ऋग्वेदः सूक्तं ९.५५
← सूक्तं ९.५४ | ऋग्वेदः - मण्डल ९ सूक्तं ९.५५ अवत्सारः काश्यपः |
सूक्तं ९.५६ → |
दे. पवमानः सोमः। गायत्री |
यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव ।
सोम विश्वा च सौभगा ॥१॥
इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।
नि बर्हिषि प्रिये सदः ॥२॥
उत नो गोविदश्ववित्पवस्व सोमान्धसा ।
मक्षूतमेभिरहभिः ॥३॥
यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।
स पवस्व सहस्रजित् ॥४॥
सायणभाष्यम्
“यवंयवं नः' इति चतुर्ऋचमेकत्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षं गायत्रं पवमानसोमदेवताकम् । ‘यवंयवम्' इत्यनुक्रान्तम् । गतो विनियोगः ॥
यवं॑यवं नो॒ अंध॑सा पु॒ष्टंपु॑ष्टं॒ परि॑ स्रव ।
सोम॒ विश्वा॑ च॒ सौभ॑गा ॥१
यव॑म्ऽयवम् । नः॒ । अन्ध॑सा । पु॒ष्टम्ऽपु॑ष्टम् । परि॑ । स्र॒व॒ ।
सोम॑ । विश्वा॑ । च॒ । सौभ॑गा ॥१
यवम्ऽयवम् । नः । अन्धसा । पुष्टम्ऽपुष्टम् । परि । स्रव ।
सोम । विश्वा । च । सौभगा ॥१
हे “सोम त्वं “नः अस्माकं “पुष्टंपुष्टं बहुलं "यवंयवं पुनःपुनर्युतं रसम् “अन्धसा अन्नात्मना “परि “स्रव धारया क्षर ॥ अत्र प्रार्थयितुस्तृष्णयात्यन्तं पीडितत्वात् “ आबाधे च ' (पा. सू. ८.१.१०) इति द्विर्भावः । पीडा प्रयोक्तृधर्मो नाभिधेयधर्म इत्युक्तम् ॥ अपि च “विश्वा विश्वानि “सौभगा सौभगानि धनानि परि स्रव ॥
इंदो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमंध॑सः ।
नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥२
इन्दो॒ इति॑ । यथा॑ । तव॑ । स्तवः॑ । यथा॑ । ते॒ । जा॒तम् । अन्ध॑सः ।
नि । ब॒र्हिषि॑ । प्रि॒ये । स॒दः॒ ॥२
इन्दो इति । यथा । तव । स्तवः । यथा । ते । जातम् । अन्धसः ।
नि । बर्हिषि । प्रिये । सदः ॥२
हे “इन्दो सोम “अन्धसः अन्नरूपस्य “तव संबन्धी “स्तवः स्तवनं स्तोत्रं तथा “ते तव “जातं जन्म “यथा प्रादुर्भूतमस्ति तथा त्वं “प्रिये प्रीणयितरि “बर्हिषि अस्मद्यागे “नि “षदः निषण्णो भव॥
उ॒त नो॑ गो॒विद॑श्व॒वित्पव॑स्व सो॒मांध॑सा ।
म॒क्षूत॑मेभि॒रह॑भिः ॥३
उ॒त । नः॒ । गो॒ऽवित् । अ॒श्व॒ऽवित् । पव॑स्व । सो॒म॒ । अन्ध॑सा ।
म॒क्षुऽत॑मेभिः । अह॑ऽभिः ॥३
उत । नः । गोऽवित् । अश्वऽवित् । पवस्व । सोम । अन्धसा ।
मक्षुऽतमेभिः । अहऽभिः ॥३
“उत अपि च हे “सोम “नः अस्माकं "गोवित् गोप्रदः “अश्ववित् अश्वप्रदश्च त्वं “मक्षूतमेभिः मक्षुतमैरतिशयेन शीघ्रैः “अहभिः अहोभिर्हेतुभिः “अन्धसा अन्नेन "पवस्व धारया क्षर ॥
यो जि॒नाति॒ न जीय॑ते॒ हन्ति॒ शत्रु॑म॒भीत्य॑ ।
स प॑वस्व सहस्रजित् ॥४
यः । जि॒नाति॑ । न । जीय॑ते । हन्ति॑ । शत्रु॑म् । अ॒भि॒ऽइत्य॑ ।
सः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽजि॒त् ॥४
यः । जिनाति । न । जीयते । हन्ति । शत्रुम् । अभिऽइत्य ।
सः । पवस्व । सहस्रऽजित् ॥४
हे “सहस्रजित् असंख्यानां शत्रूणां जेतः सोम "यः भवान् “जिनाति शत्रून् हन्ति “न “जीयते स्वयं शत्रुभिर्न जीयते । न हन्यत इत्यर्थः । “शत्रुमभीत्य शत्रुं स्वयमभ्येत्य “हन्ति न च स्वयं शत्रुभिरभिभूयते “सः त्वं “पवस्व क्षर ॥ ॥ १२ ॥
मण्डल ९ | |||
---|---|---|---|