भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः २/अध्यायः ०५

विकिस्रोतः तः

कलशनिर्णयवर्णनम्

सूत उवाच ।।
अतः परं प्रवक्ष्यामि कलशानां विनिर्णयम् ।।
यस्यार्पिते च मांगल्ये यात्रासिद्धिश्च जायते ।।१।।
सप्ताङ्गं कलशे ज्ञेयं पञ्चाङ्गमथ वा पुनः ।।
वारिमात्रेण संपूर्णे न सा सिद्धिः प्रजायते ।।२।।
अथ वाक्षतपुष्पेषु देवमावाह्य पूजयेत् ।।
न चान्यत्र यजेद्देवान्विफलं परिकीर्तितम्।।३।।
वटस्याश्वत्थवृक्षस्य धातकीबिल्वकस्य च ।।
पञ्चपल्लवमुद्दिष्टं विन्यसेत्कलशोपरि ।। ४ ।।
सौवर्णा राजता वापि ताम्राद्या मृन्मयास्तथा ।।
कलशाः क्रमशः प्रोक्ता यथावित्तानुसारतः ।। ५ ।।
अभेद्याः सुषमाः प्लक्षाः सर्वे आद्याः सुपूरिताः ।।
निश्छिद्रा ऋजवश्चैव सेचनान्येककर्षकः ।। ६ ।।
एक त्रिंशाङ्गुलं कुर्यात्कालाहे द्विगुणं शतम् ।।
मुखं चाष्टांगुलं तस्य द्व्यंगुले च वरार्थिते ।।७।।
तैजसैः कारयेन्मानं मृन्मये मानमुच्यते ।।
कलशोदकनिर्माणे अमानं नैव योजयेत् ।। ८ ।।
कलशस्थापनं वक्ष्ये यत्र सन्निहिताः सुराः ।।
व्युत्क्रमेण प्रविन्यासे यातुधानो हरेत्किल ।। ९ ।।
यज्ञे साधारणं वक्ष्ये यद्विधानं यथामतम् ।।
स्वस्तिकोपरि विन्यासे संपूर्णस्यार्धमानके ।। 2.2.5.१० ।।
चतुरस्रोत्तरं भित्त्वा चोर्ध्वाधोमानतः समम् ।।
तुर्यसूत्राणि मतिमान्पञ्च पूर्वायतनानि च ।। ११ ।।
मार्जयेत्स्वस्तिकाकारं तुर्यमात्रं यथा भवेत् ।।
स्वस्तिकं जायते तत्र कलशानां तथासनम् ।। १२ ।।
स्योना पृथिवीति मंत्रेण कुर्याद्भूभिपरिग्रहम् ।।
मध्यमानानिकाभ्यां च न्यस्येत्पातालसंमुखम् ।।
ऋषिर्नारायणोऽस्य स्याद्गायत्री देवता रविः ।। १३ ।।
विनियोगः स्थापने च तथा भूमिपरिग्रहः ।।
धान्यमसीति मन्त्रेण धान्यसूक्तं परिस्तवेत् ।। १४ ।।
अस्य मन्त्रस्य च ऋषिर्गौतमः परिकीर्तितः ।।
अनुष्टुप्च भवेच्छन्दो देवतास्य गुरुः स्मृतः ।। १५ ।।
आजिघ्रं कलशं मह्यां स्थापयेत्कलशं ततः ।।
कनिष्ठांगुष्ठकं त्यक्त्वा कुम्भाग्रे उदरेऽपि च ।। १६ ।।
विन्यासश्चैव कर्तव्यस्त्र्यंगुले ब्रह्ममुद्रया ।।
[१]आजिघ्रस्य च मन्त्रस्य ऋषिर्भर्ग उदाहृतः ।।
पंक्तिश्छन्दश्च उद्दिष्टो देवता विष्णुरव्ययः ।। १७ ।।
कलशस्थापने चैव सोमयागे च योजयेत् ।।
पंचनद्येतिमन्त्रेण क्षिपेद्गङ्गाजलं ततः ।। १८ ।।
देवता परमा त्रिष्टुब्देवता सोमभावितः ।।
विनियोगः पल्लवे च विन्यसेत्परिकीर्तितः ।। १९ ।।
याः फलिनीति मंत्रेण प्रदद्यात्सफलाक्षतम् ।।
याः फलिनीति मंत्रस्य ऋषिः कमलसंज्ञकः ।।
त्रिष्टुप्छन्दो गणपतिर्देवता परिकीर्तिता ।। 2.2.5.२० ।।
बदरं नागरं चैव धात्री च पिचुमर्दकम् ।।
जीवंती पीवरं चैव फलान्येतानि वर्जयेत् ।। २१ ।।
हिरण्यगर्भेति ऋचा पञ्चरत्नानि निक्षिपेत् ।।
ऋषिर्हिरण्यगर्भोस्य छन्दस्त्रिष्टुबुदाहृतम् ।।
सविता देवता चास्य रत्नन्यासेति योज येत् ।।२२।।
अमृतीकरणं कुर्याद्दैवशुल्बनमेव च ।।
वरुणस्य त्वेति ऋषिर्वरुणांतरे योजयेत् ।।२३।।
श्रीश्च ते इति मन्त्रेण दद्यात्पुष्पं सचन्दनम् ।।
गन्धद्वारेति मंत्रेण दद्याद्गन्धं विलोडितम् ।। २४ ।।
काण्डादिति च मन्त्रेण दद्याद्दूर्वाक्षतं पुनः ।।
व्रीहयश्चेति मन्त्रेण पञ्च व्रीहींश्च निक्षिपेत् ।।२५।।
तिलाश्च माषा मुद्गाश्च श्यामाकाः शालयः स्मृताः ।।
पञ्च धान्यगणः प्रोक्तः सर्वारिष्टनिषूदनः ।। २६ ।।
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि द्वितीयभागे पञ्चमोऽध्यायः।। ५ ।।

  1. आजिघ्रकलशं मह्यात्वाविशन्त्विन्दवः।
    पुनरूर्जा निवर्त्तस्व सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती पुनर् माविशताद् रयिः ॥वा.सं. ८.४२, भर्ग उपरि टिप्पणी