सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः २/गौरीवितम्

विकिस्रोतः तः
9गौरीवितम्
गौरीवितम्

१६
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति |
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे || ८१८ || ऋ. ९.१०१.७
समु प्रिया अनूषत गावो मदाय घृष्वयः |
सोमासः कृण्वते पथः पवमानास इन्दवः || ८१९ ||
य ओजिष्ठस्तमा भर पवमान श्रवाय्यं |
यः पञ्च चर्षणीरभि रयिं येन वनामहे || ८२० ||


९ गौरीवितम ।। गौरीवितिः । अनुष्टुप् । पवमानस्सोमः ।।

अयम् । पूषाऽ३ । रयिर्भगाः ।। सोमᳲपुनानोअर्षताऽ२३इ । पातिर्विश्वाऽ३१२३ । स्यभूऽ५मनाः ।। वायख्यद्रोऽ३१२३ ।। दसोवा ।
ऊऽ५भोऽ६”हाइ ।। श्रीः ।। समु । प्रियाऽ३ः । अनूषता ।। गावोमदायघृष्वयाऽ२३ः । सोमासᳲकाऽ३१२३ । ण्वताऽ५इपथाः ।। पावमानाऽ३१२३ ।। सओवा । दाऽ५वोऽ६”हाइ ।। श्रीः ।। यओ । जिष्ठाऽ३ः । तमाभरा ।। पवमानश्रवायियाऽ२३म् । याᳲपञ्चचाऽ३१२३ । षणाऽ५इरभाइ ।। रायिंयेनाऽ३१२३ । वनोवा । माऽ५होऽ६”हाइ ।।

दी. १५. उत्. न. मा. १८ वै. ।।२५१।।


[सम्पाद्यताम्]

टिप्पणी