ऋग्वेदः सूक्तं ९.१०

विकिस्रोतः तः
← सूक्तं ९.९ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०
कश्यपोऽसितो देवलो वा।
सूक्तं ९.११ →
दे. पवमानः सोमः। गायत्री।


प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः ।
सोमासो राये अक्रमुः ॥१॥
हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
भरासः कारिणामिव ॥२॥
राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते ।
यज्ञो न सप्त धातृभिः ॥३॥
परि सुवानास इन्दवो मदाय बर्हणा गिरा ।
सुता अर्षन्ति धारया ॥४॥
आपानासो विवस्वतो जनन्त उषसो भगम् ।
सूरा अण्वं वि तन्वते ॥५॥
अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।
वृष्णो हरस आयवः ॥६॥
समीचीनास आसते होतारः सप्तजामयः ।
पदमेकस्य पिप्रतः ॥७॥
नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा ।
कवेरपत्यमा दुहे ॥८॥
अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम् ।
सूरः पश्यति चक्षसा ॥९॥


सायणभाष्यम्

‘ प्र स्वानासः' इति नवर्चं दशमं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र स्वानासः' इत्यनुक्रान्तम् । उक्तो विनियोगः ॥


प्र स्वा॒नासो॒ रथा॑ इ॒वार्वं॑तो॒ न श्र॑व॒स्यवः॑ ।

सोमा॑सो रा॒ये अ॑क्रमुः ॥१

प्र । स्वा॒नासः॑ । रथाः॑ऽइव । अर्व॑न्तः । न । श्र॒व॒स्यवः॑ ।

सोमा॑सः । रा॒ये । अ॒क्र॒मुः॒ ॥१

प्र । स्वानासः । रथाःऽइव । अर्वन्तः । न । श्रवस्यवः ।

सोमासः । राये । अक्रमुः ॥१

“प्र “स्वानासः अभिषववेलायामुपरवेषु शब्दं कुर्वन्तः “सोमासः सोमाः “रथाइव यथा शब्दं कुर्वन्तो रथा: “अर्वन्तो “न यथा शब्दं कुर्वन्तोऽश्वाः तथा “श्रवस्यवः शत्रुभ्योऽन्नमिच्छन्तः “राये। यजमानानां धनाय “अक्रमुः आगच्छन् ।


हि॒न्वा॒नासो॒ रथा॑ इव दधन्वि॒रे गभ॑स्त्योः ।

भरा॑सः का॒रिणा॑मिव ॥२

हि॒न्वा॒नासः॑ । रथाः॑ऽइव । द॒ध॒न्वि॒रे । गभ॑स्त्योः ।

भरा॑सः । का॒रिणा॑म्ऽइव ॥२

हिन्वानासः । रथाःऽइव । दधन्विरे । गभस्त्योः ।

भरासः । कारिणाम्ऽइव ॥२

सोमाः “रथाइव यथा रथास्तथा “हिन्वानासः हिन्वाना यागदेशं प्रति गच्छन्तः “भरासः भराः “कारिणामिव यथा भारवाहिनां बाह्वोर्धीयन्ते तथा “गभस्त्योः ऋत्विजां बाह्वोः। ‘ गभस्ती बाहू' इति बाहुनामसु पाठात् । “दधन्विरे धीयन्ते ॥


राजा॑नो॒ न प्रश॑स्तिभिः॒ सोमा॑सो॒ गोभि॑रञ्जते ।

य॒ज्ञो न स॒प्त धा॒तृभिः॑ ॥३

राजा॑नः । न । प्रश॑स्तिऽभिः । सोमा॑सः । गोभिः॑ । अ॒ञ्ज॒ते॒ ।

य॒ज्ञः । न । स॒प्त । धा॒तृऽभिः॑ ॥३

राजानः । न । प्रशस्तिऽभिः । सोमासः । गोभिः । अञ्जते ।

यज्ञः । न । सप्त । धातृऽभिः ॥३

“सोमासः सोमाः “प्रशस्तिभिः प्रशस्ताभिः स्तुतिरूपाभिर्वाग्भिः “राजानो “न यथा राजानः “सप्त “धातृभिः सप्त होत्राभिः “यज्ञो “न यथा च यज्ञस्तथा “गोभिः गोविकारैः पयोभिः “अञ्जते अज्यन्ते । संस्क्रियन्त इत्यर्थः ।।


परि॑ सुवा॒नास॒ इन्द॑वो॒ मदा॑य ब॒र्हणा॑ गि॒रा ।

सु॒ता अ॑र्षन्ति॒ धार॑या ॥४

परि॑ । सु॒वा॒नासः॑ । इन्द॑वः । मदा॑य । ब॒र्हणा॑ । गि॒रा ।

सु॒ताः । अ॒र्ष॒न्ति॒ । धार॑या ॥४

परि । सुवानासः । इन्दवः । मदाय । बर्हणा । गिरा ।

सुताः । अर्षन्ति । धारया ॥४

“सुवानासः सुवाना अभिषूयमाणाः “इन्दवः सोमाः “बर्हणा महत्या “गिरा स्तुतिरूपया वाचा “सुताः अभिषुताः सन्तः “मदाय मदार्थं “धारया "परि “अर्षन्ति परितो गच्छन्ति ।


आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जनं॑त उ॒षसो॒ भगं॑ ।

सूरा॒ अण्वं॒ वि त॑न्वते ॥५

आ॒पा॒नासः॑ । वि॒वस्व॑तः । जन॑न्तः । उ॒षसः॑ । भग॑म् ।

सूराः॑ । अण्व॑म् । वि । त॒न्व॒ते॒ ॥५

आपानासः । विवस्वतः । जनन्तः । उषसः । भगम् ।

सूराः । अण्वम् । वि । तन्वते ॥५

“विवस्वतः इन्द्रस्य “आपानासः अपानभूताः “उषसः “भगं “जनन्तः जनयन्तः “सूराः सरन्तः सोमाः “अण्वं “वि “तन्वते । अभिषववेलायामुपरवेषु शब्दं कुर्वन्ति ॥ ॥ ३४ ॥


अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रवः॑ ।

वृष्णो॒ हर॑स आ॒यवः॑ ॥६

अप॑ । द्वारा॑ । म॒ती॒नाम् । प्र॒त्नाः । ऋ॒ण्व॒न्ति॒ । का॒रवः॑ ।

वृष्णः॑ । हर॑से । आ॒यवः॑ ॥६

अप । द्वारा । मतीनाम् । प्रत्नाः । ऋण्वन्ति । कारवः ।

वृष्णः । हरसे । आयवः ॥६

"मतीनां स्तुतीनां “कारवः कर्तार ऋत्विजः “प्रत्नाः पुराणाः “वृष्णः सेचकस्य सोमस्य “हरस आहरस आहर्तारश्च “आयवः मनुष्याः “द्वारा यज्ञस्य द्वाराणि "अप “ऋण्वन्ति ।।


स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः ।

प॒दमेक॑स्य॒ पिप्र॑तः ॥७

स॒म्ऽई॒ची॒नासः॑ । आ॒स॒ते॒ । होता॑रः । स॒प्तऽजा॑मयः ।

प॒दम् । एक॑स्य । पिप्र॑तः ॥७

सम्ऽईचीनासः । आसते । होतारः । सप्तऽजामयः ।

पदम् । एकस्य । पिप्रतः ॥७

“समीचीनासः समीचीनाः “जामयः जामिसदृशाः “एकस्य सोमस्य “पदं स्थानं "पिप्रतः पूरयन्तः “सप्त “होतारः सप्त होत्रकाः “आसते यज्ञ उपविशन्ति ॥


नाभा॒ नाभिं॑ न॒ आ द॑दे॒ चक्षु॑श्चि॒त्सूर्ये॒ सचा॑ ।

क॒वेरप॑त्य॒मा दु॑हे ॥८

नाभा॑ । नाभि॑म् । नः॒ । आ । द॒दे॒ । चक्षुः॑ । चि॒त् । सूर्ये॑ । सचा॑ ।

क॒वेः । अप॑त्यम् । आ । दु॒हे॒ ॥८

नाभा । नाभिम् । नः । आ । ददे । चक्षुः । चित् । सूर्ये । सचा ।

कवेः । अपत्यम् । आ । दुहे ॥८

"नाभिं यज्ञस्य नाभिभूतं सोमं “नः अस्माकं “नाभा नाभौ अहम् “आ “ददे । पिबामीत्यर्थः । पीतसोमानामस्माकं चक्षुश्चित् चक्षुरपि “सूर्ये “सचा संगतं भवति । किंच “कवेः क्रान्तकर्मणः सोमस्य “अपत्यम्' अंशुम् “आ “दुहे आपूरयामि । ।


अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒र्गुहा॑ हि॒तं ।

सूरः॑ पश्यति॒ चक्ष॑सा ॥९

अ॒भि । प्रि॒या । दि॒वः । प॒दम् । अ॒ध्व॒र्युऽभिः॑ । गुहा॑ । हि॒तम् ।

सूरः॑ । प॒श्य॒ति॒ । चक्ष॑सा ॥९

अभि । प्रिया । दिवः । पदम् । अध्वर्युऽभिः । गुहा । हितम् ।

सूरः । पश्यति । चक्षसा ॥९

"सूरः सुवीर्य इन्द्रः “चक्षसा चक्षुषा “दिवः दीप्तस्यात्मनः “प्रिया प्रियं “पदम् “अध्वर्युभिः “गुहा गुहायां हृदये “हितं निहितं पीतं सोममपि “अभि “पश्यति ।। ॥ ३५ ॥

[सम्पाद्यताम्]

टिप्पणी

९.१०.१ प्र स्वानासो इति

साम १११९

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०&oldid=360656" इत्यस्माद् प्रतिप्राप्तम्