ऋग्वेदः सूक्तं ९.५०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.५० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ९.४९ ऋग्वेदः - मण्डल ९
सूक्तं ९.५०
उचथ्य आङ्गिरसः
सूक्तं ९.५१ →
दे. पवमानः सोमः। गायत्री


उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।
वाणस्य चोदया पविम् ॥१॥
प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।
यदव्य एषि सानवि ॥२॥
अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।
पवमानं मधुश्चुतम् ॥३॥
आ पवस्व मदिन्तम पवित्रं धारया कवे ।
अर्कस्य योनिमासदम् ॥४॥
स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।
इन्दविन्द्राय पीतये ॥५॥


सायणभाष्यम्

‘उत्ते' इति पञ्चर्चं षड्विंशं सूक्तमाङ्गिरसस्योचथ्यस्यार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तम्---’ उत्ते शुष्मास उचथ्यः' इति । उक्तो विनियोगः ॥


उत्ते॒ शुष्मा॑स ईरते॒ सिंधो॑रू॒र्मेरि॑व स्व॒नः ।

वा॒णस्य॑ चोदया प॒विं ॥१

उत् । ते॒ । शुष्मा॑सः । ई॒र॒ते॒ । सिन्धोः॑ । ऊ॒र्मेःऽइ॑व । स्व॒नः ।

वा॒णस्य॑ । चो॒द॒य॒ । प॒विम् ॥१

उत् । ते । शुष्मासः । ईरते । सिन्धोः । ऊर्मेःऽइव । स्वनः ।

वाणस्य । चोदय । पविम् ॥१

हे सोम “ते तव “शुष्मासः शुष्मा वेगाः “उत् “ईरते उद्गच्छन्ति । तत्र दृष्टान्तः । “सिन्धोः समुद्रस्य “ऊर्मेरिव यथा तरङ्गात् “स्वनः ध्वनिरुद्गच्छति तद्वदित्यर्थः । सः त्वं “वाणस्य विसृष्टस्य बाणस्य नालस्य वा वादित्रविशेषस्य “पविं शब्दम् । “पविः भारती ' इति वाङ्नामसु पाठात् । “चोदय प्रेरय । वेगेन स्यन्दमानस्त्वं विसृष्टबाणशब्दसदृशं शब्दं कुर्वित्यर्थः ॥


प्र॒स॒वे त॒ उदी॑रते ति॒स्रो वाचो॑ मख॒स्युवः॑ ।

यदव्य॒ एषि॒ सान॑वि ॥२

प्र॒ऽस॒वे । ते॒ । उत् । ई॒र॒ते॒ । ति॒स्रः । वाचः॑ । म॒ख॒स्युवः॑ ।

यत् । अव्ये॑ । एषि॑ । सान॑वि ॥२

प्रऽसवे । ते । उत् । ईरते । तिस्रः । वाचः । मखस्युवः ।

यत् । अव्ये । एषि । सानवि ॥२

हे सोम “ते तव “प्रसवे सति “मखस्युवः यज्ञमिच्छतो यजमानस्य “तिस्रो “वाचः ऋग्यजुःसामात्मकानि त्रीणि वाक्यानि “उदीरते उद्गच्छन्ति । कदेत्यत आह । “यत् यदा “सानवि व्युच्छ्रिते “अव्ये अविभये पवित्रे “एषि त्वं गच्छसि ।


अव्यो॒ वारे॒ परि॑ प्रि॒यं हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

पव॑मानं मधु॒श्चुतं॑ ॥३

अव्यः॑ । वारे॑ । परि॑ । प्रि॒यम् । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

पव॑मानम् । म॒धु॒ऽश्चुत॑म् ॥३

अव्यः । वारे । परि । प्रियम् । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

पवमानम् । मधुऽश्चुतम् ॥३

"प्रियं देवानां प्रीतिकरं “हरिं हरितवर्णम् “अद्रिभिः ग्रावभिरभिषुतं “मधुश्चुतं मधुनो रसस्य च्यावयितारं “पवमानं सोमम् “अव्यः अवेः “वारे वाले “परि “हिन्वन्ति ऋत्विजः परिप्रेरयन्ति ।


आ प॑वस्व मदिंतम प॒वित्रं॒ धार॑या कवे ।

अ॒र्कस्य॒ योनि॑मा॒सदं॑ ॥४

आ । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । प॒वित्र॑म् । धार॑या । क॒वे॒ ।

अ॒र्कस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥४

आ । पवस्व । मदिन्ऽतम । पवित्रम् । धारया । कवे ।

अर्कस्य । योनिम् । आऽसदम् ॥४

हे "मदिन्तम मादयितृतम “कवे क्रान्तकर्मन् सोम “अर्कस्य अर्चनीयस्येन्द्रस्य “योनिं स्थानम् “आसदं प्राप्तुं "पवित्रम् अतीत्य “धारया संपातेन “आ “पवस्व आभिमुख्येन क्षर । यद्यप्येषा पूर्वस्मिन्नध्याये ( ऋ. सं. ९.२५.६ ) व्याकृता तथापि मन्दमतीनां विस्मरणशङ्कया पुनर्व्याख्याता ॥


स प॑वस्व मदिंतम॒ गोभि॑रंजा॒नो अ॒क्तुभिः॑ ।

इंद॒विंद्रा॑य पी॒तये॑ ॥५

सः । प॒व॒स्व॒ । म॒दि॒न्ऽत॒म॒ । गोभिः॑ । अ॒ञ्जा॒नः । अ॒क्तुऽभिः॑ ।

इन्दो॒ इति॑ । इन्द्रा॑य । पी॒तये॑ ॥५

सः । पवस्व । मदिन्ऽतम । गोभिः । अञ्जानः । अक्तुऽभिः ।

इन्दो इति । इन्द्राय । पीतये ॥५

हे "मदिन्तम मादयितृतम “इन्दो सोम “अक्तुभिः अञ्जनसाधनभूतैः “गोभिः गोविकारैः पयोभिः “अञ्जानः अज्यमानः संस्क्रियमाणः “सः त्वम् “इन्द्राय इन्द्रस्य “पीतये पानाय “पवस्व

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५०&oldid=208637" इत्यस्माद् पुनः प्राप्तिः