ऋग्वेदः सूक्तं ९.३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.३२ ऋग्वेदः - मण्डल ९
सूक्तं ९.३३
त्रित आप्त्यः
सूक्तं ९.३४ →
दे. पवमानः सोमः। गायत्री
मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः ।
वनानि महिषा इव ॥१॥
अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
वाजं गोमन्तमक्षरन् ॥२॥
सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमा अर्षन्ति विष्णवे ॥३॥
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
हरिरेति कनिक्रदत् ॥४॥
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः ।
मर्मृज्यन्ते दिवः शिशुम् ॥५॥
रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वतः ।
आ पवस्व सहस्रिणः ॥६॥

सायणभाष्यम्

‘प्र सोमासः' इति षडृचं नवमं सूक्तं त्रितस्यार्षं गायत्रं पवमानसोमदेवताकम् । ‘प्र सोमासस्त्रितः ' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मयः॑ ।

वना॑नि महि॒षा इ॑व ॥

प्र। सोमासः । विपःऽचितः । अपाम् । न । यन्ति । ऊर्मयः ।

वनानि । महिषाःऽइव ।।१।।

“विपश्चितः मेधाविनः “सोमासः सोमाः “प्र "यन्ति प्रगच्छन्ति पात्राणि प्रति । किमिव । “अपाम् “ऊर्मयः “न । ते यथा संततमुद्भवन्ति तद्वत् । बाहुल्येऽयं दृष्टान्तो दर्शितो गमने दृष्टान्तरमभिधीयते । “वनानि “महिषाः प्रवृद्धा मृगाः “इव । अथवा स्वाश्रयात् प्रपतने प्रथमो दृष्टान्तो द्वितीयस्तु दशापवित्रादधःप्रवेशे ॥


अ॒भि द्रोणा॑नि ब॒भ्रवः॑ शु॒क्रा ऋ॒तस्य॒ धार॑या ।

वाजं॒ गोम॑न्तमक्षरन् ॥

अभि । द्रोणानि । बभ्रवः । शुक्राः । ऋतस्य । धारया।

वाजम् । गोऽमन्तम् । अक्षरन् ।।२।।

“अभि क्षरन्तीति शेषः । उपसर्गश्रुतेरुचितक्रियाध्याहारः। “द्रोणानि द्रोणकलशान् प्रति । यद्यपि द्रोणकलश एक एव तथापि तत्प्राधान्यादितरेऽपि पात्रा द्रोणा इत्युच्यन्ते । अथवैकस्मिन्नेव पूजार्थं बहुवचनम् । के। “बभ्रवः बभ्रुवर्णाः सोमाः “शुक्राः दीप्ताः। केन प्रकारेण । “ऋतस्य अमृतस्य “धारया धाराकारेण। किंच “वाजम् अन्नं “गोमन्तं बहुगोयुक्तम् “अक्षरन् क्षरन्ति । अथवैकमेव वाक्यम् । उक्तविधाः सोमा द्रोणान् प्रत्यक्षरन् धारया। किं कुर्वन्तः । गोमन्तं वाजं प्रयच्छन्त इत्यर्थः ॥


सु॒ता इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।

सोमा॑ अर्षन्ति॒ विष्ण॑वे ॥

सुताः । इन्द्राय । वायवे । वरुणाय । मरुत्ऽभ्यः ।

सोमाः । अर्षन्ति । विष्णवे ॥ ३ ॥

"सुताः अभिषुताः "सोमाः “इन्द्राय इन्द्रार्थं “वायवे च "वरुणाय च "मरुद्भ्यः च “विष्णवे चैषामर्थम् “अर्षन्ति गच्छन्ति ॥


ति॒स्रो वाच॒ उदी॑रते॒ गावो॑ मिमन्ति धे॒नवः॑ ।

हरि॑रेति॒ कनि॑क्रदत् ॥

तिस्रः । वाचः । उत्। ईरते । गावः। मिमन्ति । धेनवः ।

हरिः। एति । कर्निक्रदत् ॥४॥

“तिस्रो वाचः । ऋगादिभेदेन त्रिविधा स्तुतिः । उदीरते प्रोद्गमयन्त्यृत्विजः । “धेनवः आशिरेण प्रीणयित्र्यः “गावः “मिमन्ति शब्दयन्ति दोहार्थम् । “हरिः हरितवर्णश्च सोमः "कनिक्रदत् शब्दं कुर्वन् “एति गच्छति कलशम् ॥


अ॒भि ब्रह्मी॑रनूषत य॒ह्वीरृ॒तस्य॑ मा॒तरः॑ ।

म॒र्मृ॒ज्यन्ते॑ दि॒वः शिशु॑म् ॥

अभि । ब्रह्मीः । अनूषत । यह्वीः । ऋतस्य । मातरः ।

मर्मृज्यन्ते । दिवः । शिशुम् ॥ ५ ॥

“ब्रह्मीः ब्राह्मणप्रेरिताः "यह्वीः महत्यः । यह्वीरिति महन्नाम। "ऋतस्य यज्ञस्य “मातरः निर्मात्र्यः स्तुतयः "अभि "अनूषत स्तुवन्ति । किम् । “दिवः द्युदेवतायाः शिशुं शिशुस्थानीयं सोमम् । तमेव “मर्मृज्यन्ते मृजन्ति । ‘तृतीयस्यामितो दिवि सोम आसीत् ' ( तै. सं. ३. ५. ७. १ ) इत्यादिश्रुतेर्द्युशिशुत्वं तस्य ॥


रा॒यः स॑मु॒द्राँश्च॒तुरो॒ऽस्मभ्यं॑ सोम वि॒श्वतः॑ ।

आ प॑वस्व सह॒स्रिणः॑ ॥

रायः । समुद्रान् । चतुरः । अस्मभ्यम् । सोम । विश्वतः ।

आ । पवस्व । सहस्रिणः ॥ ६ ॥

"रायः धनस्य संबन्धिनः “चतुरः “समुद्रान् । धनपूर्णानित्यर्थः । तादृशान् समुद्रान् "अस्मभ्यम् अर्थाय हे “सोम विश्वतः सर्वतः “आ "पवस्व । तथा “सहस्रिणः अपरिमितान् कामान् आ पवस्व आयच्छ। चतुःसमुद्रस्थधनविशेषप्राप्तेः तन्मध्यगतभूमिस्वामित्वमन्तरेणासंभवाच्चतुःसमुद्रमुद्रितभूमण्डलस्वामित्वमेवाशास्ते यजमानः ॥ ॥ २३ ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३३&oldid=146220" इत्यस्माद् पुनः प्राप्तिः