सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/तृतीयं क्रौञ्चम्

विकिस्रोतः तः
तृतीयं क्रौञ्चम्
तृतीयं क्रौञ्चम्

ऋ. ९.१०१.७

१६
अयं पूषा रयिर्भगः सोमः पुनानो अर्षति |
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे || ८१८ ||
समु प्रिया अनूषत गावो मदाय घृष्वयः |
सोमासः कृण्वते पथः पवमानास इन्दवः || ८१९ ||
य ओजिष्ठस्तमा भर पवमान श्रवाय्यं |
यः पञ्च चर्षणीरभि रयिं येन वनामहे || ८२० ||


९. तृतीयं क्रौञ्चम् ।। क्रुङ् । अनुष्टुप् । पवमानः सोमः ।

अयंपूषा । हो । रयिर्भगाऽ६ए ।। सोमाऽ२ꣳपुनाऽ२ । नआऽ३४५ । षाऽ२३४ती । पतिर्विश्वस्यभूमनाऽ२३४५ः । वियख्याऽ२३द्रो ।। दसीऊऽ२३भाऽ४३३इ ।। श्रीः ।। समुप्रियाः । हो । अनूषताऽ६ए ।।
गावोऽ२मदाऽ२ । यघाऽ३४५ । ष्वाऽ२३४याः । सोमासᳲकृण्वतेपथाऽ१ः ।। पवमाऽ२३ना ।। सइन्दाऽ२३वाऽ३४३ः ।।श्रीः।। यओजिष्ठाः हो । तमाभराऽ६ए ।। पावाऽ२मानाऽ२ । श्रवाऽ३४५ । यीऽ२३४-
याम् । यᳲ पञ्चचर्षणीरभीऽ१ ।। रयिम्याऽ२३इना ।। वनामाऽ२३हाऽ३४३इ । ओऽ२३४५इ ।।डा।।

दी. १५. उत्. ६. मा. १०. पै. ।।४९।।

[सम्पाद्यताम्]

टिप्पणी

अस्य साम्नः गानम् दशरात्रस्य द्वितीये अहनि भवति।