ऋग्वेदः सूक्तं ९.७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.६ ऋग्वेदः - मण्डल ९
सूक्तं ९.७
कश्यपोऽसितो देवलो वा।
सूक्तं ९.८ →
दे. पवमानः सोमः। गायत्री।


असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः ।
विदाना अस्य योजनम् ॥१॥
प्र धारा मध्वो अग्रियो महीरपो वि गाहते ।
हविर्हविष्षु वन्द्यः ॥२॥
प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने ।
सद्माभि सत्यो अध्वरः ॥३॥
परि यत्काव्या कविर्नृम्णा वसानो अर्षति ।
स्वर्वाजी सिषासति ॥४॥
पवमानो अभि स्पृधो विशो राजेव सीदति ।
यदीमृण्वन्ति वेधसः ॥५॥
अव्यो वारे परि प्रियो हरिर्वनेषु सीदति ।
रेभो वनुष्यते मती ॥६॥
स वायुमिन्द्रमश्विना साकं मदेन गच्छति ।
रणा यो अस्य धर्मभिः ॥७॥
आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः ।
विदाना अस्य शक्मभिः ॥८॥
अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।
श्रवो वसूनि सं जितम् ॥९॥


सायणभाष्यम्

‘असृग्रम्' इति नवर्चं सप्तमं सूक्तम् । ' असृग्रम्' इत्यनुक्रान्तम् । असितो देवलो वर्षिः ।। तौ च कश्यपगोत्रजौ' । गायत्रं छन्दः । सोमः पवमानो देवता । उक्तो विनियोगः ॥


असृ॑ग्र॒मिंद॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ ।

वि॒दा॒ना अ॑स्य॒ योज॑नं ॥१

असृ॑ग्रम् । इन्द॑वः । प॒था । धर्म॑न् । ऋ॒तस्य॑ । सु॒ऽश्रियः॑ ।

वि॒दा॒नाः । अ॒स्य॒ । योज॑नम् ॥

असृग्रम् । इन्दवः । पथा । धर्मन् । ऋतस्य । सुऽश्रियः ।

विदानाः । अस्य । योजनम् ॥

“सुश्रियः शोभनश्रयणाः “अस्य इन्द्रस्य “योजनं संबन्धं “विदानाः जानन्तः “इन्दवः सोमाः “धर्मन् कर्मणि "ऋतस्य यज्ञस्य “पथा मार्गेण “असृग्रं सूज्यन्ते ॥


प्र धारा॒ मध्वो॑ अग्रि॒यो म॒हीर॒पो वि गा॑हते ।

ह॒विर्ह॒विष्षु॒ वंद्यः॑ ॥२

प्र । धारा॑ । मध्वः॑ । अ॒ग्रि॒यः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ।

ह॒विः । ह॒विष्षु॑ । वन्द्यः॑ ॥

प्र । धारा । मध्वः । अग्रियः । महीः । अपः । वि । गाहते ।

हविः । हविष्षु । वन्द्यः ॥

“हविष्षु हविषां मध्ये "वन्द्यः स्तुत्यः “हविः हविरात्मको यः सोमः “महीः महतीः “अपः वसतीवरीः “वि “गाहते तस्य “मध्वः सोमस्य “अग्रियः मुख्याः “धाराः “प्र पतन्तीत्यर्थः ॥


प्र यु॒जो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑ ।

सद्मा॒भि स॒त्यो अ॑ध्व॒रः ॥३

प्र । यु॒जः । वा॒चः । अ॒ग्रि॒यः । वृषा॑ । अव॑ । च॒क्र॒द॒त् । वने॑ ।

सद्म॑ । अ॒भि । स॒त्यः । अ॒ध्व॒रः ॥

प्र । युजः । वाचः । अग्रियः । वृषा । अव । चक्रदत् । वने ।

सद्म । अभि । सत्यः । अध्वरः ॥

एतदेव दर्शयति । “वृषा कामानां वर्षकः “सत्यः सत्यभूतः “अध्वरः हिंसावर्जितः “अग्रियः मुख्यः “सोमः “सद्म यज्ञगृहम् “अभि प्रति “वने उदके “युजः युक्ताः “वाचः “प्र “अव “चक्रदत् अवक्रन्दति । शब्दान् करोतीत्यर्थः ।।


परि॒ यत्काव्या॑ क॒विर्नृ॒म्णा वसा॑नो॒ अर्ष॑ति ।

स्व॑र्वा॒जी सि॑षासति ॥४

परि॑ । यत् । काव्या॑ । क॒विः । नृ॒म्णा । वसा॑नः । अर्ष॑ति ।

स्वः॑ । वा॒जी । सि॒सा॒स॒ति॒ ॥

परि । यत् । काव्या । कविः । नृम्णा । वसानः । अर्षति ।

स्वः । वाजी । सिसासति ॥

“कविः क्रान्तकर्मा सोमः “नृम्णा नृम्णानि धनानि “वसानः आच्छादयन् स्तोतॄणां “काव्या काव्यानि कविकर्माणि स्तोत्राणि “यत् यदा “परि “अर्षति परिगच्छति तदा “स्वः स्वर्गे “वाजी बलवानन्नवान् वा इन्द्रः “सिषासति । यागं प्रत्यागन्तुं स्वकीयं बलं संभक्तुमिच्छति ॥


पव॑मानो अ॒भि स्पृधो॒ विशो॒ राजे॑व सीदति ।

यदी॑मृ॒ण्वंति॑ वे॒धसः॑ ॥५

पव॑मानः । अ॒भि । स्पृधः॑ । विशः॑ । राजा॑ऽइव । सी॒द॒ति॒ ।

यत् । ई॒म् । ऋ॒ण्वन्ति॑ । वे॒धसः॑ ॥

पवमानः । अभि । स्पृधः । विशः । राजाऽइव । सीदति ।

यत् । ईम् । ऋण्वन्ति । वेधसः ॥

"यत यदा “ईम् एनं सोमं “वेधसः कर्मणां कर्तारः “ऋण्वन्ति प्रेरयन्ति तदा “पवमानः क्षरन्नेष सोमः “स्पृधः स्पर्धमानान् यागविघ्नकारिणो राक्षसान् “विशः स्पर्धमानान् मनुष्यान् “राजेव यथा राजा तद्वत् "अभि “षीदति नाशयितुमभिगच्छति ॥ ॥ २८ ॥


अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।

रे॒भो व॑नुष्यते म॒ती ॥६

अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । हरिः॑ । वने॑षु । सी॒द॒ति॒ ।

रे॒भः । व॒नु॒ष्य॒ते॒ । म॒ती ॥

अव्यः । वारे । परि । प्रियः । हरिः । वनेषु । सीदति ।

रेभः । वनुष्यते । मती ॥

"हरिः हरितवर्णः "प्रियः देवानां प्रियतम एव सोमः “वनेषु उदकेषु संपृक्तः "अव्यः अवेः “वारे वालोपेते "परि “षीदति । किंच “रेभः अभिषववेलायामुपरवेषु शब्दं कुर्वन् "मती मत्या स्तुत्या "वनुष्यते सेव्यते ॥


स वा॒युमिंद्र॑म॒श्विना॑ सा॒कं मदे॑न गच्छति ।

रणा॒ यो अ॑स्य॒ धर्म॑भिः ॥७

सः । वा॒युम् । इन्द्र॑म् । अ॒श्विना॑ । सा॒कम् । मदे॑न । ग॒च्छ॒ति॒ ।

रण॑ । यः । अ॒स्य॒ । धर्म॑ऽभिः ॥

सः । वायुम् । इन्द्रम् । अश्विना । साकम् । मदेन । गच्छति ।

रण । यः । अस्य । धर्मऽभिः ॥

“यः यजमानः "अस्य सोमस्य “धर्मभिः कर्मभिः क्रयणाभिषवादिभिः “रण रमते "सः यजमानः “वायुमिन्द्रं च "अश्विना अश्विनौ च "मदेन "साकं सह "गच्छति प्राप्नोति ॥


आ मि॒त्रावरु॑णा॒ भगं॒ मध्वः॑ पवंत ऊ॒र्मयः॑ ।

वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥८

आ । मि॒त्रावरु॑णा । भग॑म् । मध्वः॑ । प॒व॒न्ते॒ । ऊ॒र्मयः॑ ।

वि॒दा॒नाः । अ॒स्य॒ । शक्म॑ऽभिः ॥

आ । मित्रावरुणा । भगम् । मध्वः । पवन्ते । ऊर्मयः ।

विदानाः । अस्य । शक्मऽभिः ॥

येषां यजमानानां "मध्वः सोमस्य “ऊर्मयः तरङ्गाः "मित्रावरुणा मित्रावरुणौ देवौ “भगं भगाख्यं देवं च प्रति "पवन्ते क्षरन्ति ते यजमानाः "अस्य सोमस्येमं सोमं “विदानाः जानन्तः “शक्मभिः सुखैः संगच्छन्त इति शेषः ॥


अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।

श्रवो॒ वसू॑नि॒ सं जि॑तं ॥९

अ॒स्मभ्य॑म् । रो॒द॒सी॒ इति॑ । र॒यिम् । मध्वः॑ । वाज॑स्य । सा॒तये॑ ।

श्रवः॑ । वसू॑नि । सम् । जि॒त॒म् ॥

अस्मभ्यम् । रोदसी इति । रयिम् । मध्वः । वाजस्य । सातये ।

श्रवः । वसूनि । सम् । जितम् ॥

हे "रोदसी द्यावापृथिव्यौ युवां "मध्वः देवानां मोदयितुः “वाजस्य सोमात्मकस्यान्नस्य “सातये लाभाय “अस्मभ्यं काश्यपासितेभ्यः काश्यपदेवलेभ्यो वा "रयिं धनं “श्रवः अन्नं च “वसूनि वासकान्यन्यान्यपि पश्वादीनि धनानि “सं "जितं संजयतम् । प्रयच्छतमित्यर्थः ॥ ॥ २९ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७&oldid=181244" इत्यस्माद् पुनः प्राप्तिः