ऋग्वेदः सूक्तं ९.४७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.४६ ऋग्वेदः - मण्डल ९
सूक्तं ९.४७
कविर्भार्गवः
सूक्तं ९.४८ →
दे. पवमानः सोमः। गायत्री।


अया सोमः सुकृत्यया महश्चिदभ्यवर्धत ।
मन्दान उद्वृषायते ॥१॥
कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
ऋणा च धृष्णुश्चयते ॥२॥
आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् ।
उक्थं यदस्य जायते ॥३॥
स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति ।
यदी मर्मृज्यते धियः ॥४॥
सिषासतू रयीणां वाजेष्वर्वतामिव ।
भरेषु जिग्युषामसि ॥५॥


सायणभाष्यम्

‘अया सोमः' इति पञ्चर्चं त्रयोविंशं सूक्तं भृगुपुत्रस्य कवेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम् -- ‘अया सोमः पञ्च कविर्भार्गवः' इति । उक्तो विनियोगः ॥


अ॒या सोमः॑ सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत ।

मं॒दा॒न उद्वृ॑षायते ॥१

अ॒या । सोमः॑ । सु॒ऽकृ॒त्यया॑ । म॒हः । चि॒त् । अ॒भि । अ॒व॒र्ध॒त॒ ।

म॒न्दा॒नः । उत् । वृ॒ष॒ऽय॒ते॒ ॥

अया । सोमः । सुऽकृत्यया । महः । चित् । अभि । अवर्धत ।

मन्दानः । उत् । वृषऽयते ॥

“सोमः "अया अनया “सुकृत्यया शोभनयाभिषवादिलक्षणया क्रियया “महश्चित् महतो देवान् प्रति अभ्यवर्धत प्रवृद्धोऽभूत् । “मन्दानः मोदमानः “उद्वृषायते वृषवदाचरति । यथा मोदमानो वृषभः शब्दं करोति तथाभिषववेलायामुपरवेषु शब्दं करोतीत्यर्थः ॥


कृ॒तानीद॑स्य॒ कर्त्वा॒ चेतं॑ते दस्यु॒तर्ह॑णा ।

ऋ॒णा च॑ धृ॒ष्णुश्च॑यते ॥२

कृ॒तानि॑ । इत् । अ॒स्य॒ । कर्त्वा॑ । चेत॑न्ते । द॒स्यु॒ऽतर्ह॑णा ।

ऋ॒णा । च॒ । धृ॒ष्णुः । च॒य॒ते॒ ॥

कृतानि । इत् । अस्य । कर्त्वा । चेतन्ते । दस्युऽतर्हणा ।

ऋणा । च । धृष्णुः । चयते ॥

“अस्य यस्य एतस्य सोमस्य “दस्युतर्हणा दस्यूनामसुराणां नाशकानि “कर्त्वा कर्माणि सः “इत् अस्माभिरेव सोऽयं “धृष्णुः धृष्टः सोमो यजमानानाम् "ऋणा “च ऋणान्यपि “चयते कामप्रदानेन चातयति ॥


आत्सोम॑ इंद्रि॒यो रसो॒ वज्रः॑ सहस्र॒सा भु॑वत् ।

उ॒क्थं यद॑स्य॒ जाय॑ते ॥३

आत् । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ । वज्रः॑ । स॒ह॒स्र॒ऽसाः । भु॒व॒त् ।

उ॒क्थम् । यत् । अ॒स्य॒ । जाय॑ते ॥

आत् । सोमः । इन्द्रियः । रसः । वज्रः । सहस्रऽसाः । भुवत् ।

उक्थम् । यत् । अस्य । जायते ॥

“यत् यदा “अस्य इन्द्रस्य “उक्थं शस्त्रं “जायते प्रादुर्भवति तत् "आत् अनन्तरमेव “इन्द्रियः इन्द्रस्य प्रियकरः रसः बलवान् “वज्रः वज्रसदृशः केनाप्यहिंस्यः “सोमः “सहस्रसाः अस्मभ्यमपरिमितस्य धनस्य दाता भवति ॥


स्व॒यं क॒विर्वि॑ध॒र्तरि॒ विप्रा॑य॒ रत्न॑मिच्छति ।

यदी॑ मर्मृ॒ज्यते॒ धियः॑ ॥४

स्व॒यम् । क॒विः । वि॒ऽध॒र्तरि॑ । विप्रा॑य । रत्न॑म् । इ॒च्छ॒ति॒ ।

यदि॑ । म॒र्मृ॒ज्यते॑ । धियः॑ ॥

स्वयम् । कविः । विऽधर्तरि । विप्राय । रत्नम् । इच्छति ।

यदि । मर्मृज्यते । धियः ॥

“यदि “कविः क्रान्तकर्मा अयं सोमः “धियः धीभिः। विभक्तिव्यत्ययः। धीतिभिः । अङ्गुलीभिरित्यर्थः । "मर्मृज्यते शोध्यते तर्हि “स्वयं स्वयमेव “विप्राय मेधाविने “विधर्तरि कामानां विधातरीन्द्रे “रत्नं रमणीयं धनम् “इच्छति । इन्द्रेण धनं दापयितुमिच्छतीत्यर्थः ॥


सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव ।

भरे॑षु जि॒ग्युषा॑मसि ॥५

सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव ।

भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥

सिसासतुः । रयीणाम् । वाजेषु । अर्वताम्ऽइव ।

भरेषु । जिग्युषाम् । असि ॥

हे सोम त्वं “भरेषु संग्रामेषु “जिग्युषां शत्रून् जयतां “रयीणां धनानां “सिषासतुः संभक्तुमिच्छुः “असि भवसि । शत्रून् जयद्योत् धनानि प्रयच्छसीत्यर्थः । तत्र दृष्टान्तः। “वाजेषु संग्रामेषु “अर्वतामिव अश्वानामिव । यथा संग्रामं प्रविशद्भ्योऽश्वेभ्यो घासं प्रयच्छन्ति तद्वदित्यर्थः॥ ॥ ४ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४७&oldid=181783" इत्यस्माद् पुनः प्राप्तिः