ऋग्वेदः सूक्तं ९.८
← सूक्तं ९.७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.८ कश्यपोऽसितो देवलो वा। |
सूक्तं ९.९ → |
दे. पवमानः सोमः। गायत्री। |
एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।
वर्धन्तो अस्य वीर्यम् ॥१॥
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।
ते नो धान्तु सुवीर्यम् ॥२॥
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
ऋतस्य योनिमासदम् ॥३॥
मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः ।
अनु विप्रा अमादिषुः ॥४॥
देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।
सं गोभिर्वासयामसि ॥५॥
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।
परि गव्यान्यव्यत ॥६॥
मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
इन्दो सखायमा विश ॥७॥
वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।
सहो नः सोम पृत्सु धाः ॥८॥
नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् ।
भक्षीमहि प्रजामिषम् ॥९॥
सायणभाष्यम्
‘एते सोमाः' इति नवर्चमष्टमं सूक्तम् । ऋष्याद्याः पूर्ववत् । अनुक्रान्तं च -- एते सोमाः ' इति । उक्तः सूक्तविनियोगः । ग्रावस्तोत्रे गाणगारिमतेनाभिरूपकरणे सोमे मृज्यमाने ' मृजन्ति त्वा इत्येषा । सूत्रितं च- अथापरमभिरूपं कुर्यादिति गाणगारिरा प्यायस्व समेतु त इति तिस्रो मृजन्ति त्वा दश क्षिपः' (आश्व. श्रौ. ५.१२ ) इति ।।
ए॒ते सोमा॑ अ॒भि प्रि॒यमिंद्र॑स्य॒ काम॑मक्षरन् ।
वर्धं॑तो अस्य वी॒र्यं॑ ॥१
ए॒ते । सोमाः॑ । अ॒भि । प्रि॒यम् । इन्द्र॑स्य । काम॑म् । अ॒क्ष॒र॒न् ।
वर्ध॑न्तः । अ॒स्य॒ । वी॒र्य॑म् ॥१
एते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् ।
वर्धन्तः । अस्य । वीर्यम् ॥१
“एते अभिषुता इमे “सोमाः "अस्य इन्द्रस्य "वीर्यं शक्तिं "वर्धन्तः वर्धयन्तः "इन्द्रस्य “कामं काम्यं "प्रियं प्रीतिकरं रसम् "अभि "अक्षरन् अभिपवन्ते अभ्यवर्षन् ।
पु॒ना॒नास॑श्चमू॒षदो॒ गच्छं॑तो वा॒युम॒श्विना॑ ।
ते नो॑ धांतु सु॒वीर्यं॑ ॥२
पु॒ना॒नासः॑ । च॒मू॒ऽसदः॑ । गच्छ॑न्तः । वा॒युम् । अ॒श्विना॑ ।
ते । नः॒ । धा॒न्तु॒ । सु॒ऽवीर्य॑म् ॥२
पुनानासः । चमूऽसदः । गच्छन्तः । वायुम् । अश्विना ।
ते । नः । धान्तु । सुऽवीर्यम् ॥२
“ते प्रसिद्धाः सोमाः "पुनानासः पुनाना अभिषूयमाणाः “चमूषदः चमसेषु सीदन्तः "वायुम् "अश्विना अश्विनौ च "गच्छन्तः प्राप्नुवन्तः "नः अस्मभ्यं "सुवीर्यं शोभनवीर्यं “धान्तु धारयन्तु । प्रयच्छन्त्वित्यर्थः ॥
इंद्र॑स्य सोम॒ राध॑से पुना॒नो हार्दि॑ चोदय ।
ऋ॒तस्य॒ योनि॑मा॒सदं॑ ॥३
इन्द्र॑स्य । सो॒म॒ । राध॑से । पु॒ना॒नः । हार्दि॑ । चो॒द॒य॒ ।
ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥३
इन्द्रस्य । सोम । राधसे । पुनानः । हार्दि । चोदय ।
ऋतस्य । योनिम् । आऽसदम् ॥३
हे "सोम "पुनानः अभिषूयमाणः "हार्दि अभिलषितस्त्वम् "इन्द्रस्य "राधसे संराधनाय "ऋतस्य यज्ञस्य “योनिं स्थानम् "आसदं यथेन्द्र आसीदति तथेन्द्रं "चोदय प्रेरय ॥
मृ॒जंति॑ त्वा॒ दश॒ क्षिपो॑ हि॒न्वंति॑ स॒प्त धी॒तयः॑ ।
अनु॒ विप्रा॑ अमादिषुः ॥४
मृ॒जन्ति॑ । त्वा॒ । दश॑ । क्षिपः॑ । हि॒न्वन्ति॑ । स॒प्त । धी॒तयः॑ ।
अनु॑ । विप्राः॑ । अ॒मा॒दि॒षुः॒ ॥४
मृजन्ति । त्वा । दश । क्षिपः । हिन्वन्ति । सप्त । धीतयः ।
अनु । विप्राः । अमादिषुः ॥४
हे सोम “त्वा त्वां “दश दशसंख्याकाः "क्षिपः अङ्गुलयः । ‘ व्रिशः क्षिपः' इत्यङ्गुलिनामसु पाठात्। "मृजन्ति परिचरन्ति । "सप्त सप्तसंख्याकाः “धीतयः होत्रकाश्च त्वा त्वां हिन्वन्ति स्वस्वव्यापारैः प्रीणयन्ति । "विप्राः मेधाविनश्च त्वाम् "अनु "अमादिषुः अनुमादयन्ति ।
दे॒वेभ्य॑स्त्वा॒ मदा॑य॒ कं सृ॑जा॒नमति॑ मे॒ष्यः॑ ।
सं गोभि॑र्वासयामसि ॥५
दे॒वेभ्यः॑ । त्वा॒ । मदा॑य । कम् । सृ॒जा॒नम् । अति॑ । मे॒ष्यः॑ ।
सम् । गोभिः॑ । वा॒स॒या॒म॒सि॒ ॥५
देवेभ्यः । त्वा । मदाय । कम् । सृजानम् । अति । मेष्यः ।
सम् । गोभिः । वासयामसि ॥५
हे सोम “मेष्यः अवेर्लोमानि “कम् उदकं च "अति अभि “सृजानं “त्वा त्वां “देवेभ्यः देवानाम् । विभक्तिव्यत्ययः । "मदाय मदार्थं “गोभिः गोविकारैः पयोभिः "सं वासयामसि संवासयामः ॥ ॥ ३० ॥
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरिः॑ ।
परि॒ गव्या॑न्यव्यत ॥६
पु॒ना॒नः । क॒लशे॑षु । आ । वस्त्रा॑णि । अ॒रु॒षः । हरिः॑ ।
परि॑ । गव्या॑नि । अ॒व्य॒त॒ ॥६
पुनानः । कलशेषु । आ । वस्त्राणि । अरुषः । हरिः ।
परि । गव्यानि । अव्यत ॥६
“पुनानः पूयमानः "कलशेषु कुम्भेषु निषिच्यमानः "अरुषः आरोचमानः "हरिः हरितवर्णः सोमः “गव्यानि दध्यादीनि "वस्त्राणि वासांसीव “परि “अव्यत पर्याच्छादयति ।।
म॒घोन॒ आ प॑वस्व नो ज॒हि विश्वा॒ अप॒ द्विषः॑ ।
इंदो॒ सखा॑य॒मा वि॑श ॥७
म॒घोनः॑ । आ । प॒व॒स्व॒ । नः॒ । ज॒हि । विश्वाः॑ । अप॑ । द्विषः॑ ।
इन्दो॒ इति॑ । सखा॑यम् । आ । वि॒श॒ ॥७
मघोनः । आ । पवस्व । नः । जहि । विश्वाः । अप । द्विषः ।
इन्दो इति । सखायम् । आ । विश ॥७
हे “इन्दो सोम "मघोनः धनवतः "नः अस्मान् प्रति "पवस्व क्षर ।.”विश्वाः विश्वान् "द्विषः द्वेष्टॄन् "अप "जहि मारय च । "सखायं प्रियमिन्द्रम् "आ "विश आप्नुहि च ॥
वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ ।
सहो॑ नः सोम पृ॒त्सु धाः॑ ॥८
वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ । द्यु॒म्नम् । पृ॒थि॒व्याः । अधि॑ ।
सहः॑ । नः॒ । सो॒म॒ । पृ॒त्ऽसु । धाः॒ ॥८
वृष्टिम् । दिवः । परि । स्रव । द्युम्नम् । पृथिव्याः । अधि ।
सहः । नः । सोम । पृत्ऽसु । धाः ॥८
हे "सोम त्वं "दिवः द्युलोकात् "वृष्टिं वर्षं “परि “स्रव वर्ष । “पृथिव्या "अधि पृथिव्याम् । अधिः सप्तम्यर्थानुवादः । “द्युम्नम् अन्नं चोत्पादयेति शेषः । “नः अस्माकं "सहः बलं च “पृत्सु संग्रामेषु “धाः धेहि ।।
नृ॒चक्ष॑सं त्वा व॒यमिंद्र॑पीतं स्व॒र्विदं॑ ।
भ॒क्षी॒महि॑ प्र॒जामिषं॑ ॥९
नृ॒ऽचक्ष॑सम् । त्वा॒ । व॒यम् । इन्द्र॑ऽपीतम् । स्वः॒ऽविद॑म् ।
भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥९
नृऽचक्षसम् । त्वा । वयम् । इन्द्रऽपीतम् । स्वःऽविदम् ।
भक्षीमहि । प्रऽजाम् । इषम् ॥९
हे सोम "नृचक्षसं नृणां द्रष्टारं “स्वर्विदं सर्वज्ञम् “इन्द्रपीतम् इन्द्रेण पीतं “त्वा त्वां पिबन्तः “वयं काश्यपासिताः काश्यपदेवला वा "प्रजां पुत्रादिकाम् “इषम् अन्नं च "भक्षीमहि भजेमहि ॥ ॥ ३१ ॥
टिप्पणी
९.८.१ एते सोम अभि प्रियम् इति
मण्डल ९ | |||
---|---|---|---|