ऋग्वेदः सूक्तं ९.४९

विकिस्रोतः तः
← सूक्तं ९.४८ ऋग्वेदः - मण्डल ९
सूक्तं ९.४९
कविर्भार्गवः।
सूक्तं ९.५० →
दे. पवमानः सोमः। गायत्री।


पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
अयक्ष्मा बृहतीरिषः ॥१॥
तया पवस्व धारया यया गाव इहागमन् ।
जन्यास उप नो गृहम् ॥२॥
घृतं पवस्व धारया यज्ञेषु देववीतमः ।
अस्मभ्यं वृष्टिमा पव ॥३॥
स न ऊर्जे व्यव्ययं पवित्रं धाव धारया ।
देवासः शृणवन्हि कम् ॥४॥
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् ।
प्रत्नवद्रोचयन्रुचः ॥५॥


सायणभाष्यम्

‘पवस्व' इति पञ्चर्चं पञ्चविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “ पवस्व' इत्यनुक्रान्तम् । गतो विनियोगः ॥


पव॑स्व वृ॒ष्टिमा सु नो॒ऽपामू॒र्मिं दि॒वस्परि॑ ।

अ॒य॒क्ष्मा बृ॑ह॒तीरिषः॑ ॥१

पव॑स्व । वृ॒ष्टिम् । आ । सु । नः॒ । अ॒पाम् । ऊ॒र्मिम् । दि॒वः । परि॑ ।

अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः॑ ॥१

पवस्व । वृष्टिम् । आ । सु । नः । अपाम् । ऊर्मिम् । दिवः । परि ।

अयक्ष्माः । बृहतीः । इषः ॥१

हे सोम त्वं “दिवः द्युलोकात् "वृष्टिं “नः अस्माकम् “आ “पवस्व समन्तात् क्षर । एतदेव दर्शयति । “अपाम् उदकानाम् “ऊर्मिं तरङ्गं दिवः “परि आ पवस्व । अपि च "अयक्ष्माः यक्ष्मरहितानि अनामयानि “बृहतीः महान्ति “इषः अन्नानि आ पवस्व ॥


तया॑ पवस्व॒ धार॑या॒ यया॒ गाव॑ इ॒हागम॑न् ।

जन्या॑स॒ उप॑ नो गृ॒हं ॥२

तया॑ । प॒व॒स्व॒ । धार॑या । यया॑ । गावः॑ । इ॒ह । आ॒ऽगम॑न् ।

जन्या॑सः । उप॑ । नः॒ । गृ॒हम् ॥२

तया । पवस्व । धारया । यया । गावः । इह । आऽगमन् ।

जन्यासः । उप । नः । गृहम् ॥२

हे सोम त्वं “तया तादृश्या “धारया “पवस्व क्षर। कीदृश्येत्यत्राह। “यया यादृश्या त्वदीयया धारया “जन्यासः जन्याः शत्रुजनपदभवाः “गावः “इह अस्मिँल्लोके "नः अस्माकं संबन्धि “गृहम् “उप “आगमन् उपागच्छन्ति ॥


घृ॒तं प॑वस्व॒ धार॑या य॒ज्ञेषु॑ देव॒वीत॑मः ।

अ॒स्मभ्यं॑ वृ॒ष्टिमा प॑व ॥३

घृ॒तम् । प॒व॒स्व॒ । धार॑या । य॒ज्ञेषु॑ । दे॒व॒ऽवीत॑मः ।

अ॒स्मभ्य॑म् । वृ॒ष्टिम् । आ । प॒व॒ ॥३

घृतम् । पवस्व । धारया । यज्ञेषु । देवऽवीतमः ।

अस्मभ्यम् । वृष्टिम् । आ । पव ॥३

हे सोम “यज्ञेषु “देववीतमः अत्यन्तं देवकामस्त्वम् “अस्मभ्यं भार्गवेभ्यः कविभ्यः “घृतम् उदकम् । वनं घृतम्' इत्युदकनामसु पाठात् । “धारया संपातेन “पवस्व क्षर। “वृष्टिं वर्षं च "आ “पव पवस्व ॥


स न॑ ऊ॒र्जे व्य१॒॑व्ययं॑ प॒वित्रं॑ धाव॒ धार॑या ।

दे॒वासः॑ शृ॒णव॒न्हि कं॑ ॥४

सः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय॑म् । प॒वित्र॑म् । धा॒व॒ । धार॑या ।

दे॒वासः॑ । शृ॒णव॑न् । हि । क॒म् ॥४

सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया ।

देवासः । शृणवन् । हि । कम् ॥४

हे सोम सुतः अभिषुतस्त्वं “नः अस्माकम् “ऊर्जे अन्नाय “अव्ययम् अविमयं “पवित्रं “धारया संपातेन “वि “धाव प्राप्नुहि। “देवासः देवा अपि “हि “कं “शृणवन् गमनवेलायामुत्पन्नं तव शब्द शृण्वन्तु ॥


पव॑मानो असिष्यद॒द्रक्षां॑स्यप॒जंघ॑नत् ।

प्र॒त्न॒वद्रो॒चय॒न्रुचः॑ ॥५

पव॑मानः । अ॒सि॒स्य॒द॒त् । रक्षां॑सि । अ॒प॒ऽजङ्घ॑नत् ।

प्र॒त्न॒ऽवत् । रो॒चय॑न् । रुचः॑ ॥५

पवमानः । असिस्यदत् । रक्षांसि । अपऽजङ्घनत् ।

प्रत्नऽवत् । रोचयन् । रुचः ॥५

“रक्षांसि राक्षसान् अपजङ्घनत् अपघ्नन् “रुचः आत्मीया दीप्तीः “प्रत्नवत् पुराणवत् “रोचयन् दीपयन् “पवमानः सोमः “असिष्यदत् स्यन्दते ॥ ॥ ६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४९&oldid=208636" इत्यस्माद् प्रतिप्राप्तम्