्वसतीवरीसंज्ञानां सीमार्थानामपां ग्रहणं कार्यं हविष्मतीरिति मन्त्रेण । यदि रविरस्तं गतो यजमानश्च पुरा ईजानः सोमयाजी तदा गृहे एव निनाह्यान्मणिकाद्वसतीवरीग्रहणम् । निनहनीयो निखननीयो निनाह्यः । यदि च यजमानः पुरा न सोमयाजी तर्हि समीपस्थितस्य यष्टुर्मणिकाद्ग्रहणम् । स्वस्य अन्नस्य यज्ञकर्तृत्वाभावे उल्कां कनकं वा वहन्तीनामपां समीपे धारयन्वहन्तीभ्यो वसतीवरीर्गृह्णीयादिति सूत्रार्थः । अनुष्टुब्लिङ्गोक्तदेवता । हविष्मान् हविषा संयुक्तो यजमानः हविष्मतीर्हविषा संयुक्ता इमा आपः अपः आविवासति वसतीवरीः परिचरति । विवासतिः परिचर्यायाम् । 'यत्र वै यज्ञस्य शिरोऽच्छिद्यत तस्य रसो द्रुत्वापः प्रविवेश' (३ । ९।२।१) इति श्रुतेरपां हविष्मत्त्वम् । ततो देवो द्योतमानोऽध्वरो यागोऽपि स्वशरीरनिष्पत्तये हविष्मानस्तु आभिरद्भिरित्यर्थः । किंच सूर्योऽपि देवो यजमानस्य फलदानाय तृप्त्यर्थं च हविष्मान्हविःसंपन्नोऽस्तु भवतु । एतस्मै वै गृह्णाति य एष तपति' (३ । ६ । २ । १२) इति श्रुतेर्वसतीवरीभिः सूर्यस्य हविष्मत्त्वम् ॥ २३ ॥

चतुर्विंशी।
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामीन्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ । अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑: स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ।। २४ ।।
उ० शालाद्वार्यमपरेण निदधाति । अग्नेर्वः । अग्नेः वो युष्मान् अपन्नगृहस्य । पद्यतेरेतद्रूपम् । अग्रीणम् (?)।अपतितगृहस्येति पर्यायः। सदसि । सीदन्त्यस्मिन्निति सदः निकटस्थाने सादयामि । दक्षिणस्यामुत्तरवेदिश्रोणौ निदधाति । इन्द्राग्न्योर्भागधेयी स्थ। इन्द्राग्न्योः संबन्धिनो भागस्य धारयित्र्यः स्थ हे आपः । उत्तरस्यामुत्तरवेदिश्रोणौ निदधाति । मित्रावरुणयोर्भागधेयी स्थ । आग्नीध्रे निदधाति । विश्वेषां देवानां भागधेयी स्थ । ऋक् अमूर्याः । अब्देवत्या गायत्री। अभिनयेन दर्शयन्नाह । अमूर्या आपः उप समीपे । सूर्यस्येति विभक्तिव्यत्ययः । याभिर्वा सूर्यः सह । अथापि समुच्चयार्थे भवतीति वाशब्दः समुच्चयार्थीयः । याभिश्चाद्भिः सूर्यः सह याति ता आपः नः अस्माकं हिन्वन्तु । हिन्वतिस्तर्पणार्थः । तर्पयन्तु अध्वरं यज्ञम् ॥ २४ ॥ ।
म० 'अग्नेर्व इति निदधाति शालाद्वार्यमपरेणेति' (का० । ८ । ९ । ११) नूतनगार्हपत्यात्पश्चिमभागे ता वसतीवरीरासादयतीति सूत्रार्थः । चत्वारि यजूंष्यब्देवत्यानि । हे वसतीवर्यः, वो युष्मान् अग्नेः शालाद्वार्यस्य सदसि सीदन्त्यस्मिन्निति सदो निकटस्थानं तत्र सादयामि स्थापयामि । किंभूतस्याग्नेः । अपन्नगृहस्य न पन्नं पतितं गृहं यस्य तस्य । अविनश्वरगृहस्येत्यर्थः । | 'दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्राग्न्योरिति' (का० ८।९।१८) शालाद्वार्यसमीपस्था वसतीवरीरादाय शालादक्षिणद्वारेण नीत्वोत्तरवेदेर्दक्षिणश्रोणौ निदध्यादिति सूत्रार्थः । हे वसतीवर्यः, यूयमिन्द्राग्न्योः इन्द्राग्निदेवतयोः स्थ भागधेय्यो भागरूपा भवथ । भागा एव भागधेय्यः । 'नामरूपभागेभ्यः स्वार्थे धेयप्रत्ययः' (पा० ५। ४ । ३६ ) 'केवलमामक-' (पा० ४ । १।३०) इत्यादिना ङीप् । 'उत्तरस्यां पूर्ववन्मित्रावरुणयोरिति वेति' (का० ८ । ९ । २१-२२) पूर्ववदिन्द्राग्न्योरिति मन्त्रेणैव मित्रावरुणयोरिति मन्त्रेण वोत्तरवेदेरुत्तरश्रोणौ वसतीवरीर्निदध्यादिति सूत्रार्थः । हे वसतीवरीसंज्ञका आपः, यूयं मित्रावरुणयोर्देवतयोर्भागरूपा भवथ । 'विश्वेषां देवानामित्याग्नीध्र इति' ( का० ८ । ९ । २३ ) उत्तरवेदिश्रोणेः सकाशाद्वसतीवरीरादायानीध्रीयस्य पश्चान्निदध्यादिति । सूत्रार्थः । हे वसतीवर्यः, यूयं सर्वेषां देवानां भागरूपा भवथ । । इदानीमभिनयेन दर्शयन्नाह । अमूर्याः ऋक् अब्देवत्या गायत्री
याः प्रसिद्धा अमूरीदृश्यो वसतीवर्याख्या आपः । उपसूर्ये सूर्यसमीपे स्थिताः। विभक्तिव्यत्ययः। याभिर्वा । वाशब्दः समुच्चये। याभिश्चाद्भिः सह सूर्यो याति ता आपो नोऽस्माकमध्वरं यज्ञं हिन्वन्तु तर्पयन्तु । हिन्वतिः तर्पणार्थः ॥ २४ ॥
 
पञ्चविंशी।
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वमि॒मम॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ।। २५ ।।
उ० सोममुपावहरति । हृदे त्वा । सौम्यनुष्टुप् ब्रह्मर्षीया। बह्व्यै निश्चयात्मिकायै । कामाय एतन्मम स्यादिति । त्वां सोममुपावहरामि । दिवे त्वा । हे सोम, देवलोकप्राप्तये त्वामुपावहरामि । सूर्याय सूर्यप्रमुखेभ्यो देवेभ्यः हे देवसोम, त्वामुपावहरामि । त्वं चोपावहृतोऽभिष्टुत ऊर्ध्वमिममध्वरं यज्ञं कृत्वा दिवि देवलोके देवेषु च होत्राः । वषट्कारयाजिनोऽब्रह्मर्षयो होत्रा उच्यन्ते । यच्छ निबध्नीहि ॥ २५ ॥
म० 'आज्यासादनात्कृत्वेषान्तरेणार्धसोममद्रिषु संमुखेषु निदधाति हृदे त्वेति' (का० ९ । १ । ५) आज्यासादनपर्यन्तं कर्म कृत्वा सोममादाय हविर्धाने गत्वा सोमं विस्रस्य तदर्धं दक्षिणशकटेषान्तरालेन संमुखेष्वभिषवार्थपाषाणेषु निदध्यात् । अश्मनां स्थूलो भागो मुखमिति सूत्रार्थः । सोमदेवत्यानुष्टुप् । हे सोम, हृदे बुद्ध्यै निश्चयात्मिकायै एतन्मम स्यादिति कामरूपायै वा त्वामुपावहरामीति शेषः । मनसे संकल्पविकल्पात्मकाय त्वामुपावहरामि । त्वाशब्दानामावृत्त्या क्रियावृत्तिर्बोध्या । दिवे द्युलोकप्राप्तये त्वामुपावहरामि । सूर्याय सूर्यमुखेभ्यो देवेभ्यस्तत्तृप्तये त्वामुपावहरामि । यद्वायमर्थः । हे सोम, हृदे हृदयवद्भ्यो मनुष्येभ्यः । मनसे मनस्विभ्यः पितृभ्यः दिवे द्युलोकवासिभ्यो देवेभ्यो विशेषतः सूर्याय च त्वामुपावहरामीति शेषः । एतदर्थे तित्तिरिः ‘स वा अध्वर्युः सोममुपावहरन्सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्याह देवेभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनᳪं᳭ सर्वाभ्य उपावहरतीति' । किंच एवमुपावहृतोऽभिषुतश्च त्वमिममध्वरं मदीयं यज्ञमूर्ध्वमुत्कृष्टं कृत्वा दिवि द्युलोकवर्तमानेषु देवेषु होत्राः वषट्कारवादिनः सप्त होतृकान् यच्छ निबध्नीहि ॥ २५ ॥

षड्विंशी।
सोम॑ राज॒न् विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ।
शृ॒णोत्व॒ग्निः स॒मिधा॑ ह॒वं मे॑ शृण्व॒न्त्वापो॑ धि॒षणा॑श्च दे॒वीः ।
श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञं शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ।। २६ ।।
उ० किंच हे सोमराजन् , विश्वा सर्वाः त्वं प्रजा उपावरोह अधितिष्ठ आधिपत्याय राज्याय । विसृज्योपतिष्ठते। विश्वास्त्वां प्रजा उपावरोहन्तु प्रत्युत्थानाभिवादादिभिः । जुहोति । शृणोत्वग्निः । त्रिष्टुप् लिङ्गोक्तदेवता । शृणोत्वनुजानात्वग्निः । समिधा समित्पूर्विकयाहुत्या । हवमाह्वानम् । मे मम । शृण्वन्त्वापः धिषणाश्च वाचः धीसादिन्यो वा धीमानिन्यो वा । | देवीर्देव्यः । चशब्दः समुच्चयार्थः । श्रोता ग्रावाणः । यूयमपि शृणुत हे ग्रावाणः । कथमिव विदुषो न यज्ञम् । उपमार्थीय उपरिष्टादुपाचारो नकारः । विदितार्थ इव परिदृष्टकारिणो यज्ञम् । प्रत्यक्षकृतः पादो मध्यमपुरुषयोगात् । | शृणोतु देवः सविता हवमाह्वानं मे मम स्वाहा सुहुतमस्तु । स्वाहा वागाह ॥ २६ ॥
म० किंच । हे सोम राजन् , विश्वाः सर्वाः प्रजा उपावरोह आधिपत्यं प्रजानां कुर्वित्यर्थः । 'विश्वास्त्वामिति विसृज्योपतिष्ठत इति' ( का० ९ । १ । ६) ग्रावसु स्थापितं सोमं विमुच्योपस्थापनं कुर्यादिति सूत्रार्थः । हे सोम, विश्वाः सर्वाः प्रजाः त्वामुपावरोहन्तु प्रत्युत्थानाभिः प्राप्नुवन्तु । 'अभूदुषा रुशत्पशुरित्युच्यमाने चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति' (का० । ९ । २ । २४) अभूदिति मन्त्रे होत्रा शस्यमाने चतुर्गृहीतमाज्यं प्रचरणीसंज्ञया स्रुचाध्वर्युरतिप्रणीते जुहोतीति सूत्रार्थः । त्रिष्टुब्लिङ्गोक्तदेवता । अग्निः समिधा समित्पूर्विकया आहुत्या मे हवं मदीयमाह्वानं शृणोतु । आपो ममाह्वानं शृण्वन्तु । चकारः समुच्चयार्थः । धिषणा देवीः वाचो देव्यश्च मे हवं शृण्वन्तु । 'धिषणा धीसादिन्यो वा धीमानिन्यो वा' (निरु० ।८।४) इति यास्कः । धियं सन्वन्ति ददति धिषणाः ‘षणु दाने' तनादिः । तृतीयः पादः प्रत्यक्षकृतो मध्यमपुरुषयोगात् । हे ग्रावाणः, अभिषवार्थमिहोपस्थिता यूयं मम हवं श्रोत शृणुत । 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) लोण्मध्यमपुरुषबहुवचनस्य | तवादेशे गुणे विकरणव्यत्यये च श्रोतेति रूपम् । संहितायां तु दीर्घः । विदुषो न । न इवार्थे विभक्तिव्यत्ययः । विद्वांसो यज्ञमिव यथा विद्वांसः प्रत्यक्षतो जानन्तो यज्ञं शृण्वन्ति तथा यूयं हवं शृणुत । तथा सविता देवः मे मम हवं शृणोतु । स्वाहा सुहुतमस्तु स्वाहा वागाहेति वा ॥ २६ ॥

सप्तविंशी।
देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्य॒ इन्द्रि॒यावा॑न् म॒दिन्त॑मः ।
तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त शुक्र॒पेभ्यो॒ येषां॑ भा॒ग स्थ॒ स्वाहा॑ ।। २७ ।।
उ० अप्सु जुहोति । देवीरापः पतिरब्देवत्या । हे देव्यः आपः अपान्नपात्संज्ञकाः, यो वः युष्माकमूर्मिः अप्संघातः कल्लोलः हविष्यः यज्ञियः । इन्द्रियावान् । इन्द्रियशब्देन वीर्यमभिधीयते । इन्द्रियावान्वीर्यवान् । छान्दसं दीर्घत्वम् । मदिन्तमः मदयितृतमः तर्पयितृतमः मृष्टत्वेन । तमूर्मिं देवेभ्यो देवत्रा । 'देवमनुष्य-' इत्यादिना त्राप्रत्ययः । देवान्प्रति यायिनं दत्त प्रयच्छत । शुक्रपेभ्यः शुक्रशब्द उपलक्षणार्थः । शुक्रादिसोमग्रहपातृभ्यो देवेभ्यः येषां च देवानां यूयं भागः स्थ भवत तेभ्यो दत्तेति संबन्धः ॥ २७ ॥
म० 'आपो गत्वा देवीराप इत्यप्सु जुहोतीति' ( का ९ । ३ । ७ ) यच्चतुर्गृहीतमाज्यं सहनीतं तज्जलं प्रति गत्वा जुहोतीति सूत्रार्थः । अब्देवत्या पङ्क्तिः पञ्चपदा चलारिंशद्वर्णा पङ्क्तिः । अत्र द्वितीयः सप्ताक्षरः तुर्यपञ्चमौ नवार्णौ तेनैकाधिका स्वाहेति यजुः । हे आपो देवीः देव्यः, वो युष्माकमपांनपात् अपत्यरूपो योऽयमूर्मिरप्सङ्घातः कल्लोलोऽस्ति देवत्रा देवान्प्रति यायिनं तमूर्मिं देवेभ्यो दत्त प्रयच्छत । येषां देवानां यूयं भागः स्थ भागरूपा भवथ । किंभूत ऊर्मिः । हविष्यः तथा इन्द्रियावान् इन्द्रियं वीर्यमस्यास्तीति इन्द्रियावान् । दीर्घश्छान्दसः । प्रीतः सन्निन्द्रियवीर्यवृद्धिकारी । तथा मदिन्तमः मदयतीति मदी अतिशयेन मदी मदिन्तमः पीयमानोऽत्यन्तहर्षकारी तर्पयितृतमः । 'नाद्धस्य' (पा० ८ । २ । १७) इति तमपि नुमागमः। किंभूतेभ्यो देवेभ्यः। शुक्रपेभ्यः शुक्र इत्युपलक्षणम् । शुक्रादीन् सोमग्रहान् पिबन्तीति शुक्रपाः तेभ्यः। यद्वा शुक्रं दीप्तं सोमं पिबन्तीति । स्वाहा इदमाज्यं युष्मभ्यं हुतमस्तु । ग्रहीष्यमाणानामपां मूल्यत्वेनेयमाहुतिरित्युक्तं तित्तिरिणा । 'देवीरापो अपांनपादित्याहाहुत्या वै निष्क्रीय गृह्णातीति' ॥२७॥

अष्टाविंशी।
कार्षि॑रसि स॑मु॒द्रस्य॒ त्वाक्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ।। २८ ।।
उ० कार्षिरसि । अनुष्टुप् यथाविनियोगं देवताः। चमसेनाज्यमपोहति कार्षिरसि । 'कृष विलेखने' । हे आज्य, आकृष्टं त्वमसि । त्वं देवतया भक्षितमित्यर्थः । तेन गृह्णाति । समुद्रस्य त्वा । 'आपो वै समुद्रः' इति श्रुतिः । वसतीवरीलक्षणस्याप्सु समुद्रस्य त्वाम् अक्षित्यै अनुपक्षीणतायै उन्नयामि उद्गृह्णामि । वसतीवरीणां हि वर्धनाय एता आपो गृह्यन्ते । संसृजन्ति । समापो अद्भिरग्मत । संगच्छताम् आपो वसतीवरीलक्षणा आभिरद्भिर्मित्रावरुणचमसस्थाभिः संगच्छतां च ओषधीभिः व्रीहियवादिभिः । ओषधीः मुद्गमसूरादिकाः अपांकरणभूतत्वादोषधीनामपि तथोपयोगो भवत्वित्यभिप्रायः ॥ २८ ॥
म० 'कार्षिरसीति मैत्रावरुणचमसेनाज्यमपोहतीति' (का० ९ । ३ । ८) । अप्सु हुतमाज्यं मैत्रावरुणचमसेन दूरीकरोतीति सूत्रार्थः । कार्षिरसीत्यादिमन्त्रत्रयं मिलित्वानुष्टप्छन्दः। आद्यस्याज्यं देवता । हे आज्यपदार्थ, त्वं कार्षिराकृष्टोऽसि देवतया भक्षितोऽसीत्यर्थः । यद्वा कर्षतीत्येवंशीलः कार्षिः अन्तर्गतशमलापनेतासि । तदाह तित्तिरिः ‘कार्षिरसीत्याह शमलमेवासामुपप्लावयतीति' । 'समुद्रस्य त्वेति तेन गृह्णातीति' ( का० ९।३ । ९) । मैत्रावरुणचमसेन तडागादिस्था अपो गृह्णातीति सूत्रार्थः, द्वे यजुषी अपि । 'आपो वै समुद्रः' (३ । ९ । ३ । २७) इति श्रुतेर्वसतीवरीलक्षणस्य समुद्रस्याक्षित्यै अक्षीणत्वाय हे जल, त्वा त्वामुन्नयामि गृह्णामि । वसतीवरीणां वृद्धौ जलमेतद्गृह्यते । 'प्रत्येत्य चात्वालस्योपरि मैत्रावरुणचमसं वसतीवरीश्च सᳪं᳭स्पर्शयति समाप इति' ( का० ९ । ३ । १२) जलाशयात्प्रत्यागत्य चात्वालोपरि मैत्रावरुणचमसस्था अपो वसतीवरीभिः संयोजयतीति सूत्रार्थः । आपो मैत्रावरुणचमसस्था अद्भिः वसतीवरीभिः समग्मत संगच्छन्ताम् । गमेर्लुङि तङि प्रथमबहुवचने शपि लुप्ते 'गमहन-' (पा० ६ । ४ । ९८) इत्युपधालोपे समग्मतेति रूपम् । तथा ओषधीः ओषधयः मुद्गमसूरादिका ओषधीभिर्व्रीहियवादिभिः संगच्छन्ताम् अपां कारणभूतत्वादोषधीनामपि योगोऽस्तु ॥ २८ ॥

एकोनत्रिंशी।
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिष॒: स्वाहा॑ ।। २९ ।।
उ० जुहोति । यमग्ने । गायत्र्याग्नेयी । हे अग्ने, यं मर्त्यं मनुष्यं पृत्सु संग्रामेषु अवाः । अवते रक्षणार्थस्यैतद्रूपम् । अवसि रक्षसि । वाजेषु । वाज इत्यन्ननाम । हविर्लक्षणेष्वन्नेषु अभ्युद्यतेषु । यं च पुरुषं जुनाः जुनातिर्गत्यर्थः। अभिगच्छसि । स पुरुषो यन्ता जिनात्यन्नं, तृजन्तमेतत् आद्युदात्तत्वात् । - लब्धा सततं भवति । शश्वतीः शाश्वतिकाः । इषः अन्नानि ॥ २९ ॥
म० 'प्रचरणीसᳪं᳭स्रवमग्निष्टोमे जुहोत्यभावे चतुर्गृहीतं यमग्ने' (का० ९ । ३ । १६) इति अग्निष्टोमसंस्थे क्रतौ प्रचरणीपात्रलिप्तमाज्यशेषं जुहुयात् शेषाज्यस्य होमपर्याप्त्यभावे चतुर्गृहीतमादाय जुहोतीति सूत्रार्थः । आग्नेयी गायत्री मधुच्छन्दोदृष्टा । हे अग्ने, पृत्सु सङ्ग्रामेषु यं मर्त्यं मनुष्यं त्वमवाः अवसि रक्षसि । अवतेः 'इतश्च लोपः परस्मैपदेषु' (पा० । ३ । ४ । ९७ ) इति सिप इकारलोपे 'लेटोऽडाटौ' (पा० ३।४। ९४) इत्याडागमे वा इति रूपम् । किंच वाजेषु वाज इत्यन्ननाम । हविर्लक्षणेष्वन्नेषु अन्ननिमित्तं यं पुरुषं त्वं जुनाः गच्छसि । हवींषि ग्रहीतुं यस्य सकाशं गच्छसीत्यर्थः । 'जु गतौ' श्नाप्रत्ययः 'इतश्च लोपः- ( पा० ३ । ४ । ९७ ) इतीकारलोपे रूपं जुना इति । स मर्त्यस्त्वदनुग्रहेण शश्वतीरिषः नित्यान्यन्नानि धनरूपाणि यन्ता नियस्यति प्राप्स्यतीत्यर्थः लुट् । स्वाहा | सुहुतमस्तु । उक्थसंस्थे यमग्ने इति मन्त्रेणाद्यं परिधिं स्पृशेत् । षोडशिसंस्थे रराटीं स्पृशेत् । अतिरात्रे छदिः स्पृशेत् । अन्यसंस्थासु हविर्धानं प्रविशेत् ॥ २९ ॥

त्रिंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् ।
उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तं निग्रा॒भ्या॒ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा ।। ३० ।।
उ० अद्रिमादत्ते । देवस्य त्वा व्याख्यातम् । आददे गृह्णामि । रावासि । रासतेर्दानार्थस्य रावा । 'एतद्ध्येषद्वयं रासतः' इति श्रुतेः । आहुतीनां च दातासि । गभीरं महान्तम् इमम् अध्वरं यज्ञं कृधि कुरु इन्द्राय इन्द्रार्थम् । सुषूतमम् । सुरुपसर्गः पूर्वः । 'षुञ् अभिषवे' । अस्य निष्ठातकारलोपः छान्दसः दीर्घत्वं च तमपि प्रत्यये । अथ कोर्थः । साधु अभिषुतम् अतिशयेन उत्तमेन उत्कृष्टेन पविना पावनेन सोमेन पवनशीलेन वा । ऊर्जस्वन्तं रसवन्तम् मधुमन्तं मधुस्वादुना रसेनोपेतम् पयस्वन्तं पयःस्वादुना रसेनोपेतम् अध्वरं कृधीति संबन्धः। निग्राभ्यास्थ वाचयति। निग्राभ्यास्थ । यस्मादिन्द्रेण यूयं गृहीतास्तस्मान्निग्राभ्या उच्यन्ते । यस्मादेवं बहुमाननामधेयप्रतिलम्भयुक्ता भवथ । देवैश्च श्रुतास्तस्माच्च बहुनामान्विताः सत्यः तर्पयत मां समासव्यासेन ॥ ३०॥

उपांशुसवनम्

म० 'देवस्य त्वेत्यद्रिमादाय वाचं यच्छति प्राग्धिङ्कारात् स उपाᳪं᳭शुसवन इति' (का० ९ । ४।५।६ ) सोमाभिषवहेतुमश्मानं गृहीत्वा हिङ्कारात्प्राक् मौनी स्यात् सोऽश्मोपांशुसवनसंज्ञः उपांशुग्रहाय सोमः सूयते येनेति सूत्रार्थः । देवस्य त्वेति व्याख्यातम् । हे अभिषवसाधन पाषाण, त्वं रावासि । 'रा दाने' रातीति रावा वनिप् । आहुतीनां दक्षिणानां च दाता भवसि । तत इममध्वरं मदीयं यागं गभीरं गम्भीरं महान्तं कृधि कुरु । 'श्रुशृणुपृकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः उत्तमेनोत्कृष्टेन पविना वज्रसदृशेन त्वयाहं सोममीदृशं करोमि । किंभूतम् । इन्द्रायेन्द्रार्थं सुषूतं सुष्ठु सूयत इति सुसुतः अतिशयेन सुसुतः सुसुततमः तं सुष्ठु अभिषुततमम् । निष्ठातकारलोपो दीर्घश्च छान्दसः । तथा ऊर्जवन्तं मधुस्वादेन रसेनोपेतं पयस्वन्तं पयःस्वादुना रसेनोपेतं एवंविधं सोमं त्वयाहं करोमीत्यर्थः । 'निग्राभ्यासु वाचयत्युरस्येनानिगृह्य निग्राभ्या स्थेति' ( का० ९ । ४ । ७)। अभिषोतव्यस्य सोमस्य सेवनीया आपो निग्राभ्या उच्यन्ते तासु गृह्यमाणासु वाचयेत् यजमानश्च स्वोरसि निग्राभ्या निगृह्यालभ्य च मन्त्रं वक्तीति सूत्रार्थः । हे आपः, यूयं निग्राभ्या निग्राह्या अस्माभिर्नितरां ग्रहीतव्याः स्थ भवथ । यस्मादिन्द्रेणीरसि यूयं ग्रहीतास्ततो निग्राभ्याः । हृग्रहोर्भः । देवश्रुतः देवैः श्रूयन्ते ताः देवेषु प्रख्याताः ततो बहुमानान्विता यूयं मा मां तर्पयत प्रीतिं कुरुत ॥ ३०॥

एकत्रिंशी।
मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयता॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून्मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ।। ३१ ।।
उ० मनो मे मम तर्पयत इति विस्तारः व्यासेनोक्तः । समासेनाह । आत्मानं पिण्डशरीरम् प्रजां पशून् गणान्मनुष्यसंघातान् । गणाश्च मा वितृषन् । मद्द्रव्यदानेन पूरिता अपि सन्तो मा विगततृष्णा भवन्तु । अनुरक्तगणोऽहं भवेयमित्यर्थः ॥ ३१ ॥
म० एवं समासेनोक्त्वा व्यासेनाह । मे मम मनः वाचं प्राणं चक्षुः श्रोत्रं तर्पयत । मदीयानि मनःप्रभृतीनीन्द्रियाणि तर्पयतेत्यर्थः । एवं व्यासेनोक्वा पुनः समासेनाह । आत्मानं शरीरं
प्रजां पुत्रादिसंपत्तिं पशून्गवादीन्गणान् मनुष्यसङ्घांश्च तर्पयत । | मे मदीया गणा मनुष्यसङ्घा मा वितृषन् मया द्रव्यदानेन पूरिता अपि सन्तो विगततृष्णा मा भवन्तु । अनुरक्तगणोऽहं भवेयमिति यजमान आशास्त इत्यर्थः ॥ ३१ ॥

द्वात्रिंशी।
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वा ऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा ऽभिमाति॒घ्ने ।
श्ये॒नाय॑ त्वा सोम॒भृते॒ऽग्नये॑ त्वा रायस्पोष॒दे ।। ३२ ।।
उ० सोमं मिमीते । इन्द्राय त्वा वसुमते रुद्रवते । मिम इति शेषः । इन्द्राय त्वा आदित्यवते मिमे । प्रातःसवनमा- ध्यन्दिनसवनतृतीयसवनदेवतायुक्तायेन्द्रायेत्यर्थः । इन्द्राय त्वा अभिमातिघ्ने मिमे । 'सपत्नो वाभिमातिः' इति श्रुतिः। सपत्नस्य हन्त्रे । श्येनाय श्येनरूपिण्यै गायन्यै त्वां सोमभृते । 'हृग्रहोर्भश्छन्दसि' इति हस्य भकारः । सोमहृते सोमस्याहर्त्र्यै गायत्र्यै मिमे । अग्नये त्वा रायस्पोषदे । रायो धनं तस्य पोषो वृद्धिस्तं ददाति यस्तस्मै रायस्पोपदे । अग्निशब्देनात्र गायत्र्यभिधीयते भक्तिश्रुतेः 'अथैतान्यग्निभक्तीन्ययं लोकः प्रातःसवनं वसन्तो गायत्री' इति ॥ ३२ ॥
म० 'उपाᳪं᳭शुसवने सोमं मिमीत इन्द्राय त्वा वसुमते रुद्रवत इति पञ्चकृत्वः प्रतिमन्त्रमिति' ( का० ९ । ४ । ८) उपांशुसवनं पूर्वोक्तमश्मानमधिषवणचर्मणि निधाय तदुपरि पञ्च मन्त्रैः पञ्चवारमभिषोतव्यसोममुष्ठिं प्रक्षिपतीति सूत्रार्थः । पञ्च यजूंषि सौम्यानि । तत्राद्यम् हे सोम, इन्द्रायेन्द्रार्थं त्वा त्वां मिमे इति शेषः । किंभूतायेन्द्राय । वसुमते वसवोऽस्य सन्तीति वसुमान् तस्मै । वसुसंज्ञकप्रातःसवनदेवतायुक्तायेत्यर्थः । रुद्रवते रुद्राः सन्त्यस्येति रुद्रवान् तस्मै रुद्रनामकमाध्यन्दिनसवनदेवतायुक्ताय । अथ द्वितीयम् । आदित्यवते तृतीयसवनदेवतायुक्तायेन्द्राय हे सोम, त्वा त्वां मिमे । अथ तृतीयम् । अभिमातीन् शत्रून् हन्तीत्यभिमातिहा तस्मै अभिमातिघ्ने शत्रुहन्त्रे इन्द्राय सोम, त्वां मिमे । 'सपत्नो वा अभिमातिः' (३ । ९ । ४ । ९) इति श्रुतेः। अथ चतुर्थम् । सोमं हरतीति सोमहृत् तस्मै । 'हृग्रहोर्भश्छन्दसि' (पा० ८ । २ । ३२) इति हस्य भः । सोमाहरणकर्त्रे श्येनाय श्येनपक्षिरूपायै गायत्र्यै हे सोम, त्वां मिमे । 'गायत्री श्येनो भूत्वा दिवः सोममाहरत्' (६।९। ४ । १०) इति श्रुतेः । अथ पञ्चमम् । रायस्पोषदे रा धनं तस्य पोषो वृद्धिः तं ददातीति रायस्पोषदास्तस्मै धनपुष्टिदात्रेऽग्नये हे सोम, त्वां मिमे ॥ ३२ ॥

त्रयस्त्रिंशी।
यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे । तेनास्मै॒ यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ।। ३३ ।।
उ० मितालम्भनम् । यत्ते सोम। सौमी विपरीता बृहती। श्रुत्युक्तमस्य मन्त्रस्य कारणं निदानम् । यदा किल देवानां हविरभूत् सोमः तदैषु लोकेषु तिस्रस्तनूर्विन्यदधात् । तासामनेनाप्तिः क्रियते । यत्ते तव हे सोम, दिवि द्युलोके ज्योतिः । यच्च पृथिव्यां ज्योतिः । यच्च उरौ विस्तीर्णे अन्तरिक्षे तेन तन्वाख्येन ज्योतिषा अस्मै यजमानाय अस्य यजमानस्य संबन्धिनि यज्ञे उरु विस्तीर्णं कृत्स्नं शरीरमात्मनः कृधि कुरु । ऋत्विजां च राये दक्षिणाप्राप्तये उरु शरीरं कृधि कुरु स्वकीयम् । किंच । अधिवोचः अधिब्रूहि । दात्रे यजमानाय । कृत्स्नोऽहमागत इति ॥ ३३ ॥
म० 'यत्त इति मितालम्भनमिति' (का० ९ । ४ । ९) मितस्योपांशुसवने पञ्चवारं प्रक्षिप्तस्य सोमस्य स्पर्शं कुर्यादिति सूत्रार्थः । सोमदेवत्या विपरीता बृहती आद्यतृतीयावष्टार्णौ द्वितीयतुर्यौ द्वादशार्णौ पादौ सा विपरीता बृहती व्यूहेन द्वादशत्वम् । अस्य मन्त्रस्य श्रुतौ निदानमुक्तम् 'यदा सोमो देवानां हविरभूत्तदा तिस्रः स्वतनूरेषु लोकेषु न्यदधादिति' (३।९।४। १२)। तासां तनूनामनेन मन्त्रेण प्राप्तिः क्रियते । हे सोम, दिवि द्युलोके ते तव यज्यो।यतिस्तेजः यच्च पृथिव्यां ज्योतिः उरौ विस्तीर्णे अन्तरिक्षे यत् ज्योतिः शरीरलक्षणं तेन तन्वाख्येन ज्योतिषा अस्मै यजमानाय । विभक्तिव्यत्ययः । अस्य यजमानस्य यज्ञे उरु विस्तीर्णं स्वशरीरं कृधि कुरु । राये धनाय ऋत्विजां दक्षिणाप्राप्तये च उरु शरीरं कृधि । किंच दात्रे अधि वोचः अधिकं ब्रूहि । यजमानाय कृत्स्नशरीरोऽहमागत इति वदेत्यर्थः । वचेर्लुङि 'वचेरुम्' (पा० ७ । ४ २०) इति उमागमेऽडभावे च वोच इति मध्यमैकवचने रूपम् । यद्वास्य मन्त्रस्य व्याख्यान्तरम् । हे सोम, त्रिषुयत्त्वदीयं ज्योतिरस्ति तेन ज्योतिषास्मै यजमानाय राये । चतुर्थ्यर्थे तृतीया । राया धनेन समृद्धमुरु विस्तीर्णं स्थानं कृधि । किंच दात्रे फलदायेन्द्राय इति वोचः ब्रूहि । यत् अधि अधिकोऽयं यजमानो भवत्विति ॥ ३३ ॥

चतुस्त्रिंशी।
श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॑: । ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूता॒: सोम॑स्य पिबत ।। ३४।।
उ० आसिञ्चति निग्राभ्याः । श्वात्रा स्थ । उपरिष्टाद्बृहती निग्राभ्या आपो देवताः । या यूयं श्वात्राः स्थ । श्वात्रमिति क्षिप्रनाम । क्षिप्रकारिण्यो भवथ शिवा वा भवथ । वृत्रतुरः । तुर्वतिर्वधकर्मा । वृत्रस्य हन्त्र्यः । राधोगूर्ता । राधो धनमुद्गिन्तीति राधोगूर्ताः अमृतस्य पत्नीः अमृतत्वस्य पालयित्र्यः ताः हे देवीः । 'वा छन्दसि' इति दीर्घत्वम् । देव्यः देवान् प्रति । इमं यज्ञं नयत प्रापयत । किंच अध्वर्युणा उपहूताः सत्यः सोमस्यापिबत ॥ ३४ ॥
म० श्वात्रा स्थेत्यासिञ्चति निग्राभ्या इति' ( का० ९ । ४ १२) । सोमस्योपरि होतृचमसेनैव निग्राभ्या आसिञ्चतीति सूत्रार्थः । पथ्या बृहती तृतीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः पादा यस्याः सा पथ्याबृहती । इयं द्व्यधिका । हे आपः, यूयमेवंविधाः स्थ भवथ । किंभूताः । श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रकार्यकारिण्यः शिवा वा । वृत्रतुरः । तूर्वतिर्वधकर्मा । वृत्रं देवं तूर्वन्ति हिंसन्ति ता वृत्रतुरः । क्विपि ‘राल्लोपः' (पा० ६ । ४ । २१) इति वलोपः । राधोगूर्ताः राधो धनं गुरन्ते उद्यच्छन्ति ददति ता राधोगूर्ताः । 'गुरी उद्यमे' अस्मात् 'नसत्तनिषत्त-' (पा० ८ । २ । ६१) इत्यादिना कर्तरि क्तो नत्वाभावश्च निपात्यते । अमृतस्य सोमस्य पत्नीः पालयित्र्यः । हे देवीः देव्यः, तास्तथाविधा यूयमिमं यज्ञं देवत्रा देवान् प्रति नयत प्रापयत उपहूता अनुज्ञाताः सत्यो यूयं सोमस्य । कर्मणि षष्ठी । सोमं पिबत ॥ ३४ ॥

पञ्चत्रिंशी।
मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वीस॒ती वी॑डयेथा॒मूर्जं॑ दधाथाम् । पा॒प्मा ह॒तो न सोम॑: ।। ३५।।
उ० प्रहरति । मा भेः। हे सोम, मा भैषीः।मा संविक्थाः । 'ओविजी भयचलनयोः' । संपूर्वः कम्पनमभिधत्ते। मा च त्वं कम्पनं कृथाः देवतर्पणार्थमहमभिषुणोमि । अतः ऊर्जं धत्स्व रसं धेहि । एवं सोमं संबोध्य अथेदानीं द्यावापृथिव्यौ संबोधयति । हे धिषणे हे द्यावापृथिव्यौ । वीड्वी सती वीडयेथाम् । वीडुशब्दो दृढवचनः । युवां स्वतएव दृढे सत्यौ वीडयेथां दृढमात्मानं कुरुतम् । अस्मात् ग्राव्णः उद्यतात् । किंच ऊर्जं रसं दधाथाम् । अस्मिन्सोमे अनेन उद्ग्राव्णा वज्रसंयुक्तेन पाप्मा यजमानस्य हतः नतु सोमः ॥ ३५ ॥
म० मा भेरिति प्रहरतीति' ( का. ९। ४ । १५) उपांशुसवनेनाश्मना सोमे प्रहरेदिति सूत्रार्थः । अर्ध सौम्यमर्ध द्यावापृथिव्यम् । हे सोम, त्वं मा भेः मा भैषीः । शपो लुकि लङि रूपम् । मा संविक्थाः कम्पनं मा कृथाः । 'ओविजी भयचलनयोः' लुङि रूपम् । यतो देवतर्पणायाहं त्वामभिषुणोमि अत ऊर्जं धत्स्व रसं धेहि । एवं सोमं संबोध्य द्यावापृथिव्यौ संबोधयति । हे धिषणे हे द्यावापृथिव्यौ, युवां वीड्वी सती वीडयेथाम् । वीडुशब्दो दृढवचनः । दृढे सत्यावात्मानं दृढं कुरुतम् अस्मादुद्यताद्ग्राव्णः । किंच ऊर्जं दधाथां रसं धत्तम् अस्मिन् सोमे । अनेन तु वज्रसंस्तुतेन ग्राव्णा यजमानस्य पाप्मा हतो न तु सोमः ॥ ३५ ॥

षट्त्रिंशी।
प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु । अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ।। ३६।।
उ० निग्राभं वाचयति । प्रागपागुदक् । द्वाभ्यामृग्भ्यामुष्णिग्बृहतीभ्याम् । सौमी द्वितीया ऐन्द्री । सा दिग्भिर्मिथुनमिच्छति । तच्च देवाः संपादितवन्तः । तदेतदृचाभ्युक्तम् । हे सोम, प्राक् प्रागञ्चनाः । अपाक् अधराञ्चनाः । एवं सर्वतः त्वां दिशः आधावन्तु अभिसमागच्छन्तु । दिग्वासिनो वा जनाः किमभिभाषमाणाः परस्परं त्वामभिधावन्तु । अम्ब निष्पर । हे अम्ब, प्राच्यादिविशेषदिगभिधाने निश्चित्य सोमं पर । 'पॄ पालनपूरणयोः' इत्यस्यैतद्रूपम् । पूरय स्वैर्भावैरेतं सोमम् । किं प्रयोजनमिति चेत् समरीर्विदाम् । 'प्रजा वा अरी' इति श्रुतिः। संविदा संविदन्ताम् । अरीः प्रजाः । एतदुक्तं भवति । सोमसमागमेऽस्माकं सन्ति नानादिग्वासिनो जनाः संजानते एवम् ॥ ३६ ॥

चमस

म० प्रतिवर्गं निग्राभं वाचयति होतृचमसेऽल्पानᳪं᳭शूनवधाय प्रागपागिति' (का० ९ । ४ । २० ) प्रतिप्रहारवर्गं होतृचमसमध्ये स्तोकान्सोमांशून्निधाय प्रागपागिति ऋग्द्वयं निग्राभसंज्ञं यजमानं वाचयेदिति सूत्रार्थः । सोमदेवत्योष्णिक् । सोमो दिग्भिर्मिथुनमैच्छत्तच्च देवाः संपादितवन्तस्तदेतदृचाभ्युक्तम् । हे सोम, प्राक् प्रागञ्चनाः अपाक् अपागञ्चनाः दक्षिणाः पश्चिमाश्च उदक् उदगञ्चना उत्तराः अधराक् अधराञ्चनाः एवं प्रागादयः सर्वा दिशः सर्वतः स्वस्वप्रदेशात्त्वा त्वामाधावन्तु आभिमुख्येन गच्छन्तु । परस्परं किं भाषमाणास्त्वामभिधावन्त्विति तदाह । हे अम्ब हे मातः, निष्पर स्वैर्भागैः सोमं पूरय । 'पॄ पालनपूरणयोः' विकरणव्यत्यये लोटि रूपम् । किं प्रयोजनमिति चेत् । अरीः अर्यः प्रजाः संविदा संविदताम् 'प्रजा वा अरीः' (३ । ९ । ४ । २१ ) इति श्रुतिः । अस्माकं सोमसमागमं नानादिग्वासिनो जना जानन्त्वित्यर्थः । इति भाषमाणास्त्वामागच्छन्तु । 'विद ज्ञाने' अस्माल्लटि तङि प्रथमाबहुवचने 'आत्मनेपदेष्वनतः' (पा. ७ । १ । ५) इति झस्यादादेशे 'लोपस्त आत्मनेपदेषु' ( पा० ७ । १ । ४१ ) इति । तकारलोपे सवर्णदीर्घे विदामिति रूपम् । 'समो गम्' (पा० १। ३ । २९ ) इत्यादिना तङ् ॥ ३६ ॥

सप्तत्रिंशी।
त्वम॒ङ्ग प्रश॑ᳪं᳭सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वच॑: ।। ३७।। ॥
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां षष्ठोऽध्यायः ॥६॥
उ० त्वमङ्ग । हे इन्द्र, यतः त्वम् अङ्ग । अङ्गेति क्षिप्रप्रनाम । क्षिप्रं प्रशᳪं᳭सिषः प्रशंससि । देवः सन् हे शविष्ठ बलिष्ठ मर्त्यं मनुष्यं यजमानम् । अतः कारणात् न त्वत् न त्वत्तः अन्यः हे मघवन् धनवन् अस्ति विद्यते मर्डिता 'मृड सुखने' । सुखयिता यजमानानाम् । इन्द्र ब्रवीमि अत्यद्भुतं तव संबन्धि वचः वचनमार्षम् ॥ ३७ ॥
इति उवटकृतौ मन्त्रभाष्ये षष्ठोऽध्यायः ॥ ६ ॥
म० इन्द्रदेवत्या पथ्याबृहती गोतमदृष्टा । अङ्गेति क्षिप्रनाम । हे शविष्ठ अतिशयेन बलवन् इन्द्र, देवः दीप्यमानस्त्वं मर्त्यं मनुष्यं यजमानं प्रशंसिषः प्रशंससि स्तोषि । समीचीनोऽयं यजमानो होता श्रद्धावानित्यादिस्तुतिं करोषीत्यर्थः । 'शंसु हिंसास्तुत्योः' लिडर्थे लेट् मध्यमैकवचने सिबादेशः 'सिब्बहुलं लेटि' (३।१।३४) इति सिप्प्रत्ययः तस्य 'आर्धधातुकस्येड्वलादेः (पा० ७ । २ । ३५ ) इति इडागमः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इति सिपोऽडागमः 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति सिप इकारलोपः । तस्य रुत्वविसर्गौ षत्वम् । प्रशंसिष इति रूपम् ‘तिङ्ङतिङः' (पा० ८ । १ २८ ) इति सर्वानुदात्तत्वम् । किंच हे मघवन् हे धनवन् इन्द्र, मर्डिता 'मृड सुखने' मृडीति मर्डिता यजमानस्य सुखयिता त्वदन्यो नास्ति न विद्यते । अतो हे इन्द्र, ते तव वचः त्वमेव सुखयितेत्येवंरूपं त्वदीयं वचनमहं ब्रवीमि वदामि ॥३७॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । अभ्र्यादानाद्वाचनान्तः षष्ठोऽध्यायः समीरितः ॥ ६ ॥